राजतरङ्गिनी · श्लोक 141-160
सकुटुम्बं तम् आयान्तं वृत्तिदानेन भूपतिः ।
अनुजग्राह सोत्कर्षं चूतद्रुम इवालिनम्
डलचाख्यẖ कर्मसेनचक्रवर्तिचमूपतिः ।
कश्मीरान् स तदैवागात् सिंहो मृगगुहाम् इव
षष्टिग्रामसहस्रेषु स्वाम्यं दातुम् इवात्र सः ।
तावत्सङ्ख्यसहस्राणि स्वसैन्ये सादिनो ऽवहत्
डल्चं धनप्रयोगेन निविवर्तयिषुर् नृपः ।
सर्वेषाम् एव वर्णानां दुर्वर्णो दण्डम् अक्षिपत्
प्राणाहुत्या प्रभोẖ कोपे तत्प्रतिग्रहसांहसः ।
प्रायस्था ब्राह्मणाḫ प्रायश्चित्तीयां चक्रुर् अक्रमम्
[प्स्-ज्र्त् 7]
दण्डदुẖखेन विप्रैर् यश् शापो दत्तो महीभुजः ।
भविष्यन् वंशविच्छेदो ध्रुवं तस्यैव तत् फलम् ॥ ज्र्त्_ब्.156 ॥
तदैव कालमान्याख्यैर् भौट्टैर् घट्टितवैरिभिः ।
सबन्धुर् गोत्रजो व्याजाद् बकतन्यो न्यहन्यत
[प्स्-ज्र्त् 8]
स्वदेशे वकतन्याख्यो गोत्रजस्यात्मजो हतः ॥ ज्र्त्_ब्.157च्द् ॥
मान्यो ऽसामान्यधीẖ कालमान्यवंशदवानलः ।
अवाशिष्यत तत्पुत्रो दैवाद् एकस् स रिञ्चनः
व्यालटक्कमुखैर् मन्त्रसूत्रसंयोजितैर् अथ ।
बद्ध्वा संहतिकन्थां स ताञ् जडाञ् जेतुम् इष्टवान्
"निपास्यमानकोशं मां भृत्यत्वे वृणुते"ति सः ।
तान् प्रत्यश्रावयद् दूतमुखेन स्वाततायिनः
नृसिंहस् स नदीतीरे सिकतास्थगितायुधः ।
तान् प्रत्यैक्षत रक्तस्य न तु कोशस्य पीतये
व्यालाद्यैर् आगतास् तत्र कालमान्या निरायुधाः ।
सिकतान्तर्निविष्टस्य परश्वग्नेस् तृणीकृताः
प्रक्षाल्य वैरिरक्तेन पितृद्रोहरजोमलम् ।
शेषानेकारिभीत्यागात् कश्मीरान् बन्धुभिस् सह
पूर्णस्य रामचन्द्रस्य रुचिहान्यै धरार्यमा ।
नीलाशाभ्रे रिञ्चराहोर् उदयं सो ऽथ सोढवान्
हेतिभिस् तापयत्य् आशा डलचे कृष्णवर्त्मनि ।
काश्मीरिकैर् जनैस् सर्वैश् शलभत्वम् अलभ्यत
रुद्धयोर् डल्चरिञ्चाभ्यां प्राच्युदीच्योर् बहुर् जनः ।
वसतेḫ पश्चिमाम् आशां प्राग् यमाशाम् अथागमत्
अधो डल्चाम्बुपूराद् भीर् गिरौ रिञ्चनमारुतात् ।
छायाजुषां फलाढ्यानां पुंनागानाम् अभूत् तदा
पक्षिशावम् इव स्थानच्युतं चिल्लोल्लसद्रया ।
बलश्री रैञ्चनी लोकं काश्मीरिकम् अपाहरत्
धनाम्बु प्राप्य भौट्टेभ्यẖ काश्मीरजनविक्रयात् ।
गर्जन्न् आशाḫ प्यधात् सर्वास् तदा रिञ्चनवारिदः
[प्स्-ज्र्त् 9]
तुरुष्कताजिकम्लेच्छसैन्यच्छादितभूतलः ।
डुलुच्यो नगरं प्रापद् अथागस्त्य इवार्णवम् ॥ ज्र्त्_ब्.170 ॥
मृगास् सिंहम् इवोदग्रं गरुत्मन्तम् इवाण्डजाः ।
तम् आपतन्तम् आलोक्य पलायन्त पुरौकसः ॥ ज्र्त्_ब्.171 ॥
बद्धाḫ पलायिनस् तेन मान्त्रिकेणेव पन्नगाः ।
केचित् पलायिता भीत्या प्रविष्टा गिरिगह्वरम् ॥ ज्र्त्_ब्.172 ॥
राजापि क्वापि सञ्छन्नो भीत्या घूकवद् आस्त सः ।
इतरेषां तु लोकानां का कथा तत्र वासिनाम् ॥ ज्र्त्_ब्.173 ॥
विप्रशापो नरेन्द्राणां वृथा जातो न जातुचित् ।
सलक्ष्मा राजयक्ष्मा हि नाहत्वा विनिवर्तते ॥ ज्र्त्_ब्.174 ॥
गूढार्थं दापिताḫ पूर्वं गाढया बन्धपीडया ।
विक्रीता वाजिभिḫ पश्चात् तुरुष्कैर् हस्तगा जनाः ॥ ज्र्त्_ब्.175 ॥
विद्धाẖ केचित् परे बद्धा विराद्धास् तेन केचन ।
प्लोषं केचित् परे शोषं दोषं यान्त्य् अनलाद् द्रुमाः ॥ ज्र्त्_ब्.176 ॥
जत्रुवेधेन बद्धानाम् एकया चर्मवध्रया ।
तेषां दुरापम् अप्य् आसीद् अन्योऽन्यमुखदर्शनम् ॥ ज्र्त्_ब्.177 ॥
घासेन्धनादिसम्भारढौकनाय क्षणं क्षणम् ।
बद्धा म्लेच्छैर् अमुच्यन्त बिडालैर् इव मूषकाः ॥ ज्र्त्_ब्.178 ॥
येषाम् अन्ने जुगुप्साभूद् बिडालस्पर्शदोषतः ।
म्लेच्छोच्छिष्टं गवांश् चास्थि तैर् बद्धैर् भक्षितं क्षुधा ॥ ज्र्त्_ब्.179 ॥
वैतस्तम् अपि ये वारि न पपुḫ पङ्कसङ्कुलम् ।
बद्धैर् मरुषु तैर् नीतैर् मूत्रं पीतं भृशं तृषा ॥ ज्र्त्_ब्.180 ॥
"क्व म्लेच्छान्नं क्व वंशो नो दुस्सहा क्षुच् छ्रुतेन किम् ।
निद्रा नाद्यापि मार्गेण" ते ऽन्तर् एवम् अचिन्तयन् ॥ ज्र्त्_ब्.181 ॥
गच्छतां तिष्ठतां तेषाम् अश्नतां जल्पताम् अपि ।
सो ऽभून् नैव क्षणो यत्र न ते कार्यम् असाधयन् ॥ ज्र्त्_ब्.182 ॥
म्लेच्छैẖ केचित् खशैẖ केचिद् दरद्भिर् अपरे तथा ।
भोट्टैẖ केचित् तुरुष्कैश् च केचिद् बन्दीकृता जनाः ॥ ज्र्त्_ब्.183 ॥
अन्नं गृहे वने वित्तं मार्गे बन्धून् विहाय च ।
पलायाम् आसुर् अपरे तुरुष्कभयसम्भ्रमात् ॥ ज्र्त्_ब्.184 ॥
करुणागौरवघृणा द्रुतं गन्तुम् अशक्तिषु ।
बालवृद्धाबलास्व् एते त्यक्तवन्तḫ पलायिनः ॥ ज्र्त्_ब्.185 ॥
न भुक्तं क्षुधितैर् मार्गे न पीतं तृषितैर् अपि ।
किम् अन्यद् भयसंभ्रान्तैḫ पश्चात् तैर् नापि वीक्षितम् ॥ ज्र्त्_ब्.186 ॥
क्षुधा केचित् तृषा केचिद् भिया केचित् परे ह्रिया ।
भयाद् बिलदरीष्व् एव प्रविश्यान्तर् विपेदिरे ॥ ज्र्त्_ब्.187 ॥
बिलप्रविष्टांस् ताञ् छ्रुत्वा ततो निष्कासनेच्छवः ।
निष्कारुण्यास् तुरुष्कास् ते धूमं बिलमुखे ददुः ॥ ज्र्त्_ब्.188 ॥
धूमेनान्तर् विपन्नानां नराणाम् अस्थिराशयः ।
दृश्यन्ते ऽद्यापि धूमोत्थं मालिन्यं च गुहामुखे ॥ ज्र्त्_ब्.189 ॥
राजापचारम् अकरोत् प्रजासु फलितस् तु सः ।
नारीणां चपला दृष्टिर् दन्तैर् गण्डस् तु खण्ड्यते ॥ ज्र्त्_ब्.190 ॥
नाशिताशेषदेशो ऽथ स्फीतशीतभयाकुलः ।
डल्चẖ कश्मीरतस् तारबलमार्गेण निर्ययौ
जनाẖ काश्मिरिका दुर्गबिलेभ्यो मूषका इव ।
डलचोतौ गते बन्दीकृतशेषा विनिर्ययुः
मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0