भाषा

ENहिગુ
ग्रंथ पाठ

राजनिघण्टु · भाग 101120

वान्तिभ्रान्तिज्वरहरा वक्त्रजाड्यविनाशनी ॥ रज्नि_12.45
कस्तूरी मृगनाभिस् तु मदनी गन्धचेलिका ।
वेधमुख्या च मार्जारी सुभगा बहुगन्धदा ॥ रज्नि_12.46
सहस्रवेधी श्यामा स्यात् कामानन्दा मृगाण्डजा ।
कुरङ्गनाभी ललिता मदो मृगमदस् तथा ।
श्यामली काममोदी च विज्ञेयाष्टादशाह्वया ॥ रज्नि_12.47
कस्तूरी सुरभिस् तिक्ता चक्षुष्या मुखरोगजित् ।
किलासकफदौर्गन्ध्यवातालक्ष्मीमलापहा ॥ रज्नि_12.48
कपिला पिङ्गला कृष्णा कस्तूरी त्रिविधा क्रमात् ।
नेपाले ऽपि च काश्मीरे कामरूपे च जायते ॥ रज्नि_12.49
साप्य् एका खरिका ततश् च तिलका ज्ञेया कुलित्थापरा पिण्डान्यापि च नायिकेति च परा या पञ्चभेदाभिधा ।
सा शुद्धा मृगनाभितः क्रमवशाद् एषा क्षितीशोचिता पक्षत्यादिदिनत्रयेषु जनिता कस्तूरिका स्तूयते ॥ रज्नि_12.50
चूर्णाकृतिस् तु खरिका तिलका तिलाभा कौलत्थबीजसदृशी च कुलित्थका च ।
स्थूला ततः कियद् इयं किल पिण्डिकाख्या तस्याश् च किंचिद् अधिका यदि नायिका सा ॥ रज्नि_12.51
स्वादे तिक्ता पिञ्जरा केतकीनां गन्धं धत्ते लाघवं तोलने च ।
याप्सु न्यस्ता नैव वैवर्ण्यम् ईयात् कस्तूरी सा राजभोग्याप्रशस्ता ॥ रज्नि_12.52
या गन्धं केतकीनाम् अपहरति मदं सिन्धुराणां च वर्णे स्वादे तिक्ता कटुर् वा लघुर् अथ तुलिता मर्दिता चिक्कणा स्यात् ।
दाहं या नैति वह्नौ शिमिशिमिति चिरं चर्मगन्धा हुताशे सा कस्तूरी प्रशस्ता वरमृगतनुजा राजते राजभोग्या ॥ रज्नि_12.53
बाले जरति च हरिणे क्षीणे रोगिणि च मन्दगन्धयुता ।
कामातुरे च तरुणे कस्तूरी बहुलपरिमला भवति ॥ रज्नि_12.54
या स्निग्धा धूमगन्धा वहति विनिहिता पीततां पाथसो ऽन्तर् निःशेषं या निविष्टा भवति हुतवहे भस्मसाद् एव सद्यः ।
या च न्यस्ता तुलायां कलयति गुरुतां मर्दिता रूक्षतां च ज्ञेया कस्तूरिकेयं खलु कृतमतिभिः कृत्रिमा नैव सेव्या ॥ रज्नि_12.55
शुद्धो वा मलिनो ऽस्तु वा मृगमदः किं जातम् एतावता को ऽप्य् अस्यानवधिश् चमत्कृतिनिधिः सौरभ्यम् एको गुणः ।
येनासौ स्मरमण्डनैकवसतिर् भाले कपोले गले दोर्मूले कुचमण्डले च कुरुते सङ्गं कुरङ्गीदृशाम् ॥ रज्नि_12.56
गोरोचना रुचिः शोभा रुचिरा शोभना शुभा ।
गौरी च रोचना पिङ्गा मङ्गल्या पिङ्गला शिवा ॥ रज्नि_12.57
पीता च गौतमी गव्या वन्दनीया च काञ्चनी ।
मेध्या मनोरमा श्यामा रामा भूमिकराह्वया ॥ रज्नि_12.58
गोरोचना च शिशिरा विषदोषहन्त्री रुच्या च पाचनकरी क्रिमिकुष्ठहन्त्री ।
भूतग्रहोपशमनं कुरुते च पथ्या शृङ्गारमङ्गलकरी जनमोहिनी च ॥ रज्नि_12.59
कर्पूरो घनसारकः सितकरः शीतः शशाङ्कः शिला शीतांशुर् हिमवालुका हिमकरः शीतप्रभः शाम्भवः ।
शुभ्रांशुः स्फटिकाभ्रसारमिहिकाताराभ्रचन्द्रेन्दवश् चन्द्रालोकतुषारगौरकुमुदान्य् एकादशाह्वा द्विशः ॥ रज्नि_12.60
पोतासो भीमसेनस् तदनु सितकरः शंकरावाससंज्ञः प्रांशुः पिञ्जो ऽब्दसारस् तदनु हिमयुता वालुका जूटिका च ।
पश्चाद् अस्यास् तुषारस् तदुपरि सहिमः शीतलः पक्विकान्या कर्पूरस्येति भेदा गुणरसमहसां वैद्यदृश्येन दृश्याः ॥ रज्नि_12.61
कर्पूरो नूतनस् तिक्तः स्निग्धश् चोष्णो ऽस्रदाहदः ।
चिरस्थो दाहदोषघ्नः स धौतः शुभकृत् परः ॥ रज्नि_12.62
शिरो मध्यं तलं चेति कर्पूरस् त्रिविधः स्मृतः ।
शिरः स्तम्भाग्रसंजातं मध्यं पर्णतले तलम् ॥ रज्नि_12.63
भास्वद्विशदपुलकं शिरोजातं तु मध्यमम् ।
सामान्यपुलकं स्वच्छं तले चूर्णं तु गौरकम् ॥ रज्नि_12.64

स्तम्भगर्भस्थितं श्रेष्ठं स्तम्भबाह्ये च मध्यमम् ।
स्वच्छम् ईषत् हरिद्राभं शुभ्रं तन् मध्यमं स्मृतम् सुदृढं शुभ्ररूक्षं च पुलकं बाह्यजं वदेत् ॥ रज्नि_12.65
स्वच्छं भृङ्गारपत्त्रं लघुतरविशदं तोलने तिक्तकं चेत् स्वादे शैत्यं सुहृद्यं बहलपरिमलामोदसौरभ्यदायि ।
निःस्नेहं दार्ढ्यपत्त्रं शुभतरम् इति चेत् राजयोग्यं प्रशस्तं कर्पूरं चान्यथा चेद् बहुतरम् अशने स्फोटदायि व्रणाय ॥ रज्नि_12.66
चीनकश् चीनकर्पूरः कृत्रिमो धवलः पटुः ।
मेघसारस् तुषारश् च द्वीपकर्पूरजः स्मृतः ॥ रज्नि_12.67
चीनकः कटुतिक्तोष्ण ईषच्छीतः कफापहः ।
कण्ठदोषहरी मेध्यः पाचनः क्रिमिनाशनः ॥ रज्नि_12.68
जवादि गन्धराजं स्यात् कृत्रिमं मृगचर्मजम् ।
समूहगन्धं गन्धाढ्यं स्निग्धं साम्राणिकर्दमम् ।
सुगन्धं तैलनिर्यासं कुटामोदं दशाभिधम् ॥ रज्नि_12.69
सौगन्धिकं जवादि स्यात् स्निग्धं चोष्णं सुखावहम् ।
वाते हितं च राज्ञां च मोहनाह्लादकारणम् ॥ रज्नि_12.70
जवादि नीलं सस्निग्धम् ईषत् पीतं सुगन्धदम् ।
आतपे बहुलामोदं राज्ञां योग्यं न चान्यथा ॥ रज्नि_12.71
तूणीकस् तूणिकस् तूणी पीतकः कच्छपस् तथा ।
नन्दी कुरकः कान्तो नन्दीवृक्षो नवाह्वयः ॥ रज्नि_12.72
वृक्षः कटुस् तिक्तः शीतस् तिक्तास्रदाहजित् ।
शिरोऽर्तिश्वेतकुष्ठघ्नः सुगन्धिः पुष्टिवीर्यदः ॥ रज्नि_12.73
जातीपत्त्री जातिकोशः सुमनःपत्त्रिकापि सा ।
मालतीपत्त्रिका पञ्चनाम्नी सौमनसायिनी ॥ रज्नि_12.74
जातीपत्री कटुस् तिक्ता सुरभिः कफनाशनी ।
वक्त्रवैशद्यजननी जाड्यदोषनिकृन्तनी ॥ रज्नि_12.75
जातीफलं जातिशस्यं शालूकं मालतीफलम् ।
मज्जासारं जातिसारं पुटं च सुमनःफलम् ॥ रज्नि_12.76
जातीफलं कषायोष्णं कटु कण्ठामयार्तिजित् ।
वातातिसारमेहघ्नं लघु वृष्यं च दीपनम् ॥ रज्नि_12.77
कक्कोलकं कृतफलं कोलकं कटुकं फलम् ।
विद्वेष्यं स्थूलमरिचं कर्कोलं माधवोचितम् ।
कङ्कोलं कट्फलं प्रोक्तं मारीचं रुद्रसंमितम् ॥ रज्नि_12.78
कक्कोलं कटु तिक्तोष्णं वक्त्रजाड्यहरं परम् ।
दीपनं पाचनं रुच्यं कफवातनिकृन्तनम् ॥ रज्नि_12.79
लवंगकलिका दिव्यं लवंगं शेखरं लवम् ।
श्रीपुष्पं देवकुसुमं रुचिरं वारिसम्भवम् ॥ रज्नि_12.80
तीक्ष्णपुष्पं तु भृङ्गारं गीर्वाणकुसुमं तथा ।
पुष्पकं चन्दनादि स्यात् ज्ञेयं त्रयोदशाह्वयम् ॥ रज्नि_12.81
लवंगं शीतलं तिक्तं चक्षुष्यं भक्तरोचनम् ।
वातपित्तकफघ्नं च तीक्ष्णं मूर्धरुजापहम् ॥ रज्नि_12.82
लवंगं सोष्णकं तीक्ष्णं विपाके मधुरं हिमम् ।
वातपित्तकफामघ्नं क्षयकासास्रदोषनुत् ॥ रज्नि_12.83

स्वादुस् त्व् अगरुसारः स्यात् सुधूम्यो गन्धधूमजः ।
स्वादुः कटुकषायोष्णः सधूमामोदवातजित् ॥ रज्नि_12.84
कृष्णागरु स्याद् अगरु शृङ्गारं विश्वरूपकम् ।
शीर्षं कालागरु केश्यं वसुकं कृष्णकाष्ठकम् ।
धूपार्हं वल्लरं गन्धराजकं द्वादशाह्वयम् ॥ रज्नि_12.85
कृष्णागरु कटूष्णं च तिक्तं लेपे च शीतलम् ।
पाने पित्तहरं किंचित् त्रिदोषघ्नम् उदाहृतम् ॥ रज्नि_12.86
अन्यागरु पीतकं च लोहं वर्णप्रसादनम् ।
अनार्यकम् असारं च कृमिजग्धं च काष्ठकम् ॥ रज्नि_12.87
काष्ठागरु कटूष्णं च लेपे रूक्षं कफापहम् ॥ रज्नि_12.88
दाहागरु दहनागरु दाहककाष्ठं च वह्निकाष्ठं च ।
धूपागरु तैलागरु पुरं च पुरमथनवल्लभं चैव ॥ रज्नि_12.89
दाहागरु कटुकोष्णं केशानां वर्धनं च वर्ण्यं च ।
अपनयति केशदोषान् आतनुते संततं च सौगन्ध्यम् ॥ रज्नि_12.90
मङ्गल्या मल्लिका गन्धमङ्गलागरुवाचका ।
मङ्गल्या गुरुशिशिरा गन्धाढ्या योगवाहिका ॥ रज्नि_12.91
मांसी तु जटिला पेशी क्रव्यादी पिशिता मिशी ।
केशिनी च जटा हिंस्रा जटामांसी च मांसिनी ॥ रज्नि_12.92
जटाला नलदा मेषी तामसी चक्रवर्तिनी ।
माता भूतजटा चैव जननी च जटावती ।
मृगभक्षापि चेत्य् एता एकविंशतिधाभिधाः ॥ रज्नि_12.93
सुरभिस् तु जटामांसी कषाया कटुशीतला ।
कफहृद् भूतदाहघ्नी पित्तघ्नी मोदकान्तिकृत् ॥ रज्नि_12.94
द्वितीया गन्धमांसी च केशी भूतजटा स्मृता ।
पिशाची पूतना चैव भूतकेशी च लोमशा ।
जटाला लघुमांसी च ख्याता चाङ्कमिताह्वया ॥ रज्नि_12.95
गन्धमांसी तिक्तशीता कफकण्ठामयापहा ।
रक्तपित्तहरा वर्ण्या विषभूतज्वरापहा ॥ रज्नि_12.96
आकाशमांसी सूक्ष्मान्या निरालम्बा खसम्भवा ।
सेवाली सूक्ष्मपत्त्री च गौरी पर्वतवासिनी ॥ रज्नि_12.97
अभ्रमांसी हिमा शोफव्रणनाडीरुजापहा ।
लूतागर्दभजालादिहारिणी वर्णकारिणी ॥ रज्नि_12.98
तुरुष्को यावनो धूम्रो धूम्रवर्णः सुगन्धिकः ।
सिह्लकः सिह्लसारश् च पीतसारः कपिस् तथा ॥ रज्नि_12.99
पिण्याकः कपिजः कल्कः पिण्डितः पिण्डतैलकः ।
करेवरः कृत्रिमको लेपनो मुनिभूह्वयः ॥ रज्नि_12.100
तुरुष्कः सुरभिस् तिक्तः कटुस्निग्धश् च कुष्ठजित् ।
कफपित्ताश्मरीमूत्राघातभूतज्वरार्तिजित् ॥ रज्नि_12.101
गुग्गुलुर् यवनद्विष्टो भवाभीष्टो निशाटकः ।
जटालः कालनिर्यासः पूरो भूतहरः शिवः ॥ रज्नि_12.102

कौशिकः शाम्भवो दुर्गो यातुघ्नो महिषाक्षकः ।
देवेष्टो मरुदेश्यो ऽपि रक्षोहा रूक्षगन्धकः ।
दिव्यस् तु महिषाक्षश् च नामान्य् एतानि विंशतिः ॥ रज्नि_12.103
गुग्गुलुः कटुतिक्तोष्णः कफमारुतकासजित् ।
क्रिमिवातोदरप्लीहशोफार्शोघ्नो रसायनः ॥ रज्नि_12.104
गन्धराजः स्वर्णकणः सुवर्णः कणगुग्गुलुः ।
कनको वंशपोतश् च सुरसश् च पलंकषः ॥ रज्नि_12.105
कणगुग्गुलुः कटूष्णः सुरभिर् वातनाशनः ।
शूलगुल्मोदराध्मानकफघ्नश् च रसायनः ॥ रज्नि_12.106
गुग्गुलुश् च तृतीयो ऽन्यो भूमिजो दैत्यमेदजः ।
दुर्गाह्लाद इडाजात आशादिरिपुसम्भवः ।
मज्जाजो मदजश् चैव महिषासुरसम्भवः ॥ रज्नि_12.107
गुग्गुलुर् भूमिजस् तिक्तः कटूष्णः कफवातजित् ।
उमाप्रियश् च भूतघ्नो मेध्यः सौरभ्यदः सदा ॥ रज्नि_12.108
रालः सर्जरसश् चैव शालः कनकलोद्भवः ।
ललनः शालनिर्यासो देवेष्टः शीतलस् तथा ॥ रज्नि_12.109
बहुरूपः शालरसः सर्जनिर्यासकस् तथा ।
सुरभिः सुरधूपश् च यक्षधूपो ऽग्निवल्लभः ।
कालः कललजः प्रोक्तो नाम्ना सप्तदशाङ्कितः ॥ रज्नि_12.110
रालस् तु शिशिरः स्निग्धः कषायस् तिक्तसंग्रहः ।
वातपित्तहरः स्फोटकण्डूतिव्रणनाशनः ।
कुन्दुरुकः सौराष्ट्रः शिखरी कुन्दुरुककुन्दुकस् तीक्ष्णः ।
गोपुरको बहुगन्धः पालिन्दो भीषणश् च दशसंज्ञः ॥ रज्नि_12.111
कुन्दुरुर् मधुरस् तिक्तः कफपित्तार्तिदाहनुत् ।
पाने लेपे च शिशिरः प्रदरामयशान्तिकृत् ॥ रज्नि_12.112
कुष्ठं रुजागदो व्याधिर् आमयं पारिभद्रकम् ।
रामं वानीरजं वाप्यं ज्ञेयं त्वग्दोषम् उत्पलम् ।
कुत्सं च पाटवं चैव पद्मकं मनुसंज्ञकम् ॥ रज्नि_12.113
कुष्ठं कटूष्णं तिक्तं स्यात् कफमारुतकुष्ठजित् ।
विसर्पविषकण्डूतिखर्जूदद्रुघ्नकान्तिकृत् ॥ रज्नि_12.114
सारिवा शारदा गोपा गोपवल्ली प्रतानिका ।
गोपकन्या लतास्फोता नवाह्वा काष्ठसारिवा ॥ रज्नि_12.115
सारिवान्या कृष्णमूली कृष्णा चन्दनसारिवा ।
भद्रा चन्दनगोपा तु चन्दना कृष्णवल्ल्य् अपि ॥ रज्नि_12.116
सारिवे द्वे तु मधुरे कफवातास्रनाशने ।
कुष्ठकण्डूज्वरहरे मेहदुर्गन्धिनाशने ॥ रज्नि_12.117
नखः कररुहः शिल्पी शुक्तिः शङ्खः खुरः शफः ।
वलः कोशी च करजो हनुर् नागहनुस् तथा ॥ रज्नि_12.118
पाणिजो बदरीपत्त्रो धूप्यः पण्यविलासिनी ।
संधिनालः पाणिरुहः स्याद् अष्टादशसंज्ञकः ॥ रज्नि_12.119

नखः स्याद् उष्णकटुको विषं हन्ति प्रयोजितः ।
कुष्ठकण्डूव्रणघ्नश् च भूतविद्रावणः परः ॥ रज्नि_12.120
नखो ऽन्यः स्याद् बलनखः कूटस्थश् चक्रनायकः ।
चक्री चक्रनखस् त्र्यस्रः कालो व्याघ्रनखः स्मृतः ॥ रज्नि_12.121
द्वीपिनखो व्यालनखः खपुटो व्यालपाणिजः ।
व्यालायुधो व्यालबलो व्यालखड्गश् च षोडश ॥ रज्नि_12.122
व्यालनखस् तु तिक्तोष्णः कषायः कफवातजित् ।
कुष्ठकण्डूव्रणघ्नश् च वर्ण्यः सौगन्ध्यदः परः ॥ रज्नि_12.123
स्पृक्का च देवी पिशुना वधूश् च कोटिर् मनुर् ब्राह्मणिका सुगन्धा ।
समुद्रकान्ता कुटिला तथा च मालालिका भूतलिका च लघ्वी ॥ रज्नि_12.124
निर्माल्या सुकुमारा च मालाली देवपुत्रिका ।
पञ्चगुप्तिर् असृक् प्रोक्ता नखपुष्पी च विंशतिः ॥ रज्नि_12.125
स्पृक्का कटुकषाया च तिक्ता श्लेष्मार्तिकासजित् ।
श्लेष्ममेहाश्मरीकृच्छ्रनाशनी च सुगन्धदा ॥ रज्नि_12.126
स्थौणेयकं बर्हिशिखं शुकच्छदं मयूरचूडं शुकपुच्छकं तथा ।
विकीर्णरोमापि च कीरवर्णकं विकर्णसंज्ञं हरितं नवाह्वयम् ॥ रज्नि_12.127
स्थौणेयं कफवातघ्नं सुगन्धि कटुतिक्तकम् ।
पित्तप्रकोपशमनं बलपुष्टिविवर्धनम् ॥ रज्नि_12.128
मुरा गन्धवती दैत्या गन्धाढ्या गन्धमादनी ।
सुरभिर् भूरिगन्धा च कुटी गन्धकुटी तथा ॥ रज्नि_12.129
मुरा तिक्ता कटुः शीता कषाया कफपित्तहृत् ।
श्वासासृग्विषदाहार्तिभ्रममूर्छातृषापहा ॥ रज्नि_12.130
शैलेयं शिलजं वृद्धं शिलापुष्पं शिलोद्भवम् ।
स्थविरं पलितं जीर्णं तथा कालानुसार्यकम् ॥ रज्नि_12.131
शिलोत्थं च शिलादद्रुः शैलजं गिरिपुष्पकम् ।
शिलाप्रसूनं सुभगं शैलकं षोडशाह्वयम् ॥ रज्नि_12.132
शैलेयं शिशिरं तिक्तं सुगन्धि कफपित्तजित् ।
दाहतृष्णावमिश्वासव्रणदोषविनाशनम् ॥ रज्नि_12.133
चोरकः शङ्कितश् चण्डा दुष्पत्त्रः क्षेमको रिपुः ।
चपलः कितवो धूर्तः पटुर् नीचो निशाचरः ॥ रज्नि_12.134
गणहासः कोपनकश् चौरकः फलचोरकः ।
दुष्कुलो ग्रन्थिलश् चैव सुग्रन्थिः पर्णचोरकः ।
ग्रन्थिपर्णो ग्रन्थिदलो ग्रन्थिपत्त्रस् त्रिनेत्रधा ॥ रज्नि_12.135
चोरकस् तीव्रगन्धोष्णस् तिक्तो वातकफापहः ।
नासामुखरुजाजीर्णक्रिमिदोषविनाशनः ॥ रज्नि_12.136
पद्मकं पीतकं पीतं मालयं शीतलं हिमम् ।
शुभ्रं केदारजं रक्तं पाटलापुष्पसंनिभम् ।
पद्मकाष्ठं पद्मवृक्षं प्रोक्तं स्याद् द्वादशाह्वयम् ॥ रज्नि_12.137
पद्मकं शीतलं तिक्तं रक्तपित्तविनाशनम् ।
मोहदाहज्वरभ्रान्तिकुष्ठविस्फोटशान्तिकृत् ॥ रज्नि_12.138

प्रपौण्डरीकं चक्षुष्यं पुण्डर्यं पुण्डरीयकम् ।
पौण्डर्यं च सुपुष्पं च सानुजं चानुजं स्मृतम् ॥ रज्नि_12.139
प्रपौण्डरीकं चक्षुष्यं मधुरं तिक्तशीतलम् ।
पित्तरक्तव्रणान् हन्ति ज्वरदाहतृषापहम् ॥ रज्नि_12.140
लामज्जकं सुनालं स्याद् अमृणालं लवं लघु ।
इष्टकापथकं शीघ्रं दीर्घमूलं जलाश्रयम् ॥ रज्नि_12.141
लामज्जकं हिमं तिक्तं मधुरं वातपित्तजित् ।
तृड्दाहश्रममूर्छार्तिरक्तपित्तज्वरापहम् ॥ रज्नि_12.142
मांसरोहिण्य् अतिरुहा वृत्ता चर्मकषा च सा ।
विकसा मांसरोही च ज्ञेया मांसरुहा मुनिः ॥ रज्नि_12.143
अन्या मांसी सदामांसी मांसरोहा रसायनी ।
सुलोमा लोमकरणी रोहिणी मांसरोहिका ॥ रज्नि_12.144
विकसा कटुका तिक्ता तथोष्णा स्वरसादनुत् ।
रसायनप्रयोगाच् च सर्वरोगहरा मता ।
कषाया ग्राहिणी वर्ण्या रक्तपित्तप्रसादनी ॥ रज्नि_12.145
रोहिणीयुगलं शीतं कषायं क्रिमिनाशनम् ।
कण्ठशुद्धिकरं रुच्यं वातदोषनिषूदनम् ॥ रज्नि_12.146
श्रीवेष्टो वृक्षधूपश् च चीडागन्धो रसाङ्गकः ।
श्रीवासः श्रीरसो वेष्टो लक्ष्मीवेष्टस् तु वेष्टकः ॥ रज्नि_12.147
वेष्टसारो रसावेष्टः क्षीरशीर्षः सुधूपकः ।
धूपाङ्गस् तिलपर्णश् च सरलाङ्गो ऽपि षोडश ॥ रज्नि_12.148
श्रीवेष्टः कटुतिक्तश् च कषायः श्लेष्मपित्तजित् ।
योनिदोषरुजाजीर्णव्रणघ्नाध्मानदोषजित् ॥ रज्नि_12.149
उशीरम् अमृणालं स्याज् जलवासं हरिप्रियम् ।
मृणालम् अभयं वीरं वीरणं समगन्धिकम् ॥ रज्नि_12.150
रणप्रियं वारितरं शिशिरं शितिमूलकम् ।
वेणीगमूलकं चैव जलामोदं सुगन्धिकम् ।
सुगन्धिमूलकं शुभ्रं बालकं ग्रहभूह्वयम् ॥ रज्नि_12.151
उशीरं शीतलं तिक्तं दाहश्रमहरं परम् ।
पित्तज्वरार्तिशमनं जलसौगन्ध्यदायकम् ॥ रज्नि_12.152
नलिका विद्रुमलतिका कपोतबाणा नली च निर्मथ्या ।
सुषिरा धमनी स्तुत्या रक्तदला नर्तकी नटी रुद्राः ॥ रज्नि_12.153
नलिका तिक्तकटुका तीक्ष्णा च मधुरा हिमा ।
कृमिवातोदरार्त्यर्शःशूलघ्नी मलशोधनी ॥ रज्नि_12.154
इत्थं गन्धद्रव्यकदम्बाह्वयवीर्यव्याख्यावाचोयुक्तिविविक्तोज्ज्वलसर्गम् ।
वर्गं वक्त्राम्भोरुहमोदार्हम् अधीयाथैनं मध्ये संसद् असौ दीव्यतु वैद्यः ॥ रज्नि_12.155
ये गन्धयन्ति सकलानि च भूतलानि लोकांश् च ये ऽपि सुखयन्ति च गन्धलुब्धान् ।
तेषाम् अयं मलयजादिसुगन्धिनाम्नां भूर् गन्धवर्ग इति विश्रुतिम् एति वर्गः ॥ रज्नि_12.156
यस्योच्चैश् चरितानि शीतसुरभीण्य् अभ्यस्य सत्यात्मनो दुश्चारित्रजना निषङ्गजनितं द्राग् दौःस्थम् आस्थन् स्वकम् तस्यायं कृतिनः कृतौ नरहरेः श्रीचन्दनादिः स्थितिं वर्गो वाञ्छति नामनैगमशिखाभूषामणौ द्वादशः ॥ रज्नि_12.157
राजनिघण्टु, सुवर्णादिवर्ग

त्रिस्वर्णरौप्यताम्राणि त्रपु सीसं द्विरीतिका ।
कांस्यायो वर्तकं कान्तं किट्टं मुण्डं च तीक्ष्णकम् ॥ रज्नि_13.1
शिला सिन्दूरभूनागं हिङ्गुलं गैरिकं द्विधा ।
तुवरी हरितालं च गन्धकं च शिलाजतु ॥ रज्नि_13.2
सिक्थकं च द्विकासीसं माक्षिकौ पञ्चधाञ्जनम् ।
कम्पिल्लतुत्थरसकं पारदश् चाभ्रकं चतुः ॥ रज्नि_13.3
स्फटी च क्षुल्लकः शङ्खौ कपर्दः शुक्तिका द्विधा ।
खटिनी दुग्धपाषाणो मणिश् च कर्पूराद्यकः ॥ रज्नि_13.4
सिकता च द्विकङ्गुष्ठं विमला च द्विधा मता ।
तथाखुप्रस्तरश् चैव शरवेदमिताह्वयाः ।
अथ रत्नं नवं वक्ष्ये पद्मरागादिकं क्रमात् ॥ रज्नि_13.5
माणिक्यमुक्ताफलविद्रुमाणि गारुत्मतं स्याद् अथ पुष्परागः ।
वज्रं च नीलं च नव क्रमेण गोमेदवैडूर्ययुतानि तानि ॥ रज्नि_13.6
स्फटिकश् च सूर्यकान्तो वैक्रान्तश् चन्द्रकान्तकः ।
राजावर्तः पेरोजं स्याद् उभौ बाणाश् च संख्यया ॥ रज्नि_13.7
स्वर्णं सुवर्णकनकोज्ज्वलकाञ्चनानि कल्याणहाटकहिरण्यमनोहराणि ।
गाङ्गेयगैरिकमहारजताग्निवीर्यरुक्माग्निहेमतपनीयकभास्कराणि ॥ रज्नि_13.8
जाम्बूनदाष्टापदजातरूपपिञ्जानचामीकरकर्बुराणि ।
कार्तस्वरापिञ्जरभर्मभूरितेजांसि दीप्तानलपीतकानि ॥ रज्नि_13.9
मङ्गल्यसौमेरवशातकुम्भशृङ्गारचन्द्राजरजाम्बवानि ।
आग्नेयनिष्काग्निशिखानि चेति नेत्राब्धिनिर्धारितनाम हेम ॥ रज्नि_13.10
स्वर्णं स्निग्धकषायतिक्तमधुरं दोषत्रयध्वंसनं शीतं स्वादु रसायनं च रुचिकृच् चक्षुष्यम् आयुष्प्रदम् ।
प्रज्ञावीर्यबलस्मृतिस्वरकरं कान्तिं विधत्ते तनोः संधत्ते दुरितक्षयं श्रियम् इदं धत्ते नॄणां धारणात् ॥ रज्नि_13.11
दाहे च रक्तम् अथ यच् च सितं छिदायां काश्मीरकान्ति च विभाति निकाषपट्टे ।
स्निग्धं च गौरवम् उपैति च यत् तुलायां जात्या तद् एव कनकं मृदु रक्तपीतम् ॥ रज्नि_13.12
तच् चैकं रसवेधजं तद् अपरं जातं स्वयं भूमिजं किंचान्यद् बहुलोहसंकरभवं चेति त्रिधा काञ्चनम् ।
तत्राद्यं किल पीतरक्तम् अपरं रक्तं ततो ऽन्यत् तथा मैरालं तद् अतिक्रमेण तद् इदं स्यात् पूर्वपूर्वोत्तमम् ॥ रज्नि_13.13
रौप्यं शुभ्रं वसुश्रेष्ठं रुचिरं चन्द्रलोहकम् ।
श्वेतकं तु महाशुभ्रं रजतं तप्तरूपकम् ॥ रज्नि_13.14
चन्द्रभूतिः सितं तारं कलधौतेन्दुलोहकम् ।
कुप्यं धौतं तथा सौधं चन्द्रहासं मुनीन्दुकम् ॥ रज्नि_13.15
रौप्यं स्निग्धं कषायाम्लं विपाके मधुरं सरम् ।
वातपित्तहरं रुच्यं वलीपलितनाशनम् ॥ रज्नि_13.16
दाहच्छेदनिकाषेषु सितं स्निग्धं च यद् गुरु ।
सुघर्षे ऽपि च वर्णाढ्यम् उत्तमं तद् उदीरितम् ॥ रज्नि_13.17
ताम्रं म्लेच्छमुखं शुल्वं तपनेष्टम् उदुम्बरम् ।
त्र्यम्बकं चारविन्दं च रविलोहं रविप्रियम् ।
रक्तं नेपालकं चैव रक्तधातुः करेन्दुधा ॥ रज्नि_13.18
ताम्रं सुपक्वं मधुरं कषायं तिक्तं विपाके कटु शीतलं च ।
कफापहं पित्तहरं विबन्धशूलघ्नपाण्डूदरगुल्मनाशि ॥ रज्नि_13.19

घनघातसहं स्निग्धं रक्तपत्त्रामलं मृदु ।
शुद्धाकरसमुत्पन्नं ताम्रं शुभम् असंकरम् ॥ रज्नि_13.20
त्रपु त्रपुसमाण्डूकं वङ्गं च मधुरं हिमम् ।
कुरूप्यं पिच्चटं रङ्गं पूतिगन्धं दशाह्वयम् ॥ रज्नि_13.21
त्रपुसं कटुतिक्तहिमं कषायलवणं सरं च मेहघ्नम् ।
क्रिमिदाहपाण्डुशमनं कान्तिकरं तद् रसायनं चैव ॥ रज्नि_13.22
श्वेतं लघु मृदु स्वच्छं स्निग्धम् उष्णापहं हिमम् ।
सूतपत्त्रकरं कान्तं त्रपु श्रेष्ठम् उदाहृतम् ॥ रज्नि_13.23
सीसकं तु जडं सीसं यवनेष्टं भुजंगमम् ।
योगीष्टं नागपुरगं कुवङ्गं परिपिष्टकम् ॥ रज्नि_13.24
मृदु कृष्णायसं पद्मं तारशुद्धिकरं स्मृतम् ।
सिरावृत्तं च वङ्गं स्याच् चीनपिष्टं च षोडश ॥ रज्नि_13.25
सीसं तु वङ्गतुल्यं स्यात् रसवीर्यविपाकतः ।
उष्णं च कफवातघ्नम् अर्शोघ्नं गुरु लेखनम् ॥ रज्नि_13.26
स्वर्णे नीलं मृदु स्निग्धं निर्मलं च सुगौरत्वम् ।
रौप्यसंशोधनं क्षिप्रं सीसकं च तद् उत्तमम् ॥ रज्नि_13.27
रीतिः क्षुद्रसुवर्णं सिंहलकं पिङ्गलं च पित्तलकम् ।
लौहितकम् आरकुट्टं पिङ्गललोहं च पीतकं नवधा ॥ रज्नि_13.28
राजरीतिः काकतुण्डी राजपुत्री महेश्वरी ।
ब्राह्मणी ब्रह्मरीतिश् च कपिला पिङ्गलापि च ॥ रज्नि_13.29
रीतिकायुगलं तिक्तं शीतलं लवणं रसे ।
शोधनं पाण्डुवातघ्नं क्रिमिप्लीहार्तिपित्तजित् ॥ रज्नि_13.30
शुद्धा स्निग्धा मृदुः शीता सुरङ्गा सूत्रपत्त्रिणी ।
हेमोपमा शुभा स्वच्छा जन्या रीतिः प्रकीर्तिता ॥ रज्नि_13.31
कांस्यं सौराष्ट्रिकं घोषं कंसीयं वह्निलोहकम् ।
दीप्तं लोहं घोरपुष्पं दीप्तकं सुमनाह्वयम् ॥ रज्नि_13.32
कांस्यं तु तिक्तम् उष्णं चक्षुष्यं वातकफविकारघ्नम् ।
रूक्षं कषायरुच्यं लघु दीपनपाचनं पथ्यम् ॥ रज्नि_13.33
श्वेतं दीप्तं मृदु ज्योतिः शब्दाढ्यं स्निग्धनिर्मलम् ।
घनाग्निसहसूत्राङ्गं कांस्यम् उत्तमम् ईरितम् ॥ रज्नि_13.34
वर्तलोहं वर्ततीक्ष्णं वर्तकं लोहसंकरम् ।
नीलिका नीललोहं च लोहजं वट्टलोहकम् ॥ रज्नि_13.35
इदं लोहं कटूष्णं च तिक्तं च शिशिरं तथा ।
कफहृत् पित्तशमनं मधुरं दाहमेहनुत् ॥ रज्नि_13.36
अयस्कान्तं कान्तलोहं कान्तं स्याल् लोहकान्तिकम् ।
कान्तायसं कृष्णलोहं महालोहं च सप्तधा ॥ रज्नि_13.37
स्याद् भ्रामकं तदनु चुम्बकरोमकाख्यं स्याच् छेदकाख्यम् इति तच् च चतुर्विधं स्यात् ।
कान्ताश्मलोहगुणवृद्धि यथाक्रमेण दार्ढ्याङ्गकान्तिकचकार्ष्ण्यविरोगदायि ॥ रज्नि_13.38
अयस्कान्तविशेषाः स्युर् भ्रामकाश् चुम्बकादयः ।
रसायनकराः सर्वे देहसिद्धिकराः पराः ॥ रज्नि_13.39

न सूतेन विना कान्तं न कान्तेन विना रसः ।
सूतकान्तसमायोगाद् रसायनम् उदीरितम् ॥ रज्नि_13.40
लोहकिट्टं तु किट्टं स्याल् लोहचूर्णम् अयोमलम् ।
लोहजं कृष्णचूर्णं च कार्ष्ण्यं लोहमलं तथा ॥ रज्नि_13.41
लोहकिट्टं तु मधुरं कटूष्णं क्रिमिवातनुत् ।
पक्तिशूलं मरुच्छूलं मेहगुल्मार्तिशोफनुत् ॥ रज्नि_13.42
मुण्डं मुण्डायसं लोहं दृषत्सारं शिलात्मजम् ।
अश्मजं कृषिलोहं च आरं कृष्णायसं नव ॥ रज्नि_13.43
तीक्ष्णं शस्त्रायसं शस्त्रं पिण्डं पिण्डायसं शठम् ।
आयसं निशितं तीव्रं लोहखड्गं च मुण्डजम् ।
अयश्चित्रायसं प्रोक्तं चीनजं वेदभूमितम् ॥ रज्नि_13.44
लोहं रूक्षोष्णतिक्तं स्याद् वातपित्तकफापहम् ।
प्रमेहपाण्डुरशूलघ्नं तीक्ष्णं मुण्डाधिकं स्मृतम् ॥ रज्नि_13.45
स्वर्णं सम्यगशोधितं श्रमकरं स्वेदावहं दुःसहं रौप्यं जाठरजाड्यमान्द्यजननं ताम्रं वमिभ्रान्तिदम् ।
नागं च त्रपु चाङ्गदोषदम् अयो गुल्मादिदोषप्रदं तीक्ष्णं शूलकरं च कान्तम् उदितं कार्ष्ण्यामयस्फोटदम् ॥ रज्नि_13.46
विशुद्धिहीनौ यदि मुण्डतीक्ष्णौ क्षुधापहौ गौरवगुल्मदायकौ ।
कांस्यायसं क्लेदकतापकारकं रीत्यौ च सम्मोहनशोषदायिके ॥ रज्नि_13.47
मनःशिला स्यात् कुनटी मनोज्ञा शिला मनोह्वापि च नागजिह्वा ।
नेपालिका स्यान् मनसश् च गुप्ता कल्याणिका रोगशिला दशाह्वा ॥ रज्नि_13.48
मनःशिला कटुः स्निग्धा लेखनी विषनाशनी ।
भूतावेशभयोन्मादहारिणी वश्यकारिणी ॥ रज्नि_13.49
सिन्दूरं नागरेणुः स्याद् रक्तं सीमन्तकं तथा ।
नागजं नागगर्भं च शोणं वीररजः स्मृतम् ॥ रज्नि_13.50
गणेशभूषणं संध्यारागं शृङ्गारकं स्मृतम् ।
सौभाग्यम् अरुणं चैव मङ्गल्यं मनुसंमितम् ॥ रज्नि_13.51
सिन्दूरं कटुकं तिक्तम् उष्णं व्रणविरोपणम् ।
कुष्ठास्रविषकण्डूतिवीसर्पशमनं परम् ॥ रज्नि_13.52
सुरङ्गो ऽग्निसहः सूक्ष्मः स्निग्धः स्वच्छो गुरुर् मृदुः ।
सुवर्णकरजः शुद्धः सिन्दूरो मङ्गलप्रदः ॥ रज्नि_13.53
भूनागः क्षितिनागश् च भूजन्तू रक्तजन्तुकः ।
क्षितिजः क्षितिजन्तुश् च भूमिजो रक्ततुण्डकः ॥ रज्नि_13.54
भूनागो वज्रमारः स्यान् नानाविज्ञानकारकः ।
रसस्य जारणे तूक्तं तत् सत्त्वं तु रसायनम् ॥ रज्नि_13.55
हिङ्गुलं बर्बरं रक्तं सुरङ्गं सुगरं स्मृतम् ।
रञ्जनं दरदं म्लेच्छं चित्राङ्गं चूर्णपारदम् ॥ रज्नि_13.56
अन्यच् च मारकं चैव मणिरागं रसोद्भवम् ।
रञ्जकं रसगर्भं च बाणभूसंख्यसंमितम् ॥ रज्नि_13.57
हिङ्गुलं मधुरं तिक्तम् उष्णवातकफापहम् ।
त्रिदोषद्वंद्वदोषोत्थं ज्वरं हरति सेवितम् ॥ रज्नि_13.58
गैरिकं रक्तधातुः स्याद् गिरिधातुर् गवेधुकम् ।

धातुः सुरङ्गधातुश् च गिरिजं गिरिमृद्भवम् ॥ रज्नि_13.59
सुवर्णगैरिकं चान्यत् स्वर्णधातुः सुरक्तकम् ।
संध्याभ्रं बभ्रुधातुश् च शिलाधातुः षडाह्वयम् ॥ रज्नि_13.60
गैरिकं मधुरं शीतं कषायं व्रणरोपणम् ।
विस्फोटार्शोऽग्निदाहघ्नं वरं स्वर्णादिकं शुभम् ॥ रज्नि_13.61
तुवरी मृच् च सौराष्ट्री मृत्स्ना सङ्गा सुराष्ट्रजा ।
भूघ्नी मृतालकं कासी मृत्तिका सुरमृत्तिका ।
स्तुत्या काङ्क्षी सुजाता च ज्ञेया चैव चतुर्दश ॥ रज्नि_13.62
तुवरी तिक्तकटुका कषायाम्ला च लेखनी ।
चक्षुष्या ग्रहणीछर्दिपित्तसंतापहारिणी ॥ रज्नि_13.63
हरितालं गोदन्तं पीतं नटमण्डनं च गौरं च ।
चित्राङ्गं पिञ्जरकं भवेद् आलं तालकं च तालं च ॥ रज्नि_13.64
कनकरसं काञ्चनकं बिडालकं चैव चित्रगन्धं च ।
पिङ्गं च पिङ्गसारं गौरीललितं च सप्तदशसंज्ञम् ॥ रज्नि_13.65
हरितालं कटूष्णं च स्निग्धं त्वग्दोषनाशनम् ।
भूतभ्रान्तिप्रशमनं विषवातरुजार्तिजित् ॥ रज्नि_13.66
गन्धको गन्धपाषाणो गन्धाश्मा गन्धमोदनः ।
पूतिगन्धो ऽतिगन्धश् च वटः सौगन्धिकस् तथा ॥ रज्नि_13.67
सुगन्धो दिव्यगन्धश् च गन्धश् च रसगन्धकः ।
कुष्ठारिः क्रूरगन्धश् च कीटघ्नः शरभूमितः ॥ रज्नि_13.68
गन्धकः कटुर् उष्णश् च तीव्रगन्धो ऽतिवह्निकृत् ।
विषघ्नः कुष्ठकण्डूतिखर्जूत्वग्दोषनाशनः ॥ रज्नि_13.69
श्वेतो रक्तश् च पीतश् च नीलश् चेति चतुर्विधः ।
गन्धको वर्णतो ज्ञेयो भिन्नो भिन्नगुणाश्रयः ॥ रज्नि_13.70
श्वेतः कुष्ठापहारी स्याद् रक्तो लोहप्रयोगकृत् ।
पीतो रसप्रयोगार्हो नीलो वर्णान्तरोचितः ॥ रज्नि_13.71
शिलाजतु स्याद् अश्मोत्थं शैलं गिरिजम् अश्मजम् ।
अश्मलाक्षाश्मजतुकं जत्वश्मकम् इति स्मृतम् ॥ रज्नि_13.72
शिलाजतु भवेत् तिक्तं कटूष्णं च रसायनम् ।
मेहोन्मादाश्मरीशोफकुष्ठापस्मारनाशनम् ॥ रज्नि_13.73
सिक्थकं मधुकं सिक्थं मधुजं मधुसम्भवम् ।
मदनकं मधूच्छिष्टं मदनं मक्षिकामलम् ॥ रज्नि_13.74
क्षौद्रेयं पीतरागं च स्निग्धं माक्षिकजं तथा ।
क्षौद्रजं मधुशेषं च द्रावकं मक्षिकाश्रयम् ।
मधूषितं च सम्प्रोक्तं मधूत्थं चोनविंशति ॥ रज्नि_13.75
सिक्थकं कपिलं स्वादु कुष्ठवातार्तिजिन् मृदु ।
कटु स्निग्धं च लेपेन स्फुटिताङ्गविरोपणम् ॥ रज्नि_13.76
कासीसं धातुकासीसं केसरं हंसलोमशम् ।
शोधनं पांशुकासीसं शुभ्रं सप्ताह्वयं मतम् ॥ रज्नि_13.77
कासीसं तु कषायं स्यात् शिशिरं विषकुष्ठजित् ।

खर्जूक्रिमिहरं चैव चक्षुष्यं कान्तिवर्धनम् ॥ रज्नि_13.78
द्वितीयं पुष्पकासीसं वत्सकं च मलीमसम् ।
ह्रस्वं नेत्रौषधं योज्यं विशदं नीलमृत्तिका ॥ रज्नि_13.79
पुष्पकासीसं तिक्तं शीतं नेत्रामयापहम् ।
लेपेनात्यामकुष्ठादिनानात्वग्दोषनाशनम् ॥ रज्नि_13.80
माक्षिकं चैव माक्षीकं पीतकं धातुमाक्षिकम् ।
तापीजं ताप्यकं ताप्यमापीतं पीतमाक्षिकम् ॥ रज्नि_13.81
आवर्तं मधुधातुः स्यात् क्षौद्रधातुस् तथापरः ।
प्रोक्तं माक्षिकधातुश्च वेदभूर् हेममाक्षिकम् ॥ रज्नि_13.82
माक्षिकं मधुरं तिक्तमम्लं कटु कफापहम् ।
भ्रमहृल्लासमूर्छार्तिश्वासकासविषापहम् ॥ रज्नि_13.83
माक्षिकं द्विविधं प्रोक्तं हेमाह्वं तारमाक्षिकम् ।
भिन्नवर्णविशेषत्वात् रसवीर्यादिकं पृथक् ॥ रज्नि_13.84
तारवादादिके तारमाक्षिकं च प्रशस्यते ।
देहे हेमादिकं शस्तं रोगहृद् बलपुष्टिदम् ॥ रज्नि_13.85
अञ्जनं यामुनं कृष्णं नादेयं मेचकं तथा ।
स्रोतोजं दृक्प्रदं नीलं सौवीरं च सुवीरजम् ॥ रज्नि_13.86
तथा नीलाञ्जनं चैव चक्षुष्यं वारिसम्भवम् ।
कपोतकं च कापोतं सम्प्रोक्तं शरभूमितम् ॥ रज्नि_13.87
शीतं नीलाञ्जनं प्रोक्तं कटु तिक्तं कषायकम् ।
चक्षुष्यं कफवातघ्नं विषघ्नं च रसायनम् ॥ रज्नि_13.88
कुलत्था दृक्प्रसादा च चक्षुष्याथ कुलत्थिका ।
कुलाली लोचनहिता कुम्भकारी मलापहा ॥ रज्नि_13.89
कुलत्थिका तु चक्षुष्या कषाया कटुका हिमा ।
विषविस्फोटकण्डूतिव्रणदोषनिबर्हिणी ॥ रज्नि_13.90
पुष्पाञ्जनं पुष्पकेतुः कौसुम्भं कुसुमाञ्जनम् ।
रीतिकं रीतिकुसुमं रीतिपुष्पं च पौष्पकम् ॥ रज्नि_13.91
पुष्पाञ्जनं हिमं प्रोक्तं पित्तहिक्काप्रदाहनुत् ।
नाशयेद् विषकासार्तिं सर्वनेत्रामयापहम् ॥ रज्नि_13.92
रसाञ्जनं रसोद्भूतं रसगर्भं रसाग्रजम् ।
कृतकं बालभैषज्यं दार्वीक्वाथोद्भवं तथा ॥ रज्नि_13.93
रसजातं तार्क्ष्यशैलं ज्ञेयं वर्याञ्जनं तथा ।
रसनाभं चाग्निसारं द्वादशाह्वं च कीर्तितम् ॥ रज्नि_13.94
रीत्यां तु ध्मायमानायां तत्किट्टं तु रसाञ्जनम् ।
तदभावे तु कर्तव्यं दार्वीक्वाथसमुद्भवम् ॥ रज्नि_13.95
स्रोतोञ्जनं वारिभवं तथान्यं स्रोतोद्भवं स्रोतनदीभवं च ।
सौवीरसारं च कपोतसारं वल्मीकशीर्षं मुनिसंमिताह्वम् ॥ रज्नि_13.96
स्रोतोञ्जनं शीतकटु कषायं क्रिमिनाशनम् ।
रसाञ्जनं रसे योग्यं स्तन्यवृद्धिकरं परम् ॥ रज्नि_13.97
वल्मीकशिखराकारं भिन्ननीलाञ्जनप्रभम् ।

घृष्टे च गैरिकावर्णं श्रेष्ठं स्रोतोञ्जनं च तत् ॥ रज्नि_13.98
कम्पिल्लको ऽथ रक्ताङ्गो रेचनो रेचकस्तथा ।
रञ्जको लोहिताङ्गश्च कम्पिल्लो रक्तचूर्णकः ॥ रज्नि_13.99
कम्पिल्लको विरेची स्यात् कटूष्णो व्रणनाशनः ।
कफकासार्तिहारी च जन्तुक्रिमिहरो लघुः ॥ रज्नि_13.100
तुत्थं नीलाश्मजं नीलं हरिताश्मं च तुत्थकम् ।
मयूरग्रीवकं चैव ताम्रगर्भामृतोद्भवम् ।
मयूरतुत्थं सम्प्रोक्तं शिखिकण्ठं दशाह्वयम् ॥ रज्नि_13.101
तुत्थं कटु कषायोष्णं श्वित्रनेत्रामयापहम् ।
विषदोषेषु सर्वेषु प्रशस्तं वान्तिकारकम् ॥ रज्नि_13.102
द्वितीयं खर्परीतुत्थं खर्परी रसकं तथा ।
चक्षुष्यममृतोत्पन्नं तुत्थखर्परिका तु षट् ॥ रज्नि_13.103
खर्परी कटुका तिक्ता चक्षुष्या च रसायनी ।
त्वग्दोषशमनी रुच्या दीप्या पुष्टिविवर्धनी ॥ रज्नि_13.104
पारदो रसराजश्च रसनाथो महारसः ।
रसश्चैव महतेजा रसलोहो रसोत्तमः ॥ रज्नि_13.105
सूतराट् चपलो जैत्रः शिवबीजं शिवस् तथा ।
अमृतं च रसेन्द्रः स्याल्लोकेशो धूर्तरः प्रभुः ॥ रज्नि_13.106
रुद्रजो हरतेजश्च रसधातुर् अचिन्त्यजः ।
खेचरश्चामरः प्रोक्तो देहदो मृत्युनाशनः ॥ रज्नि_13.107
स्कन्दः स्कन्दांशकः सूतो देवो दिव्यरसस्तथा ।
प्रोक्तो रसायनश्रेष्ठो यशोदस्त्रित्रिधाह्वयः ॥ रज्नि_13.108
पारदः सकलरोगनाशनः षड्रसो निखिलयोगवाहकः ।
पञ्चभूतमय एष कीर्तितो देहलोहपरसिद्धिदायकः ॥ रज्नि_13.109
मूर्छितो हरते व्याधीन् बद्धः खेचरसिद्धिदः ।
सर्वसिद्धिकरो नीलो निरुद्धो देहसिद्धिदः ॥ रज्नि_13.110
विविधव्याधिभयोदयमरणजरासंकटे ऽपि मर्त्यानाम् ।
पारं ददाति यस्मात्तस्मादयमेव पारदः कथितः ॥ रज्नि_13.111
अभ्रकमभ्रं भृङ्गं व्योमाम्बरम् अन्तरिक्षमाकाशम् ।
बहुपत्त्रं खमनन्तं गौरीजं गौरिजेयमिति रवयः ॥ रज्नि_13.112
श्वेतं पीतं लोहितं नीलमभ्रं चातुर्विध्यं याति भिन्नक्रियार्हम् ।
श्वेतं तारे काञ्चने पीतरक्ते नीलं व्याधाव् अग्र्यम् अग्र्यं गुणाढ्यम् ॥ रज्नि_13.113
नीलाभ्रं दर्दुरो नागः पिनाको वज्र इत्यपि ।
चतुर्विधं भवेत्तस्य परीक्षा कथ्यते क्रमात् ॥ रज्नि_13.114
यद्वह्नौ निहितं तनोति नितरां भेकारवं दर्दुरो नागः फूत्कुरुते धनुःस्वनमुपादत्ते पिनाकः किल ।
वज्रं नैव विकारमेति तदिमान्यासेवमानः क्रमात् गुल्मी च व्रणवांश् च कुत्सितगदी नीरुक् च संजायते ॥ रज्नि_13.115
मनोजभावभावितौ यदा शिवौ परस्परम् ।
तदा किलाभ्रपारदौ गुहोद्भवौ बभूवतुः ॥ रज्नि_13.116
स्फटी च स्फटिकी प्रोक्ता श्वेता शुभ्रा च रङ्गदा ।
रङ्गदृढा दृढरङ्गा रङ्गाङ्गा वसुसंमिता ॥ रज्नि_13.117

स्फटी च कटुका स्निग्धा कषाया प्रदरापहा ।
मेहकृच्छ्रवमीशोषदोषघ्नी दृढरङ्गदा ॥ रज्नि_13.118
क्षुल्लकः क्षुद्रशङ्खः स्यात् शम्बूको नखशङ्खकः ।
क्षुल्लकः कटुकस् तिक्तः शूलहारी च दीपनः ॥ रज्नि_13.119
शङ्खो ह्य् अर्णोभवः कम्बुर् जलजः पावनध्वनिः ।
कुटिलो ऽन्तर्महानादः कम्बूः पूतः सुनादकः ॥ रज्नि_13.120
सुस्वरो दीर्घनादश्च बहुनादो हरिप्रियः ।
एवं षोडशधा ज्ञेयो धवलो मङ्गलप्रदः ॥ रज्नि_13.121
शङ्खः कटुरसः शीतः पुष्टिवीर्यबलप्रदः ।
गुल्मशूलहरः श्वासनाशनो विषदोषनुत् ॥ रज्नि_13.122
क्रिमिशङ्खः क्रिमिजलजः क्रिमिवारिरुहश्च जन्तुकम्बुश् च ।
कथितो रसवीर्याद्यैः कृतधीभिः शङ्खसदृशो ऽयम् ॥ रज्नि_13.123
कपर्दको वराटश्च कपर्दिश्च वराटिका ।
चराचरश् चरो वर्यो बालक्रीडरनकश्च सः ॥ रज्नि_13.124
कपर्दः कटुतिक्तोष्णः कर्णशूलव्रणापहः ।
गुल्मशूलामयघ्नश्च नेत्रदोषनिकृन्तनः ॥ रज्नि_13.125
शुक्तिर्मुक्ताप्रसूश्चैव महाशुक्तिश्च शुक्तिका ।
मुक्तास्फोटस् तौतिकं तु मौक्तिकप्रसवा च सा ।
ज्ञेया मौक्तिकशुक्तिश्च मुक्तामाताङ्कधा स्मृता ॥ रज्नि_13.126
मुक्ताशुक्तिः कटुः स्निग्धा श्वासहृद्रोगहारिणी ।
शूलप्रशमनी रुच्या मधुरा दीपनी परा ॥ रज्नि_13.127
जलशुक्तिर्वारिशुक्तिः क्रिमिसूः क्षुद्रशुक्तिका ।
शम्बूका जलशुक्तिश्च पुटिका तोयशुक्तिका ॥ रज्नि_13.128
जलशुक्तिः कटुः स्निग्धा दीपनी गुल्मशूलनुत् ।
विषदोषहरा रुच्या पाचनी बलदायिनी ॥ रज्नि_13.129
खटिनी खटिका चैव खटी धवलमृत्तिका ।
सितधातुः श्वेतधातुः पाण्डुमृत्पाण्डुमृत्तिका ॥ रज्नि_13.130
खटिनी मधुरा तिक्ता शीतला पित्तदाहनुत् ।
व्रणदोषकफास्रघ्नी नेत्ररोगनिकृन्तनी ॥ रज्नि_13.131
दुग्धाश्मा दुग्धपाषाणः क्षीरी गोमेदसंनिभः ।
वज्राभो दीप्तिकः सौधो दुग्धी क्षीरयवोऽपि च ॥ रज्नि_13.132
दुग्धपाषाणको रुच्य ईषदुष्णो ज्वरापहः ।
पित्तहृद्रोगशूलघ्नः कासाध्मानविनाशनः ॥ रज्नि_13.133
कर्पूरनामभिश् चादाव् अन्ते च मणिवाचकः ।
कर्पूरमणिनामायं युक्त्या वातादिदोषनुत् ॥ रज्नि_13.134
सिकता वालुका सिक्ता शीतला सूक्ष्मशर्करा ।
प्रवाहोत्था महाश्लक्ष्णा सूक्ष्मा पानीयचूर्णका ॥ रज्नि_13.135
वालुका मधुरा शीता संतापश्रमनाशिनी ।
सेकप्रयोगतश्चैव शाखाशैत्यानिलापहा ॥ रज्नि_13.136
कङ्कुष्ठं कालकुष्ठं च विरङ्गं रङ्गदायकम् ।

रेचकं पुलकं चैव शोधकं कालपालकम् ॥ रज्नि_13.137
कङ्कुष्ठं च द्विधा प्रोक्तं तारहेमाभ्रकं तथा ।
कटुकं कफवातघ्नं रेचकं व्रणशूलहृत् ॥ रज्नि_13.138
विमलं निर्मलं स्वच्छममलं स्वच्छधातुकम् ।
बाणसंख्याभिधं प्रोक्तं तारहेम द्विधा मतम् ॥ रज्नि_13.139
विमलं कटुतिक्तोष्णं त्वग्दोषव्रणनाशनम् ।
रसवीर्यादिके तुल्यं वेधे स्याद् भिन्नवीर्यकम् ॥ रज्नि_13.140
मूषकस्याभिधा पूर्वं पाषाणस्याभिधा ततः ।
आखुपाषाणनामायं लोहसंकरकारकः ॥ रज्नि_13.141
धनार्थिनो जनाः सर्वे रमन्तेऽस्मिन्नतीव यत् ।
ततो रत्नमिति प्रोक्तं शब्दशास्त्रविशारदैः ॥ रज्नि_13.142
द्रव्यं किंचन लक्ष्मीभोग्यं वसुवस्तुसम्पदो वृद्धिः ।
श्रीर् व्यवहार्यं द्रविणं धनमर्थो राः स्वापतेयं च ॥ रज्नि_13.143
रत्नं वसुमणिरुपलो दृषद् द्रविणदीप्तवीर्याणि ।
रौहिणकमब्धिसारं खानिकमाकरजमित्यभिन्नार्थाः ॥ रज्नि_13.144
माणिक्यं शोणरत्नं च रत्नराड्रविरत्नकम् ।
शृङ्गारि रङ्गमाणिक्यं तरलो रत्ननायकः ॥ रज्नि_13.145
रागदृक् पद्मरागश्च रत्नं शोणोपलस्तथा ।
सौगन्धिकं लोहितकं कुरुविन्दं शरेन्दुकम् ॥ रज्नि_13.146
माणिक्यं मधुरं स्निग्धं वातपित्तप्रणाशनम् ।
रत्नप्रयोगप्रज्ञानां रसायनकरं परम् ॥ रज्नि_13.147
स्निग्धं गुरुगात्रयुतं दीप्तं स्वच्छं सुरङ्गं च ।
इति जात्यादिमाणिक्यं कल्याणं धारणात्कुरुते ॥ रज्नि_13.148
द्विछायम् अभ्रपिहितं कर्कशशर्करिलं भिन्नधूम्रं च ।
रागविकलं विरूपं लघु माणिक्यं न धारयेद्धीमान् ॥ रज्नि_13.149
तद्रक्तं यदि पद्मरागमथ तत्पीतातिरक्तं द्विधा जानीयात् कुरुविन्दकं यदरुणं स्यादेषु सौगन्धिकम् ।
तन्नीलं यदि नीलगन्धिकमिति ज्ञेयं चतुर्धा बुधैर् माणिक्यं कषघर्षणे ऽप्यविकलं रागेण जात्यं जगुः ॥ रज्नि_13.150
मुक्ता सौम्या मौक्तिकं मौक्तिकेयं तारं तारा भौतिकं तारका च ।
अम्भःसारं शीतलं नीरजं च नक्षत्रं स्याद् इन्द्ररत्नं वलक्षम् ॥ रज्नि_13.151
मुक्ताफलं बिन्दुफलं च मुक्तिका शौक्तेयकं शुक्लमणिः शशिप्रियम् ।
स्वच्छं हिमं हैमवतं सुधांशुभं सुधांशुरत्नं शरनेत्रसंमितम् ॥ रज्नि_13.152
मौक्तिकं च मधुरं सुशीतलं दृष्टिरोगशमनं विषापहम् ।
राजयक्ष्ममुखरोगनाशनं क्षीणवीर्यबलपुष्टिवर्धनम् ॥ रज्नि_13.153
नक्षत्राभं वृत्तमत्यन्तमुक्तं स्निग्धं स्थूलं निर्मलं निर्व्रणं च ।
न्यस्तं धत्ते गौरवं यत्तुलायां तन् निर्मूल्यं मौक्तिकं सौख्यदायि ॥ रज्नि_13.154
यद्विच्छायं मौक्तिकं व्यङ्गकायं शुक्तिस्पर्शं रक्ततां चापि धत्ते ।
मत्स्याक्ष्याभं रूक्षमुत्ताननिम्नं नैतद्धार्यं धीमता दोषदायि ॥ रज्नि_13.155
मातंगोरगमीनपोत्रिशिरसस् त्वक्सारशङ्खाम्बुभृत् शुक्तीनामुदराच्च मौक्तिकमणिः स्पष्टं भवत्यष्टधा ।
छायाः पाटलनीलपीतधवलास् तत्रापि सामान्यतः सप्तानां बहुशो न लब्धिर् इतरच्छौक्तेयकं तूल्वणम् ॥ रज्नि_13.156
लवणक्षारक्षोदिनि पात्रे गोमूत्रपूरिते क्षिप्तम् ।

मर्दितमपि शालितुषैर्यदविकृतं तत्तु मौक्तिकं जात्यम् ॥ रज्नि_13.157
प्रवालो ऽङ्गारकमणिर्विद्रुमो ऽम्भोधिपल्लवः ।
भौमरत्नं च रक्ताङ्गो रक्ताङ्कुरो लतामणिः ॥ रज्नि_13.158
प्रवालो मधुरोऽम्लश्च कफपित्तादिदोषनुत् ।
वीर्यकान्तिकरः स्त्रीणां धृतो मङ्गलदायकः ॥ रज्नि_13.159
शुद्धं दृढघनं वृतं स्निग्धगात्रं सुरङ्गकम् ।
समं गुरु सिराहीनं प्रवालं धारयेत् शुभम् ॥ रज्नि_13.160
गौररङ्गं जलाक्रान्तं वक्रं सूक्ष्मं सकोटरम् ।
रूक्षं कृष्णं लघु श्वेतं प्रवालम् अशुभं त्यजेत् ॥ रज्नि_13.161
बालार्ककिरणरक्ता सागरसलिलोद्भवा प्रवाललता ।
या न त्यजति निजरुचिं निकषे घृष्टापि सा स्मृता जात्या ॥ रज्नि_13.162
गारुत्मतं मरकतं रौहीणेयं हरिन्मणिः ।
सौपर्णं गरुडोद्गीर्णं बुधरत्नाश्मगर्भजम् ।
गरलारिर् वायवालं गारुडं रुद्रसंमितम् ॥ रज्नि_13.163
मरकतं विषघ्नं च शीतलं मधुरं रसे ।
आमपित्तहरं रुच्यं पुष्टिदं भूतनाशनम् ॥ रज्नि_13.164
स्वच्छं गुरु सुच्छायं स्निग्धं गात्रे च मार्दवसमेतम् ।
अव्यङ्गं बहुरङ्गं शृङ्गारि मरकतं शुभं बिभृयात् ॥ रज्नि_13.165
शर्करिलकलिलरूक्षं मलिनं लघु हीनकान्ति कल्माषम् ।
त्रासयुतं विकृताङ्गं मरकतममरोऽपि नोपभुञ्जीत ॥ रज्नि_13.166
यत् शैवालशिखण्डिशाद्वलहरित्काचैश्च चाषच्छदैः खद्योतेन च बालकीरवपुषा शैरीषपुष्पेण च ।
छायाभिः समतां दधाति तदिदं निर्दिष्टमष्टात्मकं जात्यं यत्तपनातपैश्च परितो गारुत्मतं रञ्जयेत् ॥ रज्नि_13.167
पीतस्तु पुष्परागः पीतस्फटिकश्च पीतरक्तश्च ।
पीताश्मा गुरुरत्नं पीतमणिः पुष्परागश्च ॥ रज्नि_13.168
पुष्परागोऽम्लशीतश्च वातजिद्दीपनः परः ।
आयुः श्रियं च प्रज्ञां च धारणात् कुरुते नृणाम् ॥ रज्नि_13.169
सच्छायपीतगुरुगात्रसुरङ्गशुद्धं स्निग्धं च निर्मलमतीव सुवृत्तशीतम् ।
यः पुष्परागम् अमलं कलयेदमुष्य पुष्णाति कीर्तिम् अतिशौर्यसुखायुर् अर्थान् ॥ रज्नि_13.170
कृष्णबिन्द्वङ्कितं रूक्षं धवलं मलिनं लघु ।
विच्छायं शर्कराङ्गाभं पुष्परागं सदोषकम् ॥ रज्नि_13.171
घृष्टं निकाषपट्टे यत्पुष्यति रागमधिकमात्मीयम् ।
तेन खलु पुष्परागो जात्यतयायं परीक्षकैर् उक्तः ॥ रज्नि_13.172
वज्रमिन्द्रायुधं हीरं भिदुरं कुलिशं पविः ।
अभेद्यमशिरं रत्नं दृढं भार्गवकं स्मृतम् ।
षट्कोणं बहुधारं च शतकोट्यब्धिभूमितम् ॥ रज्नि_13.173
वज्रं च षड्रसोपेतं सर्वरोगापहारकम् ।
सर्वाघशमनं सौख्यं देहदार्ढ्यं रसायनम् ॥ रज्नि_13.174
भस्माङ्गं काकपादं च रेखाक्रान्तं तु वर्तुलम् ।
अधारं मलिनं बिन्दुसंत्रासं स्फुटितं तथा ।
नीलाभं चिपिटं रूक्षं तद्वज्रं दोषदं त्यजेत् ॥ रज्नि_13.175

श्वेतालोहितपीतकमेचकतया छायाश् चतस्रः क्रमात् विप्रादित्वम् इहास्य यत् सुमनसः शंसन्ति सत्यं ततः ।
स्फीतां कीर्तिम् अनुत्तमां श्रियमिदं धत्ते यथास्वं धृतं मर्त्यानाम् अयथायथं तु कुलिशं पथ्यं हि नान्यत्ततः ॥ रज्नि_13.176
यत्पाषाणतले निकाषनिकरे नोद्घृष्यते निष्ठुरैर् यच्चोलूखललोहमुद्गरघनैर् लेखां न यात्याहतम् ।
यच्चान्यन्निजलीलयैव दलयेद्वज्रेण वा भिद्यते तज्जात्यं कुलिशं वदन्ति कुशलाः श्लाघ्यं महार्घ्यं च तत् ॥ रज्नि_13.177
विप्रः सो ऽपि रसायनेषु बलवानष्टाङ्गसिद्धिप्रदो राजन्यस्तु नृणां वलीपलितजित् मृत्युं जयेद् अञ्जसा ।
द्रव्याकर्षणसिद्धिदस्तु सुतरां वैश्वोऽथ शूद्रो भवेत् सर्वव्याधिहरस्तदेष कथितो वज्रस्य वर्ण्यो गुणः ॥ रज्नि_13.178
नीलस्तु सौरिरत्नं स्यान् नीलाश्मा नीलरत्नकः ।
नीलोपलस्तृणग्राही महानीलः सुनीलकः ।
मसारम् इन्द्रनीलं स्याद् गल्लर्कः पद्मरागजः ॥ रज्नि_13.179
नीलः सतिक्तकोष्णश्च कफपित्तानिलापहः ।
यो दधाति शरीरे स्यात् सौरिर्मङ्गलदो भवेत् ॥ रज्नि_13.180
न निम्नो निर्मलो गात्रमसृणो गुरुदीप्तिकः ।
तृणग्राही मृदुर्नीलो दुर्लभो लक्षणान्वितः ॥ रज्नि_13.181
मृच्छर्कराश्मकलिलो विच्छायो मलिनो लघुः ।
रूक्षः स्फुटितगर्तश् च वर्ज्यो नीलः सदोषकः ॥ रज्नि_13.182
सितशोणपीतकृष्णाश् छाया नीले क्रमादिमाः कथिताः ।
विप्रादिवर्णसिद्ध्यै धारणमस्यापि वज्रवत् फलवत् ॥ रज्नि_13.183
आस्त्यानं चन्द्रिकास्यन्दं सुन्दरं क्षीरपूरितम् ।
यः पात्रं रञ्जयत्याशु स जात्यो नील उच्यते ॥ रज्नि_13.184
गोमेदकस्तु गोमेदो राहुरत्नं तमोमणिः ।
स्वर्भानवः षडाह्वोऽयं पिङ्गस्फटिक इत्यपि ॥ रज्नि_13.185
गोमेदको ऽम्ल उष्णश्च वातकोपविकारजित् ।
दीपनः पाचनश्चैव धृतोऽयं पापनाशनः ॥ रज्नि_13.186
गोमूत्राभं यन्मृदु स्निग्धमुग्धं शुद्धच्छायं गौरवं यच्च धत्ते ।
हेमारक्तं श्रीमतां योग्यमेतत् गोमेदाख्यं रत्नम् आख्यान्ति सन्तः ॥ रज्नि_13.187
पात्रे यत्र न्यस्ते पयः प्रयात्येव गोजलोज्ज्वलताम् ।
घर्षेऽप्यहीनकान्तिं गोमेदं तं बुधा विदुर् जात्यम् ॥ रज्नि_13.188
अरङ्गं श्वेतकृष्णाङ्गं रेखात्रासयुतं लघु ।
विच्छायं शर्करागारं गोमेदं विबुधस् त्यजेत् ॥ रज्नि_13.189
वैडूर्यं केतुरत्नं च कैतवं बालवीयजम् ।
प्रावृष्यम् अभ्रलोहं च खशब्दाङ्कुरकस् तथा ।
वैडूर्यरत्नं सम्प्रोक्तं ज्ञेयं विदूरजं तथा ॥ रज्नि_13.190
वैडूर्यम् उष्णम् अम्लं च कफमारुतनाशनम् ।
गुल्मादिदोषशमनं भूषितं च शुभावहम् ॥ रज्नि_13.191
एकं वेणुपलाशपेशलरुचा मायूरकण्ठत्विषा मार्जारेक्षणपिङ्गलच्छविजुषा ज्ञेयं त्रिधा छायया ।
यद्गात्रे गुरुतां दधाति नितरां स्निग्धं तु दोषोज्झितं वैडूर्यं विमलं वदन्ति सुधियः स्वच्छं च तच्छोभनम् ॥ रज्नि_13.192
विच्छायं मृच्छिलागर्भे लघु रूक्षं च सक्षतम् ।
सत्रासं परुषं कृष्णं वैडूर्यं दूरतस् त्यजेत् ॥ रज्नि_13.193
घृष्टं यदात्मना स्वच्छं स्वछायां निकषाश्मनि ।
स्फुटं प्रदर्शयेद् एतद् वैडूर्यं जात्यमुच्यते ॥ रज्नि_13.194

माणिक्यं पद्मबन्धोर् अतिविमलतमं मौक्तिकं शीतभानोर् माहेयस्य प्रवालं मरकतमतुलं कल्पयेदिन्दुसूनोः ।
देवेज्ये पुष्परागं कुलिशमपि कवेर् नीलम् अर्कात्मजस्य स्वर्भानोश्चापि गोमेदकम् अथ विदुरोद्भावितं किंतु केतोः ॥ रज्नि_13.195
इत्थम् एतानि रत्नानि तत्तदुद्देशतः क्रमात् ।
यो दद्याद्बिभृयाद् वापि तस्मिन् सानुग्रहा ग्रहाः ॥ रज्नि_13.196
संत्यज्य वज्रम् एकं सर्वत्रान्यत्र संघाते ।
लाघवमथ कोमलता साधारणदोष एव विज्ञेयः ॥ रज्नि_13.197
लोहितकवज्रमौक्तिकमरकतनीला महोपलाः पञ्च ।
वैडूर्यपुष्परागप्रवालगोमेदकादयो ऽर्वाञ्चः ॥ रज्नि_13.198
गोमेदप्रवालवायव्यं देवेज्यमणीन्द्रतरणिकान्ताद्याः ।
नानावर्णगुणाढ्या विज्ञेयाः स्फटिकजातयः प्राज्ञैः ॥ रज्नि_13.199
स्फटिकः सितोपलः स्याद् अमलमणिर् निर्मलोपलः स्वच्छः ।
स्वच्छमणिरमलरत्नं निस्तुषरत्नं शिवप्रियं नवधा ॥ रज्नि_13.200
स्फटिकः समवीर्यश्च पित्तदाहार्तिदोषनुत् ।
तस्याक्षमाला जपतां दत्ते कोटिगुणं फलम् ॥ रज्नि_13.201
यद् गङ्गातोयबिन्दुछविविमलतमं निस्तुषं नेत्रहृद्यं स्निग्धं शुद्धान्तरालं मधुरम् अतिहिमं पित्तदाहास्रहारि ।
पाषाणैर् यन् निघृष्टं स्फुटितम् अपि निजां स्वच्छतां नैव जह्यात् तज्जात्यं जात्वलभ्यं शुभम् उपचिनुते शैवरत्नं विचित्रम् ॥ रज्नि_13.202
अथ भवति सूर्यकान्तस् तपनमणिस् तपनश्च रविकान्तः ।
दीप्तोपलोऽग्निगर्भो ज्वलनाश्मा ऽर्कोपलश्च वसुनामा ॥ रज्नि_13.203
सूर्यकान्तो भवेदुष्णो निर्मलश्च रसायनः ।
वातश्लेष्महरो मेध्यः पूजनाद् रवितुष्टिदः ॥ रज्नि_13.204
शुद्धः स्निग्धो निर्व्रणो निस्तुषोऽन्तर्यो निर्मृष्टो व्योम्नि नैर्मल्यम् एति ।
यः सूर्यांशुस्पर्शनिष्ठ्यूतवह्निर् जात्यः सो ऽयं जायते सूर्यकान्तः ॥ रज्नि_13.205
वैक्रान्तं चैव विक्रान्तं नीचवज्रं कुवज्रकम् ।
गोनासः क्षुद्रकुलिशं चूर्णवज्रं च गोनसः ॥ रज्नि_13.206
वज्राभावे च वैक्रान्तं रसवीर्यादिके समम् ।
क्षयकुष्ठविषघ्नं च पुष्टिदं सुरसायनम् ॥ रज्नि_13.207
वज्राकारतयैव प्रसह्य हरणाय सर्वरोगाणाम् ।
यद्विक्रान्तिं धत्ते तद्वैक्रान्तं बुधैरिदं कथितम् ॥ रज्नि_13.208
इन्द्रकान्तश् चन्द्रकान्तश् चन्द्राश्मा चन्द्रजोपलः ।
शीताश्मा चन्द्रिकाद्रावः शशिकान्तश्च सप्तधा ॥ रज्नि_13.209
चन्द्रकान्तस्तु शिशिरः स्निग्धः पित्तास्रतापहृत् ।
शिवप्रीतिकरः स्वच्छो ग्रहालक्ष्मीविनाशकृत् ॥ रज्नि_13.210
स्निग्धं श्वेतं पीतमात्रासमेतं धत्ते चित्ते स्वच्छतां यन् मुनीनाम् ।
यच्च स्रावं याति चन्द्रांशुसङ्गाज् जात्यं रत्नं चन्द्रकान्ताख्यमेतत् ॥ रज्नि_13.211
राजावर्तो नृपावर्तो राजन्यावर्तकस् तथा ।
आवर्तमणिर् आवर्तः स्यादित्येषः शराह्वयः ॥ रज्नि_13.212
राजावर्तः कटुः स्निग्धः शिशिरः पित्तनाशनः ।
सौभाग्यं कुरुते नॄणां भूषणेषु प्रयोजितः ॥ रज्नि_13.213
निर्गारम् असितमसृणं नीलं गुरु निर्मलं बहुछायम् ।
शिखिकण्ठसमं सौम्यं राजावर्तं वदन्ति जात्यमणिम् ॥ रज्नि_13.214

पेरोजं हरिताश्मं च भस्माङ्गं हरितं द्विधा ।
पेरोजं सुकषायं स्यान्मधुरं दीपनं परम् ॥ रज्नि_13.215
स्थावरं जङ्गमं चैव संयोगाच् च यथा विषम् ।
तत्सर्वं नाशयेत् शीघ्रं शूलं भूतादिदोषजम् ॥ रज्नि_13.216
सिद्धाः पारदम् अभ्रकं च विविधान् धातूंश् च लोहानि च प्राहुः किंच मणीनपीह सकलान् संस्कारतः सिद्धिदान् ।
यत् संस्कारविहीनम् एषु हि भवेद् यच्चान्यथा संस्कृतं तन्मर्त्यं विषवन् निहन्ति तदिह ज्ञेया बुधैः संस्क्रियाः ॥ रज्नि_13.217
यान् संस्कृतान् शुभगुणान् अथ चान्यथा चेद् दोषांश् च यान् अपि दिशन्ति रसादयो ऽमी ।
याश् चेह सन्ति खलु संस्कृतयस् तदेतन् नात्राभ्यधायि बहुविस्तरभीतिभाग्भिः ॥ रज्नि_13.218
इति लोहधातुरसरत्नतद्भिदाद्यभिधागुणप्रकटनस्फुटाक्षरम् ।
अवधार्य वर्गम् इमम् आद्यवैद्यकप्रगुणप्रयोगकुशलो भवेद् बुधः ॥ रज्नि_13.219
कुर्वन्ति ये निजगुणेन रसाध्वगेन नॄणां जरन्त्यपि वपूंषि पुनर्नवानि ।
तेषामयं निवसतिः कनकादिकानां वर्गः प्रसिध्यति रसायनवर्गनाम्ना ॥ रज्नि_13.220
नित्यं यस्य गुणाः किलान्तरलसत्कल्याणभूयस् तथा चित्ताकर्षणचञ्चवस् त्रिभुवनं भूम्ना परिकुर्वते ।
तेनात्रैष कृते नृसिंहकृतिना नामादिचूडामणौ संस्थामेति मितस् त्रयोदशतया वर्गः सुवर्णादिकः ॥ रज्नि_13.221
राजनिघण्टु, पानीयादिवर्ग
पानीयजीवनवनामृतपुष्कराम्भःपाथोऽम्बुशम्बरपयःसलिलोदकानि ।
आपः कवारुणकबन्धजलानि नीरकीलालवारिकमलानि विषार्णसी च ॥ रज्नि_14.1
भुवनं दहनारातिर्वास्तोयं सर्वतोमुखं क्षीरम् ।
घनरसनिम्नगमेघप्रसवरसाश् चेति वह्निमिताः ॥ रज्नि_14.2
पानीयं मधुरं हिमं च रुचिदं तृष्णाविशोषापहं मोहभ्रान्तिमपाकरोति कुरुते भुक्तान्नपक्तिं पराम् ।
निद्रालस्यनिरासनं विषहरं श्रान्तातिसंतर्पणं नॄणां धीबलवीर्यतुष्टिजननं नष्टाङ्गपुष्टिप्रदम् ॥ रज्नि_14.3
दिव्योदकं खरारि स्यादाकाशसलिलं तथा ।
व्योमोदकं चान्तरिक्षजलं चेष्वभिधाह्वयम् ॥ रज्नि_14.4
व्योमोदकं त्रिदोषघ्नं मधुरं पथ्यदं परम् ।
रुच्यं दीपनदं तृष्णाश्रममेहापहारकम् ॥ रज्नि_14.5
सद्योवृष्ट्यम्बु भूमिस्थं कलुषं दोषदायकम् ।
चिरस्थितं लघु स्वच्छं पथ्यं स्वादु सुखावहम् ॥ रज्नि_14.6
यादोनाथसमुद्रसिन्धुजलदाकूपारपाथोधयः पारावारपयोधिसागरसरिन्नाथाश्च वारां निधिः ।
अम्भोराशिसरस्वदम्बुधिनदीनाथाब्धिनित्यार्णवोदन्वद्वारिधिवार्धयः कधिरपांनाथोऽपि रत्नाकरः ॥ रज्नि_14.7
सागरसलिलं विस्रं लवणं रक्तामयप्रदं चोष्णम् ।
वैवर्ण्यदोषजननं विशेषाद् दाहार्तिपित्तकरणं च ॥ रज्नि_14.8
नदी धुनी निर्झरिणी तरंगिणी सरस्वती शैवलिनी समुद्रगा ।
कूलंकषा कूलवती च निम्नगा शैवालिनी सिन्धुर् अथापगापि च ॥ रज्नि_14.9
ह्रदिनी समुद्रकान्ता सागरगा ह्रादिनी सरित्कर्षूः ।
स्रोतस्विनी सुनीरा रोधोवक्रा च वाहिनी तटिनी ॥ रज्नि_14.10
नादेयं सलिलं स्वच्छं लघु दीपनपाचनम् ।
रुच्यं तृष्णापहं पथ्यं मधुरं चेषदुष्णकम् ॥ रज्नि_14.11
गङ्गा भानुसुता रेवा चन्द्रभागा सरस्वती ।
मधुमती विपाशाथ शोणो घर्घरकस्तथा ॥ रज्नि_14.12
वेत्रावती क्षौद्रवती पयोष्णी तापी वितस्ता सरयूश्च सिन्धुः ।

महाशतद्रुर् ह्य् अथ गौतमी स्यात् कृष्णा च तुङ्गा च कवेरिकन्या ॥ रज्नि_14.13
इत्येवम् आद्याः सरितः समस्तास् तडागवापीह्रदकूपकाद्याः ।
अन्ये ऽप्य् अनूपात्मकदेशभेदाः कौलाभिधानैः स्वयम् ऊहनीयाः ॥ रज्नि_14.14
धाराकारादिकातोयम् अन्तरिक्षोद्भवं तथा ।
परीक्ष्येत यथा चोक्तं ज्ञातव्यं जलवेदिभिः ॥ रज्नि_14.15
गङ्गा स्वर्गसरिद् वरा त्रिपथगा मन्दाकिनी जाह्नवी पुण्या विष्णुपदी समुद्रसुभगा भागीरथी स्वर्णदी ।
त्रिःस्रोता सुरदीर्घिका सुरनदी सिद्धापगा स्वर्धुनी ज्येष्ठा जह्नुसुता च भीष्मजननी शुभ्रा च शैलेन्द्रजा ॥ रज्नि_14.16
शीतं स्वादु स्वच्छम् अत्यन्तरुच्यं पथ्यं पाक्यं पावनं पापहारि ।
तृष्णामोहध्वंसनं दीपनं च प्रज्ञां दत्ते वारि भागीरथीयम् ॥ रज्नि_14.17
यमुना तपनतनुजा कलिन्दकन्या यमस्वसा च कालिन्दी ॥ रज्नि_14.18
पित्तदाहवमनश्रमापहं स्वादु वातजननं च पाचनम् ।
वह्निदीपनकरं विरोचनं यामुनं जलम् इदं बलप्रदम् ॥ रज्नि_14.19
रेवा मेकलकन्या सोमसुता नर्मदा च विज्ञेया ॥ रज्नि_14.20
सलिलं शीतलं सुपथ्यं कुरुते पित्तकफप्रकोपणम् ।
सकलामयमर्दनं च रुच्यं मधुरं मेकलकन्यकासमुत्थम् ॥ रज्नि_14.21
चान्द्रभागसलिलं सुशीतलं दाहपित्तशमनं च वातदम् ॥ रज्नि_14.22
सरस्वती प्लक्षसमुद्भवा च सा वाक्प्रदा ब्रह्मसती च भारती ।
वेदाग्रणीश् चैव पयोष्णिजाता वाणी विशाला कुटिला दशाह्वा ॥ रज्नि_14.23
सरस्वतीजलं स्वादु पूतं सर्वरुजापहम् ।
रुच्यं दीपनदं पथ्यं देहकान्तिकरं लघु ॥ रज्नि_14.24
चान्द्रभागगुणसाम्यदं जलं किंच माधुमतमग्निदीपनम् ॥ रज्नि_14.25
शतद्रोर् विपाशायुजः सिन्धुनद्याः सुशीतं लघु स्वादु सर्वामयघ्नम् ।
जलं निर्मलं दीपनं पाचनं च प्रदत्ते बलं बुद्धिमेधायुषं च ॥ रज्नि_14.26
शोणे घर्घरके जलं तु रुचिदं संतापशोषापहं पथ्यं वह्निकरं तथा च बलदं क्षीणाङ्गपुष्टिप्रदम् ।
तत्रान्या दधते जलं सुमधुरं कान्तिप्रदं पुष्टिदं वृष्यं दीपनपाचनं बलकरं वेत्रावती तापिनी ॥ रज्नि_14.27
पयोष्णीसलिलं रुच्यं पवित्रं पापनाशनम् ।
सर्वामयहरं सौख्यं बलकान्तिप्रदं लघु ॥ रज्नि_14.28
वितस्तासलिलं स्वादु त्रिदोषशमनं लघु ।
प्रज्ञाबुद्धिप्रदं पथ्यं तापजाड्यहरं परम् ॥ रज्नि_14.29
सरयूसलिलं स्वादु बलपुष्टिप्रदायकम् ॥ रज्नि_14.30
गोदावरी गौतमसम्भवा सा ब्रह्माद्रिजाताप्यथ गौतमी च ॥ रज्नि_14.31
पित्तार्तिरक्तार्तिसमीरहारि पथ्यं परं दीपनपापहारि ।
कुष्ठादिदुष्टामयदोषहारि गोदावरीवारि तृषानिवारि ॥ रज्नि_14.32
कृष्णानदी कृष्णसमुद्भवा स्यात्सा कृष्णवेणापि च कृष्णगङ्गा ॥ रज्नि_14.33
कार्ष्ण्यं जाड्यकरं स्वादु पूतं पित्तास्रकोपनम् ।
कृष्णवेणाजलं स्वच्छं रुच्यं दीपनपाचनम् ॥ रज्नि_14.34
मलापहा भीमरथी च घट्टगा यथा च कृष्णाजलसाम्यदा गुणैः ।
मलापहाघट्टगयोस् तथापि पथ्यं लघु स्वादुतरं सुकान्तिदम् ॥ रज्नि_14.35
तुङ्गभद्राजलं स्निग्धं निर्मलं स्वाददं गुरु ।
कण्डूपित्तास्रदं प्रायः सात्म्ये पथ्यकरं परम् ॥ रज्नि_14.36

कावेरीसलिलं स्वादु श्रमघ्नं लघु दीपनम् ।
दद्रुकुष्ठादिदोषघ्नं मेधाबुद्धिरुचिप्रदम् ॥ रज्नि_14.37
नदीनामित्थम् अन्यासां देशदोषादिभेदतः ।
तत्तद्गुणान्वितं वारि ज्ञातव्यं कृतबुद्धिभिः ॥ रज्नि_14.38
सर्वा गुर्वी प्राङ्मुखी वाहिनी या लघ्वी पश्चाद्वाहिनी निश्चयेन ।
देशे देशे तद्गुणानां विशेषादेषा धत्ते गौरवं लाघवं च ॥ रज्नि_14.39
विन्ध्यात् प्राची याप्य् अवाची प्रतीची या चोदीची स्यान्नदी सा क्रमेण ।
वाताटोपं श्लेष्मपित्तार्तिलोपं पित्तोद्रेकं पथ्यपाकं च धत्ते ॥ रज्नि_14.40
हिमवति मलयाचले च विन्ध्ये प्रभवति सह्यगिरौ च या स्रवन्ती ।
सृजति किल शिरोरुजादिदोषान् अपनुदते ऽपि च पारियात्रजाता ॥ रज्नि_14.41
नद्यः प्रावृषिजास् तु पीनसकफश्वासार्तिकासप्रदाः पथ्या वातकफापहाः शरदिजा हेमन्तजा बुद्धिदाः ।
संतापं शमयन्ति शं विदधते शैशिर्यवासन्तजास् तृष्णादाहवमिश्रमार्तिशमदा ग्रीष्मे यथा सद्गुणाः ॥ रज्नि_14.42
अनूपसलिलं स्वादु स्निग्धं पित्तहरं गुरु ।
तनोति पामकण्डूतिकफवातज्वरामयान् ॥ रज्नि_14.43
जाङ्गलसलिलं स्वादु त्रिदोषघ्नं रुचिप्रदम् ।
पथ्यं चायुर्बलवीर्यपुष्टिदं कान्तिकृत्परम् ॥ रज्नि_14.44
साधारणं जलं रुच्यं दीपनं पाचनं लघु ।
श्रमतृष्णापहं वातकफमेदोघ्नपुष्टिदम् ॥ रज्नि_14.45
जातं ताम्रमृदस् तदेव सलिलं वातादिदोषप्रदं देशाज् जाड्यकरं च दुर्जरतरं दोषावहं धूसरम् ।
वातघ्नं तु शिलाशिरोत्थम् अमलं पथ्यं लघु स्वादु च श्रेष्ठं श्याममृदस् त्रिदोषशमनं सर्वामयघ्नं पयः ॥ रज्नि_14.46
ह्रदवारि वह्निजननं मधुरं कफवातहारि पथ्यं च ॥ रज्नि_14.47
प्रस्रवणजलं स्वच्छं लघु मधुरं रोचनं च दीपनकृत् ॥ रज्नि_14.48
तडागसलिलं स्वादु कषायं वातदं कियत् ॥ रज्नि_14.49
वापीजलं तु संतापि वातश्लेष्मकरं गुरु ॥ रज्नि_14.50
कफघ्नं कूपपानीयं क्षारं पित्तकरं लघु ॥ रज्नि_14.51
औद्भिदं पित्तशमनं सलिलं लघु च स्मृतम् ॥ रज्नि_14.52
केदारसलिलं स्वादु विपाके दोषदं गुरु ।
तदेव बद्धमुक्तं तु विशेषाद् दोषदं भवेत् ॥ रज्नि_14.53
नादेयं नवमृद्घटेषु निहितं संतप्तम् अर्कांशुभिर् यामिन्यां च निविष्टम् इन्द्रकिरणैर् मन्दानिलान्दोलितम् ।
एलाद्यैः परिवासितं श्रमहरं पित्तोष्णदाहे विषे मूर्छारक्तमदात्ययेषु च हितं शंसन्ति हंसोदकम् ॥ रज्नि_14.54
यः पानीयं पिबति शिशिरं स्वादु नित्यं निशीथे प्रत्यूषे वा पिबति यदि वा घ्राणरन्ध्रेण धीरः ।
सो ऽयं सद्यः पतगपतिना स्पर्धते नेत्रशक्त्या स्वर्गाचार्यं प्रहसति धिया द्वेष्टि दस्रौ च तन्वा ॥ रज्नि_14.55
विण्मूत्रारुणनीलिकाविषहतं तप्तं घनं फेनिलं दन्तग्राह्यम् अनार्तवं सलवणं शैवालकैः संवृतम् ।
जन्तुव्रातविमिश्रितं गुरुतरं पर्णौघपङ्काविलं चन्द्रार्कांशुतिरोहितं च न पिबेन्नीरं जडं दोषलम् ॥ रज्नि_14.56
पार्श्वशूले प्रतिश्याये वातदोषे नवज्वरे ।
हिक्काध्मानादिदोषेषु शीताम्बु परिवर्जयेत् ॥ रज्नि_14.57
धातुक्षये रक्तविकारदोषे वान्त्यस्रमेहे विषविभ्रमेषु ।
जीर्णज्वरे शैथिल्यसंनिपाते जलं प्रशस्तं शृतशीतलं तु ॥ रज्नि_14.58
तप्तं पाथः पादभागेन हीनं प्रोक्तं पथ्यं वातजातामयघ्नम् ।
अर्धांशोनं नाशयेद् वातपित्तं पादप्रायं तत्तु दोषत्रयघ्नम् ॥ रज्नि_14.59

मूल पाठ: Rājanighaṇṭu [also called Nighaṇṭurāja, or Abhidhānacūḍāmaṇi] · Edition: Calcutta 1933 : Siddheshvarayantra · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc