राजतरङ्गिनी · श्लोक 341-360
पथिकानाम् निवासाय तेन पर्वतसीमनि ।
कक्ष्याविभागसहितस् स्वनाम्ना रचितो मठः
[प्स्-ज्र्त् 25]
कपटापत्त्रपारोपाद् राज्ञḫ प्राप्तविभीषकः ।
स्वयं द्वारं त्यजन् सो ऽगाद् ग्रामं ज्येष्ठेश्वराभिधम् ॥ ज्र्त्_ब्.391 ॥
एवं विक्रमनीतिभ्यां देशं शोधयतो निजम् ।
श्रीशिरश्शाटको राज्ञो द्वारैश्वर्यम् अवाप्तवान्
तस्य राज्ञो ऽभवत् पुत्रो नाम्ना शाहाभदेनकः ।
बलबुद्धिक्षमाशौर्यमन्त्रोत्साहगुणैर् युतः ॥ *26 ॥
राजपुत्रस् स वाक्पुष्टाटवीं लीलारसाद् अटन् ।
योगिनीचक्रम् अद्राक्षीत् कदाचिद् गिरिगह्वरे
उदयश्रीस् तथा चन्द्रडामरश् चास्य वल्लभौ ।
अपश्यतां न किं लभ्यं महताम् अनुयानतः
अचलल् लाडनादण्डघण्टानां चण्डटाङ्कृतम् ।
मनांसि न पुनस् तेषां वीराणां साहसस्पृशाम्
[प्स्-ज्र्त् 26]
घटिताशातटस्वाट्टहाससंवाहनादिभिः ।
योगिन्यो डमरुध्वानैर् भयाद् इव चलैर् बभुः ॥ ज्र्त्_ब्.396 ॥
मान्तर्धासिषुर् एवैताḫ प्रष्टुं द्रष्टुं च काङ्क्षिताः ।
इति ते ऽश्वाद् अवारोहन् प्रवीरा न तु तद्भयात्
शनैश् शनैस् ततो यान्तो मौनपूर्वं महाशयाः ।
योगिनीनिकटं प्रापुर् विकटप्रकटौजसः
योगिनीनायिका दूरात् परिज्ञाय नृपात्मजम् ।
साशिषं शीधुचषकं प्राहिणोन् मन्त्रितं ततः
चन्द्रस् तद् अमृतं तृप्तिभाजा राज्ञावशेषितम् ।
उदयश्रीमुखापेक्षी न संतृप्तिम् अशेषयत्
भवितव्यबलाद् अश्वपालं सपदि विस्मरन् ।
उदयश्रीर् अशेषं तत् पीत्वा तृप्तिं पराम् अगात्
आश्चर्यतृप्तनेत्रेषु तेषु तृप्तेषु योगिनी ।
निमित्तज्ञावदद् राजपुत्रं बद्धाञ्जलिं ततः
"अखण्डं भावि ते राज्यं चन्द्रस् त्वद्विभवांशभाक् ।
आजीवम् उदयश्रीश् च मण्डितो ऽखण्डया श्रिया
अश्वपालस् त्व् असाव् अस्मदनुग्रहविवर्जितः ।
अचिरेणैव कालेन नूनं प्राणैर् वियुज्यते"
भविष्यत् सूचयित्वैवं योगिनीभिस् समन्विता ।
सान्तर्दधे पुरḫ प्राणाḫ पश्चात् तुरगपालिनः
अविचारतमोमग्नाञ् जन्तून् उद्धर्तुम् ईश्वराः ।
सम्भवन्ति प्रजापुण्यैḫ प्रकाशोत्कर्षहेतवः
श्वशुराद् भर्तृभागं यद् अवीरा पुंश्चली वधूः ।
हरन्त्य् आसीत् स तं राजा दुराचारं न्यवारयत्
[प्स्-ज्र्त् 28]
काष्ठवाटागतान् राजस्थानीयान् व्यूहतत्परान् ।
युक्त्यानीय महीपालो बद्ध्वा राज्यं सुखं व्यधात् ॥ ज्र्त्_ब्.408 ॥
कोटराजस्य जामातुẖ कारावास्तव्यतां व्यधात् ।
भीत्या प्रत्यहम् एवाथ जीवन्मृत्युम् अवारयत् ॥ ज्र्त्_ब्.409 ॥
बुभुजे क्षेमराजश्रीस्वस्थां शस्त्रनखैश् शतैः ।
विदार्य खटिकाभूमिं राजा सौकर्यभाजनम् ॥ ज्र्त्_ब्.410 ॥
जयापीडपुरे कृत्वा राजधानीं महामतिः ।
श्रीरिञ्चनपुरे चक्रे रोधम् बुद्धगिराभिधम्
एकोनत्रिंशे 11 वर्षे ऽथ दुष्कृतोद्भवम् अद्भुतम् ।
दुर्भिक्षं क्षोभयाम् आस लोकं शोकाकुलं महत्
मासान् अष्टौ द्वादशाब्दांस् त्रयोदश दिनानि च ।
क्ष्मां भुक्त्वा त्रिंशवर्षे ऽथ चैत्रे राजा व्यपद्यत
19) šइहाब् अद्-दीन् (ल्स् 4430-4449)
मन्दराजकथाख्यानाज् जडिमा वाचि संस्तुतः ।
तीक्ष्णप्रतापशाहाबदेनाख्यानाद् विनश्यते
मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0