राजतरङ्गिनी · श्लोक 261-280
शाहमेराम्बुपूरेण कामनोल्लासशालिना ।
आक्रान्तḫ परितो राजा मृद्राशिस्थद्रुमोपमः
पुरमात्राधिपत्योत्थलज्जयेव महीपतेः ।
जीवितं दूरम् अगमच् छुद्धेन यशसा समम्
शिवरात्रित्रयोदश्यां वर्षे राजा चतुर्दशे ।
क्षमावान् स क्षमाम् औज्झीच् शाह्मेरस्पर्शदूषिताम्
[प्स्-ज्र्त् 12]
अब्दान् पञ्चदश द्वौ च मासौ द्वौ वासराव् अपि ।
कश्मीरकाश्यपीभोगम् अकार्षीत् स महीपतिः ॥ ज्र्त्_ब्.298 ॥
15) कोटा देवी (ल्स् 4414-4415)
अथ शाह्मेरभीत्या श्रीकोटा चत्वार्य् अहानि सा ।
गूढेङ्गितानयद् गुप्तिं भूपालप्रमयादिकम्
"शाह्मेरो मत्सुतद्वारा साम्राज्यं स्वीकरोतु मा" ।
इति ज्यायांसम् उत्सृज्य बालत्वाच् च परं सुतम्
पुत्रस्नेहेन वृद्धत्वदोषेण च विमोहिता ।
अवरुद्धम् अनिच्छन्ती श्रीकोटा महिषी ततः
स्त्रीभावाद् बन्धुभावाच् च लवन्यैर् उपबृंहिता ।
असान्त्वयत् स्वयं भूमिं विधवां स्वां सखीम् इव
[प्स्-ज्र्त् 13]
सा राज्ञी शुक्लप्रतिपद्वीतभीता भवन्त्य् अथ ।
राजानं गुरुभिस् स्वीयैश् चरमेष्टिम् अवापिपत् ॥ ज्र्त्_ब्.303 ॥
पूर्वोपकारस्मरणाच् छाहमेरादयो ऽखिलाः ।
तां प्राणमन्न् अमात्यास् स्वां चान्द्रीम् इव नवां कलाम्
शमयन्त्या रजस् सर्वं तापापहतिदक्षया ।
तया निदाघवृष्ट्येव लतास् संवर्धिताḫ प्रजाः
शाह्मेरात् स्वोदयभ्रंशशङ्किनी भट्टभिक्षणम् ।
तदुद्रेकविनाशार्थं मानं देवी निनाय सा
दुस्तरेषु महाभीतिजलपूरेषु सा ततः ।
तत्प्रज्ञानावम् आरुह्य कार्यपारं परं ययौ
अन्तस् सेहे न शाह्मेरस् तद्दत्तं भिक्षणोदयम् ।
मानवन्तस् सहन्ते हि च्छायासाम्यं कथञ्चन
वर्तते धूमतापादिलक्षणं जातवेदसः ।
धीमतो ऽस्य न किञ्चित् तु रोषलिङ्गम् अलक्ष्यत
छलाभिनीतरोगेण शाहमेरेण धीमता ।
प्रत्यासन्नविनाशत्वम् आत्मनस् समकथ्यत
तस्याथ प्रत्यवेक्षार्थम् अवतारादिभिस् सह ।
व्यसर्जि कोटया देव्या स श्रीमान् भट्टभिक्षणः
"स्वेदẖ कुपितपित्तस्य हितो नो वे"ति वादिभिः ।
सम्प्रवेशान् न्यषिध्यन्त द्वास्स्थैस् तदनुयायिनः
तौ भिक्षणावतारौ द्वौ तत्समीपम् अविक्षताम् ।
साङ्कट्याद् इव तत्प्राणरक्षिण्यो देवता न तु
अनुयुक्तामयोदन्तस् स कालेन तयोर् निजैः ।
गात्रे न्यखानयच् छस्त्रीर् आधीन् स्वस्योदखानयत्
सिराभिश् शोणितं वाष्पं दृशाङ्गैस् सकलैर् असून् ।
तौ द्वाव् अमुञ्चतां सद्यस् तद्द्वेषं स च चेतसा
तद् एव व्रणदीपार्कपूर्णपात्रार्धतच्छिरः ।
रोगमोक्षोचितं स्नानं स तयोश् शोणितैर् व्यधात्
मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0