भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 121-140

121

कर्ता कार्यं च लग्नं च गुरुस् सिंहश् च कोविदः ।
पतितेयं भवेत् तस्य व्रते सिंहपरम्परा

122

स निष्कलक्षविक्रीतक्षीरेण विजयेश्वरम् ।
एकाह एव स्नपयन् व्रतशुद्धिं ययौ नृपः

123

राज्ञा श्रीशङ्करस्वामी गुरुर् मन्त्रोपदेशकृत् ।
यो ऽष्टादशमठैश्वर्यदक्षिणाभिर् अपूज्यत

124

परलोकजयोपायं वाग्देवीप्राभृतं नृपः ।
आत्मोपज्ञम् इमं श्लोकं शय्योत्थायं सदापठत्

125

"पावकनिर्मलदृष्टिं विबुधगणैर् अर्च्यमानपादम् अहम् ।
शशिशकलादर्शयुतं गौरीशं शङ्करं वन्दे"

126

[प्स्-ज्र्त् 5]
पान्थानां तोयदानाय पितॄणां तर्पणाय च ।
दम्पत्योḫ पापनाशाय धर्मसंवर्धनाय च ॥ ज्र्त्_ब्.131 ॥
निजालङ्कारदानेन निपानं रचितं पथि ।
मडवाश्रमग्रामान्ते गौर्या शङ्करभार्यया ॥ ज्र्त्_ब्.132 ॥
खोनमोषाधिपस्यासीत् कन्या प्रज्जद्विजस्य सा ।
सत्यशीलान्विता भक्ता गौरी गौरीव शङ्करे ॥ ज्र्त्_ब्.133 ॥
दुहितुर् दुश्चरित्रेण यो ऽभूद् दण्डḫ पितुḫ पतन् ।
इडागल्यार्थितो राजा नर्तक्या तं न्यवारयत्

127

स दुर्जनपरिष्वङ्गाद् आस्तिकप्रज्ञयोज्झितः ।
धात्रीपुत्र्यां स्मरादर्शे स्वात्मानं प्रत्यबिम्बयत्

128

दर्याख्यो भगिनीस्वामी कामसूहोपबृंहितः ।
तं विरक्तप्रजं मुक्तविनयं छद्मनावधीत्

129

चतुर्दशाब्दान् षण्मासांस् त्र्यहन्यूनान् महीपतिः ।
भूत्वा शुचौ दिवम् अगात् स वर्षे सप्तसप्तते

130

12) सूहदेव (ल्स् 4377-4396)
तद्भ्राता सूहदेवो ऽथ कामसूहोपबृंहितः ।
जडो ऽपि सकलाम् एव कश्मीरक्ष्मां वशे व्यधात्

131

दिगन्तराद् उपागत्य बहवो वृत्तिलिप्सया ।
तम् आश्रयन् महीपालं पुष्पद्रुमम् इवालयः

132

[प्स्-ज्र्त् 6]
वृत्त्यै लङ्कारचक्को ऽपि दरद्देशात् तदाययौ ।
सन्ततेर् भाविसाम्राज्यḫ प्राज्यं कश्मीरमण्डलम् ॥ ज्र्त्_ब्.140 ॥
क्रमराज्याभिधे राष्ट्रे त्राहग्रामं नृग्रामणीः ।
ददौ वसतये तस्मै नियतेस् स नियोगतः ॥ ज्र्त्_ब्.141 ॥
पार्थो ऽन्य इव पार्थो ऽभूत् पञ्चगह्वरसीमनि ।
यो गर्भरपुरं चक्रे तत्पुत्रो बभ्रुवाहनः

133

तद्वंश्यẖ कुरुशाहो ऽभूद् यद्बाहूदयपर्वते ।
ज्याकिणच्छद्मना भेजे यशश् शुभ्रत्विषं निशा

134

"कश्मीराḫ पार्वती तत्र राजा ज्ञेयो हरांशजः" ।
इत्य् एतत्प्रत्ययायेव यस्यासीच् चक्षुषां त्रयम्

135

कश्मीरेषु हि साम्राज्यं कुरुशाहस्य सन्ततिः ।
शंशदीनमुखी मुख्या ख्यातकीर्तिẖ करिष्यति

136

ताहराजो ऽजनिष्टास्माद् यस्य चापलताश्रिता ।
मुहुर्मुहुर् अहो मौर्वी श्रुत्यन्तम् अगमत्तराम्

137

शाहमेरस् स्ववीर्योष्मग्रीष्मो भानुस् ततो ऽजनि ।
यस्य वैरिवधूवाष्पैḫ प्रतापाग्निर् अदीप्यत

138

वने विहरतस् तस्य शाह्मेरस्य कदाचन ।
मृगया प्रथमं दृष्टिं पश्चान् निद्रा व्यलोभयत्

139

"राज्यम् आ सन्ततेर् भावि कश्मीरेषु तवे"ति सः ।
स्वप्ने वाक्सुधया तत्र महादेव्याभ्यषिच्यत

140

पञ्चाग्न्यर्कमिते शाके नवाष्टाङ्कितवत्सरे ।
ततस् सपरिवारस् स कश्मीरान् अविशच् छनैः

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc