भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 241-260

241

उदयाद्रिभुवा पूर्णश् शशीवाथ स कोटया ।
खेरिञ्चनतमोनाशी शिरसाधारि सादरम्

242

यं कोटासूत जट्टाख्यं भिक्षणाख्यस्य मन्त्रिणः ।
वर्धनायात्मजं राजा स तं मृत्युम् इवादित

243

शाहमेरस् स वीरो ऽथ परिपालितरैञ्चनिः ।
अचक्षुष्यẖ क्षमाभर्तुḫ पुत्रप्रेमभराद् अभूत्

244

देव्यास् तु समदृष्टित्वात् पुत्रयोर् उभयोर् अपि ।
राज्ञो द्वेष्यो ऽपि शाह्मेरो न भयेन स पस्पृशे

245

अचलोपप्लवातङ्के भयाल् लोकैस् समाश्रितः ।
शाह्मेरश् स राजानं न तृणायाप्य् अजीगणत्

246

शाह्मेरो हय्दरश्येनं दर्शयित्वा मुहुर् मुहुः ।
अभाययत्तरां राजपक्षिणं तं दिवानिशम्

247

रक्षंस् तटस्थान् उद्वेगरहितो जलवर्जितः ।
अल्लेश्वराम्बुपूरस् स प्रजाश् चित्रम् अतारयत्

248

शिरश्शाटकहिन्दाख्यौ समभूषयताम् उभौ ।
चन्द्रार्काव् इव तस्याशां शूरौ पौत्रौ गुणोच्छ्रितौ

249

द्वारैश्वर्यात् स्फुरद्दर्पो राजाज्ञालङ्घनोद्यतः ।
शाह्मेरस् स विपद्द्वारम् अभूद् भूपतिसेविनाम्

250

सो ऽल्लेशिरसुतां दत्त्वा लुस्तस्य तदधीशितुः ।
स्रीशङ्करपुरं जित्वा राज्ञश् शङ्काम् अवर्धयत्

251

वशे तेलाकशूरो ऽस्य भाङ्गिलैश्वर्यभाजनम् ।
ज्यंशिरस्य सुतां हस्तेकृत्य कृत्यविदो ऽभवत्

252

बहुरूपजयी लक्ष्मीनिधिर् अच्युततापदम् ।
शमालां स नृसिंहो ऽथ दैत्यश्रियम् इवादुनोत्

253

मकरालयगाम्भीर्यẖ करालम्बो जयश्रियः ।
कराले स करालौजाẖ करम् आलम्बयज् जनान्

254

असिस्मरत् स्मेरयशा दह्यमानम् इतस् ततः ।
राज्ञẖ कलशदेवस्य विजयेशपुरं ततः

255

स्थित्यै प्रकल्प्य चक्रस्य स्वस्य चक्रधराचलम् ।
शाह्मेरो ऽचलकार्याणि जनस्य समदर्शयत्

256

कम्पनेश्वरलक्ष्यस्य लक्ष्मीसर्वस्वतां ददत् ।
चित्रं स लब्धवाञ् शुद्धं सुदायम् इव सद्यशाः

257

नरेन्द्ररङ्गशैलूषं कोटराजम् अथाग्रहीत् ।
शाह्मेरस् तनयारत्नग्रहणोन्मानकेन सः

258

साम्ना केचित् परे दण्डाद् दानाद् अन्ये परे भयात् ।
मान्यताम् अनयन् धन्या लवन्यास् तस्य शासनम्

259

लवन्यलोकस् तत्पुत्रीर् माला इव बभार ताः ।
नाजानाद् भुजगीर् घोरविषाḫ प्राणहरीḫ पुनः

260

राजबीजिविधेयत्वान् मन्त्राद् विक्रमतश् च वा ।
कश् शाह्मेरहरेर् नाभूल् लवन्यद्विरदो वशे

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc