राजनिघण्टु · भाग 81100
विज्ञेया राजतरुणी कषाया कफकारिणी ।
चक्षुष्या हर्षदा हृद्या सुरभिः सुरवल्लभा ॥ रज्नि_10.128
अथ रक्ताम्लानः स्याद् रक्तसहाख्यः स चापरिम्लानः ।
रक्तामलान्तको ऽपि च रक्तप्रसवश् च कुरवकश् चैव ॥ रज्नि_10.129
रामालिङ्गनकामो रागप्रसवो मधूत्सवः प्रसवः ।
सुभगो भ्रमरानन्दः स्याद् इत्य् अयं पक्षचन्द्रमितः ॥ रज्नि_10.130
उष्णः कटुः कुरवको वातामयशोफनाशनो ज्वरनुत् ।
आध्मानशूलकासश्वासार्तिप्रशमनो वर्ण्यः ॥ रज्नि_10.131
पीतः स किङ्किरातः पीताम्लानः कुरण्टकः कनकः ।
पीतकुरवः सुपीतः स पीतकुसुमश् च सप्तसंज्ञकः स्यात् ॥ रज्नि_10.132
किङ्किरातः कषायोष्णस्तिक्तश् च कफवातजित् ।
दीपनः शोफकण्डूतिरक्तत्वग्दोषनाशनः ॥ रज्नि_10.133
नीलपुष्पा तु सा दासी नीलाम्लानस् तु छादनः ।
बाला चार्त्तगला चैव नीलपुष्पा च षड्विधा ॥ रज्नि_10.134
आर्त्तगला कटुस् तिक्ता कफमारुतशूलनुत् ।
कण्डूकुष्ठव्रणान् हन्ति शोफत्वग्दोषनाशनी ॥ रज्नि_10.135
कण्टकरण्टो झिण्टी सा वन्यसहचरी तु सा पीता ।
शोणी कुरवकनाम्नी कण्टकिनी शोणझिण्टिका चैव ॥ रज्नि_10.136
सान्या तु नीलझिण्टी नीलकुरण्टश् च नीलकुसुमा च ।
बाणो बाणा दासी कण्टार्त्तगला च सप्तसंज्ञा स्यात् ॥ रज्नि_10.137
झिण्टिकाः कटुकास् तिक्ता दन्तामयशान्तिदाश् च शूलघ्नाः ।
वातकफशोफकासत्वग्दोषविनाशकारिण्यः ॥ रज्नि_10.138
उष्ट्रकाण्डी रक्तपुष्पी ज्ञेया करभकाण्डिका ।
रक्ता लोहितपुष्पी च वर्णपुष्पी षडाह्वया ॥ रज्नि_10.139
उष्ट्रकाण्डी तु तिक्तोष्णा रुच्या हृद्रोगहारिणी ।
तद्बीजं मधुरं शीतं वृष्यं सन्तर्पणं स्मृतम् ॥ रज्नि_10.140
तगरं कुटिलं वक्रं विनम्रं कुञ्चितं नतम् ।
शठं च नहुषाख्यं च दद्रुहस्तं च बर्हणम् ॥ रज्नि_10.141
पिण्डीतगरकं चैव पार्थिवं राजहर्षणम् ।
कालानुसारकं क्षत्रं दीनं जिह्मं मुनीन्दुधा ॥ रज्नि_10.142
तगरं शीतलं तिक्तं दृष्टिदोषविनाशनम् ।
विषार्तिशमनं पथ्यं भूतोन्मादभयापहम् ॥ रज्नि_10.143
अथ दमनकस् तु दमनो दान्तो गन्धोत्कटो मुनिर् जटिलः ।
दण्डी च पाण्डुरागो ब्रह्मजटा पुण्डरीकश् च ॥ रज्नि_10.144
तापसपत्रः पत्री पवित्रको देवशेखरश् चैव ।
कुलपत्रश् च विनीतस्तपस्विपत्रश् च सप्तधात्रीकः ॥ रज्नि_10.145
दमनः शीतलतिक्तः कषायकटुकश् च कुष्ठदोषहरः ।
द्वन्द्वत्रिदोषशमनो विषविस्फोटविकारहरणः स्यात् ॥ रज्नि_10.146
अन्यश् च वन्यदमनो वनादिनामा च दमनपर्यायः ।
वीर्यस्तम्भनकारी बलदायी चामदोषहारी च ॥ रज्नि_10.147
तुलसी सुभगा तीव्रा पावनी विष्णुवल्लभा ।
सुरेज्या सुरसा ज्ञेया कायस्था सुरदुन्दुभी ॥ रज्नि_10.148
सुरभिर् बहुपत्री च मञ्जरी सा हरिप्रिया ।
अपेतराक्षसी श्यामा गौरी त्रिदशमञ्जरी ।
भूतघ्नी पूतपत्री च ज्ञेया चैकोनविंशतिः ॥ रज्नि_10.149
तुलसी कटुतिक्तोष्णा सुरभिः श्लेष्मवातजित् ।
जन्तुभूतक्रिमिहरा रुचिकृद् वातशान्तिकृत् ॥ रज्नि_10.150
कृष्णा तु कृष्णतुलसी श्वेता लक्ष्मीः सिताह्वया ।
कासवातक्रिमिवमिभूतापहारिणी पूता ॥ रज्नि_10.151
मरुवः खरपत्रस् तु गन्धपत्रः फणिञ्झकः ।
बहुवीर्यः शीतलकः सुराह्वश् च समीरणः ॥ रज्नि_10.152
जम्बीरः प्रस्थकुसुमो ज्ञेयो मरुवकस् तथा ।
आजन्मसुरभिपत्रो मरीचश् च त्रयोदश ॥ रज्नि_10.153
द्विधा मरुवकः प्रोक्तः श्वेतश् चैव सितेतरः ।
श्वेतो भेषजकार्ये स्याद् अपरः शिवपूजने ॥ रज्नि_10.154
मरुवः कटुतिक्तोष्णः कृमिकुष्ठविनाशनः ।
विड्बन्धाध्मानशूलघ्नो मान्द्यत्वग्दोषनाशनः ॥ रज्नि_10.155
अर्जकः क्षुद्रतुलसी क्षुद्रपर्णो मुखार्जकः ।
उग्रगन्धश् च जम्बीरः कुठेरश् च कठिञ्जरः ॥ रज्नि_10.156
सितार्जकस् तु वैकुण्ठो वटपत्रः कुठेरकः ।
जम्बीरो गन्धबहुलः सुमुखः कटुपत्रकः ॥ रज्नि_10.157
कृष्णार्जकः कालमालो मालूकः कृष्णमालुकः ।
स्यात् कृष्णमल्लिका प्रोक्ता गरघ्नो वनबर्बरः ॥ रज्नि_10.158
त्रयो ऽर्जकाः कटूष्णाः स्युः कफवातामयापहाः ।
नेत्रामयहरा रुच्याः सुखप्रसवकारकाः ॥ रज्नि_10.159
वनबर्बरिकान्या तु सुगन्धिः सुप्रसन्नकः ।
दोषोत्क्लेशी विषघ्नश् च सुमुखः सूक्ष्मपत्रकः ।
निद्रालुः शोफहारी च सुवक्त्रश् च दशाह्वयः ॥ रज्नि_10.160
वनबर्बरिका चोष्णा सुगन्धा कटुका च सा ।
पिशाचवान्तिभूतघ्नी घ्राणसन्तर्पणी परा ॥ रज्नि_10.161
गङ्गापत्री तु पत्री स्यात् सुगन्धा गन्धपत्रिका ।
गङ्गापत्री कटूष्णा च वातजिद् व्रणरोपणी ॥ रज्नि_10.162
पाची मरकतपत्री हरितलता हरितपत्रिका पत्री ।
सुरभिर् मल्लारिष्टा गारुत्मतपत्रिका चैव ॥ रज्नि_10.163
पाची कटुतिक्तोष्णा सकषाया वातदोषहन्त्री च ।
ग्रहभूतविकारकारी त्वग्दोषप्रशमनी व्रणेषु हिता ॥ रज्नि_10.164
बालकं वारिपर्यायैर् उक्तं ह्रीवेरकं तथा ।
केश्यं वज्रम् उदीच्यं च पिङ्गं च ललनाप्रियम् ।
बालं च कुन्तलोशीरं कचामोदं शशीन्दुधा ॥ रज्नि_10.165
बालकं शीतलं तिक्तं पित्तवान्तितृषापहम् ।
ज्वरकुष्ठातिसारघ्नं केश्यं श्वित्रव्रणापनुत् ॥ रज्नि_10.166
बर्बरः सुमुखश् चैव गरघ्नः कृष्णबर्बरः ।
सुकन्दनो गन्धपत्रः पूतगन्धः सुरार्हकः ॥ रज्नि_10.167
बर्बरः कटुकोष्णश् च सुगन्धिर् वान्तिनाशनः ।
विसर्पविषविध्वंसी त्वग्दोषशमनस् तथा ॥ रज्नि_10.168
सुरपर्णं देवपर्णं वीरपर्णं सुगन्धिकम् ।
मञ्चिपत्रं सूक्ष्मपत्रं देवार्हं गन्धपत्रकम् ॥ रज्नि_10.169
कटूष्णं सुरपर्णं च क्रिमिश्वासबलासजित् ।
दीपनं कफवातघ्नं वर्ण्यं बालहितं तथा ॥ रज्नि_10.170
आरामशीतला नन्दा शीतला सा सुनन्दिनी ।
रामा चैव महानन्दा गन्धाढ्यारामशीतला ॥ रज्नि_10.171
आरामशीतला तिक्ता शीतला पित्तहारिणी ।
दाहशोषप्रशमनी विस्फोटव्रणरोपणी ॥ रज्नि_10.172
पाथोजं कमलं नभं च नलिनाम्भोजाम्बुजन्माम्बुजं श्रीपद्माम्बुरुहाब्जपद्मजलजान्य् अम्भोरुहं सारसम् ।
पङ्केजं सरसीरुहं च कुटपं पाथोरुहं पुष्करं वार्जं तामरसं कुशेशयकजे कञ्जारविन्दे तथा ॥ रज्नि_10.173
शतपत्रं बिसकुसुमं सहस्रपत्रं महोत्पलं वारिरुहम् ।
सरसिजसलिलजपङ्केरुहराजीवानि वेदवह्निमितानि ॥ रज्नि_10.174
कमलं शीतलं स्वादु रक्तपित्तश्रमार्तिनुत् ।
सुगन्धि भ्रान्तिसंतापशान्तिदं तर्पणं परम् ॥ रज्नि_10.175
पुण्डरीकं श्वेतपत्रं सिताब्जं श्वेतवारिजम् ।
हरिनेत्रं शरत्पद्मं शारदं शम्भुवल्लभम् ॥ रज्नि_10.176
पुण्डरीकं हिमं तिक्तं मधुरं पित्तनाशनम् ।
दाहास्रश्रमदोषघ्नं पिपासादोषनाशनम् ॥ रज्नि_10.177
कोकनदम् अरुणकमलं रक्ताम्भोजं च शोणपद्मं च ।
रक्तोत्पलम् अरविन्दं रविप्रियं रक्तवारिजं वसवः ॥ रज्नि_10.178
कोकनदं कटुतिक्तं मधुरं शिशिरं च रक्तदोषहरम् ।
पित्तकफवातशमनं सन्तर्पणकारणं वृष्यम् ॥ रज्नि_10.179
उत्पलं नीलकमलं नीलाब्जं नीलपङ्कजम् ।
नीलपद्मं च बाणाह्वं नीलादिकमलाभिधम् ॥ रज्नि_10.180
नीलाब्जं शीतलं स्वादु सुगन्धि पित्तनाशकृत् ।
रुच्यं रसायने श्रेष्ठं केश्यं च देहदार्ढ्यदम् ॥ रज्नि_10.181
ईषत् श्वेतं पद्मं नलिनं च तद् उक्तम् ईषद् आरक्तम् ।
उत्पलम् ईषन् नीलं त्रिविधम् इतीदं भवेत् कमलम् ॥ रज्नि_10.182
उत्पलादिर् अयं दाहरक्तपित्तप्रसादनः ।
पिपासादाहहृद् रोगच्छर्दिमूर्छाहरो गणः ॥ रज्नि_10.183
पद्मिनी नलिनी प्रोक्ता कूटपिन्य् अब्जिनी तथा ।
इत्थं तत्पद्मपर्यायनाम्नी ज्ञेया प्रयोगतः ॥ रज्नि_10.184
पद्मिनी मधुरा तिक्ता कषाया शिशिरा परा ।
पित्तकृमिशोषवान्तिभ्रान्तिसंतापशान्तिकृत् ॥ रज्नि_10.185
पद्मबीजं तु पद्माक्षं गालोड्यं कन्दली च सा ।
भेडा क्रौञ्चादनी क्रौञ्चा श्यामा स्यात् पद्मकर्कटी ॥ रज्नि_10.186
पद्मबीजं कटु स्वादु पित्तच्छर्दिहरं परम् ।
दाहास्रदोषशमनं पाचनं रुचिकारकम् ॥ रज्नि_10.187
मृणालं पद्मनालं च मृणाली च मृणालिनी ।
बिसं च पद्मतन्तुश् च बिसिनी नलिनीरुहम् ॥ रज्नि_10.188
मृणालं शिशिरं तिक्तं कषायं पित्तदाहजित् ।
मूत्रकृच्छ्रविकारघ्नं रक्तवान्तिहरं परम् ॥ रज्नि_10.189
पद्मकन्दस् तु शालूकं पद्ममूलं कटाह्वयम् ।
शालीनं च जलालूकं स्याद् इत्य् एवं षडाह्वयम् ॥ रज्नि_10.190
शालूकं कटु विष्टम्भि रूक्षं रुच्यं कफापहम् ।
कषायं कासपित्तघ्नं तृष्णादाहनिवारणम् ॥ रज्नि_10.191
किञ्जल्कं मकरन्दं च केसरं पद्मकेसरम् ।
किञ्जं पीतं परागं च तुङ्गं चाम्पेयकं नव ॥ रज्नि_10.192
किञ्जल्कं मधुरं रूक्षं कटु चास्यव्रणापहम् ।
पित्तघ्नं शिशिरं रुच्यं तृष्णादाहनिवारणम् ॥ रज्नि_10.193
अनूष्णं चोत्पलं चैव रात्रिपुष्पं जलाह्वयम् ।
हिमाब्जं शीतजलजं निशाफुल्लं च सप्तधा ॥ रज्नि_10.194
उत्पलं शिशिरं स्वादु पित्तरक्तार्तिदोषनुत् ।
दाहश्रमवमिभ्रान्तिक्रिमिज्वरहरं परम् ॥ रज्नि_10.195
धवलोत्पलं तु कुमुदं कह्लारं कैरवं च शीतलकम् ।
शशिकान्तम् इन्दुकमलं चन्द्राब्जं चन्द्रिकाम्बुजं च नव ॥ रज्नि_10.196
कुमुदं शीतलं स्वादु पाके तिक्तं कफापहम् ।
रक्तदोषहरं दाहश्रमपित्तप्रशान्तिकृत् ॥ रज्नि_10.197
नीलोत्पलम् उत्पलकं कुवलयम् इन्दीवरं च कन्दोत्थम् ।
सौगन्धिकं सुगन्धं कुड्मलकं चासितोत्पलं नवधा ॥ रज्नि_10.198
नीलोत्पलम् अतिस्वादु शीतं सुरभि सौख्यकृत् ।
पाके तु तिक्तम् अत्यन्तं रक्तपित्तापहारकम् ॥ रज्नि_10.199
उत्पलिनी कैरविणी कुमुद्वती कुमुदिनी च चन्द्रेष्टा ।
कुवलयिनीन्दीवरिणी नीलोत्पलिनी च विज्ञेया ॥ रज्नि_10.200
उत्पलिनी हिमतिक्ता रक्तामयहारिणी च पित्तघ्नी ।
तापकफकासतृष्णाश्रमवमिशमनी च विज्ञेया ॥ रज्नि_10.201
पुष्पद्रवः पुष्पसारः पुष्पस्वेदश् च पुष्पजः ।
पुष्पनिर्यासकश् चैव पुष्पाम्बुजः षडाह्वयः ॥ रज्नि_10.202
पुष्पद्रवः सुरभिशीतकषायगौल्यो दाहश्रमातिवमिमोहमुखामयघ्नः ।
तृष्णार्तिपित्तकफदोषहरः सरश् च सन्तर्पणश् चिरम् अरोचकहारकश् च ॥ रज्नि_10.203
जाती भाति मृदुर् मनोज्ञमधुरामोदा मुहूर्तद्वयं द्वैगुण्येन च मल्लिका मदकरी गन्धाधिका यूथिका ।
एकाहं नवमालिका मदकरं चाह्नां त्रयं चम्पकं तीव्रामोदम् अथाष्टवासरमितामोदान्विता केतकी ॥ रज्नि_10.204
इत्थं नानाप्रथितसुमनःपत्रपद्माभिधानसंस्थानोक्तिप्रगुणिततया तद्गुणाख्याप्रवीणम् ।
वाचोयुक्तिस्थिरपरिमलं वर्गम् एनं पठित्वा नित्यामोदैर् मुखसरसिजं वासयत्व् आशु वैद्यः ॥ रज्नि_10.205
स्थैर्ये शैलशिलोपमान्य् अपि शनैर् आसाद्य तद्भावनां भेद्यत्वं यमिनां मनांस्य् अपि ययुः पुष्पाशुगस्याशुगैः ।
तेषां भूषयतां सुरादिकशिरः पत्रप्रसूनात्मनां वर्गो ऽयं वसतिर् मता सुमनसाम् उत्तंसवर्गाख्यया ॥ रज्नि_10.206
लोकान् स्पर्शनयोगतः प्रसृमराण्य् आमोदयन्त्य् अञ्जसा प्रोत्फुल्लानि च यद् यशांसि विशदान्य् उत्तंसयन्ते दिशः ।
तस्यायं दशमः कृतौ स्थितिम् अगाद् वर्गो नृसिंहेशितुः सूरीन्दोः करवीरकादिर् अभिधासम्भारचूडामणौ ॥ रज्नि_10.207
राजनिघण्टु, आम्रादिवर्ग
आम्राः पञ्चविधाः प्रोक्ता जम्बूश् चैव चतुर्विधा ।
पनसः कदली चाब्धिः नारिकेलद्वयं तथा ॥ रज्नि_11.1
खर्जूरी पञ्चधा चैव चारो भल्लातरायणी ।
दाडिमं तिन्दुकौ चाथो अक्षोटः पीलुको द्विधा ॥ रज्नि_11.2
पारेवते मधूकं तु द्विधा भव्यारुके क्रमात् ।
द्राक्षा त्रिधाथ कर्मारः परुषः पिप्पलो वटः ॥ रज्नि_11.3
वटी चाश्वत्थिका प्लक्षस् तथा चोदुम्बरस् त्रिधा ।
तत्त्वचा बदरं चाब्धि बीजपूरं त्रिधा मतम् ॥ रज्नि_11.4
आमलक्यौ द्विधा चैव चिञ्चा चिञ्चारसस् तथा ।
आम्रातको ऽथ नारङ्गो निम्बूर् जम्बीरकद्वयम् ॥ रज्नि_11.5
कपित्थस् तुम्बरश् चाथ रुद्राक्षो बिल्वशल्लकी ।
कतकः कर्कटश् चैव द्विधा श्लेष्मातकस् तथा ॥ रज्नि_11.6
मुष्ककः करमर्दश् च तथा तेजःफलस् तथा ।
विकण्टकः शिवा सप्ताप्य् अक्षः पूगो ऽष्टधा स्मृतः ॥ रज्नि_11.7
सप्तधा नागवल्ली स्याच् चूर्णं चैवाष्टधा स्मृतम् ।
उक्ता आम्रादिके वर्गे शून्यचन्द्रेन्दुसङ्ख्यया ॥ रज्नि_11.8
आम्रः कामशरश् चूतो रसालः कामवल्लभः ।
कामाङ्गः सहकारश् च कीरेष्टो माधवद्रुमः ॥ रज्नि_11.9
भृङ्गाभीष्टः सीधुरसो मधूली कोकिलोत्सवः ।
वसन्तदूतो ऽम्लफलो मदाढ्यो मन्मथालयः ॥ रज्नि_11.10
मध्वावासः सुमदनः पिकरागो नृपप्रियः ।
प्रियाम्बुः कोकिलावासः स प्रोक्तस् त्रिकराह्वयः ॥ रज्नि_11.11
आम्रः कषायाम्लरसः सुगन्धिः कण्ठामयघ्नो ऽग्निकरश् च बालः ।
पित्तप्रकोपानिलरक्तदोषप्रदः पटुत्वादिरुचिप्रदश् च ॥ रज्नि_11.12
बालं पित्तानिलकफकरं तच् च बद्धास्थि तादृक् पक्वं दोषत्रितयशमनं स्वादु पुष्टिं गुरुं च ।
दत्ते धातुप्रचयम् अधिकं तर्पणं कान्तिकारि ख्यातं तृष्णाश्रमशमकृतौ चूतजातं फलं स्यात् ॥ रज्नि_11.13
कोशाम्रश् च घनस्कन्धो वनाम्रो जन्तुपादपः ।
क्षुद्राम्रश् चेति रक्ताम्रो लाक्षावृक्षः सुरक्तकः ॥ रज्नि_11.14
कोशाम्रम् अम्लम् अनिलापहरं कफार्त्तिपित्तप्रदं गुरु विदाहविशोफकारि ।
पक्वं भवेन् मधुरम् ईषद् अपारम् अम्लं पट्वादियुक्तरुचिदीपनपुष्टिबल्यम् ॥ रज्नि_11.15
राजाम्रो ऽन्यो राजफलः स्मराम्रः कोकिलोत्सवः ।
मधुरः कोकिलानन्दः कामेष्टो नृपवल्लभः ॥ रज्नि_11.16
अन्यो महाराजचूतो महाराजाम्रकस् तथा ।
स्थूलाम्रो मन्मथावासः कङ्को नीलकपित्थकः ॥ रज्नि_11.17
कामायुधः कामफलो राजपुत्रो नृपात्मजः ।
महाराजफलः कामो महाचूतस् त्रयोदश ॥ रज्नि_11.18
तस्यापि श्रेष्ठतो ऽन्याम्रो रसालो बद्धपूर्वकः ।
ज्ञेयश् चक्रलताम्रश् च मध्वाम्रः सितजाम्रकः ।
वनेज्यो मन्मथानन्दो मदनेच्छाफलो मुनिः ॥ रज्नि_11.19
राजाम्राः कोमलाः सर्वे कट्वम्लाः पित्तदाहदाः ।
सुपक्वाः स्वादुमाधुर्याः पुष्टिवीर्यबलप्रदाः ॥ रज्नि_11.20
राजाम्रेषु त्रिषु प्रोक्तं साम्यम् एव रसाधिकम् ।
गुणाधिकं तु विज्ञेयं पर्यायाद् उत्तरोत्तरम् ॥ रज्नि_11.21
बालं राजफलं कफास्रपवनश्वासार्तिपित्तप्रदं मध्यं तादृशम् एव दोषबहुलं भूयः कषायाम्लकम् ।
पक्वं चेन् मधुरं त्रिदोषशमनं तृष्णाविदाहश्रमश्वासारोचकमोचकं गुरु हिमं वृष्यातिचूताह्वयम् ॥ रज्नि_11.22
आम्रत्वचा कषाया च मूलं सौगन्धि तादृशम् ।
रुच्यं संग्राहि शिशिरं पुष्पं तु रुचिदीपनम् ॥ रज्नि_11.23
जम्बूस् तु सुरभिपत्रा नीलफला श्यामला महास्कन्धा ।
राजार्हा राजफला शुकप्रिया मेघमोदिनी नवाह्वा ॥ रज्नि_11.24
जम्बूः कषायमधुरा श्रमपित्तदाहकण्ठार्तिशोषशमनी क्रिमिदोषहन्त्री ।
श्वासातिसारकफकासविनाशनी च विष्टम्भिनी भवति रोचनपाचनी च ॥ रज्नि_11.25
महाजम्बू राजजम्बूः स्वर्णमाता महाफला ।
शुकप्रिया कोकिलेष्टा महानीला बृहत्फला ॥ रज्नि_11.26
महाजम्बूर् उष्णा समधुरकषाया श्रमहरा निरस्यत्य् आस्यस्थं झटिति जडिमानं स्वरकरी ।
विधत्ते विष्टम्भं शमयति च शोषं वितनुते श्रमातीसारार्त्तिश्वसितकफकासप्रशमनम् ॥ रज्नि_11.27
काकजम्बूः काकफला नादेयी काकवल्लभा ।
भृङ्गेष्टा काकनीला च ध्वाङ्क्षजम्बूर् धनप्रिया ॥ रज्नि_11.28
काकजम्बूः कषायाम्ला पाके तु मधुरा गुरुः ।
दाहश्रमातिसारघ्नी वीर्यपुष्टिबलप्रदा ॥ रज्नि_11.29
अन्या च भूमिजम्बूर् ह्रस्वफला भृङ्गवल्लभा ह्रस्वा ।
भूजम्बूर् भ्रमरेष्टा पिकभक्षा काष्ठजम्बूश् च ॥ रज्नि_11.30
भूमिजम्बूः कषाया च मधुरा श्लेष्मपित्तनुत् ।
हृद्या संग्राहिहृत्कण्ठदोषघ्नी वीर्यपुष्टिदा ॥ रज्नि_11.31
पनसस् तु महासर्जः फलिनः फलवृक्षकः ।
स्थूलः कण्टफलश् चैव स्यान् मूलफलदः स्मृतः ।
अपुष्पफलदः पूतफलो ह्य् अङ्कमितस् तथा ॥ रज्नि_11.32
पनसं मधुरं सुपिच्छिलं गुरु हृद्यं बलवीर्यवृद्धिदम् ।
श्रमदाहविशोषनाशनं रुचिकृद् ग्राहि च दुर्जरं परम् ॥ रज्नि_11.33
ईषत् कषायं मधुरं तद्बीजं वातलं गुरु ।
तत्फलस्य विकारघ्नं रुच्यं त्वग्दोषनाशनम् ॥ रज्नि_11.34
बालं तु नीरसं हृद्यं मध्यपक्वं तु दीपनम् ।
रुचिदं लवणाद्य् उक्तं पनसस्य फलं स्मृतम् ॥ रज्नि_11.35
कदली सुफला रम्भा सुकुमारा सकृत्फला ।
मोचा गुच्छफला हस्तिविषाणी गुच्छदन्तिका ॥ रज्नि_11.36
काष्ठीरसा च निःसारा राजेष्टा बालकप्रिया ।
ऊरुस्तम्भा भानुफला वनलक्ष्मीश् च षोडश ॥ रज्नि_11.37
बालं फलं मधुरम् अल्पतया कषायं पित्तापहं शिशिररुच्यम् अथापि नालम् ।
पुष्पं तद् अप्य् अनुगुणं क्रिमिहारि कन्दं पर्णं च शूलशमकं कदलीभवं स्यात् ॥ रज्नि_11.38
रम्भापक्वफलं कषायमधुरं बल्यं च शीतं तथा पित्तं चास्रविमर्दनं गुरुतरं पथ्यं न मन्दानले ।
सद्यः शुक्रविवृद्धिदं क्लमहरं तृष्णापहं कान्तिदं दीप्ताग्नौ सुखदं कफामयकरं सन्तर्पणं दुर्जरम् ॥ रज्नि_11.39
काष्ठकदली सुकाष्ठा वनकदली काष्ठिका शिलारम्भा ।
दारुकदली फलाढ्या वनमोचा चाश्मकदली च ॥ रज्नि_11.40
स्यात् काष्ठकदली रुच्या रक्तपित्तहरा हिमा ।
गुरुर् मन्दाग्निजननी दुर्जरा मधुरा परा ॥ रज्नि_11.41
गिरिकदली गिरिरम्भा पर्वतमोचाप्य् अरण्यकदली च ।
बहुबीजा वनरम्भा गिरिजा गजवल्लभाभिहिता ॥ रज्नि_11.42
गिरिकदली मधुरहिमा बलवीर्यविवृद्धिदायिनी रुच्या ।
तृट्पित्तदाहशोषप्रशमनकर्त्री च दुर्जरा च गुरुः ॥ रज्नि_11.43
अन्या सुवर्णकदली सुवर्णरम्भा च कनकरम्भा च ।
पीता सुवर्णमोचा चम्पकरम्भा सुरम्भिका सुभगा ॥ रज्नि_11.44
हेमफला स्वर्णफला कनकस्तम्भा च पीतरम्भा च ।
गौरा च गौररम्भा काञ्चनकदली सुरप्रिया षड्भूः ॥ रज्नि_11.45
सुवर्णमोचा मधुरा हिमा च स्वल्पाशने दीपनकारिणी च ।
तृष्णापहा दाहविमोचनी च कफावहा वृष्यकरी गुरुश् च ॥ रज्नि_11.46
नारिकेलो रसफलः सुतुङ्गः कूर्चशेखरः ।
दृढनीलो नीलतरुर् मङ्गल्योच्चतरुस् तथा ॥ रज्नि_11.47
तृणराजः स्कन्धतरुर् दाक्षिणात्यो दुरारुहः ।
लाङ्गली त्र्यम्बकफलस् तथा दृढफलस्थितिः ॥ रज्नि_11.48
नारिकेलो गुरुः स्निग्धः शीतः पित्तविनाशनः ।
अर्द्धपक्वस् तृषाशोषशमनो दुर्जरः परः ॥ रज्नि_11.49
नारिकेलसलिलं लघु बल्यं शीतलं च मधुरं गुरु पाके पित्तपीनसतृषाश्रमदाहशान्ति शोषशमनं सुखदायि ।
पक्वम् एतद् अपि किंचिद् इहोक्तं पित्तकारि रुचिदं मधुरं च दीपनं बलकरं गुरु वृष्यं वीर्यवर्धनम् इदं तु वदन्ति ॥ रज्नि_11.50
खुबरं नारिकेलस्य स्निग्धं गुरु च दुर्जरम् ।
दाहविष्टम्भदं रुच्यं बलवीर्यविवर्धनम् ॥ रज्नि_11.51
मधुनारिकेलको ऽन्यो माध्वीकफलश् च मधुफलो ऽसितजफलः ।
माक्षिकफलो मृदुफलो बहुकूर्चो ह्रस्वफलश् च वसुगणिताह्वः ॥ रज्नि_11.52
मधुरं मधुनारिकेलम् उक्तं शिशिरं दाहतृषार्तिपित्तहारि ।
बलपुष्टिकरं च कान्तिम् अग्र्यं कुरुते वीर्यविवर्धनं च रुच्यम् ॥ रज्नि_11.53
माध्वीकं नारिकेलं फलम् अतिमधुरं दुर्जरं जन्तुकारि स्निग्धं वातातिसारश्रमशमनम् अथ ध्वंसनं वह्निदीप्तेः ।
आमश्लेष्मप्रकोपं जनयति कुरुते चारुकान्तिं बलं च स्थैर्यं देहस्य धत्ते घनमदनकलावर्धनं पित्तनाशम् ॥ रज्नि_11.54
खर्जूरी तु खरस्कन्धा दुष्प्रधर्षां दुरारुहा ।
निःश्रेणी च कषाया च यवनेष्टा हरिप्रिया ॥ रज्नि_11.55
खर्जूरी तु कषाया च पक्वा गौल्यकषायका ।
पित्तघ्नी कफदा चैव क्रिमिकृद् वृष्यबृंहणी ॥ रज्नि_11.56
मधुखर्जूरी त्व् अन्या मधुकर्कटिका च कोलकर्कटिका ।
कण्टकिनी मधुफलिका माध्वी मधुरा च मधुरखर्जूरी ॥ रज्नि_11.57
मधुखर्जूरी मधुरा वृष्या संतापपित्तशान्तिकरी ।
शिशिरा च जन्तुकरी बहुवीर्यविवर्धनं तनुते ॥ रज्नि_11.58
भूखर्जूरी भुक्ता वसुधाखर्जूरिका च भूमिखर्जूरी ।
भूखर्जूरी मधुरा शिशिरा च विदाहपित्तहरा ॥ रज्नि_11.59
दीप्या च पिण्डखर्जूरी स्थलपिण्डा मधुस्रवा ।
फलपुष्पा स्वादुपिण्डा हयभक्ष्या स्वराभिधा ॥ रज्नि_11.60
तथान्या राजखर्जूरी राजपिण्डा नृपप्रिया ।
मुनिखर्जूरिका वन्या राजेष्टा रिपुसम्मिता ॥ रज्नि_11.61
पिण्डखर्जूरिकायुग्मं गौल्यं स्वादे हिमं गुरु ।
पित्तदाहार्त्तिश्वासघ्नं श्रमहृद् वीर्यवृद्धिदम् ॥ रज्नि_11.62
दाहघ्नी मधुरास्रपित्तशमनी तृष्णार्तिदोषापहा शीता श्वासकफश्रमोदयहरा सन्तर्पणी पुष्टिदा ।
वह्नेर् मान्द्यकरी गुरुर् विषहरा हृद्या च दत्ते बलं स्निग्धा वीर्यविवर्धनी च कथिता पिण्डाख्यखर्जूरिका ॥ रज्नि_11.63
चारः खद्रुः खरस्कन्धो ललनश् चारकस् तथा ।
बहुवल्कः प्रियालश् च नवद्रुस् तापसप्रियः ।
स्नेहबीजश् चोपवटो भक्षबीजः करेन्दुधा ॥ रज्नि_11.64
चारस्य च फलं पक्वं वृष्यं गौल्याम्लकं गुरु ।
तद्बीजं मधुरं वृष्यं पित्तदाहार्तिनाशनम् ॥ रज्नि_11.65
भल्लातको ऽग्निर् दहनस् तपनो ऽरुष्करो ऽनलः ।
क्रिमिघ्नस् तैलबीजश् च वातारिः स्फोटबीजकः ॥ रज्नि_11.66
पृथग्बीजो धनुर्बीजो भल्लातो बीजपादपः ।
वह्निर् वरतरुश् चेति विज्ञेयः षोडशाह्वयः ॥ रज्नि_11.67
भल्लातकः कटुस् तिक्तः कषायोष्णः क्रिमीञ् जयेत् ।
कफवातोदरानाहमेहदुर्नामनाशनः ॥ रज्नि_11.68
भल्लातस्य फलं कषायमधुरं कोष्णं कफार्तिश्रमश्वासानाहविबन्धशूलजठराध्मानक्रिमिध्वंसनम् ।
तन्मज्जा च विशोषदाहशमनी पित्तापहा तर्पणी वातारोचकहारिदीप्तिजननी पित्तापहा त्व् अञ्जसा ॥ रज्नि_11.69
राजादनो राजफलः क्षीरवृक्षो नृपद्रुमः ।
निम्बबीजो मधुफलः कपीष्टो माधवोद्भवः ॥ रज्नि_11.70
क्षीरी गुच्छफलः प्रोक्तः शुकेष्टो राजवल्लभः ।
श्रीफलो ऽथ दृढस्कन्धः क्षीरशुक्लस् त्रिपञ्चधा ॥ रज्नि_11.71
राजादनी तु मधुरा पित्तहृद् गुरुतर्पणी ।
वृष्या स्थौल्यकरी हृद्या सुस्निग्धा मेहनाशकृत् ॥ रज्नि_11.72
दाडिमो दाडिमीसारः कुट्टिमः फलषाडवः ।
करको रक्तबीजश् च सुफलो दन्तबीजकः ॥ रज्नि_11.73
मधुबीजः कुचफलो रोचनः शुकवल्लभः ।
मणिबीजस् तथा वल्कफलो वृत्तफलश् च सः ।
सुनीलो नीलपत्रश् च ज्ञेयः सप्तदशाह्वयः ॥ रज्नि_11.74
दाडिमं मधुरम् अम्लकषायं कासवातकफपित्तविनाशि ।
ग्राहि दीपनकरं च लघूष्णं शीतलं श्रमहरं रुचिदायि ॥ रज्नि_11.75
दाडिमं द्विविधम् ईरितम् आर्यैर् अम्लम् एकम् अपरं मधुरं च ।
तत्र वातकफहारि किलाम्लं तापहारि मधुरं लघु पथ्यम् ॥ रज्नि_11.76
तिन्दुको नीलसारश् च कालस्कन्धो ऽतिमुक्तकः ।
स्फूर्जको रामणश् चैव स्फूर्जनः स्यन्दनाह्वयः ॥ रज्नि_11.77
तिन्दुकस् तु कषायः स्यात् संग्राही वातकृत् परः ।
पक्वस् तु मधुरः स्निग्धो दुर्जरः श्लेष्मलो गुरुः ॥ रज्नि_11.78
तिन्दुको ऽन्यः काकपीलुः काकाण्डः काकतिन्दुकः ।
काकस्फूर्जश् च काकेन्दुः काकाह्वः काकबीजकः ॥ रज्नि_11.79
काकतिन्दुः कषायो ऽम्लो गुरुर् वातविकारकृत् ।
पक्वस् तु मधुरः किंचित् कफकृत् पित्तवान्तिहृत् ॥ रज्नि_11.80
अक्षोटः पार्वतीयश् च फलस्नेहो गुडाशयः ।
कीरेष्टः कन्दरालश् च मधुमज्जा बृहच्छदः ॥ रज्नि_11.81
अक्षोटो मधुरो बल्यः स्निग्धोष्णो वातपित्तजित् ।
रक्तदोषप्रशमनः शीतलः कफकोपनः ॥ रज्नि_11.82
पीतुः शीतः सहस्रांशी धानी गुडफलस् तथा ।
विरेचनफलः शाखी श्यामः करभवल्लभः ॥ रज्नि_11.83
अङ्काह्वः कटुकः पीलुः कषायो मधुराम्लकः ।
सरः स्वादुश् च गुल्मार्शःशमनो दीपनः परः ॥ रज्नि_11.84
अन्यश् चैव बृहत्पीलुर् महापीलुर् महाफलः ।
राजपीलुर् महावृक्षो मधुपीलुः षडाह्वयः ॥ रज्नि_11.85
मधुरस् तु महापीलुर् वृष्यो विषविनाशनः ।
पित्तप्रशमनो रुच्य आमघ्नो दीपनीयकः ॥ रज्नि_11.86
पारेवतं तु रैवतम् आरेवतकं च किंच रैवतकम् ।
मधुफलम् अमृतफलाख्यं पारेवतकं च सप्ताह्वम् ॥ रज्नि_11.87
पारेवतं तु मधुरं क्रिमिवातहारि वृष्यं तृषाज्वरविदाहहरं च हृद्यम् ।
मूर्छाभ्रमश्रमविशोषविनाशकारि स्निग्धं च रुच्यम् उदितं बहुवीर्यदायि ॥ रज्नि_11.88
महापारेवतं चान्यत् स्वर्णपारेवतं तथा ।
साम्राणिजं खारिकं च रक्तरैवतकं च तत् ।
बृहत्पारेवतं प्रोक्तं द्वीपजं द्वीपखर्जूरी ॥ रज्नि_11.89
महापारेवतं गौल्यं बलकृत् पुष्टिवर्धनम् ।
वृष्यं मूर्छाज्वरघ्नं च पूर्वोक्ताद् अधिकं गुणैः ॥ रज्नि_11.90
मधूको मधुवृक्षः स्यात् मधुष्ठीलो मधुस्रवः ।
गुडपुष्पो लोध्रपुष्पो वानप्रस्थश् च माधवः ॥ रज्नि_11.91
मधुकं मधुरं शीतं पित्तदाहश्रमापहम् ।
वातलं जन्तुदोषघ्नं वीर्यपुष्टिविवर्धनम् ॥ रज्नि_11.92
अन्यो जलमधूको मङ्गल्यो दीर्घपत्रको मधुपुष्पः ।
क्षौद्रप्रियः पतङ्गः कीरेष्टो गैरिकाक्षश् च ॥ रज्नि_11.93
ज्ञेयो जलमधूकस् तु मधुरो व्रणनाशनः ।
वृष्यो वान्तिहरः शीतो बलकारी रसायनः ॥ रज्नि_11.94
मधूकपुष्पं मधुरं च वृष्यं हृद्यं हिमं पित्तविदाहहारि ।
फलं च वातामयपित्तनाशि ज्ञेयं मधूकद्वयम् एवम् एतत् ॥ रज्नि_11.95
भव्यं भवं भविष्यं च भावनं वक्त्रशोधनम् ।
तथा पिच्छलबीजं च तच् च लोमफलं मतम् ॥ रज्नि_11.96
भव्यम् अम्लं कटूष्णं च बालं वातकफापहम् ।
पक्वं तु मधुराम्लं च रुचिकृत् सामशूलहृत् ॥ रज्नि_11.97
आरुकं वीरसेनं च वीरं वीरारुकं तथा ।
तत्र विद्याच् चतुर्जातीः पत्रपुष्पादिभेदतः ॥ रज्नि_11.98
आरुकाणि च सर्वाणि मधुराणि हिमानि च ।
अर्शःप्रमेहगुल्मास्रदोषविध्वंसनानि च ॥ रज्नि_11.99
द्राक्षा चारुफला कृष्णा प्रियाला तापसप्रिया ।
गुच्छफला रसाला च ज्ञेयामृतफला च सा ॥ रज्नि_11.100
द्राक्षातिमधुराम्ला च शीता पित्तार्तिदाहजित् ।
मूत्रदोषहरा रुच्या वृष्या संतर्पणी परा ॥ रज्नि_11.101
अन्या कपिलद्राक्षा मृद्वीका गोस्तनी च कपिलफला ।
अमृतरसा दीर्घफला मधुवल्ली मधुफला मधूली च ॥ रज्नि_11.102
हरिता च हारहूरा सुफला मृद्वी हिमोत्तरापथिका ।
हैमवती शतवीर्या काश्मीरी गजराजमहिगणिता ॥ रज्नि_11.103
गोस्तनी मधुरा शीता हृद्या च मदहर्षणी ।
दाहमूर्छाज्वरश्वासतृषाहृल्लासनाशिनी ॥ रज्नि_11.104
अन्या सा काकलीद्राक्षा जम्बुका च फलोत्तमा ।
लघुद्राक्षा च निर्बीजा सुवृत्ता रुचिकारिणी ।
शिशिरा श्वासहृल्लासनाशिनी जनवल्लभा ॥ रज्नि_11.105
द्राक्षाबालफलं कटूष्णविशदं पित्तास्रदोषप्रदं मध्यं चाम्लरसं रसान्तरगते रुच्यातिवह्निप्रदम् ।
पक्वं चेन् मधुरं तथाम्लसहितं तृष्णास्रपित्तापहं पक्वं शुष्कतमं श्रमार्तिशमनं सन्तर्पणं पुष्टिदम् ॥ रज्नि_11.106
शीता पित्तास्रदोषं दमयति मधुरा स्निग्धपाकातिरुच्या चक्षुष्या श्वासकासश्रमवमिशमनी शोफतृष्णाज्वरघ्नी ।
दाहाध्मानभ्रमादीन् अपनयति परा तर्पणी पक्वशुष्का द्राक्षा सुक्षीणवीर्यान् अपि मदनकलाकेलिदक्षान् विधत्ते ॥ रज्नि_11.107
कर्मारः कर्मरकः पीतफलः कर्मरश् च मुद्गरकः ।
मुद्गरफलश् च धाराफलकस् तु कर्मारकश् चैव ॥ रज्नि_11.108
कर्मारको ऽम्ल उष्णश् च वातहृत् पित्तकारकः ।
पक्वस् तु मधुराम्लः स्याद् बलपुष्टिरुचिप्रदः ॥ रज्नि_11.109
परूषकं तीलपर्णं गिरिपीलु परावरम् ।
नीलमण्डलम् अल्पास्थि परुषं च परुस् तथा ॥ रज्नि_11.110
परूषम् अम्लं कटुकं कफार्तिजिद् वातापहं तत्फलम् एव पित्तदम् ।
सोष्णं च पक्वं मधुरं रुचिप्रदं पित्तापहं शोफहरं च पीतम् ॥ रज्नि_11.111
अश्वत्थश् चाच्युतावासश् चलपत्रः पवित्रकः ।
शुभदो बोधिवृक्षश् च याज्ञिको गजभक्षकः ॥ रज्नि_11.112
श्रीमान् क्षीरद्रुमो विप्रो मङ्गल्यः श्यामलश् च सः ।
पिप्पलो गुह्यपुष्पश् च सेव्यः सत्यः शुचिद्रुमः ।
चैत्यद्रुमो धर्मवृक्षो ज्ञेयो विंशतिसंज्ञकः ॥ रज्नि_11.113
पिप्पलः सुमधुरस् तु कषायः शीतलश् च कफपित्तविनाशी ।
रक्तदाहशमनः स हि सद्यो योनिदोषहरणः किल पक्वः ॥ रज्नि_11.114
अश्वत्थवृक्षस्य फलानि पक्वान्य् अतीवहृद्यानि च शीतलानि ।
कुर्वन्ति पित्तास्रविषार्तिदाहविच्छर्दिशोषारुचिदोषनाशम् ॥ रज्नि_11.115
स्याद् अथ वटो जटालो न्यग्रोधो रोहिणो ऽवरोही च ।
विटपी रक्तफलश् च स्कन्धरुहो मण्डली महाच्छायः ॥ रज्नि_11.116
शृङ्गी यक्षावासो यक्षतरुः पादरोहिणो नीलः ।
क्षीरी शिफारुहः स्याद् बहुपादः स तु वनस्पतिर् नवभूः ॥ रज्नि_11.117
वटः कषायो मधुरः शिशिरः कफपित्तजित् ।
ज्वरदाहतृषामोहव्रणशोफापहारकः ॥ रज्नि_11.118
नदीवटो यज्ञवृक्षः सिद्धार्थो वटको वटी ।
अमरा सङ्गिनी चैव क्षीरकाष्ठा च कीर्तिता ॥ रज्नि_11.119
वटी कषायमधुरा शिशिरा पित्तहारिणी ।
दाहतृष्णाश्रमश्वासविच्छर्दिशमनी परा ॥ रज्नि_11.120
अश्वत्थी लघुपत्री स्यात् पवित्रा ह्रस्वपत्रिका ।
पिप्पलिका वनस्था च क्षुद्रा चाश्वत्थसंनिभा ॥ रज्नि_11.121
अश्वत्थिका तु मधुरा कषाया चास्रपित्तजित् ।
विषदाहप्रशमनी गुर्विण्या हितकारिणी ॥ रज्नि_11.122
प्लक्षः कपीतनः क्षीरी सुपार्श्वो ऽथ कमण्डलुः ।
शृङ्गी वरोहशाखी च गर्दभाण्डः कपीतकः ।
दृढप्ररोहः प्लवकः प्लवङ्गश् च महाबलः ॥ रज्नि_11.123
प्लक्षश् चैवापरो ह्रस्वः सुशीतः शीतवीर्यकः ।
पुण्ड्रो महावरोहश् च ह्रस्वपर्णस् तु पिम्परिः ।
भिदुरो मङ्गलच्छायो ज्ञेयो द्वाविंशधाभिधः ॥ रज्नि_11.124
प्लक्षः कटुकषायश् च शिशिरो रक्तदोषजित् ।
मूर्छाभ्रमप्रलापघ्नो ह्रस्वप्लक्षो विशेषतः ॥ रज्नि_11.125
उदुम्बरः क्षीरवृक्षो हेमदुग्धः सदाफलः ।
कालस्कन्धो यज्ञयोग्यो यज्ञीयः सुप्रतिष्ठितः ॥ रज्नि_11.126
शीतवल्को जन्तुफलः पुष्पशून्यः पवित्रकः ।
सौम्यः शीतफलश् चेति मनुसंज्ञः समीरितः ॥ रज्नि_11.127
उदुम्बरं कषायं स्यात् पक्वं तु मधुरं हिमम् ।
कृमिकृत् पित्तरक्तघ्नं मूर्छादाहतृषापहम् ॥ रज्नि_11.128
औदुम्बरं फलम् अतीव हिमं सुपक्वं पित्तापहं च मधुरं श्रमशोफहारि ।
आमं कषायम् अतिदीपनरोचनं च मांसस्य वृद्धिकरम् अस्रविकारकारि ॥ रज्नि_11.129
नद्युदुम्बरिका चान्या लघुपत्रफला तथा ।
प्रोक्ता लघुहेमदुग्धा लघुपूर्वसदाफला ॥ रज्नि_11.130
लघ्वाद्युम्बराह्वा स्याद् बाणाह्वा च प्रकीर्तिता ।
रसवीर्यविपाकेषु किंचिन् न्यूना च पूर्वतः ॥ रज्नि_11.131
कृष्णोदुम्बरिका चान्या खरपत्री च राजिका ।
उदुम्बरी च कठिना कुष्ठघ्नी फल्गुवाटिका ॥ रज्नि_11.132
अजाक्षी फल्गुनी चैव मलपूश् चित्रभेषजा ।
काकोदुम्बरिका चैव ध्वाङ्क्षनाम्नी त्रयोदश ॥ रज्नि_11.133
काकोदुम्बरिका शीता पक्वा गौल्याम्लिका कटुः ।
त्वग्दोषपित्तरक्तघ्नी तद्वल्कं चातिसरजित् ॥ रज्नि_11.134
उदुम्बरत्वचा शीता कषाया व्रणनाशिनी ।
गुर्विणीगर्भसंरक्षे हिता स्तन्यप्रदायिनी ॥ रज्नि_11.135
बदरो बदरी कोली कर्कन्धूः कोलफेनिलौ ।
सौवीरको गुडफलो बालेष्टः फलशैशिरः ॥ रज्नि_11.136
दृढबीजो वृत्तफलः कण्टकी वक्रकण्टकः ।
सुबीजः सुफलः स्वच्छः सुरसः स्मृतिसम्मितः ॥ रज्नि_11.137
बदरं मधुरं कषायम् अम्लं परिपक्वं मधुराम्लम् उष्णम् एतत् ।
कफकृत् पचनातिसाररक्तश्रमशोषार्तिविनाशनं च रुच्यम् ॥ रज्नि_11.138
बदरस्य पत्रलेपो ज्वरदाहविनाशनः ।
त्वचा विस्फोटशमनी बीजं नेत्रामयापहम् ॥ रज्नि_11.139
राजबदरो नृपेष्टो नृपबदरो राजवल्लभश् चैव ।
पृथुकोलस् तनुबीजो मधुरफलो राजकोलश् च ॥ रज्नि_11.140
राजबदरः सुमधुरः शिशिरो दाहार्तिपित्तवातहरः ।
वृष्यश् च वीर्यवृद्धिं कुरुते शोषश्रमं हरति ॥ रज्नि_11.141
भूबदरी क्षितिबदरी वल्लीबदरी च बदरिवल्ली च ।
बहुफलिका लघुबदरी बदरफली सूक्ष्मबदरी च ॥ रज्नि_11.142
भूबदरी मधुराम्ला कफवातविकारहारिणी पथ्या ।
दीपनपाचनकर्त्री किंचित् पित्तास्रकारिणी रुच्या ॥ रज्नि_11.143
सूक्ष्मफलो लघुबदरो बहुकण्टः सूक्ष्मपत्रको दुःस्पर्शः ।
मधुरः शम्बराहारः शिखिप्रियश् चैव निर्दिष्टः ॥ रज्नि_11.144
लघुबदरं मधुराम्लं पक्वं कफवातनाशनं रुच्यम् ।
स्निग्धं तु जन्तुकारकम् ईषत् पित्तार्तिदाहशोषघ्नम् ॥ रज्नि_11.145
बीजपूरो बीजपूर्णं पूर्णबीजः सुकेसरः ।
बीजकः केशराम्लश् च मातुलुङ्गः सुपूरकः ॥ रज्नि_11.146
रुचको बीजफलको जन्तुघ्नो दन्तुरत्वचः ।
पूरको रोचनफलो द्विदेवमुनिसम्मितः ॥ रज्नि_11.147
बीजपूरफलम् अम्लकटूष्णं श्वासकासशमनं पचनं च ।
कण्ठशोधनपरं लघु हृद्यं दीपनं च रुचिकृज् जरणं च ॥ रज्नि_11.148
बालं पित्तमरुत्कफास्रकरणं मध्यं च तादृग्विधं पक्वं वर्णकरं च हृद्यम् अथ तत् पुष्णाति पुष्टिं बलम् ।
शूलाजीर्णविबन्धमारुतकफश्वासार्तिमन्दाग्निजित् कासारोचकशोफशान्तिदम् इदं स्यान् मातुलुङ्गं सदा ॥ रज्नि_11.149
त्वक् तिक्ता दुर्जरा स्यात् कृमिकफपवनध्वंसिनी स्निग्धम् उष्णं मध्यं शूलार्तिपित्तप्रशमनम् अखिलारोचकघ्नं च गौल्यम् ।
वातार्तिघ्नं कटूष्णं जठरगदहरं केसरं दीप्यम् अम्लं बीजं तिक्तं कफार्शःश्वयथुशमकरं बीजपूरस्य पथ्यम् ॥ रज्नि_11.150
वनबीजपूरको ऽन्यो वनजो वनपूरकश् च वनबीजः ।
अत्यम्ला गन्धाढ्या वनोद्भवा देवदूती च ॥ रज्नि_11.151
पीता च देवदासी देवेष्टा मातुलुङ्गिका चैव ।
पवनी महाफला च स्याद् इयम् इति वेदभूमिमिता ॥ रज्नि_11.152
अम्लः कटूष्णो वनबीजपूरो रुचिप्रदो वातविनाशनश् च ।
स्याद् अम्लदोषकृमिनाशकारी कफापहः श्वासनिषूदनश् च ॥ रज्नि_11.153
मधुरबीजपूरो मधुपर्णी मधुरकर्कटी मधुवल्ली ।
मधुकर्कटी मधुरफला महाफला वर्धमाना च ॥ रज्नि_11.154
मधुकर्कटी मधुरा शिशिरा दाहनाशनी ।
त्रिदोषशमनी रुच्या वृष्या च गुरुदुर्जरा ॥ रज्नि_11.155
आमलकी वयःस्था च श्रीफला धात्रिका तथा ।
अमृता च शिवा शान्ता शीतामृतफला तथा ॥ रज्नि_11.156
जातीफला च धात्रेयी ज्ञेया धात्रीफला तथा ।
वृष्या वृत्तफला चैव रोचनी शरभूह्वया ॥ रज्नि_11.157
आमलकं कषायाम्लं मधुरं शिशिरं लघु ।
दाहपित्तवमीमेहशोफघ्नं च रसायनम् ॥ रज्नि_11.158
कटु मधुरकषायं किंचिद् अम्लं कफघ्नं रुचिकरम् अतिशीतं हन्ति पित्तास्रतापम् ।
श्रमवमनविबन्धाध्मानविष्टम्भदोषप्रशमनम् अमृताभं चामलक्याः फलं स्यात् ॥ रज्नि_11.159
अन्यच् चामलकं प्रोक्तं काष्ठधात्रीफलं तथा ।
क्षुद्रामलकसंप्रोक्तं क्षुद्रजातीफलं च तत् ॥ रज्नि_11.160
काष्ठधात्रीफलं स्वादे कषायं कटुकं तथा ।
शीतं पित्तास्रदोषघ्नं पूर्वोक्तम् अधिकं गुणैः ॥ रज्नि_11.161
चिञ्चा तु चुक्रिका चुक्रा साम्लिका शाकचुक्रिका ।
अम्ली सुतिन्तिडी चाम्ला चुक्रिका च नवाभिधा ॥ रज्नि_11.162
चिञ्चात्यम्ला भवेद् आमा पक्वा तु मधुराम्लिका ।
वातघ्नी पित्तदाहास्रकफदोषप्रकोपणी ॥ रज्नि_11.163
अम्लिकायाः फलं त्व् आमम् अत्यम्लं लघु पित्तकृत् ।
पक्वं तु मधुराम्लं स्याद् भेदि विष्टम्भवातजित् ॥ रज्नि_11.164
पक्वचिञ्चाफलरसो मधुराम्लो रुचिप्रदः ।
शोफपाककरो लेपाद् व्रणदोषविनाशनः ॥ रज्नि_11.165
चिञ्चापत्रं च शोफघ्नं रक्तदोषव्यथापहम् ।
तस्याः शुष्कत्वचाक्षारं शूलमन्दाग्निनाशनम् ॥ रज्नि_11.166
अम्लसारस् तु शाकाम्लं चुक्राम्लं चाम्लचुक्रिका ।
चिञ्चाम्लम् अम्लचूडश् च चिञ्चारसो ऽपि सप्तधा ॥ रज्नि_11.167
अम्लसारस् त्व् अतीवाम्लो वातघ्नः कफदाहकृत् ।
साम्येन शर्करामिश्रो दाहपित्तकफार्त्तिनुत् ॥ रज्नि_11.168
आम्रातकः पीतनकः कपिचूतो ऽम्लवाटकः ।
शृङ्गी कपिरसाढ्यश् च तनुक्षीरः कपिप्रियः ॥ रज्नि_11.169
आम्रातकं कषायाम्लम् आमहृत् कण्ठहर्षणम् ।
पक्वं तु मधुराम्लाढ्यं स्निग्धं पित्तकफापहम् ॥ रज्नि_11.170
नारङ्गः स्यान् नागरङ्गः सुरङ्गस् त्वग्गन्धश् चैरावतो वक्त्रवासः ।
योगीरङ्गो नागरो योगरङ्गः गन्धाढ्यो ऽयं गन्धपत्रो रवीष्टः ॥ रज्नि_11.171
नारङ्गं मधुरं चाम्लं गुरूष्णं चैव रोचनम् ।
वातामक्रिमिशूलघ्नं श्रमहृद् बलरुच्यदम् ॥ रज्नि_11.172
निम्बूकः स्याद् अम्लजम्बीरकाख्यो वह्निर् दीप्यो वह्निबीजो ऽम्लसारः ।
दन्ताघातः शोधनो जन्तुमारी निम्बूश् च स्याद् रोचनो रुद्रसंज्ञः ॥ रज्नि_11.173
निम्बूफलं प्रथितम् अम्लरसं कटूष्णं गुल्मामवातहरम् अग्निविवृद्धिकारि ।
चक्षुष्यम् एतद् अथ कासकफार्त्तिकण्ठविच्छर्दिहारि परिपक्वम् अतीव रुच्यम् ॥ रज्नि_11.174
जम्बीरो दन्तशठो जम्भो जम्भीरजम्भलौ चैव ।
रोचनको मुखशोधी जाड्यारिर् जन्तुजिन् नवधा ॥ रज्नि_11.175
जम्बीरस्य फलं रसे ऽम्लमधुरं वातापहं पित्तकृत् पथ्यं पाचनरोचनं बलकरं वह्नेर् विवृद्धिप्रदम् ।
पक्वं चेन् मधुरं कफार्त्तिशमनं पित्तास्रदोषापनुत् वर्ण्यं वीर्यविवर्द्धनं च रुचिकृत् पुष्टिप्रदं तर्पणम् ॥ रज्नि_11.176
अन्यो मधुजम्बीरो मधुजम्भो मधुरजम्भलश् चैव ।
शङ्खद्रावी शर्करकः पित्तद्रावी च षट्संज्ञः ॥ रज्नि_11.177
मधुरो मधुजम्बीरः शिशिरः कफपित्तनुत् ।
शोषघ्नस् तर्पणो वृष्यः श्रमघ्नः पुष्टिकारकः ॥ रज्नि_11.178
मालूरस् तु कपित्थो मङ्गल्यो नीलमल्लिका च दधि ।
ग्राहिफलश् चिरपाकी ग्रन्थिफलः कुचफलो दधिफलश् च ॥ रज्नि_11.179
गन्धफलश् च कपीष्टो वृत्तफलः करभवल्लभश् चैव ।
दन्तशठः कठिनफलः करण्डफलकश् च सप्तदशसंज्ञः ॥ रज्नि_11.180
कपित्थो मधुराम्लश् च कषायस् तिक्तशीतलः ।
वृष्यः पित्तानिलं हन्ति संग्राही व्रणनाशनः ॥ रज्नि_11.181
आमं कपित्थम् अम्लोष्णां कफघ्नं ग्राहि वातलम् ।
दोषत्रयहरं पक्वं मधुराम्लरसं गुरु ॥ रज्नि_11.182
आमं कण्ठरुजं कपित्थम् अधिकं जिह्वाजडत्वावहं तद् दोषत्रयवर्धनं विषहरं संग्राहकं रोचकम् ।
पक्वं श्वासवमिश्रमक्लमहरं हिक्कापनोदक्षमं सर्वं ग्राहि रुचिप्रदं च कथितं सेव्यं ततः सर्वदा ॥ रज्नि_11.183
तुम्बरुः सौरभः सौरो वनजः सानुजो द्विजः ।
तीक्ष्णवल्कस् तीक्ष्णफलस् तीक्ष्णपत्रो महामुनिः ।
स्फुटफलः सुगन्धिश् च स प्रोक्तो द्वादशाह्वयः ॥ रज्नि_11.184
तुम्बरुर् मधुरस् तिक्तः कटूष्णः कफवातनुत् ।
शूलगुल्मोदराध्मानकृमिघ्नो वह्निदीपनः ॥ रज्नि_11.185
रुद्राक्षश् च शिवाक्षश् च शर्वाक्षो भूतनाशनः ।
पावनो नीलकण्ठाक्षो हराक्षश् च शिवप्रियः ॥ रज्नि_11.186
रुद्राक्षम् अम्लम् उष्णं च वातघ्नं कफनाशनम् ।
शिरआर्तिशमनं रुच्यं भूतग्रहविनाशनम् ॥ रज्नि_11.187
बिल्वः शल्यो हृद्यगन्धः शलाटुः शाण्डिल्यः स्याच् छ्रीफलः कर्कटाह्वः ।
शैलूषः स्याच् छैवपत्रः शिवेष्टः पत्रश्रेष्ठो गन्धपत्रस् त्रिपत्त्रः ॥ रज्नि_11.188
लक्ष्मीफलो गन्धफलो दुरारुहस् त्रिशाकपत्त्रस् त्रिशिखः शिवद्रुमः ।
सदाफलः सत्फलदः सुभूतिकः समीरसारः शिखिनेत्रसंज्ञितः ॥ रज्नि_11.189
बिल्वस् तु मधुरो हृद्यः कषायः पित्तजित् गुरुः ।
कफज्वरातिसारघ्नो रुचिकृद् दीपनः परः ॥ रज्नि_11.190
बिल्वमूलं त्रिदोषघ्नं मधुरं लघु वातनुत् ।
फलं तु कोमलं स्निग्धं गुरु संग्राहि दीपनम् ॥ रज्नि_11.191
तद् एव पक्वं विज्ञेयं मधुरं सरसं गुरु ।
कटुतिक्तकषायोष्णं संग्राहि च त्रिदोषजित् ॥ रज्नि_11.192
सल्लकः सल्लकी सल्ली सुगन्धा सुरभिस्रवा ।
सुरभिर् गजभक्ष्या च सुवहा गजवल्लभा ॥ रज्नि_11.193
गन्धमूला मुखामोदा सुश्रीका जलविक्रमा ।
हृद्या कुण्टरिका चैव प्रोक्ता त्र्यस्रफला च सा ।
छिन्नरुहा गन्धफला ज्ञेया चाष्टादशाह्वया ॥ रज्नि_11.194
सल्लकी तिक्तमधुरा कषाया ग्राहिणी परा ।
कुष्ठास्रकफवातार्शोव्रणदोषार्तिनाशिनी ॥ रज्नि_11.195
कतको ऽम्बुप्रसादश् च कतस् तिक्तफलस् तथा ।
रुच्यस् तु छेदनीयश् च ज्ञेयो गुडफलः स्मृतः ।
प्रोक्तः कतफलस् तिक्तमरीचश् च नवाह्वयः ॥ रज्नि_11.196
कतकः कटुतिक्तोष्णश् चक्षुष्यः कृमिदोषनुत् ।
रुचिकृच् छूलदोषघ्नो बीजम् अम्बुप्रसादनम् ॥ रज्नि_11.197
कर्कटः कार्कटः कर्कः क्षुद्रधात्री च स स्मृतः ।
क्षुद्रामलकसंज्ञश् च प्रोक्तः कर्कफलश् च षट् ॥ रज्नि_11.198
कार्कटं तु फलं रुच्यं कषायं दीपनं परम् ।
कफपित्तहरं ग्राहि चक्षुष्यं लघु शीतलम् ॥ रज्नि_11.199
श्लेष्मातको बहुवारः पिच्छलो द्विजकुत्सितः ।
शेलुः शीतफलः शीतः शाकटः कर्बुदारकः ।
भूतद्रुमो गन्धपुष्पः ख्यात एकादशाह्वयः ॥ रज्नि_11.200
श्लेष्मातकः कटुहिमो मधुरः कषायः स्वादुश् च पाचनकरः क्रिमिशूलहारी ।
आमास्रदोषमलरोधबहुव्रणार्तिविस्फोटशान्तिकरणः कफकारकश् च ॥ रज्नि_11.201
भूकर्बुदारकश् चान्यः क्षुद्रश्लेष्मातकस् तथा ।
भूशेलुर् लघुशेलुश् च पिच्छलो लघुपूर्वकः ।
लघुशीतः सूक्ष्मफलो लघुभूतद्रुमश् च सः ॥ रज्नि_11.202
भूकर्बुदारो मधुरः क्रिमिदोषविनाशनः ।
वातप्रकोपणः किंचित् सशीतः स्वर्णमारकः ॥ रज्नि_11.203
मुष्कको मोचको मुष्को मोक्षको मुञ्चकस् तथा ।
गौलिको मेहनश् चैव क्षारवृक्षश् च पाटलिः ॥ रज्नि_11.204
विषापहो जटालश् च वनवासी सुतीक्ष्णकः ।
श्वेतः कृष्णश् च स द्वेधा स्यात् त्रयोदशसंज्ञकः ॥ रज्नि_11.205
मुष्ककः कटुको ऽम्लश् च रोचनः पाचनः परः ।
प्लीहगुल्मोदरार्तिघ्नो द्विधा तुल्यगुणान्वितः ॥ रज्नि_11.206
करमर्दः सुषेणश् च कराम्लः करमर्दकः ।
अविग्नः पाणिमर्दश् च कृष्णपाकफलो मुनिः ॥ रज्नि_11.207
करमर्दः सतिक्ताम्लो बालो दीपनदाहकः ।
पक्वस् त्रिदोषशमनो ऽरुचिघ्नो विषनाशनः ॥ रज्नि_11.208
तेजःफलो बहुफलस् तथोक्तः शाल्मलीफलः ।
फलस् तीक्ष्णादिसंयुक्तः फलान्तस्तवकादिकः ।
स्तेयीफलो गन्धफलः कण्टवृक्षः प्रकीर्तितः ॥ रज्नि_11.209
तेजःफलः कटुस् तीक्ष्णः सुगन्धिर् दीपनः परः ।
वातश्लेष्मारुचिघ्नश् च बालरक्षाकरः परः ॥ रज्नि_11.210
विकण्टको मृदुफलो ग्रन्थिलः स्वादुकण्टकः ।
गोकण्टकः काकनाशो व्याघ्रपादो घनद्रुमः ॥ रज्नि_11.211
गर्जाफलो घनफलो मेघस्तनितोद्भवश् च मुदिरफलः ।
प्रावृष्यो हास्यफलः स्तनितफलः पञ्चदशसंज्ञः ॥ रज्नि_11.212
विकण्टकः कषायः स्यात् कटू रूक्षो रुचिप्रदः ।
दीपनः कफहारी च वस्त्ररङ्गविधायकः ॥ रज्नि_11.213
हरीतकी हेमवती जयाभया शिवाव्यथा चेतनिका च रोहिणी ।
पथ्या प्रपथ्यापि पूतनामृता जीवप्रिया जीवनिका भिषग्वरा ॥ रज्नि_11.214
जीवन्ती प्राणदा जीव्या कायस्था श्रेयसी च सा ।
देवी दिव्या च विजया वह्निनेत्रमिताभिधा ॥ रज्नि_11.215
हरीतकी पञ्चरसा च रेचनी कोष्ठामयघ्नी लवणेन वर्जिता ।
रसायनी नेत्ररुजापहारिणी त्वगामयघ्नी किल योगवाहिनी ॥ रज्नि_11.216
बीजास्थितिक्ता मधुरा तदन्तस्त्वग्भागतः सा कटुर् उष्णवीर्या ।
मांसांशतश् चाम्लकषाययुक्ता हरीतकी पञ्चरसा स्मृतेयम् ॥ रज्नि_11.217
हरीतक्य् अमृतोत्पन्ना सप्तभेदैर् उदीरिता ।
तस्या नामानि वर्णांश् च वक्ष्याम्य् अथ यथाक्रमम् ॥ रज्नि_11.218
विजया रोहिणी चैव पूतना चामृताभया ।
जीवन्ती चेतकी चेति नाम्ना सप्तविधा मता ॥ रज्नि_11.219
अलाबुनाभिर् विजया सुवृत्ता रोहिणी मता ।
स्वल्पत्वक् पूतना ज्ञेया स्थूलमांसामृता स्मृता ॥ रज्नि_11.220
पञ्चास्रा चाभया ज्ञेया जीवन्ती स्वर्णवर्णभाक् ।
त्र्यस्रां तु चेतकीं विद्याद् इत्य् आसां रूपलक्षणम् ॥ रज्नि_11.221
विन्ध्याद्रौ विजया हिमाचलभवा स्याच् चेतकी पूतना सिन्धौ स्याद् अथ रोहिणी तु विजया जाता प्रतिष्ठानके ।
चम्पायाम् अमृताभया च जनिता देशे सुराष्ट्राह्वये जीवन्तीति हरीतकी निगदिता सप्तप्रभेदा बुधैः ॥ रज्नि_11.222
सर्वप्रयोगे विजया च रोहिणी क्षतेषु लेपेषु तु पूतनोदिता ।
विरेचने स्याद् अमृता गुणाधिका जीवन्तिका स्याद् इह जीर्णरोगजित् ॥ रज्नि_11.223
स्याच् चेतकी सर्वरुजापहारिका नेत्रामयघ्नीम् अभयां वदन्ति ।
इत्थं यथायोगम् इयं प्रयोजिता ज्ञेया गुणाढ्या न कदाचिद् अन्यथा ॥ रज्नि_11.224
चेतकी च धृता हस्ते यावत् तिष्ठति देहिनः ।
तावद् विरिच्यते वेगात् तत्प्रभावान् न संशयः ॥ रज्नि_11.225
सप्तानाम् अपि जातीनां प्रधानं विजया स्मृता ।
सुखप्रयोगसुलभा सर्वव्याधिषु शस्यते ॥ रज्नि_11.226
क्षिप्ताप्सु निमज्जति या सा ज्ञेया गुणवती भिषग्वर्यैः ।
यस्या यस्या भूयो निमज्जनं सा गुणाढ्या स्यात् ॥ रज्नि_11.227
हरते प्रसभं व्याधीन् भूयस् तरति यद् वपुः ।
हरीतकी तु सा प्रोक्ता तत्र कीर्दीप्तिवाचकः ॥ रज्नि_11.228
हरीतकी तु तृष्णायां हनुस्तम्भे गलग्रहे ।
शोषे नवज्वरे जीर्णे गुर्विण्यां नैव शस्यते ॥ रज्नि_11.229
विभीतकस् तैलफलो भूतावासः कलिद्रुमः ।
संवर्तकस् तु वासन्तः कल्किवृक्षो वहेडकः ॥ रज्नि_11.230
हार्यः कर्षफलः कल्किर् धर्मघ्नो ऽक्षो ऽनिलघ्नकः ।
बहुवीर्यश् च कासघ्नः स प्रोक्तः षोडशाह्वयः ॥ रज्नि_11.231
विभीतकः कटुस् तिक्तः कषायोष्णः कफापहः ।
चक्षुष्यः पलितघ्नश् च विपाके मधुरो लघुः ॥ रज्नि_11.232
पूगस् तु पूगवृक्षश् च क्रमुको दीर्घपादपः ।
वल्कतरुर् दृढवल्कश् चिक्कणश् च मुनिर् मतः ॥ रज्नि_11.233
पूगवृक्षस्य निर्यासो हिमः संमोहनो गुरुः ।
विपाके सोष्णकक्षारः साम्लो वातघ्नपित्तलः ॥ रज्नि_11.234
पूगं तु चिक्कणी चिक्का चिक्कणं श्लक्ष्णकं तथा ।
उद्वेगं क्रमुकफलं ज्ञेयं पूगफलं वसु ॥ रज्नि_11.235
सेरी च मधुरा रुच्या कषायाम्ला कटुस् तथा ।
पथ्या च कफवातघ्नी सारिका मुखदोषनुत् ॥ रज्नि_11.236
तैल्वनं मधुरं रुच्यं कण्ठशुद्धिकरं लघु ।
त्रिदोषशमनं दीप्यं रसालं पाचनं समम् ॥ रज्नि_11.237
गौल्यं गुहागरं श्लक्ष्णं कषायं कटु पाचनम् ।
विष्टम्भजठराध्मानहरणं द्रावकं लघु ॥ रज्नि_11.238
घोण्टा कटुकषायोष्णा कठिना रुचिकारिणी ।
मलविष्टम्भशमनी पित्तहृद् दीपनी च सा ॥ रज्नि_11.239
पूगीफलं चेउलसंज्ञकं यत् तत् कोङ्कणेषु प्रथितं सुगन्धि ।
श्लेष्मापहं दीपनपाचनं च बलप्रदं पुष्टिकरं रसाढ्यम् ॥ रज्नि_11.240
यत् कोङ्कणे वल्लिगुलाभिधानकं ग्रामोद्भवं पूगफलं त्रिदोषनुत् ।
आमापहं रोचनरुच्यपाचनं विष्टम्भतुन्दामयहारि दीपनम् ॥ रज्नि_11.241
चन्द्रापुरोद्भवं पूगं कफघ्नं मलशोधनम् ।
कटु स्वादु कषायं च रुच्यं दीपनपाचनम् ।
आन्ध्रदेशोद्भवं पूगं कषायं मधुरं रसे ।
वातजिद् वक्त्रजाड्यघ्नम् ईषद् अम्लं कफापहम् ॥ रज्नि_11.242
पूगं सम्मोहकृत् सर्वं कषायं स्वादु रेचनम् ।
त्रिदोषशमनं रुच्यं वक्त्रक्लेदमलापहम् ॥ रज्नि_11.243
आमं पूगं कषायं मुखमलशमनं कण्ठशुद्धिं विधत्ते रक्तामश्लेष्मपित्तप्रशमनम् उदराध्मानहारं सरं च ।
शुष्कं कण्ठामयघ्नं रुचिकरम् उदितं पाचनं रेचनं स्यात् तत् पर्णेनायुतं चेत् झटिति वितनुते पाण्डुवातं च शोषम् ॥ रज्नि_11.244
अथ भवति नागवल्ली ताम्बूली फणिलता च सप्तशिरा ।
पर्णलता फणिवल्ली भुजगलता भक्ष्यपत्री च ॥ रज्नि_11.245
नागवल्ली कटुस् तीक्ष्णा तिक्ता पीनसवातजित् ।
कफकासहरा रुच्या दाहकृद् दीपनी परा ॥ रज्नि_11.246
सा श्रीवाट्यम्लादिवाटादिनानाग्रामस्तोमस्थानभेदाद् विभिन्ना ।
एकाप्य् एषा देशमृत्स्नाविशेषान् नानाकारं याति काये गुणे च ॥ रज्नि_11.247
श्रीवाटी मधुरा तीक्ष्णा वातपित्तकफापहा ।
रसाढ्या सुरसा रुच्या विपाके शिशिरा स्मृता ॥ रज्नि_11.248
स्याद् अम्लवाटी कटुकाम्लतिक्ता तीक्ष्णा तथोष्णा मुखपाककर्त्री ।
विदाहपित्तास्रविकोपनी च विष्टम्भदा वातनिबर्हणी च ॥ रज्नि_11.249
सतसा मधुरा तीक्ष्णा कटुर् उष्णा च पाचनी ।
गुल्मोदराध्मानहरा रुचिकृद् दीपनी परा ॥ रज्नि_11.250
गुहागरे सप्तशिरा प्रसिद्धा सापर्णजूर्णातिरसातिरुच्या ।
सुगन्धि तीक्ष्णा मधुरातिहृद्या सन्दीपनी पुंस्त्वकरातिबल्या ॥ रज्नि_11.251
नाम्नान्याम्लसरा सुतीक्ष्णमधुरा रुच्या हिमा दाहनुत् पित्तोद्रेकहरा सुदीपनकरी बल्या मुखामोदिनी ।
स्त्रीसौभाग्यविवर्धनी मदकरी राज्ञां सदा वल्लभा गुल्माध्मानविबन्धजिच् च कथिता सा मालवे तु स्थिता ॥ रज्नि_11.252
अन्ध्रे पटुलिका नाम कषायोष्णा कटुस् तथा ।
मलापकर्षा कण्ठस्य पित्तकृद् वातनाशनी ॥ रज्नि_11.253
ह्वेसणीया कटुस् तीक्ष्णा हृद्या दीर्घदला च सा ।
कफवातहरा रुच्या कटुर् दीपनपाचनी ॥ रज्नि_11.254
सद्यस् त्रोटितभक्षितं मुखरुजाजाड्यावहं दोषकृत् दाहारोचकरक्तदायि मलकृद् विष्टम्भि वान्तिप्रदम् ।
यद् भूयो जलपानपोषितरसं तच् चेच् चिरात् त्रोटितं ताम्बूलीदलम् उत्तमं च रुचिकृद् वर्ण्यं त्रिदोषार्तिनुत् ॥ रज्नि_11.255
कृष्णं पर्णं तिक्तम् उष्णं कषायं धत्ते दाहं वक्त्रजाद्यं मलं च ।
शुभ्रं पर्णं श्लेष्मवातामयघ्नं पथ्यं रुच्यं दीपनं पाचनं च ॥ रज्नि_11.256
शिरा पर्णस्य शैथिल्यं कुर्यात् तस्यास्रहृद् रसः ।
शीर्णं त्वग्दोषदं तस्य भक्षिते च शितं सदा ॥ रज्नि_11.257
अनिधाय मुखे पर्णं पूगं खादात यो नरः ।
मतिभ्रंशो दरिद्रः स्याद् अन्ते स्मरति नो हरिम् ॥ रज्नि_11.258
पर्णाधिक्ये दीपनी रङ्गदात्री पूगाधिक्ये रूक्षदा कृच्छ्रदात्री ।
साराधिक्ये खादिरे शोषदात्री चूर्णाधिक्ये पित्तकृत् पूतिगन्धा ॥ रज्नि_11.259
चूर्णं चार्जुनवृक्षजं कफहरं गुल्मघ्नम् अर्काह्वयं शोफघ्नं कुटजं करञ्जजनितं वातापहं रुच्यदम् ।
पित्तघ्नं जलजं बलाग्निरुचिदं शैलाह्वयं पित्तदं स्फाटिक्यं दृढदन्तपङ्क्तिजननं शुक्त्यादिजं रूक्षदम् ॥ रज्नि_11.260
इत्थं नानाफलतरुलतानामतत्तद्गुणादिव्यक्ताख्यानप्रगुणरचनाचारुसौरभ्यसारम् ।
वर्गं वक्त्राम्बुरुहवलभीलास्यलीलारसालं विद्यावैद्यः खलु सफलयेद् एतम् आम्नायभूम्ना ॥ रज्नि_11.261
यान्य् उपभुञ्जानानां स भवति संसारपादपः सफलः ।
तेषाम् एष फलानां वर्गः फलवर्ग इति कथितः ॥ रज्नि_11.262
यस्याजस्रविकस्वरामलयशःप्राग्भारपुष्पोद्गमः साश्चर्यं विबुधेप्सितानि फलति श्रीमान् करः स्वर्द्रुमः ।
राजनिघण्टु, चन्दनादिवर्ग
श्रीखण्डं शबरं पीतं पत्राङ्गं रक्तचन्दनम् ।
बर्बरं हरिगन्धं च चन्दनं सप्तधा स्मृतम् ॥ रज्नि_12.1
देवदारु द्विधा प्रोक्तं चीडा सप्तच्छदस् तथा ।
सरलः कुङ्कुमे कङ्गुः कस्तूरी रोचना तथा ॥ रज्नि_12.2
कर्पूरौ स्याज् जवादिस् तु नन्दी च जातिपत्रिका ।
जातीफलं च कक्कोलं लवङ्गं स्वादुर् उच्यते ॥ रज्नि_12.3
अगर्व्यश् च त्रिधा मांसी तुरुष्को गुग्गुलुस् त्रिधा ।
रालः कुन्दुरुकः कुष्ठं सारिवा तु द्विधा नखौ ॥ रज्नि_12.4
स्पृक्का स्थौणेयकं चैव मुरा शैलेयचोरकः ।
पद्मप्रपौण्डरीके च लामज्जं रोहिणी द्विधा ।
श्रीवेष्टोशीरनलिका मुनिबाणमिताह्वयाः ॥ रज्नि_12.5
श्रीखण्डं चन्दनं प्रोक्तं महार्हं श्वेतचन्दनम् ।
गोशीर्षं तिलपर्णं च मङ्गल्यं मलयोद्भवम् ॥ रज्नि_12.6
गन्धराजं सुगन्धं च सर्पावासं च शीतलम् ।
गन्धाढ्यं गन्धसारं च भद्रश्रीर् भोगिवल्लभम् ।
शीतगन्धो मलयजं पावनं चाङ्कभूह्वयम् ॥ रज्नि_12.7
श्रीखण्डं कटुतिक्तशीतलगुणं स्वादे कषायं कियत् पित्तभ्रान्तिवमिज्वरक्रिमितृषासंतापशान्तिप्रदम् ।
वृष्यं वक्त्ररुजापहं प्रतनुते कान्तिं तनोर् देहिनां लिप्तं सुप्तमनोजसिन्धुरमदारम्भादिसंरम्भदम् ॥ रज्नि_12.8
श्रेष्ठं कोटरकर्परोपकलितं सुग्रन्थि सद्गौरवं छेदे रक्तमयं तथा च विमलं पीतं च यद् धर्षणे ।
स्वादे तिक्तकटुः सुगन्धबहुलं शीतं यद् अल्पं गुणे क्षीणं चार्धगुणान्वितं तु कथितं तच् चन्दनं मध्यमम् ॥ रज्नि_12.9
चन्दनं द्विविधं प्रोक्तं बेट्टसुक्वडिसंज्ञकम् ।
बेट्टं तु सार्द्रविच्छेदं स्वयं शुष्कं तु सुक्वडि ॥ रज्नि_12.10
मलयाद्रिसमीपस्थाः पर्वता बेट्टसंज्ञकाः ।
तज्जातं चन्दनं यत् तु बेट्टवाच्यं क्वचिन् मते ॥ रज्नि_12.11
बेट्टचन्दनम् अतीव शीतलं दाहपित्तशमनं ज्वरापहम् ।
छर्दिमोहतृषिकुष्ठतैमिरोत्कासरक्तशमनं च तिक्तकम् ॥ रज्नि_12.12
सुक्वडिचन्दनं तिक्तं कृच्छ्रपित्तास्रदाहनुत् ।
शैत्यसुगन्धदं चार्द्रं शुष्कं लेपे तदन्यथा ॥ रज्नि_12.13
नातिपीतं कैरातं शबरं चन्दनं सुगन्धम् ।
वन्यं च गन्धकाष्ठं किरातकान्तं च शैलगन्धं च ॥ रज्नि_12.14
कैरातम् उष्णं कटुशीतलं च श्लेष्मानिलघ्नं श्रमपित्तहारि ।
विस्फोटपामादिकनाशनं च तृषापहं तापविमोहनाशि ॥ रज्नि_12.15
पीतगन्धं तु कालीयं पीतकं माधवप्रियम् ।
कालीयकं पीतकाष्ठं बर्बरं पीतचन्दनम् ॥ रज्नि_12.16
पीतं च शीतलं तिक्तं कुष्ठश्लेष्मानिलापहम् ।
कण्डूविचर्चिकादद्रुकृमिहृत् कान्तिदं परम् ॥ रज्नि_12.17
पत्तङ्गं चैव पत्राङ्गं रक्तकाष्ठं सुरङ्गदम् ।
पत्राढ्यं पट्टरागं च भार्यावृक्षश् च रक्तकः ॥ रज्नि_12.18
लोहितं रङ्गकाष्ठं च रागकाष्ठं कुचन्दनम् ।
पट्टरञ्जनकं चैव सुरङ्गं च चतुर्दश ॥ रज्नि_12.19
पत्राङ्गं कटुकं रूक्षम् अम्लं शीतं तु गौल्यकम् ।
वातपित्तज्वरघ्नं च विस्फोटोन्मादभूतहृत् ॥ रज्नि_12.20
रक्तचन्दनम् इदं च लोहितं शोणितं च हरिचन्दनं हिमम् ।
रक्तसारम् अथ ताम्रसारकं क्षुद्रचन्दनम् अथार्कचन्दनम् ॥ रज्नि_12.21
रक्तचन्दनम् अतीव शीतलं तिक्तम् ईक्षणगदास्रदोषनुत् ।
भूतपित्तकफकाससज्वरभ्रान्तिजन्तुवमिजित् तृषापहम् ॥ रज्नि_12.22
बर्बरोत्थं बर्बरकं श्वेतबर्बरकं तथा ।
शीतं सुगन्धि पित्तारि सुरभि चेति सप्तधा ॥ रज्नि_12.23
बर्बरं शीतलं तिक्तं कफमारुतपित्तजित् ।
कुष्ठकण्डूव्रणान् हन्ति विशेषाद् रक्तदोषजित् ॥ रज्नि_12.24
हरिचन्दनं सुरार्हं हरिगन्धम् इन्द्रचन्दनं दिव्यम् ।
दिविजं च महागन्धं नन्दनजं लोहितं च नवसंज्ञम् ॥ रज्नि_12.25
हरिचन्दनं तु दिव्यं तिक्तहिमं तद् इह दुर्लभं मनुजैः ।
पित्ताटोपविलोपि चन्दनवच् छ्रमशोषमान्द्यतापहरम् ॥ रज्नि_12.26
चन्दनानि समानानि रसतो वीर्यतस् तथा ।
भिद्यन्ते किंतु गन्धेन तत्राद्यं गुणवत्तरम् ॥ रज्नि_12.27
देवदारु सुरदारु दारुकं स्निग्धदारुर् अमरादिदारु च ।
भद्रदारु शिवदारु शाम्भवं भूतहारि भवदारु रुद्रवत् ॥ रज्नि_12.28
स्निग्धदारु स्मृतं तिक्तं स्निग्धोष्णं श्लेष्मवातजित् ।
आमदोषविबन्धार्शःप्रमेहज्वरनाशनम् ॥ रज्नि_12.29
देवकाष्ठं पूतिकाष्ठं भद्रकाष्ठं सुकाष्ठकम् ।
अस्निग्धदारुकं चैव काष्ठदारु षडाह्वयम् ॥ रज्नि_12.30
देवकाष्ठं तु तिक्तोष्णं रूक्षं श्लेष्मानिलापहम् ।
भूतदोषापहं धत्ते लिप्तम् अङ्गेषु कालिकम् ॥ रज्नि_12.31
देवदारु द्विधा ज्ञेयं तत्राद्यं स्निग्धदारुकम् ।
द्वितीयं काष्ठदारु स्याद् द्वयोर् नामान्य् अभेदतः ॥ रज्नि_12.32
चीडा च दारुगन्धा गन्धवधूर् गन्धमादनी तरुणी ।
तारा च भूतमारी मङ्गल्या तु कपाटिनी ग्रहभीतिजित् ।
चीडा कटूष्णा कासघ्नी कफजिद् दीपनी परा ।
अत्यन्तसेविता सा तु पित्तदोषभ्रमापहा ॥ रज्नि_12.33
सप्तपर्णः पत्रवर्णः शुक्तिपर्णः सुपर्णकः ।
सप्तच्छदो गुच्छपुष्पो ऽयुग्मपर्णो मुनिच्छदः ॥ रज्नि_12.34
बृहत्त्वग् बहुपर्णश् च तथा शाल्मलिपत्रकः ।
मदगन्धो गन्धिपर्णो विज्ञेयो वह्निभूमितः ॥ रज्नि_12.35
सप्तपर्णस् तु तिक्तोष्णस्त्रिदोषघ्नश् च दीपनः ।
मदगन्धो निरुन्द्धे ऽयं व्रणरक्तामयक्रिमीन् ॥ रज्नि_12.36
सरलस् तु पूतिकाष्ठं तुम्बी पीतद्रुर् उत्थितो दीपतरुः ।
स स्निग्धदारुसंज्ञः स्निग्धो मारीचपत्रको नवधा ॥ रज्नि_12.37
सरलः कटुतिक्तोष्णः कफवातविनाशनः ।
त्वग्दोषशोफकण्डूतिव्रणघ्नः कोष्ठशुद्धिदः ॥ रज्नि_12.38
ज्ञेयं कुङ्कुमम् अग्निसेखरम् असृक् काश्मीरजं पीतकं काश्मीरं रुधिरं वरं च पिशुनं रक्तं शठं शोणितम् ।
वाह्लीकं घुसृणं वरेण्यम् अरुणं कालेयकं जागुडं कान्तं वह्निशिखं च केसरवरं गौरं कराक्षीरितम् ॥ रज्नि_12.39
कुङ्कुमं सुरभि तिक्तकटूष्णं कासवातकफकण्ठरुजाघ्नम् ।
मूर्धशूलविषदोषनाशनं रोचनं च तनुकान्तिकारकम् ॥ रज्नि_12.40
तृणकुङ्कुमं तृणास्रं गन्धितृणं शोणितं च तृणपुष्पम् ।
गन्धाधिकं तृणोत्थं तृणगौरं लोहितं च नवसंज्ञम् ॥ रज्नि_12.41
तृणकुङ्कुमं कटूष्णं कफमारुतशोफनुत् ।
कण्डूतिपामाकुष्ठामदोषघ्नं भास्करं परम् ॥ रज्नि_12.42
प्रियङ्गुः फलिनी श्यामा प्रियवल्ली फलप्रिया ।
गौरी गोवन्दनी वृत्ता कारम्भा कङ्गु कङ्गुनी ॥ रज्नि_12.43
भङ्गुरा गौरवल्ली च सुभगा पर्णभेदिनी ।
शुभा पीता च मङ्गल्या श्रेयसी चाङ्कभूमिता ॥ रज्नि_12.44
प्रियङ्गुः शीतला तिक्ता दाहपित्तास्रदोषजित् ।
मूल पाठ: Rājanighaṇṭu [also called Nighaṇṭurāja, or Abhidhānacūḍāmaṇi] · Edition: Calcutta 1933 : Siddheshvarayantra · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0