भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 281-300

281

"भवन्नन्दनसंरक्षापराव् एताव् उभाव् अपि ।
तयोर् अन्यतमं द्वारीकृत्यान्यम् अहरद् विधिः

282

प्रमीतद्विजशोकोत्थतापशान्त्यै जडḫ परम् ।
परप्राणान् रोषवह्नौ प्रदीप्ते जुहुयाद्" इति

283

शाह्मेरं रोद्धुकामां तां समर्थाम् अपि दुर्धियः ।
कोटादेवीम् अमात्यास् स्वा नये बुद्धिं न्यवारयन्

284

केदारम् इव कुल्या सा पानीयेन महर्द्धिना ।
लोकम् आप्याययाम् आस साम्राज्योत्पलचन्द्रिका

285

आज्ञाव्यतिक्रमाज् जातु कम्पनाधिपतिं प्रति ।
युयुत्सुर् अकरोद् यात्राम् अमित्राब्जशशिप्रभा

286

सङ्कटात् कम्पनेशस् तां कुलायाद् इव पक्षिणीम् ।
जीवग्राहं गृहीत्वाथ कारापञ्जरम् आनयत्

287

मन्त्री कुमारभट्टाख्यस् तस्यास् सचिवपुंगवः ।
तन्मोक्षसिद्धये ऽकार्षीत् तदामात्यैश् छलात् कलिम्

288

राज्ञ्याḫ पुंभावमात्रेण भिन्नम् आकारसन्निभम् ।
कमण्डलुकरं कञ्चित् सो ऽधाद् विद्यार्थिनं शिशुम्

289

गत्वा स कम्पनाधीशं धीप्रशंसाविमण्डितः ।
सौष्ठवौदार्यसम्पत्तिशालिनीं वाचम् अभ्यधात्

290

"स्वशिरो मलिनीकृत्य जीवतां योषिदाज्ञया ।
पुरुषत्वं त्वया स्वामिन् कृतार्थीक्रियते ऽद्य नः

291

[प्स्-ज्र्त् 14]
स्त्रीत्वात् कातरचित्ताया दानभोगोत्सवद्विषः ।
राज्ञ्या बन्धुषु सैन्यान्तर् द्रविणं वर्तते महत् ॥ ज्र्त्_ब्.327 ॥
गत्वा त्वदाज्ञया कारां तस्यास् तर्जनसान्त्वनैः ।
धनं जनस् त्वदीयो ऽयं स्वामिसात्कर्तुम् इच्छति

292

स्त्रीत्वाद् अशक्ता दातुं सा समचैषीद् धनं यतः" ।
व्यसृजत् कम्पनेशस् तं काराम् एवं विमोहितः

293

काराया निर्गमिष्यन्तीं देवीं कोटाम् इवेक्षितुम् ।
तत्कालम् एव सन्ध्यागाज् जगद्रञ्जनकोविदा

294

सन्ध्यावन्दनयोग्याम्बुवाहिना वटुना सह ।
असौ काराम् अविक्षच् च राज्ञ्याश् निरगुश् शुचः

295

राज्ञीवेषभृतं तत्र स्थापयित्वा वटुं स तम् ।
तद्वेषधारिणीं कोटाम् अन्वादाय विनिर्ययौ

296

रक्षितारो ऽपि नाजानंस् तद् यावत् तावद् एव सा ।
कम्पनाधिपतिं चक्रे स्वचक्रेभशकृत्करिम्

297

सा ब्राह्मणकुमारेण मोचिता भट्टभिक्षणात् ।
एकदन्तहतारेẖ किं नान्येनेभमुखाद् भवेत्

298

तयानपोदितो ऽप्य् औज्झि शाह्मेरो नैव शङ्कया ।
कृतवैरास् समर्थेन प्राज्ञा नैव ह्य् उदासते

299

न प्रासीदन् न चाकुप्यत् तस्मिन् सा बलशालिनि ।
घृणा प्रमादसहिता विनाशप्रथमाङ्कुरः

300

[प्स्-ज्र्त् 16]
देव्या वासं विमुञ्चन्त्यास् तस्या धनरसाश्रयम् ।
शाह्मेरे विषवल्लीव द्रोहधीर् अभ्यवर्धत ॥ ज्र्त्_ब्.337 ॥
वर्धनो ऽन्यतरस्याभूत् पक्षो ऽन्यस्य क्षयावहः ।
कोटाशाह्मेरयोर् अस्ति क्षितिमारुतयोर् इव ॥ ज्र्त्_ब्.338 ॥
जयापीडपुरं यान्त्यां तस्यां कार्यानुरोधतः ।
शाहमेरो बली जातु नगरं स्वीचकार सः

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc