भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 181-200

181

टक्कभ्राता तिमिर् नाम मार्गे सन्तापखेदितः ।
गोपाल्याẖ कुत्रचिद् ग्रामे क्षीरं निष्पीतवान् हठात्

182

राज्ञा विज्ञापितेनाथ सद्यो गोपालयोषिता ।
अनुयुक्तस् तिमिर् भीत्या व्यधात् सर्वस्य निह्नवम्

183

असत्ये भाविता गोपी यदा धैर्यान् न सास्खलत् ।
पानाशयं तिमेर् एव स सत्यैक्षी व्यदारयत्

184

तस्य पानाशयाद् दीर्णान् निर्यान्त्या क्षीरधारया ।
राज्ञẖ कीर्तिर् मुखश्रीश् च गोप्याḫ प्रापत् प्रसन्नताम्

185

वारवाले निवसतोर् असुवातां कयोश्चन ।
अश्वे किशोरकौ तुल्यौ कस्मिन्न् अपि वनान्तरे

186

सिंहसङ्क्षयितापत्या तयोर् अन्यतमा वने ।
अश्वसादृश्यवात्सल्याद् अपुपुत्रीयिषत् परम्

187

"मदीयो ऽयं मदीयो ऽयम्" इत्य् असञ्जातनिश्चयौ ।
वडवाधिपती क्षोभाद् राजान्तिकम् अगच्छताम्

188

स विवादं तयोश् श्रुत्वा स्वान्तिकं स्वीयमानुषैः ।
वडवे च किशोरं च राजाभ्यानाययत् ततः

189

तस्मिन् किशोरके बाल्याद् दूरं धावति लीलया ।
माता धात्री च नितराम् अस्निह्यच् चाप्य् अहेषयत्

190

सभ्येष्व् अनेलमूकेषु वादिनोẖ क्षोभसज्जयोः ।
अश्वे नावानयन् मध्येवितस्तं सकिशोरके

191

बालाश्वं पातितं नद्यां नावो राज्ञा महाधिया ।
हठाद् अन्वपतन् माता परा परम् अहेषयत्

192

सन्दिग्धव्यवहाराणाम् एवं निश्चयकारिणि ।
तस्मिन् राज्ञि जनो ऽमंस्त कृतं युगम् इवागतम्

193

श्रीदेवस्वामिनं शैवीं दीक्षां याचन् नराधिपः ।
नान्वग्राहि स भौट्टत्वात् तेनापात्रत्वशङ्कया

194

अनुजस् तनुजो बन्धुर् मन्त्री सहचरस् सखा ।
व्यालराजो नृपस्याभूत् सत्यैकव्रतनिष्ठया

195

जहौ व्यालẖ कृतं राज्ञा न स व्यालकृतं पुनः ।
मनो हि कायिकं हन्ति तत्कृतं न वपुḫ पुनः

196

कलानिधौ रसमये व्याले भूलोकभास्वतः ।
मूर्छिता रुचिर् अच्छैत्सीद् अच्छेद्यं जगतां तमः

197

[प्स्-ज्र्त् 11]
प्रवेष्टुकामं कश्मीरान् निवर्तयितुम् अञ्जसा ।
डुल्च्यं धनप्रयोगेण यो विसृष्टो महीभुजा ॥ ज्र्त्_ब्.229 ॥
अवमन्त्र्य प्रविष्टे ऽथ डुलुच्ये भयतो गतः ।
गान्धारदेशं उद्यानदेवो लब्धान्तरस् ततः ॥ ज्र्त्_ब्.230 ॥
श्रीमान् उद्यानदेवो ऽथ रन्ध्रप्रहरणोद्यतः ।
समादिक्षत टक्कादीन् गान्धारस्थो भयाद् इति

198

"जीवताम् एव गन्तव्यं जाने तन् नगरान्तरम् ।
यत् सेव्यते ऽविशेषज्ञस् स्वामी सम्मानलिप्सया

199

भुङ्क्ते व्यालश् श्रियं प्राणपणैर् युष्माभिर् अर्जिताम् ।
करौ साधयतो यत्नाद् रसना भोगभागिनी

200

ईश्वरो भूतिलिप्ताङ्गो व्यालं हारीचिकीर्षति ।
अनास्थां तु सुवर्णेषु युष्मासु विदधाति सः

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc