भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 301-320

301

तस्मिंल् लवन्यलोकेन गृहीताज्ञे बलीयसि ।
राज्ञी समवृणोत् कोट्टद्वारं सह जयाशया

302

[प्स्-ज्र्त् 17]
निवृत्तनेत्रचारस्य चपलत्वैककारणम् ।
आखुर् बिलगतो वोतोश् शाहमेरस्य साभवत् ॥ ज्र्त्_ब्.341 ॥
निरुद्धे बलिना कोटगुहाभ्रे मतिशालिना ।
नृसिंहेनाभजत् कोटा सृगालीव मुहुर् भयम्

303

[प्स्-ज्र्त् 18]
"तुङ्गत्वं मङ्गलासङ्गम् अभङ्गुरतरश्रियम् ।
राज्याङ्गैश् च निजाङ्गैश् च दत्तै राज्ञी करोतु मे ॥ ज्र्त्_ब्.343 ॥
अध्यशेततरां राज्ञी मत्पुत्राणां न केवलम् ।
प्राणानाम् अपि चैश्वर्यं श्लाघ्या सुखपरम्परा" ॥ ज्र्त्_ब्.344 ॥
"सिंहासने मया साकं श्रिया साकं ममोरसि ।
क्षमया सह चित्ते मे राज्ञी निविशतां स्वयम्"

304

ताम् एवमादिसन्देशैर् मुग्धां सम्मोह्य यत्नतः ।
हस्ते चकार कोटक्ष्मां कोटादेवीं च बुद्धिमान्

305

एकस्मिञ् शयने रात्रिम् अतिवाह्य तया समम् ।
स प्रातर् उत्थितो जातु तीक्ष्णैर् देवीम् अरोधयत्

306

वर्षे पञ्चदशे शुक्लदशम्यां नभसस् ततः ।
तारेव नभसो राज्याद् राज्ञी भ्रंशम् अलब्ध सा

307

तत्पुत्राव् अपि तौ द्वौ स करणीयविचक्षणः ।
बबन्ध बन्धुसम्बन्धिकल्पवृक्षो भटाग्रणीः

308

16) šअम्स् अद्-दीन् इब्न् टाहिर् मिर्zआ (šआह् मीर्) (ल्स् 4415-4418)
स्वं रूपं चिदचिद्भिर् एभिर् अभितो व्यञ्जत् स्वयं निर्मितैर् यस्योन्मीलति देशकालकलनाकल्लोलितं तन् महः ।
आत्मा वास्तु शिवो ऽस्तु वास्त्व् अथ हरिस् सो ऽप्य् आत्मभूर् अस्तु वा बुद्धो वास्तु जिनो ऽस्तु वा भगवते तस्मै नमẖ कर्मणे

309

भियं लवन्यलोकेषु कीर्तिं दिक्षु महीं भुजे ।
लक्ष्मीं वक्षसि कोटां च कारायां स ततो व्यधात्

310

नीत्वावस्थान्तरं दौस्स्थ्यशमात् कश्मीरमण्डलम् ।
श्रीशंशदीन इत्य् आख्याम् अन्यां स्वस्य व्यधान् नृपः

311

[प्स्-ज्र्त् 19]
राजा सतीसरẖक्षोणिशुक्तिमुक्तामणिस् ततः ।
अर्थचिन्तामणिर् वैरिरत्नवज्रमणिर् बभौ ॥ ज्र्त्_ब्.353 ॥
महाबले भुजे तस्य काष्ठोद्दीपनशालिनः ।
मौर्वीकिणḫ प्रतापाग्नेर् अधूमयद् अनन्तरम्

312

प्राहरन् मन्त्रिणां राजा संशयं न तु तस्य ते ।
भिनत्त्य् अन्यान् मणीन् वज्रो नान्यरत्नानि तं पुनः

313

[प्स्-ज्र्त् 20]
राज्याधिकारान् अखिलान् स्त्रीभावाद् दुस्सहान् स्वयम् ।
येषु विश्वासपात्रेषु श्रीकोटा स्वयम् अर्पिपत् ॥ ज्र्त्_ब्.356 ॥
तेजोमहिम्नेव रविस् तमांसीव गुहान्तरात् । ज्र्त्_ब्.357अब् ।
स राजा राजतो राजस्थानीयान् काष्ठवाटगान् ।
भयात् ततो ऽपि विद्राव्य श्लाघनीययशा बभौ

314

[प्स्-ज्र्त् 21]
यत्र सन्ध्यातपस्य् एव लवन्यैस् तिमिरैर् इव ।
अरोधि रुचिसञ्चारस् स्वामिनो बलशालिभिः ॥
कश्मीरमण्डलं चण्डशौर्यदण्डितविद्विषा ।
क्रमागतम् इवाशेषं क्षणात् तेन वशीकृतम् ॥ ब् 358अ-ह् ॥
हृत्वेव हृदयात् कम्पं सम्पदापि तदा स च ।
वामेतरेण लोकस्य बाहुना नयनेन च ॥ ज्र्त्_ब्.359 ॥
चिरं धुरं परिन्यस्य पुत्रयोस् स्वाद् अनूनयोः ।
नयोच्छ्रितयशा राज्यं सुखं भुङ्क्ते स्म भूपतिः

315

सपञ्चवासरान् भुक्त्वा त्रीन् अब्दान् मेदिनीपतिः ।
अष्टादशे ऽब्दे राकायाम् आषाढ्यां स व्यपद्यत

316

17) ǧअम्šईद् (ल्स् 4418-4420)
अथ प्रथमसामन्तैस् सम्मताज्ञस् स ज्यंशिरः ।
सतीसरẖक्षितिरक्षाम् अक्षामश्रीर् अटङ्कयत्

317

राज्यतोरणसंवाहस्तम्भाभ्यां धरणीपतेः ।
अनुजो बलबुद्धिभ्याम् अगमच् छङ्कनीयतां

318

नैव दानं न चादानं निग्रहं नाप्य् अनुग्रहम् ।
विहारं न न चाहारं राज्ञो न्यूनं स हि व्यधात्

319

[प्स्-ज्र्त् 22]
विद्याप्रणयविज्ञानप्रज्ञातिशयशालिनः ।
युवराजान् महाराजो वयसैवाधिको ऽभवत् ॥ ज्र्त्_ब्.365 ॥
प्राग्वद् विश्वाससम्पत्तिम् अकुर्वति महीभुजि ।
युवराजो मनाक् चक्रे निकटस्थैर् विरक्तधीः

320

तद्वैमनस्यवृत्तान्तश्रवणच्छिद्रलाभतः ।
युवराजं ततो राजस्थानीयाḫ प्राहुर् अञ्जसा

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc