भाषा

ENहिગુ
ग्रंथ पाठ

राजनिघण्टु · भाग 6180

पञ्चाङ्गुलो वर्धमानो रुवुको द्वादशाह्वयः ॥ रज्नि_8.55
रक्तैरण्डो ऽपरो व्याघ्रो हस्तिकर्णो रुवुस् तथा ।
उरुवुको नागकर्णश् चञ्चुर् उत्तानपत्त्रकः ॥ रज्नि_8.56
करपर्णो याचनकः स्निग्धो व्याघ्रदलस् तथा ।
तत्करश् चित्रबीजश् च ह्रस्वैरण्डस् त्रिपञ्चधा ॥ रज्नि_8.57
श्वेतैरण्डः सकटुकरसस् तिक्त उष्णः कफार्तिध्वंसं धत्ते ज्वरहरमरुत्कासहारी रसार्हः ।
रक्तैरण्डः श्वयथुपचनः वान्तिरक्तार्तिपाण्डुभ्रान्तिश्वासज्वरकफहरो ऽरोचकघ्नो लघुश् च ॥ रज्नि_8.58
स्थूलैरण्डो महैरण्डो महापञ्चाङ्गुलादिकः ।
स्थूलैरण्डो गुणाढ्यः स्याद् रसवीर्यविपक्तिषु ॥ रज्नि_8.59
घोण्टा बदरिका घोटी गोलिका शत्रुकण्टकः ।
कर्कटी च तुरंगी च तुरगाह्वाष्टधा स्मृता ॥ रज्नि_8.60
घोटिका कटुकोष्णा च मधुरा वातनाशनी ।
व्रणकण्डूतिकुष्ठासृग्दोषश्वयथुहारिणी ॥ रज्नि_8.61
लताकरञ्जो दुःस्पर्शो वीरास्यो वज्रवीरकः ।
धनदाक्षः कण्टफलः कुबेराक्षश् च सप्तधा ॥ रज्नि_8.62
लताकरञ्जपत्त्रं तु कटूष्णं कफवातनुत् ।
तद्बीजं दीपनं पथ्यं शूलगुल्मव्यथापहम् ॥ रज्नि_8.63
कारी तु कारिका कार्या गिरिजा कटुपत्त्रिका ।
तत्रैका कण्टकारी स्याद् अन्या त्व् आकर्षकारिका ॥ रज्नि_8.64
कारी कषायमधुरा द्विविधा पित्तनाशनी ।
दीपनी ग्राहिणी रुच्या कण्ठशोधकरी गुरुः ॥ रज्नि_8.65
मदनः शल्यकैडर्यः पिण्डी धाराफलस् तथा ।
तरटः करहाटश् च राहुः पिण्डातकः स्मृतः ॥ रज्नि_8.66
कण्टालो विषमुष्टिश् च छर्दनो विषपुष्पकः ।
घण्टालो मादनो हर्षो घण्टाख्यो वस्तिरोधनः ।
ग्रन्थिफलो गोलफलो मदनाह्वश् च विंशतिः ॥ रज्नि_8.67
मदनः कटुतिक्तोष्णः कफवातव्रणापहः ।
शोफदोषापहश् चैव वमने च प्रशस्यते ॥ रज्नि_8.68
वाराहो ऽन्यः कृष्णवर्णो महापिण्डीतको महान् ।
स्निग्धपिण्डीतकश् चान्यः स्थूलवृक्षफलस् तथा ॥ रज्नि_8.69
अन्यौ च मदनौ श्रेष्ठौ कटुतिक्तरसान्वितौ ।
छर्दनौ कफहृद्रोगपक्वामाशयशोधनौ ॥ रज्नि_8.70
बिल्वान्तरश् चीरवृक्षः क्षुधाकुशलसंज्ञकः ।
दीर्घमूलो वीरवृक्षः कृच्छ्रारिश् च षडाह्वयः ॥ रज्नि_8.71
बिल्वान्तरः कटूष्णश् च कृच्छ्रघ्नः संधिशूलनुत् ।
वह्निदीप्तिकरः पथ्यो वातामयविनाशनः ॥ रज्नि_8.72
तरटी तारटी तीव्रा खर्बुरा रक्तबीजका ।
तरटी तिक्तमधुरा गुरुर् बल्या कफापहृत् ॥ रज्नि_8.73
श्रीवल्ली शिववल्ली च कण्टवल्ली च शीतला ।
अम्ला कटुफलाश्वत्था दुरारोहा च साष्टधा ॥ रज्नि_8.74

श्रीवल्ली कटुकाम्ला च वातशोफकफापहा ।
तत्फलं तैललेपघ्नम् अत्यम्लं रुचिकृत् परम् ॥ रज्नि_8.75
अन्या निकुञ्जिकाम्लाख्या कुञ्जिका कुञ्जवल्लरी ।
निकुञ्जिका बुधैर् उक्ता श्रीवल्लीसदृशी गुणैः ॥ रज्नि_8.76
अपर्वदण्डो दीर्घश् च रामबाणो नृपप्रियः ।
रामकाण्डो रामशरो रामस्येषुश् च सप्तधा ॥ रज्नि_8.77
रामकाण्डजमूलं स्याद् ईषद् उष्णं रुचिप्रदम् ।
रसे चाम्लकषायश् च पित्तकृत् कफवातहृत् ॥ रज्नि_8.78
यावनालो ऽथ नदीजो दृढत्वग् वारिसम्भवः ।
यावनालनिभश् चैव खरपत्त्रः षडाह्वयः ॥ रज्नि_8.79
यावनालशरमूलम् ईषन् मधुररुच्यकम् ।
शीतं पित्ततृषापघ्नं पशूनाम् अबलप्रदम् ॥ रज्नि_8.80
शरो बाण इषुः काण्ड उत्कटः सायकः क्षुरः ।
इक्षुरः क्षुरिकापत्त्रो विशिखश् च दशाभिधः ॥ रज्नि_8.81
स्थूलो ऽन्यः स्थूलशरो महाशरः स्थूलसायकमुखाख्यः ।
इक्षुरकः क्षुरपत्त्रो बहुमूलो दीर्घमूलको मुनिभिः ॥ रज्नि_8.82
शरद्वयं स्यान् मधुरं सुतिक्तं कोष्णं कफभ्रान्तिमदापहारि ।
बलं च वीर्यं च करोति नित्यं निषेवितं वातकरं च किंचित् ॥ रज्नि_8.83
मुञ्जो मौञ्जीतृणाख्यः स्याद् ब्रह्मण्यस् तेजनाह्वयः ।
वानीरजो मुञ्जनकः शारी दर्भाह्वयश् च सः ॥ रज्नि_8.84
दूरमूलो दृढतृणो दृढमूलो बहुप्रजः ।
रञ्जनः शत्रुभङ्गश् च स्याच् चतुर्दशसंज्ञकः ॥ रज्नि_8.85
मुञ्जस् तु मधुरः शीतः कफपित्तजदोषजित् ।
ग्रहरक्षासु दीक्षासु पावनो भूतनाशनः ॥ रज्नि_8.86
काशः काण्डेक्षुर् इक्ष्वारिः काकेक्षुर् वायसेक्षुकः ।
इक्षुरश् चेक्षुकाण्डश् च शारदः सितपुष्पकः ॥ रज्नि_8.87
नादेयो दर्भपत्त्रश् च लेखनः काण्डकाण्डकौ ।
कण्ठालंकारकश् चैव ज्ञेयः पञ्चदशाह्वयः ॥ रज्नि_8.88
काशश् च शिशिरो गौल्यो रुचिकृत् पित्तदाहनुत् ।
तर्पणो बलकृद् वृष्य आमशोषक्षयापहः ॥ रज्नि_8.89
अन्यो ऽशिरी मिशिर् गण्डा अश्वालो नीरजः शरः ।
मिशिर् मधुरशीतः स्यात् पित्तदाहक्षयापहः ॥ रज्नि_8.90
सितदर्भो ह्रस्वकुम्भः पूतो यज्ञियपत्त्रकः ।
वज्रो ब्रह्मपवित्रश् च तीक्ष्णो यज्ञस्य भूषणः ।
सूचीमुखः पुण्यतृणो वह्निः पूततृणो द्विषट् ॥ रज्नि_8.91
दर्भमूलं हिमं रुच्यं मधुरं पित्तनाशनम् ।
रक्तज्वरतृषाश्वासकामलादोषशोषकृत् ॥ रज्नि_8.92
कुशो ऽन्यः शरपत्त्रश् च हरिद्गर्भः पृथुच्छदः ।
शारी च रूक्षदर्भश् च दीर्घपत्त्रः पवित्रकः ॥ रज्नि_8.93
दर्भौ द्वौ च गुणे तुल्यौ तथापि च सितो ऽधिकः ।

यदि श्वेतकुशाभावस् त्व् अपरं योजयेत् भिषक् ॥ रज्नि_8.94
बल्वजा दृढपत्त्री च तृणेक्षुस् तृणबल्वजा ।
मौञ्जीपत्त्रा दृढतृणा पानीयाश्वा दृढक्षुरा ॥ रज्नि_8.95
बल्वजा मधुरा शीता पित्तदाहतृषापहा ।
वातप्रकोपणी रुच्या कण्ठशुद्धिकरी परा ॥ रज्नि_8.96
कुतृणं कत्तृणं भूतिर् भूतिकं रोहिषं तृणम् ।
श्यामकं ध्यामकं पूतिर् मुद्गलं दवदग्धकम् ॥ रज्नि_8.97
कुतृणं दशनामाढ्यं कटुतिक्तकफापहम् ।
शस्त्रशल्यादिदोषघ्नं बालग्रहविनाशनम् ॥ रज्नि_8.98
अन्यद् रोहिषकं दीर्घं दृढकाण्डो दृढच्छदम् ।
द्राघिष्ठं दीर्घनालश् च तिक्तसारश् च कुत्सितम् ॥ रज्नि_8.99
दीर्घरोहिषकं तिक्तं कटूष्णं कफवातजित् ।
भूतग्रहविषघ्नश् च व्रणक्षतविरोपणम् ॥ रज्नि_8.100
नालो नडो नलश् चैव कुक्षिरन्ध्रो ऽथ कीचकः ।
वंशान्तरश् च धमनः शून्यमध्यो विभीषणः ॥ रज्नि_8.101
छिद्रान्तो मृदुपत्त्रश् च रन्ध्रपत्त्रो मृदुच्छदः ।
नालवंशः पोटगल इत्य् अस्याह्वास् त्रिपञ्चधा ॥ रज्नि_8.102
नलः शीतकषायश् च मधुरो रुचिकारकः ।
रक्तपित्तप्रशमनो दीपनो वीर्यवृद्धिदः ॥ रज्नि_8.103
अन्यो महानलो वन्यो देवनलो नलोत्तमः ।
स्थूलनालः स्थूलदण्डः सुरनालः सुरद्रुमः ॥ रज्नि_8.104
देवनालो ऽतिमधुरो वृष्य ईषत् कषायकः ।
नलः स्याद् अधिको वीर्ये शस्यते रसकर्मणि ॥ रज्नि_8.105
स्यान् नीलदूर्वा हरिता च शाम्भवी श्यामा च शान्ता शतपर्विकामृता ।
पूता शतग्रन्थिर् अनुष्णवल्लिका शिवा शिवेष्टापि च मङ्गला जया ॥ रज्नि_8.106
सुभगा भूतहन्त्री च शतमूला महौषधी ।
अमृता विजया गौरी शान्ता स्याद् एकविंशतिः ॥ रज्नि_8.107
नीलदूर्वा तु मधुरा तिक्ता शिशिररोचनी ।
रक्तपित्तातिसारघ्नी कफवातज्वरापहा ॥ रज्नि_8.108
स्याद् गोलोमी श्वेतदूर्वा सिताख्या चण्डा भद्रा भार्गवी दुर्मरा च ।
गौरी विघ्नेशानकान्ताप्य् अनन्ता श्वेता दिव्या श्वेतकाण्डा प्रचण्डा ॥ रज्नि_8.109
सहस्रवीर्या च सहस्रकाण्डा सहस्रपर्वा सुरवल्लभा च ।
शुभा सुपर्वा च सितच्छदा च स्वच्छा च कच्छान्तरुहाब्धिहस्ता ॥ रज्नि_8.110
श्वेतदूर्वातिशिशिरा मधुरा वान्तिपित्तजित् ।
आमातिसारकासघ्नी रुच्या दाहतृषापहा ॥ रज्नि_8.111
मालादूर्वा वल्लिदूर्वालिदूर्वा मालाग्रन्थिर् ग्रन्थिला ग्रन्थिदूर्वा ।
मूलग्रन्थिर् वल्लरी ग्रन्थिमूला रोहत्पर्वा पर्ववल्ली सिताख्या ।
वल्लिदूर्वा सुमधुरा तिक्ता च शिशिरा च सा ।
पित्तदोषप्रशमनी कफवान्तितृषापहा ॥ रज्नि_8.112
गण्डाली स्याद् गण्डदूर्वातितीव्रा मत्स्याक्षी स्याद् वारुणी मीननेत्रा ।

श्यामग्रन्थिः ग्रन्थिला ग्रन्थिपर्णी सूचीपत्त्रा श्यामकाण्डा जलस्था ॥ रज्नि_8.113
शकुलाक्षी कलाया च चित्रा पञ्चदशाह्वया ॥ रज्नि_8.114
गण्डदूर्वा तु मधुरा वातपित्तज्वरापहा ।
शिशिरा द्वंद्वदोषघ्नी भ्रमतृष्णाश्रमापहा ॥ रज्नि_8.115
दूर्वाः कषाया मधुराश् च शीताः पित्तात्तृषारोचकवान्तिहन्त्र्यः ।
सदाहमूर्च्छाग्रहभूतशान्तिश्लेष्मश्रमध्वंसनतृप्तिदाश् च ॥ रज्नि_8.116
कुन्दुरुः कन्दुरो रुण्डी दीर्घपत्त्रः खरच्छदः ।
रसाभः क्षेत्रसम्भूतः सुतृष्णो मृगवल्लभः ॥ रज्नि_8.117
गौल्यं कुन्दुरुमूलं च शीतं पित्तातिसारनुत् ।
प्रशस्तं शोधनानां च बलपुष्टिविवर्धनम् ॥ रज्नि_8.118
भूतृणो रोहिणो भूतिर् भूतिको ऽथ कुटुम्बकः ।
मालातृणं सुमाली च छत्त्रो ऽतिछत्त्रकस् तथा ॥ रज्नि_8.119
गुह्यबीजः सुगन्धश् च गुलालः पुंस्त्वविग्रहः ।
बधिरश् चातिगन्धश् च शृङ्गरोहः रसेन्दुकः ॥ रज्नि_8.120
भूतृणं कटुतिक्तं च वातसंतापनाशनम् ।
हन्ति भूतग्रहावेशान् विषदोषांश् च दारुणान् ॥ रज्नि_8.121
सुगन्धभूतृणश् चान्यः सुरसः सुरभिस् तथा ।
गन्धतृणः सुगन्धश् च मुखवासः षडाह्वयः ॥ रज्नि_8.122
गन्धतृणं सुगन्धि स्याद् ईषत् तिक्तं रसायनम् ।
स्निग्धं मधुरशीतं च कफपित्तश्रमापहम् ॥ रज्नि_8.123
उखलो भूरिपत्त्रश् च सुतृणश् च तृणोत्तमः ।
उखलो बलदो रुच्यः पशूनां सर्वदा हितः ॥ रज्नि_8.124
इक्षुदर्भा सुदर्भा च पत्त्रालुस् तृणपत्त्रिका ॥ रज्नि_8.125
इक्षुदर्भा सुमधुरा स्निग्धा चेषत् कषायका ।
कफपित्तहरा रुच्या लघुः संतर्पणी स्मृता ॥ रज्नि_8.126
गोमूत्रिका रक्ततृणा क्षेत्रजा कृष्णभूमिजा ।
गोमूत्रिका तु मधुरा वृष्या गोदुग्धदायिनी ॥ रज्नि_8.127
शिल्पिका शिल्पिनी शीता क्षेत्रजा च मृदुच्छदा ।
शिल्पिका मधुरा शीता तद्बीजं बलवृष्यदम् ॥ रज्नि_8.128
निःश्रेणिका श्रेणिका च नीरसा वनवल्लरी ।
निःश्रेणिका नीरसोष्णा पशूनाम् अबलप्रदा ॥ रज्नि_8.129
गर्मोटिका सुनीला च जरडी च जलाश्रया ॥ रज्नि_8.130
जरडी मधुरा शीता सारणी दाहहारिणी ।
रक्तदोषहरा रुच्या पशूनां दुग्धदायिनी ॥ रज्नि_8.131
मज्जरः पवनः प्रोक्तः सुतृणः स्निग्धपत्त्रकः ।
मृदुग्रन्थिश् च मधुरो धेनुदुग्धकरश् च सः ॥ रज्नि_8.132
तृणाढ्यं पर्वततृणं पत्त्राढ्यं च मृगप्रियम् ।
बलपुष्टिकरं रुच्यं पशूनां सर्वदा हितम् ॥ रज्नि_8.133
वंशपत्त्री वंशदला जीरिका जीर्णपत्त्रिका ।
वंशपत्त्री सुमधुरा शिशिरा पित्तनाशनी ।

रक्तदोषहरा रुच्या पशूनां दुग्धदायिनी ॥ रज्नि_8.134
मन्थानकस् तु हरितो दृढमूलस् तृणाधिपः ।
स्निग्धो धेनुप्रियो दोग्धा मधुरो बहुवीर्यकः ॥ रज्नि_8.135
पल्लिवाहो दीर्घतृणः सुपत्त्रस् ताम्रवर्णकः ।
अदृढः शाकपत्त्रादिः पशूनाम् अबलप्रदः ॥ रज्नि_8.136
लवणतृणं लोणतृणं तृणाम्लं पटुतृणकम् अम्लकाण्डं च ।
कटुतृणकं क्षाराम्लं कषायस्तन्यम् अश्ववृद्धिकरम् ॥ रज्नि_8.137
पण्यान्धः कङ्गुनीपत्त्रः पण्यान्धा पणधा च सा ॥ रज्नि_8.138
पण्यान्धा समवीर्या स्यात् तिक्ता क्षारा च सारिणी ।
तत्कालशस्त्रघातस्य व्रणसंरोपणी परा ॥ रज्नि_8.139
दीर्घा मध्या तथा ह्रस्वा पण्यान्धा त्रिविधा स्मृता ।
रसवीर्यविपाके च मध्यमा गुणदायिका ॥ रज्नि_8.140
गुण्डस् तु काण्डगुण्डः स्याद् दीर्घकाण्डस् त्रिकोणकः ।
छत्त्रगुच्छो ऽसिपत्त्रश् च नीलपत्त्रस् त्रिधारकः ॥ रज्नि_8.141
वृत्तगुण्डो ऽपरो वृत्तो दीर्घनालो जलाश्रयः ।
तत्र स्थूलो लघुश् चान्यस् त्रिधायं द्वादशाभिधः ॥ रज्नि_8.142
गुण्डास् तु मधुराः शीताः कफपित्तातिसारहाः ।
दाहरक्तहरास् तेषां मध्ये स्थूलतरो ऽधिकः ॥ रज्नि_8.143
गुण्डकन्दः कसेरुः स्यात् क्षुद्रमुस्ता कसेरुका ।
शूकरेष्टः सुगन्धिश् च सुकन्दो गन्धकन्दकः ॥ रज्नि_8.144
कसेरुकः कषायो ऽल्पमधुरो ऽतिखरस् तथा ।
रक्तपित्तप्रशमनः शीतो दाहश्रमापहः ॥ रज्नि_8.145
चणिका दुग्धदा गौल्या सुनीला क्षेत्रजा हिमा ।
वृष्या बल्यातिमधुरा बीजैः पशुहिता तृणैः ॥ रज्नि_8.146
गुण्डासिनी तु गुण्डा गुण्डाला गुच्छमूलका चिपिटा ।
तृणपत्त्री जलवासा पृथुला सुविष्टरा च नवाह्वा ॥ रज्नि_8.147
गुण्डासिनी कटुः स्वादे पित्तदाहश्रमापहा ।
तिक्तोष्णा श्वयथुघ्नी च व्रणदोषनिबर्हणी ॥ रज्नि_8.148
शूली तु शूलपत्त्री स्याद् अशाखा धूम्रमूलिका ।
जलाश्रया मृदुलता पिच्छिला महिषीप्रिया ॥ रज्नि_8.149
शूली तु पिच्छिला चोष्णा गुरुर् गौल्या बलप्रदा ।
पित्तदाहहरा रुच्या दुग्धवृद्धिप्रदायिका ॥ रज्नि_8.150
परिपेल्लं प्लवं धान्यं गोपुटं स्यात् कुटन्नटम् ।
सितपुष्पं दासपुरं गोनर्दं जीर्णबुध्नकम् ॥ रज्नि_8.151
परिपेल्लं कटूष्णं च कफमारुतनाशनम् ।
व्रणदाहामशूलघ्नं रक्तदोषहरं परम् ॥ रज्नि_8.152
हिज्जलो ऽथ नदीकान्तो जलजो दीर्घपत्त्रकः ।
नदीजो निचुलो रक्तः कार्मुकः कथितश् च सः ॥ रज्नि_8.153
हिज्जलः कटुर् उष्णश् च पवित्रो भूतनाशनः ।
वातामयहरो नानाग्रहसंचारदोषजित् ॥ रज्नि_8.154

शैवालं जलनीली स्यात् शैवलं जलजं च तत् ।
शैवालं शीतलं स्निग्धं संतापव्रणनाशनम् ॥ रज्नि_8.155
इत्थं नानाकण्टकिविटपिप्रस्तावव्याख्यातैरण्डादिकतृणविस्ताराढ्यम् ।
वर्गं विद्वान् वैद्यकविषयप्रावीण्यज्ञेयं पण्यारण्यकगुणम् ईयाद् वैद्यः ॥ रज्नि_8.156
दुर्वारां विकृतिं स्वसेवनविदां भिन्दन्ति ये भूयसा दुर्वाहाश् च हठेन कण्टकितया सूक्ष्माश् च ये केचन ।
तेषाम् एष महागमान्तरभुवाम् आरण्यकानां किल क्रूरातङ्कभयार्तनिर्वृतिकरो वर्गः सतां संमतः ॥ रज्नि_8.157
द्विजानां यो राजा जयति रचयन्न् ओषधिगणं प्रतीतो ऽयं नॄणाम् अमृतकरतां धारयति च ।
अमुष्यायं वर्गो नृहरिकृतिनः काङ्क्षति कृतौ स्थितिं शाल्मल्यादिर् वसुभिर् अभिधाशेखरमणौ ॥ रज्नि_8.158
राजनिघण्टु, प्रभद्रादिवर्ग
प्रभद्रः पञ्चधा प्रोक्तः काश्मर्यो लघुपूर्वकः ।
द्विर् अग्निमन्थः श्योनाकद्वितयं चाजशृङ्गिका ॥ रज्नि_9.1
काश्मर्याश्मन्तकश् चाथ कर्णिकारद्वयं तथा ।
वृश्चिकाली च कुटजस् तद्बीजं च शिरीषकः ॥ रज्नि_9.2
करञ्जः षड्विधो ऽङ्कोलो नीलः सर्जाश्वकर्णकौ ।
तालः श्रीतालहिन्तालमाडास् तूलस् तमालकः ॥ रज्नि_9.3
चतुर्विधः कदम्बो ऽथ वानीरः कुम्भिवेतसः ।
धवश् च धन्वनो भूर्जस् तिनिशश् च ततो ऽर्जुनः ॥ रज्नि_9.4
हरिद्रुदग्धाशाखोटाः शाको ऽथो शिंशपात्रयम् ।
असनत्रयं च वरुणः पुत्रजीवश् च पिण्डिका ॥ रज्नि_9.5
कारस्करो ऽथ कटभ्यौ क्षवको देवसर्षपः ।
डहुर् विकङ्कतश् चेति स्वराब्धिगणिताः क्रमात् ॥ रज्नि_9.6
अथ निगदितः प्रभद्रः पिचुमन्दः पारिभद्रको निम्बः ।
काकफलः कीरेष्टो नेतारिष्टश् च सर्वतोभद्रः ॥ रज्नि_9.7
धमनो विशीर्णपर्णः पवनेष्टः पीतसारकः शीतः ।
वरतिक्तो ऽरिष्टफलो ज्येष्ठामालकश् च हिङ्गुनिर्यासः ॥ रज्नि_9.8
छर्दनश् चाग्निधमनो ज्ञेया नाम्नां तु विंशतिः ॥ रज्नि_9.9
प्रभद्रकः प्रभवति शीततिक्तकः कफव्रणकृमिवमिशोफशान्तये ।
बलासभिद् बहुविषपित्तदोषजिद् विशेषतो हृदयविदाहशान्तिकृत् ॥ रज्नि_9.10
महानिम्बो मदोद्रेकः कार्मुकः केशमुष्टिकः ।
काकाण्डो रम्यको ऽक्षीरो महातिक्तो हिमद्रुमः ॥ रज्नि_9.11
महानिम्बस् तु शिशिरः कषायः कटुतिक्तकः ।
अस्रदाहबलासघ्नो विषमज्वरनाशनः ॥ रज्नि_9.12
कैडर्यो ऽन्यो महानिम्बो रामणो रमणस् तथा ।
गिरिनिम्बो महारिष्टः शुक्लशालः कफाह्वयः ॥ रज्नि_9.13
कैडर्यः कटुकस् तिक्तः कषायः शीतलो लघुः ।
संतापशोषकुष्ठास्रकृमिभूतविषापहः ॥ रज्नि_9.14
भूनिम्बो नार्यतिक्तः स्यात् कैरातो रामसेनकः ।
कैराततिक्तको हैमः काण्डतिक्तः किरातकः ॥ रज्नि_9.15
भूनिम्बो वातलस् तिक्तः कफपित्तज्वरापहः ।
व्रणसंरोपणः पथ्यः कुष्ठकण्डूतिशोफनुत् ॥ रज्नि_9.16

नेपालनिम्बो नैपालस् तृणनिम्बो ज्वरान्तकः ।
नाडीतिक्तो ऽर्धतिक्तश् च निद्रारिः संनिपातहा ॥ रज्नि_9.17
नेपालनिम्बः शीतोष्णो योगवाही लघुस् तथा ।
तिक्तो ऽतिकफपित्तास्रशोफतृष्णाज्वरापहः ॥ रज्नि_9.18
कण्डूलः कृष्णगर्भश् च सोमवल्कप्रचेतसी ।
भद्रावती महाकुम्भी कैडर्यो रामसेनकः ॥ रज्नि_9.19
कुमुदा चोग्रगन्धश् च भद्रा रञ्जनकस् तथा ।
कुम्भी च लघुकाश्मर्यः श्रीपर्णी च त्रिपञ्चधा ॥ रज्नि_9.20
कट्फलः कटुर् उष्णश् च कासश्वासज्वरापहः ।
उग्रदाहहरो रुच्यो मुखरोगशमप्रदः ॥ रज्नि_9.21
अग्निमन्थो ऽग्निमथनः तर्कारी वैजयन्तिका ।
वह्निमन्थो ऽरणी केतुः श्रीपर्णी कर्णिका जया ।
नादेयी विजयानन्ता नदी यावत् त्रयोदश ॥ रज्नि_9.22
तर्कारी कटुर् उष्णा च तिक्तानिलकफापहा ।
शोफश्लेष्माग्निमान्द्यार्शोविड्बन्धाध्माननाशनी ॥ रज्नि_9.23
क्षुद्राग्निमन्थस् तपनो विजया गणिकारिका ।
अरणिर् लघुमन्थश् च तेजोवृक्षस् तनुत्वचा ॥ रज्नि_9.24
अग्निमन्थद्वयं चैव तुल्यं वीर्यरसादिषु ।
तत्प्रयोगानुसारेण योजयेत् स्वमनीषया ॥ रज्नि_9.25
श्योनाकः शुकनासश् च कट्वङ्गो ऽथ कटंभरः ।
मयूरजङ्घो ऽरलुकः प्रियजीवः कुटन्नटः ॥ रज्नि_9.26
श्योनाकः पृथुशिम्बो ऽन्यो भल्लको दीर्घवृन्तकः ।
पोतवृक्षश् च टेण्टूको भूतसारो मुनिद्रुमः ॥ रज्नि_9.27
निःसारः फल्गुवृन्ताकः पूतिपत्त्रो वसन्तकः ।
मण्डूकपर्णः पीताङ्गो जम्बूकः पीतपादकः ॥ रज्नि_9.28
वातारिः पीतकः शोणः कुटनश् च विरेचनः ।
भ्रमरेष्टो बर्हिजङ्घो नेत्रनेत्रमिताभिधः ॥ रज्नि_9.29
श्योनाकयुगलं तिक्तं शीतलं च त्रिदोषजित् ।
पित्तश्लेष्मातिसारघ्नं संनिपातज्वरापहम् ॥ रज्नि_9.30
टेण्टुफलं कटूष्णं च कफवातहरं लघु ।
दीपनं पाचनं हृद्यं रुचिकृल् लवणाम्लकम् ॥ रज्नि_9.31
अजशृङ्गी मेषशृङ्गी वर्तिका सर्पदंष्ट्रिका ।
चक्षुष्या तिक्तदुग्धा च पुत्रश्रेणी विषाणिका ॥ रज्नि_9.32
अजशृङ्गी कटुस् तिक्ता कफार्शःशूलशोफजित् ।
चक्षुष्या श्वासहृद्रोगविषकासातिकुष्ठजित् ॥ रज्नि_9.33
अजशृङ्गीफलं तिक्तं कटूष्णं कफवातजित् ।
जठरानलकृत् हृद्यं रुचिरं लवणाम्लकम् ॥ रज्नि_9.34
स्यात् काश्मर्यः काश्मरी कृष्णवृन्ता हीरा भद्रा सर्वतोभद्रिका च ।
श्रीपर्णी स्यात् सिन्धुपर्णी सुभद्रा कम्भारी सा कट्फला भद्रपर्णी ॥ रज्नि_9.35
कुमुदा च गोपभद्रा विदारिणी क्षीरिणी महाभद्रा ।

मधुपर्णी स्वभद्रा कृष्णा श्वेता च रोहिणी गृष्टिः ॥ रज्नि_9.36
स्थूलत्वचा मधुमती सुफला मेदिनी महाकुमुदा ।
सुदृढत्वचा च कथिता विज्ञेयोनत्रिंशतिर् नाम्नाम् ॥ रज्नि_9.37
काश्मरी कटुका तिक्ता गुरूष्णा कफशोफनुत् ।
त्रिदोषविषदाहार्तिज्वरतृष्णास्रदोषजित् ॥ रज्नि_9.38
अश्मन्तकश् चेन्दुकश् च कुद्दालश् चाम्लपत्त्रकः ।
श्लक्ष्णत्वक् पीलुपत्त्रश् च स्मृतो यमलपत्त्रकः ॥ रज्नि_9.39
अश्मान्तकेन्दुशफरी शिलान्तश् चाम्बुदः स्मृतः ।
पाषाणान्तक इत्य् उक्तो वह्निचन्द्रमिताह्वयः ॥ रज्नि_9.40
अश्मन्तकः स्यान् मधुरः कषायः सुशीतलः पित्तहरः प्रमेहजित् ।
विदाहतृष्णाविषमज्वरापहो विषार्तिविच्छर्दिहरश् च भूतजित् ॥ रज्नि_9.41
अथ भवति कर्णिकारो राजतरुः प्रग्रहश् च कृतमालः ।
सुफलश् च परिव्याधो व्याधिरिपुः पङ्क्तिबीजको वसुसंज्ञः ॥ रज्नि_9.42
कर्णिकारो रसे तिक्तः कटूष्णः कफशूलहृत् ।
उदरकृमिमेहघ्नो व्रणगुल्मनिवारणः ॥ रज्नि_9.43
आरग्वधो ऽन्यो मन्थानो रोचनश् चतुरङ्गुलः ।
आरेवतो दीर्घफलो व्याधिघातो नृपद्रुमः ॥ रज्नि_9.44
हेमपुष्पो राजतरुः कण्डूघ्नश् च ज्वरान्तकः ।
अरुजः स्वर्णपुष्पश् च स्वर्णद्रुः कुष्ठसूदनः ॥ रज्नि_9.45
कर्णाभरणकः प्रोक्तो महाराजद्रुमः स्मृतः ।
कर्णिकारो महादिः स्यात् प्रोक्तश् चैकोनविंशतिः ॥ रज्नि_9.46
आरग्वधो ऽतिमधुरः शीतः शूलापहारकः ।
ज्वरकण्डूकुष्ठमेहकफविष्टम्भनाशनः ॥ रज्नि_9.47
वृश्चिकाली विषाणी च विषघ्नी नेत्ररोगहा ।
उष्ट्रिकाप्य् अलिपर्णी च दक्षिणावर्त्तकी तथा ॥ रज्नि_9.48
कलिकाप्य् आगमावर्त्ता देवलाङ्गुलिका तथा ।
करभा भूरिदुग्धा च कर्कशा चामरा च सा ॥ रज्नि_9.49
स्वर्णपुष्पा युग्मफला तथा क्षीरविषाणिका ।
प्रोक्ता भासुरपुष्पा च वसुचन्द्रसमाह्वया ॥ रज्नि_9.50
वृश्चिकाली कटुस् तिक्ता सोष्णा हृद्वक्त्रशुद्धिकृत् ।
रक्तपित्तहरा बल्या विबन्धारोचकापहा ॥ रज्नि_9.51
कुटजः कौटजः शक्रो वत्सको गिरिमल्लिका ।
कलिङ्गो मल्लिकापुष्पः प्रावृष्यः शक्रपादपः ॥ रज्नि_9.52
वरतिक्तो यवफलः संग्राही पाण्डुरद्रुमः ।
प्रावृषेण्यो महागन्धः स्यात् पञ्चदशधाभिधः ॥ रज्नि_9.53
कुटजः कटुतिक्तोष्णः कषायश् चातिसारजित् ।
तत्रासितो ऽस्रपित्तघ्नस् त्वग्दोषार्शोनिकृन्तनः ॥ रज्नि_9.54
इन्द्रयवा तु शक्राह्वा शक्रबीजानि वत्सकः ।
तथा वत्सकबीजानि भद्रजा कुटजाफलम् ॥ रज्नि_9.55
ज्ञेया भद्रयवा चैव बीजान्ता कुटजाभिधा ।

तथा कलिङ्गबीजानि पर्यायैर् दशधाभिधा ॥ रज्नि_9.56
इन्द्रयवा कटुस् तिक्ता शीता कफवातरक्तपित्तहरा ।
दाहातिसारशमनो नानाज्वरदोषशूलमूलघ्नी ॥ रज्नि_9.57
शिरीषः शीतपुष्पश् च भण्डिको मृदुपुष्पकः ।
शुकेष्टो बर्हिपुष्पश् च विषहन्ता सुपुष्पकः ॥ रज्नि_9.58
उद्दानकः शुकतरुर् ज्ञेयो लोमशपुष्पकः ।
कपीतनः कलिङ्गश् च श्यामलः शङ्खिनीफलः ।
मधुपुष्पस् तथा वृत्तपुष्पः सप्तदशाह्वयः ॥ रज्नि_9.59
शिरीषः कटुकः शीतो विषवातहरः परः ।
पामासृक्कुष्ठकण्डूतित्वग्दोषस्य विनाशनः ॥ रज्नि_9.60
करञ्जो नक्तमालश् च पूतिकश् चिरबिल्वकः ।
पूतिपर्णो वृद्धफलो रोचनश् च प्रकीर्यकः ॥ रज्नि_9.61
करञ्जः कटुर् उष्णश् च चक्षुष्यो वातनाशनः ।
तस्य स्नेहो ऽतिस्निग्धश् च वातघ्नः स्थिरदीप्तिदः ॥ रज्नि_9.62
अन्यो घृतकरञ्जः स्यात् प्रकीर्यो घृतपर्णकः ।
स्निग्धपत्रस् तपस्वी च विषारिश् च विरोचनः ॥ रज्नि_9.63
घृतकरञ्जः कटूष्णो वातहृद् व्रणनाशनः ।
सर्वत्वग्दोषशमनो विषस्पर्शविनाशनः ॥ रज्नि_9.64
ज्ञेयो महाकरञ्जो ऽन्यः षड्ग्रन्थो हस्तिचारिणी ।
उदकीर्या विषघ्नी च काकघ्नी मदहस्तिनी ।
अङ्गारवल्ली शार्ङ्गेष्टा मधुसत्तावमायिनी ॥ रज्नि_9.65
हस्तिरोहणकश् चैव ज्ञेयो हस्तिकरञ्जकः ।
सुमनाः काकभाण्डी च मदमत्तश् च षोडश ॥ रज्नि_9.66
महाकरञ्जस् तीक्ष्णोष्णः कटुको विषनाशनः ।
कण्डूविचर्चिकाकुष्ठत्वग्दोषव्रणनाशनः ॥ रज्नि_9.67
प्रकीर्यो रजनीपुष्पः सुमनाः पूतिकर्णिकः ।
पूतिकरञ्जः कैडर्यः कलिमालश् च सप्तधा ॥ रज्नि_9.68
अन्यो गुच्छकरञ्जः स्निग्धदलो गुच्छपुच्छको नन्दी ।
गुच्छी च मातृनन्दी सानन्दो दन्तधावनो वसवः ॥ रज्नि_9.69
करञ्जः कटुतिक्तोष्णो विषवातार्तिकृन्तनः ।
कण्डूविचर्चिकाकुष्ठस्पर्शत्वग्दोषनाशनः ॥ रज्नि_9.70
रीठाकरञ्जकस् त्व् अन्यो गुच्छलो गुच्छपुष्पकः ।
रीठा गुच्छफलो ऽरिष्टो मङ्गल्यः कुम्भबीजकः ।
प्रकीर्यः सोमवल्कश् च फेनिलो रुद्रसंज्ञकः ॥ रज्नि_9.71
रीठाकरञ्जस् तिक्तोष्णः कटुः स्निग्धश् च वातजित् ।
कफघ्नः कुष्ठकण्डूतिविषविस्फोटनाशनः ॥ रज्नि_9.72
अङ्कोलः कोठरो रेची गूढपत्रो निकोचकः ।
गुप्तस्नेहः पीतसारो मदनो गूढमल्लिका ॥ रज्नि_9.73
पीतस् ताम्रफलो ज्ञेयो दीर्घकालो गुणाढ्यकः ।
कोलः कोलम्बकर्णश् च गन्धपुष्पश् च रोचनः ।

विज्ञानतैलगर्भश् च स्मृतिसंख्याभिधा स्मृतः ॥ रज्नि_9.74
अङ्कोलः कटुकः स्निग्धो विषलूतादिदोषनुत् ।
कफानिलहरः सूतशुद्धिकृत् रेचनीयकः ॥ रज्नि_9.75
नीलस् तु नीलवृक्षो वातारिः शोफनाशनो नखनामा ।
नखवृक्षश् च नखालुर् नखप्रियो दिग्गजेन्द्रमितसंज्ञः ॥ रज्नि_9.76
नीलवृक्षस् तु कटुकः कषायोष्णो लघुस् तथा ।
वातामयप्रशमनो नानाश्वयथुनाशनः ॥ रज्नि_9.77
सर्जः सर्जरसः शालः कालकुटो रजोद्भवः ।
वल्लीवृक्षश् चीरपर्णो रालः कार्श्यो ऽजकर्णकः ॥ रज्नि_9.78
वस्तकर्णः कषायी च ललनो गन्धवृक्षकः ।
वंशश् च शालनिर्यासो दिव्यसारः सुरेष्टकः ।
शूरो ऽग्निवल्लभश् चैव यक्षधूपः सुसिद्धकः ॥ रज्नि_9.79
सर्जस् तु कटुतिक्तोष्णो हिमः स्निग्धो ऽतिसारजित् ।
पित्तास्रदोषकुष्ठघ्नः कण्डूविस्फोटवातजित् ॥ रज्नि_9.80
जरणद्रुमो ऽश्वकर्णस् तार्क्ष्यप्रसवश् च शस्यसंवरणः ।
धन्यश् च दीर्घपर्णः कुशिकतरुः कौशिकश् चापि ॥ रज्नि_9.81
अश्वकर्णः कटुस् तिक्तः स्निग्धः पित्तास्रनाशनः ।
ज्वरविस्फोटकण्डूघ्नः शिरोदोषार्तिकृन्तनः ॥ रज्नि_9.82
तालस् तालद्रुमः पत्री दीर्घस्कन्धो ध्वजद्रुमः ।
तृणराजो मधुरसो मदाढ्यो दीर्घपादपः ॥ रज्नि_9.83
चिरायुस् तरुराजश् च गजभक्ष्यो दृढच्छदः ।
दीर्घपत्रो गुच्छपत्रो ऽप्य् आसवद्रुश् च षोडश ॥ रज्नि_9.84
तालश् च मधुरः शीतपित्तदाहश्रमापहः ।
सरश् च कफपित्तघ्नो मदकृद् दाहशोषनुत् ॥ रज्नि_9.85
श्रीतालो मधुतालश् च लक्ष्मीतालो मृदुच्छदः ।
विशालपत्रो लेखार्हो मसीलेख्यदलस् तथा ।
शिरालपत्रकश् चैव याम्योद्भूतो नवाह्वयः ॥ रज्नि_9.86
श्रीतालो मधुरो ऽत्यन्तम् ईषच् चैव कषायकः ।
पित्तजित् कफकारी च वातम् ईषत् प्रकोपयेत् ॥ रज्नि_9.87
हिन्तालः स्थूलतालश् च वल्कपत्रो बृहद्दलः ।
गर्भस्रावी लतातालो भीषणो बहुकण्टकः ॥ रज्नि_9.88
स्थिरपत्रो द्विधालेख्यः शिरापत्रः स्थिराङ्घ्रिपः ।
अम्लसारो बृहत्तालः स्याच् चतुर्दशधाभिधः ॥ रज्नि_9.89
हिन्तालो मधुराम्लश् च कफकृत् पित्तदाहनुत् ।
श्रमतृष्णापहारी च शिशिरो वातदोषनुत् ॥ रज्नि_9.90
माडो माडद्रुमो दीर्घो ध्वजवृक्षो वितानकः ।
मद्यद्रुमो मोहकारी मदद्रुर् ऋजुर् अङ्कधा ॥ रज्नि_9.91
माडस् तु शिशिरो रुच्यः कषायः पित्तदाहकृत् ।
तृष्णापहो मरुत्कारी श्रमहृत् श्लेष्मकारकः ॥ रज्नि_9.92
तूलं तूदं ब्रह्मकाष्ठं ब्राह्मणेष्टं च यूपकम् ।

ब्रह्मदारु सुपुष्पं च सुरूपं नीलवृन्तकम् ।
क्रमुकं विप्रकाष्ठं च मृदुसारं द्विभूमितम् ॥ रज्नि_9.93
तूलं तु मधुराम्लं स्यात् वातपित्तहरं सरम् ।
दाहप्रशमनं वृष्यं कषायं कफनाशनम् ॥ रज्नि_9.94
तमालो नीलतालः स्यात् कालस्कन्धस् तमालकः ।
नीलध्वजश् च तापिञ्छः कालतालो महाबलः ॥ रज्नि_9.95
तमालो मधुरो बल्यो वृष्यश् च शिशिरो गुरुः ।
कफपित्ततृषादाहश्रमभ्रान्तिकरः परः ॥ रज्नि_9.96
कदम्बो वृत्तपुष्पश् च सुरभिर् ललनाप्रियः ।
कादम्बर्यः सिन्धुपुष्पो मदाढ्यः कर्णपूरकः ॥ रज्नि_9.97
कदम्बस् तिक्तकटुकः कषायो वातनाशनः ।
शीतलः कफपित्तार्तिनाशनः शुक्रवर्धनः ॥ रज्नि_9.98
धाराकदम्बः प्रावृष्यः पुलकी भृङ्गवल्लभः ।
मेघागमप्रियो नीपः प्रावृषेण्यः कदम्बकः ॥ रज्नि_9.99
धूलीकदम्बः क्रमुकप्रसूनः परागपुष्पो बलभद्रसंज्ञकः ।
वसन्तपुष्पो मकरन्दवासो भृङ्गप्रियो रेणुकदम्बको ऽष्टौ ॥ रज्नि_9.100
भूमीकदम्बो भूनिम्बो भूमिजो भृङ्गवल्लभः ।
लघुपुष्पो वृत्तपुष्पो विषघ्नो व्रणहारकः ॥ रज्नि_9.101
त्रिकदम्बाः कटुर् वर्ण्या विषशोफहरा हिमाः ।
कषायाः पित्तलास् तिक्ता वीर्यवृद्धिकराः पराः ॥ रज्नि_9.102
वानीरो वृत्तपुष्पश् च शाखालो जलवेतसः ।
व्याधिघातः परिव्याधो नादेयो जलसम्भवः ॥ रज्नि_9.103
वानीरस् तिक्तशिशिरो रक्षोघ्नो व्रणशोधनः ।
पित्तास्रकफदोषघ्नः संग्राही च कषायकः ॥ रज्नि_9.104
कुम्भी रोमालुविटपी रोमशः पर्पटद्रुमः ।
कुम्भी कटुः कषायोष्णो ग्राही वातकफापहः ॥ रज्नि_9.105
वेतसो निचुलो ज्ञेयो वञ्जुलो दीर्घपत्रकः ।
कलनो मञ्जरीनम्रः सुषेणो गन्धपुष्पकः ॥ रज्नि_9.106
वेतसः कटुकः स्वादुः शीतो भूतविनाशनः ।
पित्तप्रकोपणो रुच्यो विज्ञेयो दीपनः परः ।
रक्तपित्तोद्भवं रोगं कुष्ठदोषं च नाशयेत् ॥ रज्नि_9.107
धवो दृढतरुर् गौरः कषायो मधुरत्वचः ।
शुक्लवृक्षः पाण्डुतरुर् धवलः पाण्डुरो नव ॥ रज्नि_9.108
धवः कषायः कटुकः कफघ्नो ऽनिलनाशनः ।
पित्तप्रकोपणो रुच्यो विज्ञेयो दीपनः परः ॥ रज्नि_9.109
धन्वनो रक्तकुसुमो धनुवृक्षो महाबलः ।
रुजापहः पिच्छलको रूक्षः स्वादुफलश् च सः ॥ रज्नि_9.110
धन्वनः कटुकोष्णश् च कषायः कफनाशनः ।
दाहशोषकरो ग्राही कण्ठामयशमप्रदः ॥ रज्नि_9.111
भूर्जो वल्कद्रुमो भुर्जः सुचर्मा भूर्जपत्रकः ।

चित्रत्वग् बिन्दुपत्रश् च रक्षापत्रो विचित्रकः ।
भूतघ्नो मृदुपत्रश् च शैलेन्द्रस्थो द्विभूमितः ॥ रज्नि_9.112
भूर्जः कटुकषायोष्णो भूतरक्षाकरः परः ।
त्रिदोषशमनः पथ्यो दुष्टकौटिल्यनाशनः ॥ रज्नि_9.113
तिनिशः स्यन्दनश् चक्री शताङ्गः शकटो रथः ।
रथिको भस्मगर्भश् च मेषी जलधरो दश ॥ रज्नि_9.114
तिनिशस् तु कषायोष्णः कफरक्तातिसारजित् ।
ग्राहको दाहजननो वातामयहरः परः ॥ रज्नि_9.115
अर्जुनः शम्बरः पार्थश् चित्रयोधी धनंजयः ।
वैरान्तकः किरीटी च गाण्डीवी शिवमल्लकः ॥ रज्नि_9.116
सव्यसाची नदीसर्जः कर्णारिः कुरुवीरकः ।
कौन्तेय इन्द्रसूनुश् च वीरद्रुः कृष्णसारथिः ।
पृथाजः फाल्गुनो धन्वी ककुभश् चैकविंशतिः ॥ रज्नि_9.117
अर्जुनस् तु कषायोष्णः कफघ्नो व्रणनाशनः ।
पित्तश्रमतृषार्तिघ्नो मारुतामयकोपनः ॥ रज्नि_9.118
हरिद्रुः पीतदारुः स्यात् पीतकाष्ठश् च पीतकः ।
कदम्बकः सुपुष्पश् च सुराह्वः पीतकद्रुमः ॥ रज्नि_9.119
हरिद्रुः शीतलस् तिक्तो मङ्गल्यः पित्तवान्तिजित् ।
अङ्गकान्तिकरो बल्यो नानात्वग्दोषनाशनः ॥ रज्नि_9.120
दग्धा दग्धरुहा प्रोक्ता दग्धिका च स्थलेरुहा ।
रोमशा कर्कशदला भस्मरोहा सुदग्धिका ॥ रज्नि_9.121
दग्धा कटुकषायोष्णा कफवातनिकृन्तनी ।
पित्तप्रकोपणी चैव जठरानलदीपनी ॥ रज्नि_9.122
शाखोटः स्याद् भूतवृक्षो गवाक्षी यूकावासो भूर्जपत्रश् च पीतः ।
कौशिक्यो ऽजक्षीरनाशश् च सूक्तस् तिक्तोष्णो ऽयं पित्तकृद् वातहारी ॥ रज्नि_9.123
शाकः क्रकचपत्रः स्यात् खरपत्रो ऽतिपत्रकः ।
महीसहः श्रेष्टकाष्ठः स्थिरसारो गृहद्रुमः ॥ रज्नि_9.124
शाकस् तु सारकः प्रोक्तः पित्तदाहश्रमापहः ।
कफघ्नं मधुरं रुच्यं कषायं शाकवल्कलम् ॥ रज्नि_9.125
शिंशपा तु महाश्यामा कृष्णसारा च धूम्रिका ।
तीक्ष्णसारा च धीरा च कपिला कृष्णशिंशपा ॥ रज्नि_9.126
श्यामादिशिंशपा तिक्ता कटूष्णा कफवातनुत् ।
नष्टाजीर्णहरा दीप्या शोफातीसारहारिणी ॥ रज्नि_9.127
शिंशपान्या श्वेतपत्रा सिताह्वादिश् च शिंशपा ।
श्वेतादिशिंशपा तिक्ता शिशिरा पित्तदाहनुत् ॥ रज्नि_9.128
कपिला शिंशपा चान्या पीता कपिलशिंशपा ।
सारिणी कपिलाक्षी च भस्मगर्भा कुशिंशपा ॥ रज्नि_9.129
कपिला शिंशपा तिक्ता शीतवीर्या श्रमापहा ।
वातपित्तज्वरघ्नी च छर्दिहिक्काविनाशिनी ॥ रज्नि_9.130
शिंशपात्रितयं वर्ण्यं हिमशोफविसर्पजित् ।

पित्तदाहप्रशमनं बल्यं रुचिकरं परम् ॥ रज्नि_9.131
असनस् तु महासर्जः सौरिर् बन्धूकपुष्पकः ।
प्रियको बीजवृक्षश् च नीलकः प्रियशालकः ॥ रज्नि_9.132
असनः कटुर् उष्णश् च तिक्तो वातार्तिदोषनुत् ।
सारको गलदोषघ्नो रक्तमण्डलनाशनः ॥ रज्नि_9.133
द्वितीयो नीलबीजः स्यान् नीलपत्रः सुनीलकः ।
नीलद्रुमो नीलसारो नीलनिर्यासको रसैः ॥ रज्नि_9.134
बीजवृक्षौ कटू शीतौ कषायौ कुष्ठनाशनौ ।
सारकौ कण्डुदद्रुघ्नौ श्रेष्ठस् तत्रासितस् तयोः ॥ रज्नि_9.135
वरुणः श्वेतपुष्पश् च तिक्तशाकः कुमारकः ।
श्वेतद्रुमः साधुवृक्षः तमालो मारुतापहः ॥ रज्नि_9.136
वरुणः कटुर् उष्णश् च रक्तदोषहरः परः ।
शीर्षवातहरः स्निग्धो दीप्यो विद्रधिवातजित् ॥ रज्नि_9.137
पुत्रजीवः पवित्रश् च गर्भदः सुतजीवकः ।
कुटजीवो ऽपत्यजीवः सिद्धिदो ऽपत्यजीवकः ॥ रज्नि_9.138
पुत्रजीवो हिमो वृष्यः श्लेष्मदो गर्भजीवदः ।
चक्षुष्यः पित्तशमनो दाहतृष्णानिवारणः ॥ रज्नि_9.139
महापिण्डीतरुः प्रोक्तः श्वेतपिण्डीतकश् च सः ।
करहाटः क्षुरश् चैव शस्त्रकोशतरुः सरः ॥ रज्नि_9.140
पिण्डीतरुः कषायोष्णस् त्रिदोषशमनो ऽपि च ।
चर्मरोगापहश् चैव विशेषाद् रक्तदोषजित् ॥ रज्नि_9.141
कारस्करस् तु किम्पाको विषतिन्दुर् विषद्रुमः ।
गरद्रुमो रम्यफलः कुपाकः कालकूटकः ॥ रज्नि_9.142
कारस्करः कटूष्णश् च तिक्तः कुष्ठविनाशनः ।
वातामयास्रकण्डूतिकफामार्शोव्रणापहः ॥ रज्नि_9.143
कटभी नाभिका शौण्डी पाटली किणिही तथा ।
मधुरेणुः क्षुद्रशामा कैडर्यः श्यामला नव ॥ रज्नि_9.144
शितादिकटभी श्वेता किणिही गिरिकर्णिका ।
शिरीषपत्रा कालिन्दी शतपादी विषघ्निका ।
महाश्वेता महाशौण्डी महादिकटभी तथा ॥ रज्नि_9.145
कटभी भवेत् कटूष्णा गुल्मविषाध्मानशूलदोषघ्नी ।
वातकफाजीर्णरुजाशमनी श्वेता च तत्र गुणयुक्ता ॥ रज्नि_9.146
क्षवकः क्षुरकस् तीक्ष्णः क्रूरो भूताङ्कुशः क्षवः ।
राजोद्वेजनसंज्ञश् च भूतद्रावी ग्रहाह्वयः ॥ रज्नि_9.147
भूताङ्कुशस् तीव्रगन्धः कषायोष्णः कटुस् तथा ।
भूतग्रहादिदोषघ्नः कफवातनिकृन्तनः ॥ रज्नि_9.148
देवसर्षपकश् चाक्षो बदरो रक्तमूलकः ।
सुरसर्षपकश् चैन्द्रस् तथा सूक्ष्मदलः स्मृतः ।
सर्षपो निर्जरादिः स्यात् कुरराङ्घ्रिर् नवाभिधः ॥ रज्नि_9.149
देवसर्षपनामा तु कटूष्णः कफनाशनः ।

जन्तुदोषहरो रुच्यो वक्त्रामयविशोधनः ॥ रज्नि_9.150
लकुचो लिकुचः शालः कषायी दृढवल्कलः ।
डहुः कार्श्यश् च शूरश् च स्थूलस्कन्धो नवाह्वयः ॥ रज्नि_9.151
लकुचः स्वरसे तिक्तः कषायोष्णो लघुस् तथा ।
कफदोषहरो दाही मलसंग्रहदायकः ॥ रज्नि_9.152
विकङ्कतो व्याघ्रपादो ग्रन्थिलः स्वादुकण्टकः ।
कण्ठपादो बहुफलो गोपघोण्टा स्रुवद्रुमः ॥ रज्नि_9.153
मृदुफलो दन्तकाष्ठो यज्ञीयो ब्रह्मपादपः ।
पिण्डरोहिणकः पूतः किङ्किणी च त्रिपञ्चधा ॥ रज्नि_9.154
विकङ्कतो ऽम्लमधुरः पाके ऽतिमधुरो लघुः ।
दीपनः कामलास्रघ्नः पाचनः पित्तनाशनः ॥ रज्नि_9.155
इत्थं वन्यमहीरुहाह्वयगुणाभिख्यानमुख्यानया भङ्ग्या भङ्गुरिताभिधान्तरमहाभोगश्रिया भास्वरम् ।
वैद्यो वै द्यतु वर्गम् एनम् अखिलं विज्ञाय वैज्ञानिकः प्रज्ञालोकविजृम्भणेन सहसा स्वैरं गदानां गणम् ॥ रज्नि_9.156
ये वृश्चन्ति नृणां गदान् गुरुतरान् आक्रम्य वीर्यासिना ये स्थित्वापि वने गुणेन सरुजां स्वेनावनं तन्वते ।
तेषाम् एष महान् असीममहिमा वन्यात्मनां वासभूर् वृक्षाणां भणितो भिषग्भिर् असमो यो वृक्षवर्गाख्यया ॥ रज्नि_9.157
यः काश्मीरकुलोज्ज्वलाम्बुजवनीहंसो ऽपि संसेव्यते नित्योल्लासितनीलकण्ठमनसः प्रीत्याद्यभग्नश्रिया ।
तस्यायं नवमः कृतौ नरहरेर् वर्गः प्रभद्रादिको भद्रात्मन्य् अभिधानशेखरशिखाचूडामणौ संस्थितः ॥ रज्नि_9.158
राजनिघण्टु, करवीरादिवर्ग
चतुर्धा करवीरो ऽथ धत्तूरत्रितयं तथा ।
कोविदारो ऽब्धिर् अर्कः स्यान् नमेरुः किंशुकस् तथा ॥ रज्नि_10.1
पुन्नागस् तिलको ऽगस्त्यः पाटल्यौ च द्विधा स्मृते ।
अशोकश् चम्पको धन्वी केतकी द्विविधा तथा ॥ रज्नि_10.2
सिन्दूरी च तथा जाती मुद्गरः शतपत्रिका ।
मल्लिका च चतुर्धा स्याद् वासन्ती नवमल्लिका ॥ रज्नि_10.3
अतिमुक्तो द्विधा यूथी कुब्जको मुचकुन्दकः ।
करुणी माधवी चाथ गणिकारी च कुन्दकः ॥ रज्नि_10.4
बककेविकबन्धूकास् त्रिसन्धिश् च जपा तथा ।
प्रोक्ता भ्रमरमारी च तरुण्य् अम्लानकस् तथा ॥ रज्नि_10.5
किङ्किरातो ऽथ बालाख्यो झिण्टिका चोष्ट्रकाण्डिका ।
तगरं दमनद्वन्द्वं तुलसी मरुवो द्विधा ॥ रज्नि_10.6
अर्जकश् च चतुर्गङ्गा पत्री पाची च बालकः ।
बर्बरो मञ्चिकापत्रः प्रोक्ता चारामशीतला ॥ रज्नि_10.7
अथ कमलपुण्डरीकाह्वयकोकनदानि पद्मिनी चैव ।
पद्माक्षं च मृणालं तत्कन्दः केसरश् च तथा ॥ रज्नि_10.8
उत्पलकुमुदकुवलयम् उत्पलिनी चाङ्कवसुमित्या ।
उत्तंसनाम्नि वर्गे द्रव्याण्य् अत्रोपदिश्यन्ते ॥ रज्नि_10.9
करवीरो महावीरो हयमारो ऽश्वमारकः ।
हयघ्नः प्रतिहासश् च शतकुन्दो ऽश्वरोधकः ॥ रज्नि_10.10
हयारिर् वीरकः कुन्दः शकुन्दः श्वेतपुष्पकः ।
अश्वान्तकस् तथाश्वघ्नो नखराह्वो ऽश्वनाशकः ॥ रज्नि_10.11

स्थलादिकुमुदः प्रोक्तो दिव्यपुष्पो हरप्रियः ।
गौरीपुष्पः सिद्धपुष्पो द्विकराह्वः प्रकीर्त्तितः ॥ रज्नि_10.12
करवीरः कटुस् तीक्ष्णः कुष्ठकण्डूतिनाशनः ।
व्रणार्तिविषविस्फोटशमनो ऽश्वमतिप्रदः ॥ रज्नि_10.13
रक्तकरवीरको ऽन्यो रक्तप्रसवो गणेशकुसुमश् च ।
चण्डीकुसुमः क्रूरो भूतद्रावी रविप्रियो मुनिभिः ॥ रज्नि_10.14
रक्तस् तु करवीरः स्यात् कटुस्तीक्ष्णो विशोधकः ।
त्वग्दोषव्रणकण्डूतिकुष्ठहारी विषापहः ॥ रज्नि_10.15
पीतकरवीरको ऽन्यः पीतप्रसवः सुगन्धिकुसुमश् च ।
कृष्णस् तु कृष्णकुसुमश् चतुर्विधो ऽयं गुणे तुल्यः ॥ रज्नि_10.16
धत्तूरः कितवो धूर्त्त उन्मत्तः कनकाह्वयः ।
शठो मातुलकः श्यामो मदनः शिवशेखरः ॥ रज्नि_10.17
खर्जूघ्नः काहलापुष्पः खलः कण्टफलस् तथा ।
मोहनः कलभोन्मत्तः शैवः सप्तदशाह्वयः ॥ रज्नि_10.18
धत्तूरः कटुर् उष्णश् च कान्तिकारी व्रणार्तिनुत् ।
त्वग्दोषखर्जूकण्डूतिज्वरहारी भ्रमप्रदः ॥ रज्नि_10.19
कृष्णधत्तूरकः सिद्धः कनकः सचिवः शिवः ।
कृष्णपुष्पो विषारातिः क्रूरधूर्तश् च कीर्तितः ॥ रज्नि_10.20
राजधत्तूरकश् चान्यो राजधूर्तो महाशठः ।
निस्त्रैणिपुष्पको भ्रान्तो राजस्वर्णः षडाह्वयः ॥ रज्नि_10.21
सितनीलकृष्णलोहितपीतप्रसवाश् च सन्ति धत्तूराः ।
सामान्यगुणोपेतास् तेषु गुणाढ्यस् तु कृष्णकुसुमः स्यात् ॥ रज्नि_10.22
कोविदारः काञ्चनारः कुद्दालः कनकारकः ।
कान्तपुष्पश् च करकः कान्तारो यमलच्छदः ॥ रज्नि_10.23
पीतपुष्पः सुवर्णारो गिरिजः काञ्चनारकः ।
युग्मपत्रो महापुष्पः स्याच् चतुर्दशधाभिधः ॥ रज्नि_10.24
कोविदारः कषायः स्यात् संग्राही व्रणरोपणः ।
दीपनः कफवातघ्नो मूत्रकृच्छ्रनिबर्हणः ॥ रज्नि_10.25
अर्कः क्षीरदलः पुच्छी प्रतापः क्षीरकाण्डकः ।
विक्षीरो भास्करः क्षीरी खर्जूघ्नः शिवपुष्पकः ॥ रज्नि_10.26
भञ्जनः क्षीरपर्णी स्यात् सविता च विकीरणः ।
सूर्याह्वश् च सदापुष्पो रविर् आस्फोटकस् तथा ।
तूलफलः शुकफलो विंशतिश् च समाह्वयः ॥ रज्नि_10.27
अर्कस् तु कटुर् उष्णश् च वातजिद् दीपनीयकः ।
शोफव्रणहरः कण्डूकुष्ठक्रिमिविनाशनः ॥ रज्नि_10.28
शुक्लार्कस् तपनः श्वेतः प्रतापश् च सितार्ककः ।
सुपुष्पः शङ्करादिः स्याद् अत्यर्को वृत्तमल्लिका ॥ रज्नि_10.29
श्वेतार्कः कटुतिक्तोष्णो मलशोधनकारकः ।
मूत्रकृच्छ्रास्रशोफार्तिव्रणदोषविनाशनः ॥ रज्नि_10.30
राजार्को वसुको ऽलर्को मन्दारो गणरूपकः ।

काष्ठीलश् च सदापुष्पो ज्ञेयो ऽत्र सप्तसंमितः ॥ रज्नि_10.31
राजार्कः कटुतिक्तोष्णः कफमेदोविषापहः ।
वातकुष्ठव्रणान् हन्ति शोफकण्डूविसर्पनुत् ॥ रज्नि_10.32
श्वेतमन्दारकस् त्व् अन्यः पृथ्वी कुरवकः स्मृतः ।
दीर्घपुष्पः सितालर्को दीर्घात्यर्कः रसाह्वयः ॥ रज्नि_10.33
श्वेतमन्दारको ऽत्युष्णस् तिक्तो मलविशोधनः ।
मूत्रकृच्छ्रव्रणान् हन्ति क्रिमीन् अत्यन्तदारुणान् ॥ रज्नि_10.34
नमेरुः सुरपुन्नागः सुरेष्टः सुरपर्णिका ।
सुरतुङ्गश् च पञ्चाह्वः पुन्नागगुणसंयुतः ॥ रज्नि_10.35
पलाशः किंशुकः पर्णो वातपोथो ऽथ याज्ञिकः ।
त्रिपर्णो वक्रपुष्पश् च पूतद्रुर् ब्रह्मवृक्षकः ।
ब्रह्मोपनेता काष्ठद्रुः पर्यायैकादश स्मृताः ॥ रज्नि_10.36
पलाशस् तु कषायोष्णः क्रिमिदोषविनाशनः ।
तद्बीजं पामकण्डूतिदद्रुत्वग्दोषनाशकृत् ॥ रज्नि_10.37
तस्य पुष्पं च सोष्णं च कण्डूकुष्ठार्त्तिनाशनम् ।
रक्तः पीतः सितो नीलः कुसुमैस् तु विभज्यते ॥ रज्नि_10.38
किंशुकैर् गुणसाम्ये ऽपि सितो विज्ञानदः स्मृतः ॥ रज्नि_10.39
पुन्नागः पुरुषस् तुङ्गः पुन्नामा पाटलः पुमान् ।
रक्तपुष्पो रक्तरेणुर् अरुणो ऽयं नवाह्वयः ॥ रज्नि_10.40
पुन्नागो मधुरः शीतः सुगन्धिः पित्तनाशकृत् ।
भूतविद्रावणश् चैव देवतानां प्रसादनः ॥ रज्नि_10.41
तिलको विशेषकः स्यान् मुखमण्डनकश् च पुण्ड्रकः पुण्ड्रः ।
स्थिरपुष्पः छिन्नरुहो दग्धरुहो रेचकश् च मृतजीवी ॥ रज्नि_10.42
तरुणीकटाक्षकामो वासन्तः सुन्दरो ऽभीष्टः ।
भालविभूषणसंज्ञो विज्ञेयः पञ्चदशनामा ॥ रज्नि_10.43
तिलको मधुरः स्निग्धो वातपित्तकफापहः ।
बलपुष्टिकरो हृद्यो लघुर् मेदोविवर्धनः ॥ रज्नि_10.44
तिलकत्वक् कषायोष्णा पुंस्त्वघ्नी दन्तदोषनुत् ।
क्रिमिशोफव्रणान् हन्ति रक्तदोषविनाशनी ॥ रज्नि_10.45
अगस्त्यः शीघ्रपुष्पः स्यात् अगस्तिस् तु मुनिद्रुमः ।
व्रणारिर् दीर्घफलको वक्रपुष्पः सुरप्रियः ॥ रज्नि_10.46
सितपीतनीललोहितकुसुमविशेषाच् चतुर्विधो ऽगस्तिः ।
मधुरशिशिरस्त्रिदोषश्रमकासविनाशनश् च भूतघ्नः ॥ रज्नि_10.47
अगस्त्यं शिशिरं गौल्यं त्रिदोषघ्नं श्रमापहम् ।
बलासकासवैवर्ण्यभूतघ्नं च बलापहम् ॥ रज्नि_10.48
पाटली ताम्रपुष्पी च कुम्भिका रक्तपुष्पिका ।
वसन्तदूती चामोघा स्थाली च विटवल्लभा ।
स्थिरगन्धाम्बुवासी च कालवृन्तीन्दुभूह्वया ॥ रज्नि_10.49
पाटली तु रसे तिक्ता कटूष्णा कफवातजित् ।
शोफाध्मानवमिश्वासशमनी सन्निपातनुत् ॥ रज्नि_10.50

सितपाटलिका चान्या सितकुम्भी फलेरुहा ।
सिता मोघा कुबेराक्षी सिताह्वा काष्ठपाटला ।
पाटली धवला प्रोक्ता ज्ञेया वसुमिताह्वया ॥ रज्नि_10.51
सितपाटलिका तिक्ता गुरूष्णा वातदोषजित् ।
वमिहिक्काकफघ्नी च श्रमशोषापहारिका ॥ रज्नि_10.52
अशोकः शोकनाशः स्याद् विशोको वञ्जुलद्रुमः ।
मधुपुष्पो ऽपशोकश् च कङ्केलिः केलिकस् तथा ॥ रज्नि_10.53
रक्तपल्लवकश् चित्रो विचित्रः कर्णपूरकः ।
सुभगः स्मराधिवासो दोषहारी प्रपल्लवः ॥ रज्नि_10.54
रागी तरुर् हेमपुष्पो रामावामङ्घ्रिघातकः ।
पिण्डीपुष्पो नटश् चैव पल्लवद्रुर् द्विविंशतिः ॥ रज्नि_10.55
अशोकः शिशिरो हृद्यः पित्तदाहश्रमापहः ।
गुल्मशूलोदराध्माननाशनः क्रिमिकारकः ॥ रज्नि_10.56
चम्पकः स्वर्णपुष्पश् च चाम्पेयः शीतलच्छदः ।
सुभगो भृङ्गमोही च शीतलो भ्रमरातिथिः ॥ रज्नि_10.57
सुरभिर् दीपपुष्पश् च स्थिरगन्धो ऽतिगन्धकः ।
स्थिरपुष्पो हेमपुष्पः पीतपुष्पस् तथापरः ।
हेमाह्वः सुकुमारस् तु वनदीपो ऽष्टभूह्वयः ॥ रज्नि_10.58
तत्कलिका गन्धफली बहुगन्धा गन्धमोदिनी त्रेधा ॥ रज्नि_10.59
चम्पकः कटुकस् तिक्तः शिशिरो दाहनाशनः ।
कुष्ठकण्डूव्रणहरो गुणाढ्यो राजचम्पकः ॥ रज्नि_10.60
क्षुद्रादिचम्पकस् त्व् अन्यः स ज्ञेयो नागचम्पकः ।
फणिचम्पकनागाह्वश् चम्पको वनजः शराः ॥ रज्नि_10.61
वनचम्पकः कटूष्णो वातकफध्वंसनो वर्ण्यः ।
चक्षुष्यो व्रणरोपी वह्निस्तम्भं करोति योगगुणात् ॥ रज्नि_10.62
बकुलस् तु सीधुगन्धः स्त्रीमुखमधुदोहलश् च मधुपुष्पः ।
सुरभिर् भ्रमरानन्दः स्थिरकुसुमः केसरश् च शारदिकः ॥ रज्नि_10.63
करकः सीधुसंज्ञस् तु विशारदो गूढपुष्पको धन्वी ।
मदनो मद्यामोदश् चिरपुष्पश् चेति सप्तदशसंज्ञः ॥ रज्नि_10.64
बकुलः शीतलो हृद्यो विषदोषविनाशनः ।
मधुरश् च कषायश् च मदाढ्यो हर्यदायकः ॥ रज्नि_10.65
बकुलकुसुमं च रुच्यं क्षीराढ्यं सुरभि शीतलं मधुरम् ।
स्निग्धकषायं कथितं मलसंग्रहकारकं चैव ॥ रज्नि_10.66
केतकी तीक्ष्णपुष्पा च विफला धूलिपुष्पिका ।
मेध्या कण्टदला चैव शिवद्विष्टा नृपप्रिया ॥ रज्नि_10.67
क्रकचा दीर्घपत्रा च स्थिरगन्धा तु पांशुला ।
गन्धपुष्पेन्दुकलिका दलपुष्पा त्रिपञ्चधा ॥ रज्नि_10.68
स्वर्णादिकेतकी त्व् अन्या ज्ञेया सा हेमकेतकी ।
कनकप्रसवा पुष्पी हैमी छिन्नरुहा तथा ।
विष्टरुहा स्वर्णपुष्पी कामखड्गदला च सा ॥ रज्नि_10.69

केतकीकुसुमं वर्ण्यं केशदौर्गन्ध्यनाशनम् ।
हेमाभं मदनोन्मादवर्द्धनं सौख्यकारि च ॥ रज्नि_10.70
तस्याः स्तनो ऽतिशिशिरः कटुः पित्तकफापहः ।
रसायनकरो बल्यो देहदार्ढ्यकरः परः ॥ रज्नि_10.71
सिन्दूरी वीरपुष्पश् च तृणपुष्पी करच्छदः ।
सिन्दूरपुष्पी शोणादिपुष्पी षडाह्वयः स्मृतः ॥ रज्नि_10.72
सिन्दूरी कटुका तिक्ता कषाया श्लेष्मवातजित् ।
शिरआर्तिशमनी भूतनाशा चण्डीप्रिया भवेत् ॥ रज्नि_10.73
जाती सुरभिगन्धा स्यात् सुमना तु सुरप्रिया ।
चेतकी सुकुमारा तु सन्ध्यापुष्पी मनोहरा ॥ रज्नि_10.74
राजपुत्री मनोज्ञा च मालती तैलभाविनी ।
जनेष्टा हृद्यगन्धा च नामान्य् अस्याश् चतुर्दश ।
मालती शीततिक्ता स्यात् कफघ्नी मुखपाकनुत् ।
कुद्मलं नेत्ररोगघ्नं व्रणविस्फोटकुष्ठनुत् ॥ रज्नि_10.75
मुद्गरो गन्धसारस् तु सप्तपत्रश् च कर्दमी ।
वृत्तपुष्पो ऽतिगन्धश् च गन्धराजो विटप्रियः ।
गेयप्रियो जनेष्टश् च मृगेष्टो रुद्रसम्मितः ॥ रज्नि_10.76
मुद्गरो मधुरः शीतः सुरभिः सौख्यदायकः ।
मनोज्ञो मधुपानन्दकारी पित्तप्रकोपहृत् ॥ रज्नि_10.77
शतपत्री तु सुमना सुशीता शिववल्लभा ।
सौम्यगन्धा शतदला सुवृत्ता शतपत्रिका ॥ रज्नि_10.78
शतपत्री हिमा तिक्ता कषाया कुष्ठनाशनी ।
मुखस्फोटहरा रुच्या सुरभिः पित्तदाहनुत् ॥ रज्नि_10.79
मल्लिका भद्रवल्ली तु गौरी च वनचन्द्रिका ।
शीतभीरुः प्रिया सौम्या नारीष्टा गिरिजा सिता ।
मल्ली च दमयन्ती च चन्द्रिका मोदिनी मनुः ॥ रज्नि_10.80
मल्लिका कटुतिक्ता स्याच् चक्षुष्या मुखपाकनुत् ।
कुष्ठविस्फोटकण्डूतिविषव्रणहरा परा ॥ रज्नि_10.81
वल्लिका मोदिनी चान्या वटपत्रा कुमारिका ।
सुगन्धाढ्या वृत्तपुष्पा मुक्ताभा वृत्तमल्लिका ॥ रज्नि_10.82
नेत्ररोगापहन्त्री स्यात् कटूष्णा वृत्तमल्लिका ।
व्रणघ्नी गन्धबहला दारयत्य् आस्यजान् गदान् ॥ रज्नि_10.83
वार्षिका त्रिपुटा त्र्यस्रा सुरूपा सुलभा प्रिया ।
श्रीवल्ली षट्पदानन्दा मुक्तबन्धा नवाभिधा ॥ रज्नि_10.84
वार्षिका शिशिरा हृद्या सुगन्धिः पित्तनाशनी ।
कफवातविषस्फोटक्रिमिदोषामनाशनी ॥ रज्नि_10.85
सा दीर्घवर्त्तुलपुष्पविशेषाद् अनेकनिर्देशा ।
मृगमदवासा त्व् अन्या कस्तूरीमल्लिका ज्ञेया ॥ रज्नि_10.86
प्रातर्विकस्वरैका सायोद्भिदुरापि मल्लिका कापि ।
वनमल्लिका नु सा स्याद् आस्फोता किन्तु समगुणोपेता ॥ रज्नि_10.87

वासन्ती प्रहसन्ती वसन्तजा माधवी महाजातिः ।
शीतसहा मधुबहला वसन्तदूती च वसुनाम्नी ॥ रज्नि_10.88
वासन्ती शिशिरा हृद्या सुरभिः श्रमहारिणी ।
धम्मिल्लामोदिनी मन्दमदनोन्माददायिनी ॥ रज्नि_10.89
नवमल्लिकातिमोदा ग्रैष्मी ग्रीष्मोद्भवा च सा ।
सप्तला सुकुमारा च सुरभी सूचिमल्लिका ।
सुगन्धा शिखरिणी स्यान् नेवाली चेन्दुभूह्वया ॥ रज्नि_10.90
नवमल्लिकातिशैत्या सुरभिः सर्वरोगहृत् ॥ रज्नि_10.91
सैवातिमुक्तकाख्या पुण्ड्रकनाम्नी च काचिद् उक्तान्या ।
मदनी भ्रमरानन्दा कामकान्ता च पञ्चाख्या ॥ रज्नि_10.92
अतिमुक्तः कषायः स्याच् छिशिरः श्रमनाशनः ।
पित्तदाहज्वरोन्मादहिक्काच्छर्दिनिवारणः ॥ रज्नि_10.93
यूथिका गणिकाम्बष्ठा मागधी बालपुष्पिका ।
मोदनी बहुगन्धा च भृङ्गानन्दा गजाह्वया ॥ रज्नि_10.94
अन्या यूथी सुवर्णाह्वा सुगन्धा हेमयूथिका ।
युवतीष्टा व्यक्तगन्धा शिखण्डी नागपुष्पिका ॥ रज्नि_10.95
हरिणी पीतयूथी च पोतिका कनकप्रभा ।
मनोहरा च गन्धाढ्या प्रोक्ता त्रयोदशाह्वया ॥ रज्नि_10.96
यूथिकायुगलं स्वादु शिशिरं शर्करार्तिनुत् ।
पित्तदाहतृषाहारि नानात्वग्दोषनाशनम् ॥ रज्नि_10.97
सितपीतनीलमेचकनाम्न्यः कुसुमेन यूथिकाः कथिताः ।
तिक्तहिमपित्तकफामयज्वरघ्न्यो व्रणादिदोषहराः ॥ रज्नि_10.98
सर्वासां यूथिकानां तु रसवीर्यादिसाम्यता ।
सुरूपं तु सुगन्धाढ्यं स्वर्णयूथ्या विशेषतः ॥ रज्नि_10.99
कुब्जको भद्रतरुणो वृत्तपुष्पो ऽतिकेसरः ।
महासहः कण्टकाढ्यः खर्वो ऽलिकुलसङ्कुलः ॥ रज्नि_10.100
कुब्जकः सुरभिः शीतो रक्तपित्तकफापहः ।
पुष्पं तु शीतलं वर्ण्यं दाहघ्नं वातपित्तजित् ॥ रज्नि_10.101
मुचकुन्दो बहुपत्रः सुदलो हरिवल्लभः सुपुष्पश् च ।
अर्घ्यार्हो लक्ष्मणको रक्तप्रसवश् च वसुनामा ॥ रज्नि_10.102
मुचकुन्दः कटुतिक्तः कफकासविनाशनश् च कण्ठदोषहरः ।
त्वग्दोषशोफशमनो व्रणपामाविनाशनश् चैव ॥ रज्नि_10.103
करुणी ग्रीष्मपुष्पी स्याद् रक्तपुष्पी च वारुणी ।
राजप्रिया राजपुष्पी सूक्ष्मा च ब्रह्मचारिणी ॥ रज्नि_10.104
करुणी कटुतिक्तोष्णा कफमारुतनाशिनी ।
आध्मानविषविच्छर्दिजत्रूर्ध्वश्वासहारिणी ॥ रज्नि_10.105
माधवी चन्द्रवल्ली च सुगन्धा भ्रमरोत्सवा ।
भृङ्गप्रिया भद्रलता भूमिमण्डपभूषणी ॥ रज्नि_10.106
माधवी कटुका तिक्ता कषाया मदगन्धिका ।
पित्तकासव्रणान् हन्ति दाहशोषविनाशिनी ॥ रज्नि_10.107

गणिकारी काञ्चनिका काञ्चनपुष्पी वसन्तदूती च ।
गन्धकुसुमातिमोदा वासन्ती मदमादिनी चैव ॥ रज्नि_10.108
गणिकारी सुरभितरा त्रिदोषशमनी च दाहशोषहरा ।
कामक्रीडाडम्बरशम्बरहरचापलप्रसरा ॥ रज्नि_10.109
कुन्दस् तु मकरन्दश् च महामोदो मनोहरः ।
मुक्तापुष्पः सदापुष्पस् तारपुष्पो ऽट्टहासकः ॥ रज्नि_10.110
दमनो वनहासश् च मनोज्ञो रुद्रसम्मितः ॥ रज्नि_10.111
कुन्दो ऽतिमधुरः शीतः कषायः कैश्यभावनः ।
कफपित्तहरश् चैव सरो दीपनपाचनः ॥ रज्नि_10.112
बकः पाशुपतः शैवः शिवपिण्डश् च सुव्रतः ।
वसुकश् च शिवाङ्कश् च शिवेष्टः क्रमपूरकः ।
शिवमल्ली शिवाह्लादः शाम्भवो रविसम्मितः ॥ रज्नि_10.113
बको ऽतिशिशिरस् तिक्तो मधुरो मधुगन्धकः ।
पित्तदाहकफश्वासश्रमहारी च दीपनः ॥ रज्नि_10.114
केविका कविका केवा भृङ्गारिर् नृपवल्लभा ।
भृङ्गमारी महागन्धा राजकन्यालिमोहिनी ॥ रज्नि_10.115
केविका मधुरा शीता दाहपित्तश्रमापहा ।
वातश्लेष्मरुजां हन्त्री पित्तच्छर्दिविनाशिनी ॥ रज्नि_10.116
बन्धूको बन्धुजीवः स्याद् ओष्ठपुष्पो ऽर्कवल्लभः ।
मध्यन्दिनो रक्तपुष्पो रागपुष्पो हरिप्रियः ॥ रज्नि_10.117
असितसितपीतलोहितपुष्पविशेषाच् चतुर्विधो बन्धूकः ।
ज्वरहारी विविधग्रहपिशाचशमनः प्रसादनः सवितुः स्यात् ॥ रज्नि_10.118
त्रिसन्धिः सान्ध्यकुसुमा सन्धिवल्ली सदाफला ।
त्रिसन्ध्यकुसुमा कान्ता सुकुमारा च सन्धिजा ॥ रज्नि_10.119
त्रिसन्धिस् त्रिविधा ज्ञेया रक्ता चान्या सितासिता ।
कफकासहरा रुच्या त्वग्दोषशमनी परा ॥ रज्नि_10.120
जपाख्या ओड्रकाख्या च रक्तपुष्पी जवा च सा ।
अर्कप्रिया रक्तपुष्पी प्रातिका हरिवल्लभा ॥ रज्नि_10.121
जपा तु कटुर् उष्णा स्याद् इन्द्रलुप्तकनाशकृत् ।
विच्छर्दिजन्तुजननी सूर्याराधनसाधनी ॥ रज्नि_10.122
भ्रमरारिर् भृङ्गमारी भृङ्गारिर् मांसपुष्पिका ।
कुष्ठारिर् भ्रमरी चैव ज्ञेया यष्टिलता मुनिः ॥ रज्नि_10.123
तिक्ता भ्रमरमारी स्याद् वातश्लेष्मज्वरापहा ।
शोफकण्डूतिकुष्ठघ्नी व्रणदोषास्थिदोषनुत् ॥ रज्नि_10.124
तरुणी सहा कुमारी गन्धाढ्या चारुकेसरा भृङ्गेष्टा ।
रामतरुणी तु सुदला बहुपत्रा भृङ्गवल्लभा च दशाह्वा ॥ रज्नि_10.125
तरुणी शिशिरा स्निग्धा पित्तदाहज्वरापहा ।
मधुरा मुखपाकघ्नी तृष्णाविच्छर्दिवारिणी ॥ रज्नि_10.126
महती तु राजतरुणी महासहा वर्ण्यपुष्पको ऽम्लानः ।
अमिलातकः सुपुष्पः सुवर्णपुष्पश् च सप्ताह्वः ॥ रज्नि_10.127

मूल पाठ: Rājanighaṇṭu [also called Nighaṇṭurāja, or Abhidhānacūḍāmaṇi] · Edition: Calcutta 1933 : Siddheshvarayantra · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc