भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 321-340

321

आगते विग्रहे व्यक्तिं राजस्थानीयसंश्रयात् ।
सो ऽगाद् अवन्तिनगरं तन्मूलस्थानम् उद्धतः

322

अथोत्पलपुरं राजा भटैस् सह रणोद्भटैः ।
अशिश्रयद् इदं भ्रातुर् वाचिकं च विसृष्टवान्

323

"दुर्जनप्रेरणात् त्वं चेन् मत्स्नेहं नाभ्यजीगणः ।
लोकापवादज्वरतẖ कथं कम्पो न जायते

324

अन्योऽन्यपालनायाज्ञां राज्ञस् त्रिदिवगामिनः ।
पालनीयाम् अनुध्याय प्रत्यानय दयां मयि"

325

इति सन्दिश्य दूतं च व्यसृजत् स नरेश्वरः ।
कम्पनाधिपतिं हन्तुं व्यसृजच् च निजात्मजम्

326

"मृगयां युवराजो ऽगाद्" इति दूतं न्यरोधयत् ।
भ्रातृपुत्रं निहन्तुं च श्रुतद्रोहो ऽगमच् च सः

327

"दूतẖ किम् इति नायातẖ कालो हि सुचिरं गतः" ।
इति चिन्ताकुलो लक्ष्मभट्टो राजान्तिकम् ययौ

328

ऊचे च "जाने स द्रोहं लक्षयित्वा तवानुजः ।
त्वत्पुत्रमारणायागाद् यद् दूतस्य चिरागमः

329

स्नाति भुङ्क्ते स्वपित्य् एव युवराज इति च्छलात् ।
त्वदुद्योगनिषेधाय नूनं रुद्धो वचोहरः

330

तद् अवन्तिपुरं तस्मिञ् श्रीदेवसरसं गते ।
सद्यो निस्स्वामिकं हन्मो जयो ऽस्माकं ततो ध्रुवः"

331

अथावन्तिपुरं गत्वा सत्त्वातिशयशालिना ।
राज्ञा युद्धं तथाकारि तद्भटैर् उद्भटैस् समम्

332

अल्लेशिराय भृत्यानां वधं नूनं निवेदितुम् ।
वितस्ता शवरुद्धौघा प्रतीपम् अगमद् यथा

333

भ्रातृपुत्रं पराभूय तावद् अल्लेशिरे द्रुतम् ।
व्यावृत्ते रणखेदार्तḫ प्रपलायत ज्यंशिरः

334

[प्स्-ज्र्त् 23]
दीपस्येव शिखा ध्वान्ते यस्य धीर् आपदि स्फुरेत् ।
स रत्नं रत्नजातेश् च पाषाणेभ्यẖ किम् अन्तरम् ॥ ज्र्त्_ब्.381 ॥
समधित्सत भेदाय कञ्चित् कालं स वैरिणम् ।
अमोघा दूरगा बुद्धिश् शस्त्राण्य् अप्य् अतिवर्तते ॥ ज्र्त्_ब्.382 ॥
अनयोर् "नैव कर्तव्यẖ कलिर् मासद्वयीम्" इति ।
राज्ञा समं विदां चक्रे धीमान् अल्लेशिरस् ततः

335

प्रतिमुच्य निजान् योधान् अवन्तिपुरम् उत्सृजन् ।
अथ क्षीरीपथेनासाव् अल्लेशो ऽगमद् इक्षिकाम्

336

नगरीरक्षितां न्यस्य सय्यराजे स्वमन्त्रिणि ।
क्रमराज्यं विराजच्छ्रीर् ज्यंशिरश् चागमत् तदा

337

दानमानौ प्रतिश्रुत्य सय्यराजं विभिन्दता ।
युवराजेन नगरी स्वीकृता मन्त्रयुक्तिभिः

338

नामराजतया दुẖखं भुक्त्वा कश्मीरमण्डले ।
मासद्वयोनौ द्वौ वर्षाव् अवसानम् अगान् नृपः

339

18) ‘अलाऽ अद्-दीन् (ल्स् 4420-4430)
जानन्न् अलावदेनो ऽथ तं कालं कलहाक्षमम् ।
द्वारैश्वर्यं ददौ भ्रातुस् सद्यो विघ्ननिवृत्तये

340

सलिलोत्तरणोपायं सेतुं सुय्यपुरे व्यधात् ।
विपत्सन्तरणोपायं न पुनर् ज्यंशिरो ऽस्मरत्

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc