राजतरङ्गिनी · श्लोक 1-20
जोनराज अन्द् प्सेउदो-जोनराज: राजतरङ्गिनी
सिद्धे यत्र सति त्रपाकुलम् इव स्पर्धाभिलाषाहतेर् अन्तर्धिं वहति त्रिलोकमहितं शेषं निजार्धद्वयम् ।
स्नेहैकीभवदाशयद्वयजयाकाङ्क्षीव गाढं मिलद्देहार्धद्वयम् अस्तु तद् भगवतोस् सद्भावसम्पत्तये
दातुं भक्ताय कल्याणं गर्भं बिभ्रद् इवान्वहम् ।
तुन्दिभो गणराजस् स विघ्नशान्तिं करोतु नः
श्रीगोनन्दमुखैर् धर्मसम्मुखैर् आ कलेẖ किल ।
कश्मीरकाश्यपी भूपैर् अपालि गुणशालिभिः
तेषाम् अभाग्यहेमन्तनिशातमसि तिष्ठति ।
नैव कश्चिद् अपश्यत् तान् काव्यार्कानुदयाच् चिरम्
रसमय्या गिरा वृद्धां नित्यतारुण्यम् आपिपत् ।
अथ श्रीजयसिंहान्तां तत्कीर्तिं कल्हणẖ कविः
ततो देशादिदोषेण तदभाग्यैर् अथापि वा ।
कविर् वाक्सुधया कश्चिन् नाजिजीवत् परान् नृपान्
श्रीजैनोल्लाभदीने क्ष्मां सम्प्रत्य् अक्षति रक्षति ।
जोनराजाभिधस् तेषां उद्यतो वृत्तवर्णने
दर्पग्लानिभवां राजपान्थानां तापसन्ततिम् ।
हन्तुं संरोपितẖ काव्यद्रुमो भाविफलोदयः
उपस्काररसं क्षिप्त्वा विनयामृतशीतलैः ।
सज्जनैर् वर्धनीयो ऽयम् अपि यत्नेन भूयसा
मग्नान् विस्मृतिपाथोधाव् अतीतान् नृपतीन् इमान् ।
श्रीजैनोल्लाभदीनस्य कारुण्याद् उज्जिहीर्षतः
सर्वधर्माधिकारेषु नियुक्तस्य दयावतः ।
मुखाच् छ्रीशिर्यभट्टस्य प्राप्याज्ञाम् अनवज्ञया
राजावलिं पूरयितुं सम्प्रति प्रतिभा मम ।
कविनामाभिलाषेण न तु यस्मान् ममोद्यमः
क्व चुण्ठीजलवन् मद्वाक् क्व च काव्यतरङ्गितम् ।
छायामात्रानुकारेण किं नडं पुण्ड्रकायते
अन्तश्शून्यां लघुं प्रज्ञां तुम्बीम् इव वहन्न् अहम् ।
पारं राजतरङ्गिण्या गन्तुं हन्तोद्यमं गतः
पृथ्वीनाथगुणाध्याने चापलं मे न दूषणम् ।
अलङ्कारैर् अहङ्कारात् कुरूपापि हि वल्गति
कवीनाम् उपयोग्या वा मद्वाक् स्वान्तरशुद्धये ।
गङ्गाजलं जलं तेषां यैर् न पीतं जलान्तरम्
राजोदन्तकथासूत्रपातमात्रं कृतं मया ।
कुर्वन्तु रचनाम् अत्र चतुराẖ कविशिल्पिनः
मणीनां घर्षणायैव महाशाणस्य नैपुणम् ।
कान्तिप्रणयने तेषां मुखसारमणेस् तु तत्
विनैव प्रार्थनां काव्यं कवेḫ पश्यन्ति साधवः ।
किम् अर्थितश् शशी विश्वं सुधासारेण सिञ्चति
अनुनीतो ऽपि कालुष्यं खलẖ काव्ये न मुञ्चति ।
सुधाधौतो ऽपि नाङ्गारश् शुभ्रताम् एति जातुचित्
मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0