भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 201-220

201

क्षीरमात्रैकपायित्वं निमित्तीकृत्य भूपतिः ।
युष्मच्छौर्याभिशङ्कित्वात् तिमिं तिमिम् इवावधीत्"

202

एवं सन्देशनिर्भिन्नाष् टक्काद्याश् शुक्कलङ्किताः ।
विंशप्रस्थे कदाचित् ते प्रजह्रुर् अथ भूभुजम्

203

तत्खड्गधारासम्पातैर् व्यालस् तेषां हृदन्तरात् ।
स्वैश्वर्यतापम् अनुदद् राजामूर्छत् तु केवलम्

204

ते ऽथ लब्धजयम्मन्यास् तद्वधापोढमन्यवः ।
नगरान्तर् ययू राज्यग्रहणार्थम् अहङ्कृताः

205

क्षणं मृत इव स्थित्वा भूयोघातभयान् नृपः ।
दूरं गतान् रिपून् दृष्ट्वा राज्ये राजोदतिष्ठत

206

आरुक्षन् राजधानीं ते यावत् तावन् नराधिपम् ।
अपेतमूर्छम् आयान्तम् अद्राक्षुẖ क्षुद्रबुद्धयः

207

"त्वया किं न त्वया किं न हतो राजे"त्य् अनीतयः ।
परस्परविवादात् ते तत्कालं चुक्षुभुर् जडाः

208

अन्योऽन्यमन्यवो ऽन्योऽन्यलोठनाद् राजसद्मनः ।
कर्तव्यं मरणं राज्ञा व्यधुस् स्वस्य स्वयं जडाः

209

शेषान् राजाथ दुश्शीलाञ् छूलारोपेण केवलम् ।
उच्चैस्ताम् अनयन् मानी सर्वथाधोगतिं पुनः

210

सगर्भा वैरिकोट्टस्त्री रोषवान् स व्यदीदरत् ।
असिभिर् भूपतिर् गर्भशालिशिम्बीर् नखैर् इव

211

तद्द्रोहरोषजा पीडा राज्ञस् तत्कुलमारणात् ।
चित्ते शान्तिम् अगात् खड्गघातोत्था न तु मूर्धनि

212

दुस्स्वप्नम् इव तद् दृष्ट्वा टक्कादिचरितं क्षणात् ।
प्रबुद्धेव पुनḫ प्रापद् अभयेन शमं मही

213

अद्रोहमध्यगे राजा शाहमेरे प्रसन्नधीः ।
सकोटामातृकं वृद्ध्यै स्वपुत्रं हैदरं ददौ

214

वर्धितẖ कोटया देव्या प्रावृषेव महीरुहः ।
सच्छायत्वं स्फुरत्पत्त्रश् शाहमेरो न्यषेवत

215

परिखाच्छलतो ऽकीर्त्या स्वपराजयजातया ।
परितो वलितं राजा स्वनामाङ्कं पुरं व्यधात्

216

पौषदुर्दिनमार्ताण्डसन्निभो धरणीपतिः ।
मासांश् च कतिचिद् भूयḫ प्रकाशम् अकरोद् भुवः

217

हेमन्ते शैत्यपारुष्यदोषेण धरणीपतेः ।
मरुत्कोपेन नैविड्यं शिरḫपीडाग्रहीत्तराम्

218

सदानेकोत्तमाङ्गानां पीडाहरगुणश्रियः ।
भूपतेर् उत्तमाङ्गस्य पीडा कष्टम् अवर्धत

219

एकादश्यां ततḫ पौषे नवनन्दाङ्कवत्सरे ।
निरस्ता मृत्युवैद्येन भूपतेर् मृत्युवेदना

220

एकादशदिनैर् न्यूनौ मासौ त्रीन् वत्सरान् अपि ।
क्षमां संरक्ष्य स स्वर्गं ययौ रिञ्चनभूपतिः

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc