भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 221-240

221

14) उद्यानदेव (ल्स् 4399-4414)
पुत्रं हैदरनामानं बाल्याद् अनभिषिक्तवान् ।
अतथाविधशक्तित्वाद् राज्यं स्वेनाप्य् असंवहन्

222

लवन्यैẖ कुलनाथत्वाद् रिञ्चने प्रतिघाद् अपि ।
अव्याहतप्रवेशाशो मतिमाञ् शाहमेरकः

223

समं श्रीकोटया देव्या मूर्तयेव जयश्रिया ।
तदोदयनदेवं तं कश्मीरक्ष्माम् अलम्भयत्

224

राज्यलक्ष्मीमहादोला गुणबद्धा गरीयसी ।
रिञ्चनोच्चैḫपदं गत्वा राजाधḫपदम् अश्रयत्

225

राजा शाह्मेरपुत्रौ तौ ज्यंशिरालेशिरौ तदा ।
क्रमराज्यादिदेशानां स्वाम्यदानाद् अरञ्जयत्

226

धीर् इवासीत् तदा कोटा देवी सर्वाधिकारिणी ।
राजा देह इवात्यर्थं तदादिष्टं समाचरत्

227

तेजसा पिहितान्य् आसन् यानि रिञ्चनभास्वतः ।
लवन्यज्योतिषां राजप्रदोषे ऽभूत् तदोदयः

228

यस्याक्रम्यत सौम्यस्य गृहिण्या कोटया गृहम् ।
विषयाक्रमणं तस्य लवन्यैẖ किं नु शोच्यते

229

लवन्यदेशचण्डालगृहस्पर्शविवर्जकः ।
स श्रोत्रिय इवानैषीत् कालं स्नानतपोजपैः

230

आस्तिकत्वं कियत् तस्य वर्ण्यते वर्णधारिणः ।
क्रिमिमर्दभयाद् घण्टां यो ऽबध्नाद् वाजिनो गले

231

तावद् द्रविणताम् एव कोशालङ्करणं दधत् ।
कण्ठभूषां समौलिं स चक्रिणे ऽदित काञ्चनीम्

232

अथ मुग्धपुरस्वामिदत्तानीकिन्यहङ्कृतः ।
कश्मीरान् अचलो ऽविक्षद् बलाद् डल्च इवापरः

233

स्वपक्षैर् आक्षिपत्य् आशा बलेनाक्रम्य मेदिनीम् ।
नाचले गोत्रभित्त्वं स कर्तुम् ऐष्ट महीवृषा

234

प्राप्ते भीमानकं तस्मिन् ससैन्ये दैन्यम् आश्रितः ।
भोट्टदेशम् अगात् तूर्णम् उर्वीपरिवृढो भयात्

235

"निवर्तय चमूम् अन्यां किं मिथ्या देशपीडया ।
अराजकास् त्वया पाल्याẖ कश्मीराẖ कुलनाथवत्"

236

इति श्रीकोटयामात्यैḫ प्रेरितैर् लेखधारिभिः ।
आसारसैन्यम् अचलḫ प्रत्यमुञ्चद् विमोहितः

237

प्रतिमुक्तनिजासारस् सारहीनो ऽचलस् स तैः ।
मार्गोत्सवच्छलात् कञ्चित् कालं मार्गे विलम्बितः

238

तावच् छ्रीकोटया देव्या तदा पालयितुं प्रजाः ।
भौट्टẖ खेरिञ्चनो नाम राजभावे न्ययुज्यत

239

प्रमीतभर्तृकोत्पन्नमृतापत्येव सा तदा ।
अदूयत निजैस् सर्वैश् चिरस्याचलशेमुषी

240

तुषारलिङ्गपूजाभिẖ कृतार्थीकृत्य वासरान् ।
भोट्टदेशान् निजं देशम् अगच्छद् वीतभीर् नृपः

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc