राजतरङ्गिनी · श्लोक 161-180
नालब्ध पितरं पुत्रḫ पिता तं च न कञ्चन ।
भ्रातॄंश् च भ्रातरो डल्चराक्षसोपप्लवात्यये
मितलोका खिलक्षेत्रा निर्भोज्या दर्भनिर्भरा ।
सर्गारम्भ इव प्रायस् तदा कश्मीरभूर् अभूत्
समर्थान् न्यग्रहीद् डल्चो रिञ्चनḫ प्राभवत् पुनः ।
विश्वम् अन्धयति ध्वान्ते सुखभाजो ऽभिसारिकाः
डल्चराहुविनिर्मुक्तं राजानं तुङ्गिमस्पृशा ।
अरुरुत्सत् स शृङ्गेण रिञ्चनास्ताचलस् ततः
दृष्ट्वा गगनगिर्यग्रे भास्वन्तं रिञ्चनं स्थितम् ।
अशङ्क्यत न कै राज्ञḫ प्रत्यासन्नो ऽस्तसंस्तवः
रिञ्चनश्येनराजस्य जिहीर्षोर् नगरामिषम् ।
कुलचन्द्रो रामचन्द्रो विघ्नं चक्रे पदे पदे
भौट्टांल् लहरकोट्टान्तḫ पट्टविक्रयकौतुकात् ।
प्रत्यहं वञ्चनोद्योगी रिञ्चनो ऽथ विसृष्टवान्
तथैव लहरस्यान्तर् भोट्टलोके प्रवेशिते ।
अपिप्यद् रामचन्द्रास्रमधु शस्त्राणि रिञ्चनः
रामचन्द्रकुलोद्यानकल्पवल्लीं स रिञ्चनः ।
वक्षस्स्थले महाबाहुẖ कोटादेवीम् अरोपयत्
श्रीरिञ्चनभयाद् राजा नगरं त्यक्तवांस् ततः ।
विप्रशापाग्निदग्धानां कुतस् स्याद् उदयाङ्कुरः
प्रमण्डलगुहां राजजम्बुर् भीतो ऽविशत् ततः ।
पापस्य तादृशो मृत्युस् सम्मुखस्य रणे कथम्
वैरिधाराधरश् चित्रं रणे राजास्रवर्षणैः ।
दण्डदानां द्विजातीनां चक्रे नेत्रेष्व् अवग्रहम्
पञ्चाहोनांश् चतुर्मासान् वर्षांश् चैकोनविंशतिम् ।
स राजराक्षसो रक्षाव्याजात् क्षोणीम् अभक्षयत्
13) ल्ह·छेन् र्ग्यल्·बु रिन्·छेन् (ल्स् 4396-4399)
श्रीरिञ्चनसुरत्राणो भुजवातायने महीम् ।
व्यशिश्रमद् अथ श्रान्तां दौस्स्थ्याद् दुस्स्थितिविप्लवैः
पूर्वदृष्टम् इवाशेषं तिमिरापगमे पुमान् ।
कश्मीरमण्डलम् पूर्वराजसौख्यं तद् ऐक्षत
दीपैर् इव प्रतिस्थानं यैर् लवन्यैस् स्थिरं स्थितम् ।
अकम्प्यन्त प्रभातस्य ते राज्ञो बलवायुना
मन्त्रसूच्या कृते भेदे बाणसूत्रे प्रवेशिनि ।
अभूल् लवन्यकन्थायाश् चित्रं विश्लथता तदा
वने कण्टकिनीवाङ्ग नग्नो यत्राकुलो भवेत् ।
तत्रैव व्योम्नि पत्त्रीव देशे समचरन् नृपः
तस्य दाक्षिण्यदक्षस्य प्रजानां हितहेतुना ।
पुत्रे मन्त्रिणि मित्रे वा दुष्टे नालक्ष्यत क्षमा
छेदं यच्छन्न् अतुच्छानां वैरिणाम् उच्छलच्छ्रियाम् ।
आच्छोटनम् अगच्छत् स छत्त्रशाली कदाचन
मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0