भाषा

ENहिગુ
ग्रंथ पाठ

राजनिघण्टु · भाग 4160

महासमङ्गोदनिका बलाह्वया वृक्षारुहा वृद्धिबलाक्षतण्डुला ।
भुजंगजिह्वापि च शीतपाकिनी शीता बला शीतवरा बलोत्तरा ॥ रज्नि_6.95
खिरिहिट्टी च बल्या च ललज्जिह्वा त्रिपञ्चधा ।
महासमङ्गा मधुरा अम्ला चैव त्रिदोषहा ।
युक्त्या बुधैः प्रयोक्तव्या ज्वरदाहविनाशनी ॥ रज्नि_6.96
महाबला ज्येष्ठबला कटंभरा केशारुहा केसरिका मृगादनी ।
स्याद् वर्षपुष्पापि च केशवर्धनी पुरासणी देवसहा च सारिणी ॥ रज्नि_6.97
सहदेवी पीतपुष्पी देवार्हा गन्धवल्लरी ।
मृगा मृगरसा चेति ज्ञेया सप्तदशाह्वया ॥ रज्नि_6.98
महाबला तु हृद्रोगवातार्शःशोफनाशनी ।
शुक्रवृद्धिकरी बल्या विषमज्वरहारिणी ॥ रज्नि_6.99
बलिकातिबला बल्या विकङ्कता वाट्यपुष्पिका घण्टा ।
शीता च शीतपुष्पा भूरिबला वृष्यगन्धिका दशधा ॥ रज्नि_6.100
तिक्ता कटुश् चातिबला वातघ्नी क्रिमिनाशनी ।
दाहतृष्णाविषछर्दिक्लेदोपशमनी परा ॥ रज्नि_6.101
भद्रोदनी नागबला खरगन्धा चतुष्फला ।
महोदया महाशाखा महापत्त्रा महाफला ॥ रज्नि_6.102
विश्वदेवा तथारिष्टा खर्वा ह्रस्वा गवेधुका ।
देवदण्डा महादण्डा घाटेत्य् आह्वास् तु षोडश ॥ रज्नि_6.103
मधुराम्ला नागबला कषायोष्णा गुरुः स्मृता ।
कण्डूतिकुष्ठवातघ्नी व्रणपित्तविकारजित् ॥ रज्नि_6.104
महाराष्ट्री तु सम्प्रोक्ता शारदी तोयपिप्पली ।
मच्छादनी मच्छगन्धा लाङ्गली शकुलादनी ॥ रज्नि_6.105
अग्निज्वाला चित्रपत्त्री प्राणदा जलपिप्पली ।
तृणशीता बहुशिखा स्याद् इत्य् एषा त्रयोदश ॥ रज्नि_6.106
महाराष्ट्री कटुस् तीक्ष्णा कषाया मुखशोधनी ।
व्रणकीटादिदोषघ्नी रसदोषनिबर्हणी ॥ रज्नि_6.107
अश्वगन्धा वाजिगन्धा कम्बुकाष्ठा वराहिका ।
वराहकर्णी तुरगी वनजा वाजिनी हयी ॥ रज्नि_6.108
पुष्टिदा बलदा पुण्या हयगन्धा च पीवरा ।
पलाशपर्णी वातघ्नी श्यामला कामरूपिणी ॥ रज्नि_6.109
कालप्रियकरी बल्या गन्धपत्त्री हयप्रिया ।
वराहपत्त्री विज्ञेया त्रयोविंशतिनामका ॥ रज्नि_6.110
अश्वगन्धा कटूष्णा स्यात् तिक्ता च मदगन्धिका ।
बल्या वातहरा हन्ति कासश्वासक्षयव्रणान् ॥ रज्नि_6.111
हपुषा विपुषा विस्रा विस्रगन्धा विगन्धिका ।
अन्या चासौ स्वल्पफला कच्छूघ्नी ध्वाङ्क्षनाशनी ॥ रज्नि_6.112
प्लीहशत्रुर् विषघ्नी च कफघ्नी चापराजिता ।
पूर्वा तु पञ्चनाम्नी स्याद् अपरा सप्तधाभिधा ॥ रज्नि_6.113
हपुषा कटुतिक्तोष्णा गुरुः श्लेष्मबलासजित् ।

प्रदरोदरविड्बन्धशूलगुल्मार्शसां हरा ॥ रज्नि_6.114
शतावरी शतपदी पीवरीन्दीवरी वरी ।
भीरुर् द्वीप्या द्वीपिशत्रुर् द्वीपिकामरकण्टिका ॥ रज्नि_6.115
सूक्ष्मपत्त्रा सुपत्त्रा च बहुमूला शताह्वया ।
नारायणी स्वादुरसा शताह्वा लघुपर्णिका ॥ रज्नि_6.116
आत्मशल्या जटामूला शतवीर्या महौदनी ।
मधुरा शतमूला च केशिका शतनेत्रिका ॥ रज्नि_6.117
विश्वाख्या वैष्णवी कार्ष्णी वासुदेवी वरीयसी ।
दुर्मरा तेजवल्ली च स्यात् त्रयस्त्रिंशदाह्वया ॥ रज्नि_6.118
महाशतावरी वीरा तुङ्गिनी बहुपत्त्रिका ।
सहस्रवीर्या सुरसा महापुरुषदन्तिका ॥ रज्नि_6.119
ऊर्ध्वकण्टा महावीर्या फणिजिह्वा महाशता ।
शतवीर्या सुवीर्या च नामान्य् अस्यास् त्रयोदश ॥ रज्नि_6.120
शतावर्यौ हिमे वृष्ये मधुरे पित्तजित्परे ।
कफवातहरे तिक्ते महाश्रेष्ठे रसायने ॥ रज्नि_6.121
शतावरीद्वयं वृष्यं मधुरं पित्तजिद्धिमम् ।
महती कफवातघ्नी तिक्ता श्रेष्ठा रसायने ।
कफपित्तहरास् तिक्तास् तस्या एवाङ्कुराः स्मृताः ॥ रज्नि_6.122
एलवालुकम् आलूकं वालुकं हरिवालुकम् ।
एल्वालुकं कपित्थं च दुर्वर्णं प्रसरं दृढम् ॥ रज्नि_6.123
एलागन्धिकम् एलाह्वं गुप्तगन्धि सुगन्धिकम् ।
एलाफलं च विज्ञेयं द्विःसप्ताह्वयम् उच्यते ॥ रज्नि_6.124
एलवालुकम् अत्युग्रं कषायं कफवातनुत् ।
मूर्छार्तिज्वरदाहांश् च नाशयेद् रोचनं परम् ॥ रज्नि_6.125
तैरिणी तेरणस् तेरः कुनीली नामतश् चतुः ।
तेरणः शिशिरस् तिक्तो व्रणघ्नो ऽरुणरङ्गदः ॥ रज्नि_6.126
कलिकारी लाङ्गलिनी हलिनी गर्भपातिनी ।
दीप्तिर् विशल्याग्निमुखी हली नक्तेन्दुपुष्पिका ॥ रज्नि_6.127
विद्युज्ज्वालाग्निजिह्वा च व्रणहृत् पुष्पसौरभा ।
स्वर्णपुष्पा वह्निशिखा स्याद् एषा षोडशाह्वया ॥ रज्नि_6.128
कलिकारी कटूष्णा च कफवातनिकृन्तनी ।
गर्भान्तःशल्यनिष्कासकारिणी सारिणी परा ॥ रज्नि_6.129
जयन्ती तु बलामोटा हरिता च जया तथा ।
विजया सूक्ष्ममूला च विक्रान्ता चापराजिता ॥ रज्नि_6.130
ज्ञेया जयन्ती गलगण्डहारी तिक्ता कटूष्णानिलनाशनी च ।
भूतापहा कण्ठविशोधनी च कृष्णा तु सा तत्र रसायनी स्यात् ॥ रज्नि_6.131
काकमाची ध्वाङ्क्षमाची वायसाह्वा च वायसी ।
सर्वतिक्ता बहुफला कट्फला च रसायनी ॥ रज्नि_6.132
गुच्छफला काकमाता स्वादुपाका च सुन्दरी ।
वरा चन्द्राविणी चैव मत्स्याक्षी कुष्ठनाशनी ।

तिक्तिका बहुतिक्ता च नाम्नाम् अष्टादश स्मृताः ॥ रज्नि_6.133
काकमाची कटुस् तिक्ता रसोष्णा कफनाशनी ।
शूलार्शःशोफदोषघ्नी कुष्ठकण्डूतिहारिणी ॥ रज्नि_6.134
श्रुतश्रेणी द्रवन्ती च न्यग्रोधी मूषिकाह्वया ।
चित्रा मूषकमारी च प्रत्यक्श्रेणी च शम्बरी ॥ रज्नि_6.135
श्रुतश्रेणी च चक्षुष्या कटुर् आखुविषापहा ।
व्रणदोषहरा चैव नेत्रामयनिकृन्तनी ॥ रज्नि_6.136
मार्कवो भृङ्गराजश् च भृङ्गाह्वः केशरञ्जनः ।
पितृप्रियो रङ्गकश् च केश्यः कुन्तलवर्धनः ॥ रज्नि_6.137
पीतो ऽन्यः स्वर्णभृङ्गारो हरिवासो हरिप्रियः ।
देवप्रियो वन्दनीयः पवनश् च षडाह्वयः ॥ रज्नि_6.138
नीलस् तु भृङ्गराजो ऽन्यो महानीलस् तु नीलकः ।
महाभृङ्गो नीलपुष्पः श्यामलश् च षडाह्वयः ॥ रज्नि_6.139
भृङ्गराजास् तु चक्षुष्यास् तिक्तोष्णाः केशरञ्जनाः ।
कफशोफविषघ्नाश् च तत्र नीलो रसायनः ॥ रज्नि_6.140
काकजङ्घा ध्वाङ्क्षजङ्घा काकाह्वा साथ वायसी ।
पारावतपदी दासी नदीकान्ता सुलोमशा ॥ रज्नि_6.141
काकजङ्घा तु तिक्तोष्णा क्रिमिव्रणकफापहा ।
बाधिर्याजीर्णजित् जीर्णविषमज्वरहारिणी ॥ रज्नि_6.142
चुञ्चुश् च विजला चञ्चुः कलभी वीरपत्त्रिका ।
चुञ्चुरश् चुञ्चुपत्त्रश् च सुशाकः क्षेत्रसम्भवः ॥ रज्नि_6.143
चुञ्चुस् तु मधुरा तीक्ष्णा कषाया मलशोषणी ।
गुल्मोदरविबन्धार्शोग्रहणीरोगहारिणी ॥ रज्नि_6.144
बृहच्चुञ्चुर् विषारिः स्यान् महाचुञ्चुः सुचुञ्चुका ।
स्थूलचुञ्चुर् दीर्घपत्त्री दिव्यगन्धा च सप्तधा ॥ रज्नि_6.145
महाचुञ्चुः कटूष्णा च कषाया मलरोधनी ।
गुल्मशूलोदरार्शआर्तिविषघ्नी च रसायनी ॥ रज्नि_6.146
क्षुद्रचुञ्चुः सुचुञ्चुः स्याच् चुञ्चुः शुनकचुञ्चुका ।
त्वक्सारभेदिनी क्षुद्रा कटुका चिरपत्त्रिका ॥ रज्नि_6.147
क्षुद्रचुञ्चुस् तु मधुरा कटूष्णा च कषायिका ।
दीपनी शूलगुल्मार्शःशमनी च विबन्धकृत् ॥ रज्नि_6.148
चुञ्चुबीजं कटूष्णं च गुल्मशूलोदरार्तिजित् ।
विषत्वग्दोषकण्डूतिखर्जूकुष्ठविषापहम् ॥ रज्नि_6.149
सिन्दुवारः श्वेतपुष्पः सिन्दुकः सिन्दुवारकः ।
सूरसाधनको नेता सिद्धकश् चार्थसिद्धकः ॥ रज्नि_6.150
सिन्दुवारः कटुस् तिक्तः कफवातक्षयापहः ।
कुष्ठकण्डूतिशमनः शूलहृत् काससिद्धिदः ॥ रज्नि_6.151
सुगन्धान्या शीतसहा निर्गुण्डी नीलसिन्दुकः ।
सिन्दूकश् चपिका भूतकेशीन्द्राणी च नीलिका ॥ रज्नि_6.152
कटूष्णा नीलनिर्गुण्डी तिक्ता रूक्षा च कासजित् ।

श्लेष्मशोफसमीरार्तिप्रदराध्मानहारिणी ॥ रज्नि_6.153
शेफालिका तु सुवहा शुक्लाङ्गी शीतमञ्जरी प्रोक्ता ।
अपराजिता च विजया वातारिर् भूतकेशी च ॥ रज्नि_6.154
शेफालिः कटुतिक्तोष्णा रूक्षा वातक्षयापहा ।
स्याद् अङ्गसंधिवातघ्नी गुदवातादिदोषनुत् ॥ रज्नि_6.155
भेण्डा भिण्डातिका भिण्डो भिण्डकः क्षेत्रसम्भवः ।
चतुष्पदश् चतुष्पुण्ड्रः सुशाकश् चाम्लपत्त्रकः ॥ रज्नि_6.156
करपर्णो वृत्तबीजो भवेद् एकादशाह्वयः ।
भेण्डा त्व् अम्लरसा सोष्णा ग्राहिका रुचिकारिका ॥ रज्नि_6.157
पुत्रदा गर्भदात्री च प्रजादापत्यदा च सा ।
सृष्टिप्रदा प्राणिमाता तापसद्रुमसंनिभा ॥ रज्नि_6.158
पुत्रदा मधुरा शीता नारीपुष्पादिदोषहा ।
पित्तदाहश्रमहरा गर्भसम्भूतिदायिका ॥ रज्नि_6.159
तक्राह्वा तक्रभक्षा तु तक्रपर्यायवाचका ।
पञ्चाङ्गुली सिताभा स्याद् एषा पञ्चाभिधा स्मृता ।
तक्रा कटुः क्रिमिघ्नी स्याद् व्रणनिर्मूलिनी च सा ॥ रज्नि_6.160
स्वर्णुली हेमपुष्पी स्यात् स्वर्णपुष्पध्वजा तथा ।
स्वर्णुली कटुका शीता कषाया च व्रणापहा ॥ रज्नि_6.161
खस्खसः सूक्ष्मबीजः स्यात् सुबीजः सूक्ष्मतण्डुलः ।
खस्खसो मधुरः पाके कान्तिवीर्यबलप्रदः ॥ रज्नि_6.162
शिमृडी मतिदा प्रोक्ता बल्या पङ्गुत्वहारिणी ।
द्रवत्पत्त्री च वातघ्नी गुच्छपुष्पी च सप्तधा ॥ रज्नि_6.163
शिमृडी कटुर् उष्णा च वातहृत् पृष्ठशूलहा ।
युक्त्या रसायने योग्या देहदार्ढ्यकरी च सा ॥ रज्नि_6.164
ज्ञेयो ऽरण्यकुसुम्भः स्यात् कौसुम्भश् चाग्निसम्भवः ।
कौसुम्भः कटुकः पाके श्लेष्महृद् दीपनश् च सः ॥ रज्नि_6.165
आहुल्यं हलुराख्यं च करं तरवटं तथा ।
शिम्बीफलं सुपुष्पं स्याद् अर्बरं दन्तकाष्ठकम् ॥ रज्नि_6.166
हेमपुष्पं तथा पीतपुष्पं काञ्चनपुष्पकम् ।
नृपमङ्गल्यकं चैव शरत्पुष्पं त्रिर् एकधा ॥ रज्नि_6.167
आहुल्यं तिक्तशीतं स्याच् चक्षुष्यं पित्तदोषनुत् ।
मुखरुक्कुष्ठकण्डूतिजन्तुशूलव्रणापहम् ॥ रज्नि_6.168
आहुल्यं कुष्ठकेतुर् मार्कण्डीयं महौषधम् ।
आहुल्यं तिक्तरसं ज्वरकुष्ठामसिध्मनुत् ॥ रज्नि_6.169
कासमर्दो ऽरिमर्दश् च कासारिः कासमर्दकः ।
कालः कनक इत्य् उक्तो जारणो दीपकश् च सः ॥ रज्नि_6.170
कासमर्दः सतिक्तोष्णो मधुरः कफवातनुत् ।
अजीर्णकासपित्तघ्नः पाचनः कण्ठशोधनः ॥ रज्नि_6.171
आदित्यपत्त्रो ऽर्कदलार्कपत्त्रः स्यात् सूक्ष्मपत्त्रस् तपनच्छदश् च ।
कुष्ठारिर् अर्को विटपः सुपत्त्रो रविप्रियो रश्मिपतिश् च रुद्रः ॥ रज्नि_6.172

आदित्यपत्त्रः कटुर् उष्णवीर्यः कफापहो वातरुजापहश् च ।
संदीपनो जाठरगुल्महारी ज्ञेयः स चारोचननाशकश् च ॥ रज्नि_6.173
श्वेताम्ली त्व् अम्बिका प्रोक्ता पिष्टौण्डिः पिण्डिका च सा ।
श्वेताम्ली मधुरा वृष्या पित्तघ्नी बलदायिनी ॥ रज्नि_6.174
नीलाम्ली नीलपिष्टौण्डी श्यामाम्ली दीर्घशाखिका ।
नीलाम्ली मधुरा रुच्या कफवातहरा परा ॥ रज्नि_6.175
अजगन्धा बस्तगन्धा सुरपुष्पाविगन्धिका ।
उग्रगन्धा ब्रह्मगर्भा ब्राह्मी पूतिमयूरिका ॥ रज्नि_6.176
अजगन्धा कटूष्णा स्याद् वातगुल्मोदरापहा ।
कर्णव्रणार्तिशूलघ्नी पीता चेद् अञ्जने हिता ॥ रज्नि_6.177
आदित्यभक्ता वरदार्कभक्ता सुवर्चला सूर्यलतार्ककान्ता ।
मण्डूकपर्णी सुरसम्भवा च सौरिः सुतेजार्कहिता रवीष्टा ॥ रज्नि_6.178
मण्डूकी सत्यनाम्नी स्याद् देवी मार्तण्डवल्लभा ।
विक्रान्ता भास्करेष्टा च भवेद् अष्टादशाह्वया ॥ रज्नि_6.179
आदित्यभक्ता शिशिरा सतिक्ता कटुस् तथोग्रा कफहारिणी च ।
त्वग्दोषकण्डूव्रणकुष्ठभूतग्रहोग्रशीतज्वरनाशिनी च ॥ रज्नि_6.180
विषमुष्टिः केशमुष्टिः सुमुष्टिर् अणुमुष्टिकः ।
क्षुपडोडिसमायुक्तो मुष्टिः पञ्चाभिधः स्मृतः ॥ रज्नि_6.181
विषमुष्टिः कटुस् तिक्तो दीपनः कफवातहृत् ।
कण्ठामयहरो रुच्यो रक्तपित्तार्तिदाहकृत् ॥ रज्नि_6.182
अन्या डोडी तु जीवन्ती शाकश्रेष्ठा सुखालुका ।
बहुपर्णी दीर्घपत्त्रा सूक्ष्मपत्त्रा च जीवनी ॥ रज्नि_6.183
डोडी तु कटुतिक्तोष्णा दीपनी कफवातजित् ।
कण्ठामयहरा रुच्या रक्तपित्तार्तिदाहनुत् ॥ रज्नि_6.184
कालाञ्जनी चाञ्जनी च रेचनी चासिताञ्जनी ।
नीलाञ्जनी च कृष्णाभा काली कृष्णाञ्जनी च सा ॥ रज्नि_6.185
कालाञ्जनी कटूष्णा स्याद् अम्लामक्रिमिशोधनी ।
अपानावर्तशमनी जठरामयहारिणी ॥ रज्नि_6.186
कार्पासी सारिणी चैव चव्या स्थूला पिचुस् तथा ।
बदरी बादरश् चैव गुणसूस् तुण्डिकेरिका ।
मरूद्भवा समुद्रान्ता ज्ञेया एकादशाभिधा ॥ रज्नि_6.187
कार्पासी मधुरा शीता स्तन्या पित्तकफापहा ।
तृष्णादाहश्रमभ्रान्तिमूर्छाहृद् बलकारिणी ॥ रज्नि_6.188
वनजारण्यकार्पासी भारद्वाजी वनोद्भवा ।
भारद्वाजी हिमा रुच्या व्रणशस्त्रक्षतापहा ॥ रज्नि_6.189
कोकिलाक्षः शृगाली च शृङ्खला रकणस् तथा ।
शृङ्गालघण्टी वज्रास्थिशृङ्खला वज्रकण्टकः ॥ रज्नि_6.190
इक्षुरः क्षुरको वज्रः शृङ्खलिका पिकेक्षणः ।
पिच्छिला चेक्षुगन्धा च ज्ञेया भुवनसंमिता ॥ रज्नि_6.191
कोकिलाक्षस् तु मधुरः शीतः पित्तातिसारनुत् ।

वृष्यः कफहरो बल्यो रुच्यः संतर्पणः परः ॥ रज्नि_6.192
सातला सप्तला सारी विदुला विमलामला ।
बहुफेना चर्मकषा फेना दीप्ता विषाणिका ।
स्वर्णपुष्पी चित्रघना स्यात् त्रयोदशनामका ॥ रज्नि_6.193
सातला कफपित्तघ्नी लघुतिक्तकषायिका ।
विसर्पकुष्ठविस्फोटव्रणशोफनिकृन्तनी ॥ रज्नि_6.194
स्यात् कामवृद्धिः स्मरवृद्धिसंज्ञो मनोजवृद्धिर् मदनायुधश् च ।
कन्दर्पजीवश् च जितेन्द्रियाह्वः कामोपजीवो ऽपि च जीवसंज्ञः ॥ रज्नि_6.195
कामवृद्धेस् तु बीजं स्यान् मधुरं बलवर्धनम् ।
कामवृद्धिकरं रुच्यं बहुलेन्द्रियवृद्धिदम् ॥ रज्नि_6.196
स्याच् चक्रमर्दो ऽण्डगजो गजाख्यो मेषाह्वयश् चैडगजो ऽण्डहस्ती ।
व्यावर्तकश् चक्रगजश् च चक्री पुंनाडपुंनाटविमर्दकाश् च ॥ रज्नि_6.197
दद्रुघ्नस् तर्वटश् च स्याच् चक्राह्वः शुकनाशनः ।
दृढबीजः प्रपुन्नाटः खर्जूघ्नश् चोनविंशतिः ॥ रज्नि_6.198
चक्रमर्दः कटुस् तीव्रो मेदोवातकफापहः ।
व्रणकण्डूतिकुष्ठार्तिदद्रुपामादिदोषनुत् ॥ रज्नि_6.199
झिञ्झिरीटा कण्टफली पीतपुष्पापि झिञ्झिरा ।
हुडरोमाश्रयफला वृत्ता चैव षडाह्वया ॥ रज्नि_6.200
झिञ्झिरीटा कटुः शीता कषाया चातिसारजित् ।
वृष्या संतर्पणी बल्या महिषीक्षीरवर्धनी ॥ रज्नि_6.201
इत्थं पृथुक्षुपकदम्बकनामकाण्डनिर्वर्णनागुणनिरूपणपूर्वम् एतम् ।
वर्गं वटुः स्फुटम् अधीत्य दधीत सद्यः सौवर्गवैद्यकविचारसुचातुरीं सः ॥ रज्नि_6.202
येन स्वेन नृणां क्षणेन महता वीर्येण सूर्योपमा व्यत्यस्याङ्गविकारम् उद्धततया दूरं क्षिपन्त्य् आमयान् ।
स्वस्मिन् नाम्न्य् अपि संस्तवादिवशतस् तेषां विकारोदयव्यत्यासं दधतां नितान्तगहनो वर्गः क्षुपाणाम् अयम् ॥ रज्नि_6.203
संतापं विदुषां प्रसह्य समितौ स्फीतं प्रतापं द्विषां यस्मिन् विस्मयते ऽवनं च निधनं दृष्ट्वाधुना तेजसा ।
धुन्वन्त्य् औषधयः स्वयं किल गदान् येनार्पिताः स्पर्धया तुर्यस् तस्य कृतौ स्थितो नरहरेर् वर्गः शताह्वादिकः ॥ रज्नि_6.204
राजनिघण्टु, मूलकादिवर्ग
मूलकं पञ्चधा प्रोक्तं चतुर्धा शिग्रुर् उच्यते ।
वंशो द्विर् वेत्रो माकन्दी हरिद्रा वनजा तथा ॥ रज्नि_7.1
शृङ्गाटो भ्रमरच्छल्ली वन्यार्द्रकम् अथापरम् ।
रसोनो द्विविधः प्रोक्तः पलाण्डुश् च द्विधा मतः ॥ रज्नि_7.2
विंशत्येकोत्तरं मूलं शरणं द्वंद्वम् उच्यते ।
आलूकसप्तकं चाथ प्रोक्ताश् चारण्यकन्दकाः ॥ रज्नि_7.3
महिषीहस्तिकोलाश् च वाराही विष्णुधारिणी ।
द्विधा च नाकुली माला विदारीद्वयशाल्मली ॥ रज्नि_7.4
चण्डालस् तैलकन्दश् च त्रिपर्णी पुष्करस् तथा ।
मुसली द्विविधा चाथ त्रिधा गुच्छास् तथैव च ॥ रज्नि_7.5
एषु नागकराह्वा च पत्त्रशाकम् अथोच्यते ।
वास्तुकं चुक्रकं चिल्ली त्रिविधं शिग्रुपत्त्रकम् ॥ रज्नि_7.6
पालक्यराजशाकिन्यौ चतुर्धोपोदकी क्रमात् ।

कुणञ्जरः कुसुम्भाख्यः शताह्वा पत्रतण्डुली ॥ रज्नि_7.7
राजिकाद्वयचाङ्गेरी घोलिका त्रिविधा मता ।
जीवशाकस् तथा गौरसुवर्णाख्यः पुनर्नवा ॥ रज्नि_7.8
वसुकः फञ्जिकादिश् च मिश्रको ऽङ्ककराह्वयः ।
अतः परं च कुष्माण्डी कुम्भतुम्बी त्व् अलाबुका ॥ रज्नि_7.9
भूतुम्बिका कलिङ्गश् च द्विधा कोशातकी तथा ।
पटोली मधुराद्या च मृगाक्षी दधिपुष्पिका ॥ रज्नि_7.10
शिम्बी च कारवल्ली च कर्कोटी स्वादुतुम्बिका ।
निष्पावीद्वयवार्त्ताकी डङ्गरी खर्बुजा तथा ।
कर्कटी त्रपुसैर्वारुर् वालुकी चीनकर्कटी ॥ रज्नि_7.11
चिर्भिटा च शशाण्डूली कुडुहुञ्ची मुनीक्षणैः ।
वेदभेदाः क्रमान् मूलकन्दपत्त्रफलात्मकाः ॥ रज्नि_7.12
शाकवर्गे ऽत्र कथ्यन्ते मनोहरगुणाश्रयाः ।
एवं चतुर्विधं द्रव्यं बाणखं चन्द्रसंयुतम् ॥ रज्नि_7.13
मूलकं नीलकण्ठं च मूलाह्वं दीर्घमूलकम् ।
भूक्षारं कन्दमूलं स्याद्धस्तिदन्तं सितं तथा ॥ रज्नि_7.14
शङ्खमूलं हरित्पर्णं रुचिरं दीर्घकन्दकम् ।
कुञ्जरक्षारमूलं च मूलस्यैते त्रयोदश ॥ रज्नि_7.15
मूलकं तीक्ष्णम् उष्णं च कटूष्णं ग्राहि दीपनम् ।
दुर्नामगुल्महृद्रोगवातघ्नं रुचिदं गुरु ॥ रज्नि_7.16
चाणाख्यमूलकं चान्यच् छालेयं विष्णुगुप्तकम् ।
स्थूलमूलं महाकन्दं कौटिल्यं मरुसम्भवम् ।
शालामर्कटकं मिश्रं ज्ञेयं चैव नवाभिधम् ॥ रज्नि_7.17
चाणाख्यमूलकं सोष्णं कटुकं रुच्यदीपनम् ।
कफवातक्रिमीन् गुल्मं नाशयेद् ग्राहकं गुरु ॥ रज्नि_7.18
गृञ्जनं शिखिमूलं च यवनेष्टं च वर्तुलम् ।
ग्रन्थिमूलं शिखाकन्दं कन्दं डिण्डीरमोदकम् ॥ रज्नि_7.19
गृञ्जनं कटुकोष्णं च कफवातरुजापहम् ।
रुच्यं च दीपनं हृद्यं दुर्गन्धं गुल्मनाशनम् ॥ रज्नि_7.20
पिण्डमूलं गजाण्डं च पिण्डकं पिण्डमूलकम् ।
पिण्डमूलं कटूष्णं च गुल्मवातादिदोषनुत् ॥ रज्नि_7.21
सोष्णं तीक्ष्णं च तिक्तं मधुरकटुरसं मूत्रदोषापहारि श्वासार्शःकासगुल्मक्षयनयनरुजानाभिशूलामयघ्नम् ।
कण्ठ्यं बल्यं च रुच्यं मलविकृतिहरं मूलकं बालकं स्यात् उष्णं जीर्णं च शोषप्रदम् उदितम् इदं दाहपित्तास्रदायि ॥ रज्नि_7.22
आमं संग्राहि रुच्यं कफपवनहरं पक्वम् एतत् कटूष्णं भुक्तेः प्राग्भक्षितं चेत् सपदि वितनुते पित्तदाहास्रकोपम् ।
भुक्त्या सार्धं तु जग्धं हितकरबलकृद् वेशवारेण तच् चेत् पक्वं हृद्रोगशूलप्रशमनम् उदितं शूलरुग्घारि मूलम् ॥ रज्नि_7.23
गर्जरं पिङ्गमूलं च पीतकं च सुमूलकम् ।
स्वादुमूलं सुपीतं च नारङ्गं पीतमूलकम् ॥ रज्नि_7.24
गर्जरं मधुरं रुच्यं किंचित् कटु कफापहम् ।
आध्मानक्रिमिशूलघ्नं दाहपित्ततृषापहम् ॥ रज्नि_7.25
शिग्रुर् हरितशाकश् च शाकपत्त्रः सुपत्त्रकः ।

उपदंशः क्षमादंशो ज्ञेयः कोमलपत्त्रकः ।
बहुमूलो दंशमूलस् तीक्ष्णमूलो दशाह्वयः ॥ रज्नि_7.26
शिग्रुश् च कटुतिक्तोष्णस् तीक्ष्णो वातकफापहः ।
मुखजाड्यहरो रुच्यो दीपनो व्रणदोषनुत् ॥ रज्नि_7.27
शोभाञ्जनो नीलशिग्रुस् तीक्ष्णगन्धो जनप्रियः ।
मुखामोदः कृष्णशिग्रुश् चक्षुष्यो रुचिरञ्जनः ॥ रज्नि_7.28
शोभाञ्जनस् तीक्ष्णकटुः स्वादूष्णः पिच्छिलस् तथा ।
जन्तुवातार्तिशूलघ्नश् चक्षुष्यो रोचनः परः ॥ रज्नि_7.29
श्वेतशिग्रुः सुतीक्ष्णः स्यान् मुखभङ्गः सिताह्वयः ।
सुमूलः श्वेतमरिचो रोचनो मधुशिग्रुकः ॥ रज्नि_7.30
श्वेतशिग्रुः कटुस् तीक्ष्णः शोफानिलनिकृन्तनः ।
अङ्गव्यथाहरो रुच्यो दीपनो मुखजाड्यनुत् ॥ रज्नि_7.31
रक्तको रक्तशिग्रुः स्यान् मधुरो बहुलच्छदः ।
सुगन्धकेसरः सिंहो मृगारिश् च प्रकीर्तितः ॥ रज्नि_7.32
रक्तशिग्रुर् महावीर्यो मधुरश् च रसायनः ।
शोफाध्मानसमीरार्तिपित्तश्लेष्मापसारकः ॥ रज्नि_7.33
वंशो यवफलो वेणुः कर्मारस् तृणकेतुकः ।
मस्करः शतपर्वा च कण्टालुः कण्टकी तथा ॥ रज्नि_7.34
महाबलो दृढग्रन्थिर् दृढपत्त्रो धनुद्रुमः ।
धनुष्यो दृढकाण्डश् च विज्ञेयो बाणभूमितः ॥ रज्नि_7.35
वंशौ त्व् अम्लौ कषायौ च किंचित् तिक्तौ च शीतलौ ।
मूत्रकृच्छ्रप्रमेहार्शःपित्तदाहास्रनाशनौ ॥ रज्नि_7.36
अन्यस् तु रन्ध्रवंशः स्यात् त्वक्सारः कीचकाह्वयः ।
मस्करो वादनीयश् च सुषिराख्यः षडाह्वयः ॥ रज्नि_7.37
विशेषो रन्ध्रवंशस् तु दीपनो ऽजीर्णनाशनः ।
रुचिकृत् पाचनो हृद्यः शूलघ्नो गुल्मनाशनः ॥ रज्नि_7.38
वंशाग्रं तु करीरो वंशाङ्कुरश् च यवफलाङ्कुरः ।
तस्य ग्रन्थिस् तु परुः पर्व तथा काण्डसन्धिश् च ॥ रज्नि_7.39
करीरं कटुतिक्ताम्लं कषायं लघु शीतलम् ।
पित्तास्रदाहकृच्छ्रघ्नं रुचिकृत् पर्व निर्गुणम् ॥ रज्नि_7.40
वेत्रो वेतो योगिदण्डः सुदण्डो मृदुपर्वकः ।
वेत्रः पञ्चविधः शैत्यकषायो भूतपित्तहृत् ॥ रज्नि_7.41
माकन्दी बहुमूला च मादनी गन्धमूलिका ।
एका विशदमूली च श्यामला च तथापरा ॥ रज्नि_7.42
माकन्दी कटुका तिक्ता मधुरा दीपनी परा ।
रुच्याल्पवातला पथ्या न वर्षासु हिताधिका ॥ रज्नि_7.43
शोली वनहरिद्रा स्यात् वनारिष्टा च शोलिका ।
शोलिका कटुगौल्या च रुच्या तिक्ता च दीपनी ॥ रज्नि_7.44
शृङ्गाटकः शृङ्गरुहो जलवल्ली जलाश्रया ।
शृङ्गकन्दः शृङ्गमूलो विषाणी सप्तनामकः ॥ रज्नि_7.45

शृङ्गाटकः शोणितपित्तहारी लघुः सरो वृष्यतमो विशेषात् ।
त्रिदोषतापश्रमशोफहारो रुचिप्रदो मेहनदार्ढ्यहेतुः ॥ रज्नि_7.46
भृङ्गाह्वा भ्रमरच्छल्ली भ्रमरा भृङ्गमूलिका ।
भृङ्गच्छल्ली कटूष्णा स्यात् तिक्ता दीपनरोचनी ॥ रज्नि_7.47
पेऊर् वनार्द्रका प्रोक्ता वनजारण्यजार्द्रका ।
पेऊस् तु कटुकाम्ला च रुचिकृद् बल्यदीपनी ॥ रज्नि_7.48
रसोनो लशुनो ऽरिष्टो म्लेच्छकन्दो महौषधम् ।
भूतघ्नश् चोग्रगन्धश् च लशुनः शीतमर्दकः ॥ रज्नि_7.49
रसोनो ऽम्लरसोनः स्यात् गुरूष्णः कफवातनुत् ।
अरुचिक्रिमिहृद्रोगशोफघ्नश् च रसायनः ॥ रज्नि_7.50
रसोन उष्णः कटुपिच्छिलश् च स्निग्धो गुरुः स्वादुरसो ऽतिबल्यः ।
वृष्यश् च मेधास्वरवर्णचक्षुष्यास्थिसंधर्भानकरः सुतीक्ष्णः ॥ रज्नि_7.51
रसोनो ऽन्यो महाकन्दो गृजनो दीर्घपत्त्रकः ।
पृथुपत्त्रः स्थूलकन्दो यवनेष्टो बले हितः ॥ रज्नि_7.52
गृञ्जनस्य मधुरं कटु कन्दं नालम् अप्य् उपदिशन्ति कषायम् ।
पत्त्रसंचयम् उशन्ति च तिक्तं सूरयो लवणम् अस्थि वदन्ति ॥ रज्नि_7.53
हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकृच्छ्रशोफान् ।
दुर्नामकुष्ठानिलसादजन्तुकफामयान् हन्ति महारसोनः ॥ रज्नि_7.54
पलाण्डुस् तीक्ष्णकन्दश् च उल्ली च मुखदूषणः ।
शूद्रप्रियः क्रिमिघ्नश् च दीपनो मुखगन्धकः ॥ रज्नि_7.55
बहुपत्त्रो विश्वगन्धो रोचनो रुद्रसंज्ञकः ।
श्वेतकन्दश् च तत्रैको हारिद्रो ऽन्य इति द्विधा ॥ रज्नि_7.56
पलाण्डुः कटुको बल्यः कफपित्तहरो गुरुः ।
वृष्यश् च रोचनः स्निग्धो वान्तिदोषविनाशनः ॥ रज्नि_7.57
अन्यो राजपलाण्डुः स्यात् यवनेष्टो नृपाह्वयः ।
राजप्रियो महाकन्दो दीर्घपत्त्रश् च रोचकः ॥ रज्नि_7.58
नृपेष्टो नृपकन्दश् च महाकन्दो नृपप्रियः ।
रक्तकन्दश् च राजेष्टो नामान्य् अत्र त्रयोदश ॥ रज्नि_7.59
पलाण्डुर् नृपपूर्वः स्यात् शिशिरः पित्तनाशनः ।
कफहृद् दीपनश् चैव बहुनिद्राकरस् तथा ॥ रज्नि_7.60
वक्ष्यते नृपपलाण्डुलक्षणं क्षारतीक्ष्णमधुरो रुचिप्रदः ।
कण्ठशोषशमनो ऽतिदीपनः श्लेष्मपित्तशमनो ऽतिबृंहणः ॥ रज्नि_7.61
कण्डूलः शूरणः कन्दी सुकन्दी स्थूलकन्दकः ।
दुर्नामारिः सुवृत्तश् च वातारिः कन्दशूरणः ॥ रज्नि_7.62
अर्शोघ्नस् तीव्रकन्दश् च कन्दार्हः कन्दवर्धनः ।
बहुकन्दो रुच्यकन्दः शूरकन्दस् तु षोडशः ॥ रज्नि_7.63
शूरणः कटुकरुच्यदीपनः पाचनः क्रिमिकफानिलापहः ।
श्वासकासवमनार्शसां हरः शूलगुल्मशमनो ऽस्रदोषकृत् ॥ रज्नि_7.64
सितशूरणस् तु वन्यो वनकन्दो ऽरण्यशूरणो वनजः ।
स श्वेतशूरणाख्यो वनकन्दः कण्डूलश् च सप्ताख्यः ॥ रज्नि_7.65

श्वेतशूरणको रुच्यः कटूष्णः क्रिमिनाशनः ।
गुल्मशूलादिदोषघ्नः स चारोचकहारकः ॥ रज्नि_7.66
मुखालुर् मण्डपारोहो दीर्घकन्दः सुकन्दकः ।
स्थूलकन्दो महाकन्दः स्वादुकन्दश् च सप्तधा ॥ रज्नि_7.67
मुखालुकः स्यान् मधुरः शिशिरः पित्तनाशनः ।
रुचिकृद् वातकृच् चैव दाहशोषतृषापहः ॥ रज्नि_7.68
पिण्डालुः स्यात् ग्रन्थिलः पिण्डकन्दः कन्दग्रन्थी रोमशो रोमकन्दः ।
रोमाह्वः स्यात् सो ऽपि ताम्बूलपत्त्रो लालाकन्दः पिण्डको ऽयं दशाह्वः ॥ रज्नि_7.69
पिण्डालुर् मधुरः शीतो मूत्रकृच्छ्रामयापहः ।
दाहशोषप्रमेहघ्नो वृष्यः संतर्पणो गुरुः ॥ रज्नि_7.70
अन्यस् तु रक्तपिण्डालू रक्तालू रक्तपिण्डकः ।
लोहितो रक्तकन्दश् च लोहितालुः षडाह्वयः ॥ रज्नि_7.71
रक्तपिण्डालुकः शीतो मधुराम्लः श्रमापहः ।
पित्तदाहापहो वृष्यो बलपुष्टिकरो गुरुः ॥ रज्नि_7.72
कासालुः कासकन्दश् च कन्दालुश् चालुकश् च सः ।
आलुर् विशालपत्त्रश् च पत्त्रालुश् चेति सप्तधा ॥ रज्नि_7.73
कासालुर् उग्रकण्डूतिवातश्लेष्मामयापहः ।
अरोचकहरः स्वादुः पथ्यो दीपनकारकः ॥ रज्नि_7.74
फोण्डालुर् लोहितालुश् च रक्तपत्त्रो मृदुच्छदः ।
फोण्डालुः श्लेष्मवातघ्नः कटूष्णो दीपनश् च सः ॥ रज्नि_7.75
पाणियालुर् जलालुः स्यात् अनुपालुर् अवालुकः ।
पाणियालुस् त्रिदोषघ्नः संतर्पणकरः परः ॥ रज्नि_7.76
नीलालुर् असितालुः स्यात् कृष्णालुः श्यामलालुकः ।
नीलालुर् मधुरः शीतः पित्तदाहश्रमापहः ॥ रज्नि_7.77
शुभ्रालुर् महिषीकन्दो लुलायकन्दश् च शुक्लकन्दश् च ।
सर्पाख्यो वनवासी विषकन्दो नीलकन्दो ऽन्यः ॥ रज्नि_7.78
कटूष्णो महिषीकन्दः कफवातामयापहः ।
मुखजाड्यहरो रुच्यो महासिद्धिकरः सितः ॥ रज्नि_7.79
हस्तिकन्दो हस्तिपत्त्रः स्थूलकन्दो ऽतिकन्दकः ।
बृहत्पत्त्रो ऽतिपत्त्रश् च हस्तिकर्णः सुकर्णकः ॥ रज्नि_7.80
त्वग्दोषारिः कुष्ठहन्ता गिरिवासी नगाश्रयः ।
गजकन्दो नागकन्दो ज्ञेयो द्विसप्तनामकः ॥ रज्नि_7.81
हस्तिकन्दः कटूष्णः स्यात् कफवातामयापहः ।
त्वग्दोषश्रमहा कुष्ठविषवीसर्पनाशकः ॥ रज्नि_7.82
कोलकन्दः क्रिमिघ्नश् च पञ्जलो वस्त्रपञ्जलः ।
पुटालुः सुपुटश् चैव पुटकन्दश् च सप्तधा ॥ रज्नि_7.83
कोलकन्दः कटुश् चोष्णः क्रिमिदोषविनाशनः ।
वान्तिविच्छर्दिशमनो विषदोषनिवारणः ॥ रज्नि_7.84
स्याद् वाराही शूकरी क्रोडकन्या गृष्टिर् विष्वक्सेनकान्ता वराही ।
कौमारी स्याद् ब्रह्मपुत्री त्रिनेत्रा क्रौडी कन्या गृष्टिका माधवेष्टा ॥ रज्नि_7.85

शूकरकन्दः क्रोडो वनवासी कुष्ठनाशनो वन्यः ।
अमृतश् च महावीर्यो महौषधिः शबरकन्दश् च ॥ रज्नि_7.86
वराहकन्दो वीरश् च ब्राह्मकन्दः सुकन्दकः ।
वृद्धिदो व्याधिहन्ता च वसुनेत्रमिताह्वयाः ॥ रज्नि_7.87
वाराही तिक्तकटुका विषपित्तकफापहा ।
कुष्ठमेहक्रिमिहरा वृष्या बल्या रसायनी ॥ रज्नि_7.88
विष्णुकन्दो विष्णुगुप्तः सुपुष्टो बहुसम्पुटः ।
जलवासो बृहत्कन्दो दीर्घवृन्तो हरिप्रियः ॥ रज्नि_7.89
विष्णुकन्दस् तु मधुरः शिशिरः पित्तनाशनः ।
दाहशोफहरो रुच्यः संतर्पणकरः परः ॥ रज्नि_7.90
धारिणी धारणीया च वीरपत्त्री सुकन्दकः ।
कन्दालुर् वनकन्दश् च कन्दाद्यो दण्डकन्दकः ॥ रज्नि_7.91
मधुरो धारिणीकन्दः कफपित्तामयापहः ।
वक्त्रदोषप्रशमनः कुष्ठकण्डूतिनाशनः ॥ रज्नि_7.92
नाकुली सर्पगन्धा च सुगन्धा रक्तपत्त्रिका ।
ईश्वरी नागगन्धा चाप्य् अहिभुक् स्वरसा तथा ।
सर्पादनी व्यालगन्धा ज्ञेया चेति दशाह्वया ॥ रज्नि_7.93
अन्या महासुगन्धा च सुवहा गन्धनाकुली ।
सर्पाक्षी फणिहन्त्री च नकुलाढ्याहिभुक् च सा ॥ रज्नि_7.94
विषमर्दनिका चाहिमर्दिनी विषमर्दिनी ।
महाहिगन्धाहिलता ज्ञेया सा द्वादशाह्वया ॥ रज्नि_7.95
नाकुलीयुगलं तिक्तं कटूष्णं च त्रिदोषजित् ।
अनेकविषविध्वंसि किंचिच् छ्रेष्ठं द्वितीयकम् ॥ रज्नि_7.96
अथ मालाकन्दः स्याद् आलिकन्दश् च पङ्क्तिकन्दश् च ।
त्रिशिखदला ग्रन्थिदला कन्दलता कीर्तिता षोढा ॥ रज्नि_7.97
मालाकन्दः सुतीक्ष्णः स्यात् गण्डमालाविनाशकः ।
दीपनो गुल्महारश् च वातश्लेष्मापकर्षकृत् ॥ रज्नि_7.98
विदारिका स्वादुकन्दा सिता शुक्ला शृगालिका ।
विदारी वृष्यकन्दा च विडाली वृष्यवल्लिका ॥ रज्नि_7.99
भूकुष्माण्डी स्वादुलता गजेष्टा वारिवल्लभा ।
ज्ञेया कन्दफला चेति मनुसंख्याह्वया मता ॥ रज्नि_7.100
विदारी मधुरा शीता गुरुः स्निग्धास्रपित्तजित् ।
ज्ञेया च कफकृत् पुष्टिबल्या वीर्यविवर्धनी ॥ रज्नि_7.101
अन्या क्षीरविदारी स्याद् इक्षुगन्धेक्षुवल्लरी ।
इक्षुवल्ली क्षीरकन्दः क्षीरवल्ली पयस्विनी ॥ रज्नि_7.102
क्षीरशुक्ला क्षीरलता पयःकन्दा पयोलता ।
पयोविदारिका चेति विज्ञेया द्वादशाह्वया ॥ रज्नि_7.103
ज्ञेया क्षीरविदारी च मधुराम्ला कषायका ।
तिक्ता च पित्तशूलघ्नी मूत्रमेहामयापहा ॥ रज्नि_7.104
क्षीरकन्दो द्विधा प्रोक्तो विनालस् तु सनालकः ।

विनालो रोगहर्ता स्याद् वयःस्तम्भी सनालकः ॥ रज्नि_7.105
शाल्मलीकन्दकश् चाथ विजुलो वनवासकः ।
वनवासी मलघ्नश् च मलहन्ता षडाह्वयः ॥ रज्नि_7.106
मधुरः शाल्मलीकन्दो मलसंग्रहरोधजित् ।
शिशिरः पित्तदाहार्तिशोषसंतापनाशनः ॥ रज्नि_7.107
प्रोक्तश् चण्डालकन्दः स्याद् एकपत्त्रो द्विपत्त्रकः ।
त्रिपत्त्रो ऽथ चतुष्पत्त्रः पञ्चपत्त्रश् च भेदतः ॥ रज्नि_7.108
चण्डालकन्दो मधुरः कफपित्तास्रदोषजित् ।
विषभूतादिदोषघ्नो विज्ञेयश् च रसायनः ॥ रज्नि_7.109
अथ तैलकन्द उक्तो द्रावककन्दस् तिलाङ्कितदलश् च ।
करवीरकन्दसंज्ञो ज्ञेयस् तिलचित्रपत्त्रको बाणैः ॥ रज्नि_7.110
लोहद्रावी तैलकन्दः कटूष्णो वातापस्मारापहारी विषारिः ।
शोफघ्नः स्याद् बन्धकारी रसस्य द्राग् एवासौ देहसिद्धिं विधत्ते ॥ रज्नि_7.111
अश्वारिपत्त्रसंकाशः तिलबिन्दुसमन्वितः ।
संस्निग्धाधस्थभूमिस्थः तिलकन्दो ऽतिविस्तृतः ॥ रज्नि_7.112
त्रिपर्णिका बृहत्पत्त्री छिन्नग्रन्थिनिका च सा ।
कन्दालः कन्दबहलाप्य् अम्लवल्ली विषापहा ॥ रज्नि_7.113
त्रिपर्णी मधुरा शीता श्वासकासविनाशनी ।
पित्तप्रकोपशमनी विषव्रणहरा परा ॥ रज्नि_7.114
मुसली तालमूली च सुवहा तालमूलिका ।
गोधापदी हेमपुष्पी भूताली दीर्घकन्दिका ॥ रज्नि_7.115
मुसली मधुरा शीता वृष्या पुष्टिबलप्रदा ।
पिच्छिला कफदा पित्तदाहश्रमहरा परा ॥ रज्नि_7.116
मुसली स्याद् द्विधा प्रोक्ता श्वेता चापरसंज्ञका ।
श्वेता स्वल्पगुणोपेता अपरा च रसायनी ॥ रज्नि_7.117
गुच्छाह्वकन्दस् तवकाह्वकन्दको गुलुच्छकन्दश् च विघण्टिकाभिधः ।
गुलुच्छकन्दो मधुरः सुशीतलो वृष्यप्रदस् तर्पणदाहनाशनः ॥ रज्नि_7.118
लक्ष्मणा पुत्रकन्दा च पुत्रदा नागिनी तथा ।
नागाह्वा नागपत्त्री च तुलिनी मज्जिका च सा ।
अस्रबिन्दुच्छदा चैव सुकन्दा दशधाह्वया ॥ रज्नि_7.119
लक्ष्मणा मधुरा शीता स्त्रीवन्ध्यत्वविनाशनी ।
रसायनकरी बल्या त्रिदोषशमनी परा ॥ रज्नि_7.120
हस्तपर्यायपूर्वस् तु जोडिर् वैद्यवरैः स्मृतः ।
करजोडिर् इति ख्यातो रसबन्धादिवश्यकृत् ॥ रज्नि_7.121
वास्तुकं वास्तु वास्तूकं वस्तुकं हिलमोचिका ।
शाकराजो राजशाकश् चक्रवर्तिश् च कीर्तितः ॥ रज्नि_7.122
वास्तुकं तु मधुरं सुशीतलं क्षारम् ईषद् अम्लं त्रिदोषजित् ।
रोचनं ज्वरहरं महार्शसां नाशनं च मलमूत्रशुद्धिकृत् ॥ रज्नि_7.123
चुक्रं तु चुक्रवास्तूकं लिकुचं चाम्लवास्तुकम् ।
दलाम्लम् अम्लशाकाख्यम् अम्लादि हिलमोचिका ॥ रज्नि_7.124

चुक्रं स्याद् अम्लपत्त्रं तु लघूष्णं वातगुल्मनुत् ।
रुचिकृद् दीपनं पथ्यम् ईषत् पित्तकरं परम् ॥ रज्नि_7.125
पलाशलोहिता चिल्ली वास्तुका चिल्लिका च सा ।
मृदुपत्त्री क्षारदला क्षारपत्त्री तु वास्तुकी ॥ रज्नि_7.126
चिल्ली वास्तुकतुल्या च सक्षारा श्लेष्मपित्तनुत् ।
प्रमेहमूत्रकृच्छ्रघ्नी पथ्या च रुचिकारिणी ॥ रज्नि_7.127
श्वेतचिल्ली तु वास्तूकी सुपथ्या श्वेतचिल्लिका ।
सितचिल्ल्य् उपचिल्ली च ज्वरघ्नी क्षुद्रवास्तुकी ॥ रज्नि_7.128
श्वेतचिल्ली सुमधुरा क्षारा च शिशिरा च सा ।
त्रिदोषशमनी पथ्या ज्वरदोषविनाशनी ॥ रज्नि_7.129
अन्या शुनकचिल्ली स्यात् सुचिल्ली श्वानचिल्लिका ।
श्वचिल्ली कटुतीक्ष्णा च कण्डूतिव्रणहारिणी ॥ रज्नि_7.130
शिग्रुपत्त्रभवं शाकं रुच्यं वातकफापहम् ।
कटूष्णं दीपनं पथ्यं क्रिमिघ्नं पाचनं परम् ॥ रज्नि_7.131
पालक्यं तु पलक्यायां मधुरा क्षुरपत्त्रिका ।
सुपत्त्रा स्निग्धपत्त्रा च ग्रामीणा ग्राम्यवल्लभा ॥ रज्नि_7.132
पालक्यम् ईषत् कटुकं मधुरं पथ्यशीतलम् ।
रक्तपित्तहरं ग्राहि ज्ञेयं संतर्पणं परम् ॥ रज्नि_7.133
राजाभिधानपूर्वा तु नगाह्वा चापरेण वा ।
राजाद्रिः स्याद् राजगिरिर् ज्ञातव्या राजशाकिनी ॥ रज्नि_7.134
राजशाकिनिका रुच्या पित्तघ्नी शीतला च सा ।
सैवातिशीतला रुच्या विज्ञेया स्थूलशाकिनी ॥ रज्नि_7.135
उपोदकी कलम्बी च पिच्छिला पिच्छिलच्छदा ।
मोहिनी मदशाकश् च विशालाद्या ह्य् उपोदकी ॥ रज्नि_7.136
उपोदकी कषायोष्णा कटुका मधुरा च सा ।
निद्रालस्यकरी रुच्या विष्टम्भश्लेष्मकारिणी ॥ रज्नि_7.137
उपोदक्य् अपरा क्षुद्रा सूक्ष्मपत्त्रा तु मण्डपी ।
रसवीर्यविपाकेषु सदृशी पूर्वया स्वयम् ॥ रज्नि_7.138
उपोदकी तृतीया च वन्यजा वनजाह्वया ।
वनजोपोदकी तिक्ता कटूष्णा रोचनी च सा ॥ रज्नि_7.139
मूलपोती क्षुद्रवल्ली पोतिका क्षुद्रपोतिका ।
क्षुपोपोदकनाम्नी च वल्लिः शाकटपोतिका ॥ रज्नि_7.140
मूलपोती त्रिदोषघ्नी वृष्या बल्या लघुश् च सा ।
बलपुष्टिकरी रुच्या जठरानलदीपनी ॥ रज्नि_7.141
कुणञ्जरस् त्रिदोषघ्नो मधुरो रुच्यदीपकः ।
ईषत् कषायः संग्राही पित्तश्लेष्मकरो लघुः ॥ रज्नि_7.142
कौसुम्भशाकं मधुरं कटूष्णं विण्मूत्रदोषापहरं मदघ्नम् ।
दृष्टिप्रसादं कुरुते विशेषाद् रुचिप्रदं दीप्तिकरं च वह्नेः ॥ रज्नि_7.143
शतपुष्पादलं सोष्णं मधुरं गुल्मशूलजित् ।
वातघ्नं दीपनं पथ्यं पित्तहृद् रुचिदायकम् ॥ रज्नि_7.144

तण्डुलीयकदलं हिमम् अर्शःपित्तरक्तविषकासविनाशि ।
ग्राहकं च मधुरं च विपाके दाहशोषशमनं रुचिदायि ॥ रज्नि_7.145
कटूष्णं राजिकापत्त्रं क्रिमिवातकफापहम् ।
कण्ठामयहरं स्वादु वह्निदीपनकारकम् ॥ रज्नि_7.146
सार्षपं पत्त्रम् अत्युष्णं रक्तपित्तप्रकोपनुत् ।
विदाहि कटुकं स्वादु शुक्रहृद् रुचिदायकम् ॥ रज्नि_7.147
चाङ्गेरीशाकम् अत्युष्णं कटु रोचनपाचनम् ।
दीपनं कफवातार्शःसंग्रहण्यतिसारजित् ॥ रज्नि_7.148
घोला च घोलिका घोली कलन्दुः कवलालुकम् ॥ रज्नि_7.149
क्षेत्रजं लवणं रुच्यम् अम्लं वातकफापहम् ॥ रज्नि_7.150
आरामघोलिका चाम्ला रूक्षा रुच्यानिलापहा ।
पित्तश्लेष्मकरी चान्या सूक्ष्मा जीर्णज्वरापहा ॥ रज्नि_7.151
जीवन्तो रक्तनालश् च ताम्रपत्त्रः सनालकः ।
शाकवीरस् तु मधुरो जीवशाकश् च मेषकः ॥ रज्नि_7.152
जीवशाकः सुमधुरो बृंहणो वस्तिशोधनः ।
दीपनः पाचनो बल्यो वृष्यः पित्तापहारकः ॥ रज्नि_7.153
गौरसुवर्णं स्वर्णं सुगन्धिकं भूमिजं च वारिजं च ।
ह्रस्वं च गन्धशाकं कटुशृङ्गाटं च वर्णशाकाङ्कः ॥ रज्नि_7.154
गौरसुवर्णं शिशिरं कफपित्तज्वरापहम् ।
पथ्यं दाहरुचिभ्रान्तिरक्तश्रमहरं परम् ॥ रज्नि_7.155
वर्षाभूवसुकौ श्लेष्मवह्निमान्द्यानिलापहौ ।
पाके रूक्षतरौ गुल्मप्लीहशूलापहारकौ ॥ रज्नि_7.156
फञ्जिका जीवनी पद्मा तर्कारी चुचुकः पृथक् ।
वातामयहरं ग्राहि दीपनं रुचिदायकम् ॥ रज्नि_7.157
फञ्ज्यादिपञ्चकं भेण्डा कुणञ्जस् त्रिपुटस् तथा ।
इत्यादि वनपत्त्राणां शाकम् एकत्र योजितम् ॥ रज्नि_7.158
दीपनं पाचनं रुच्यं बलवर्णविधायकम् ।
त्रिदोषशमनं पथ्यं ग्राहि वृष्यं सुखावहम् ॥ रज्नि_7.159
कर्कोटिका च कुष्माण्डी कुम्भाण्डी तु बृहत्फला ।
सुफला स्यात् कुम्भफला नागपुष्पफला मुनिः ॥ रज्नि_7.160
मूत्राघातहरं प्रमेहशमनं कृच्छ्राश्मरीच्छेदनं विण्मूत्रग्लपनं तृषार्तिशमनं जीर्णाङ्गपुष्टिप्रदम् ।
वृष्यं स्वादुतरं त्व् अरोचकहरं बल्यं च पित्तापहं कुष्माण्डं प्रवरं वदन्ति भिषजो वल्लीफलानां पुनः ॥ रज्नि_7.161
गोरक्षतुम्बी गोरक्षी नवालाम्बुर् घटाभिधा ।
कुम्भालाम्बुर् घटालाम्बुः कुम्भतुम्बी च सप्तधा ॥ रज्नि_7.162
कुम्भतुम्बी सुमधुरा शिशिरा पित्तहारिणी ।
गुरुः संतर्पणी रुच्या वीर्यपुष्टिबलप्रदा ॥ रज्नि_7.163
क्षीरतुम्बी दुग्धतुम्बी दीर्घवृत्तफलाभिधा ।
इक्ष्वाकुः क्षत्रियवरा दीर्घबीजा महाफला ॥ रज्नि_7.164
क्षीरिणी दुग्धबीजा च दन्तबीजा पयस्विनी ।
महावल्ली ह्य् अलाम्बुश् च श्रमघ्नी शरभूमिता ॥ रज्नि_7.165

तुम्बी सुमधुरा स्निग्धा पित्तघ्नी गर्भपोषकृत् ।
वृष्या वातप्रदा चैव बलपुष्टिविवर्धनी ॥ रज्नि_7.166
भूतुम्बी नागतुम्बी च शक्रचापसमुद्भवा ।
वल्मीकसम्भवा देवी दिव्यतुम्बी षडाह्वया ॥ रज्नि_7.167
भूतुम्बी कटुकोष्णा च संनिपातापहारिणी ।
दन्तार्गलं दन्तरोधं धनुर्वातादिदोषनुत् ॥ रज्नि_7.168
मांसलफलः कलिङ्गश् चित्रफलश् चित्रवल्लिकश् चित्रः ।
मधुरफलो वृत्तफलो घृणाफलो मांसलो नवधा ॥ रज्नि_7.169
कलिङ्गो मधुरः शीतः पित्तदाहश्रमापहः ।
वृष्यः संतर्पणो बल्यो वीर्यपुष्टिविवर्धनः ॥ रज्नि_7.170
कोशातकी स्वादुफला सुपुष्पा कर्कोटकी स्याद् अपि पीतपुष्पा ।
धाराफला दीर्घफला सुकोशा धामार्गवः स्यान् नवसंज्ञको ऽयम् ॥ रज्नि_7.171
धाराकोशातकी स्निग्धा मधुरा कफपित्तनुत् ।
ईषद् वातकरी पथ्या रुचिकृद् बलवीर्यदा ॥ रज्नि_7.172
हस्तिकोशातकी त्व् अन्या बृहत्कोशातकी तथा ।
महाकोशातकी वृत्ता ग्राम्यकोशातकी शराः ॥ रज्नि_7.173
हस्तिकोशातकी स्निग्धा मधुराध्मानवातकृत् ।
वृष्या क्रिमिकरी चैव व्रणसंरोपणी च सा ॥ रज्नि_7.174
ज्ञेया स्वादुपटोली च पटोली मण्डली च सा ।
पटोली मधुरादिः स्यात् प्रोक्ता दीर्घपटोलिका ।
स्निग्धपर्णी स्वादुपूर्वैः पर्यायैश् च पटोलिका ॥ रज्नि_7.175
पटोली स्वादुः पित्तघ्नी रुचिकृत् ज्वरनाशनी ।
बलपुष्टिकरी पथ्या ज्ञेया दीपनपाचनी ॥ रज्नि_7.176
पटोलपत्त्रं पित्तघ्नं नालं तस्य कफापहम् ।
फलं त्रिदोषशमनं मूलं चास्य विरेचनम् ॥ रज्नि_7.177
मृगाक्षी शतपुष्पा च मृगेर्वारुर् मृगादनी ।
चित्रवल्ली बहुफला कपिलाक्षी मृगेक्षणा ॥ रज्नि_7.178
चित्रा चित्रफला पथ्या विचित्रा मृगचिर्भिटा ।
मरुजा कुम्भसी देवी कट्फला लघुचिर्भिटा ।
सेन्दिनी च महादेवी बुधैः सा विंशतिर् मताः ॥ रज्नि_7.179
मृगाक्षी कटुका तिक्ता पाके ऽम्ला वातनाशनी ।
पित्तकृत् पीनसहरा दीपनी रुचिकृत् परा ॥ रज्नि_7.180
दधिपुष्पी खट्वाङ्गी खट्वा पर्यङ्कपादिका कूपा ।
खट्वापादी वंश्या काकोली कोलपालिका नवधा ॥ रज्नि_7.181
दधिपुष्पी कटुमधुरा शिशिरा संतापपित्तदोषघ्नी ।
वातामयदोषकरी गुरुस् तथारोचकघ्नी च ॥ रज्नि_7.182
असिशिम्बी खड्गशिम्बी शिम्बी निस्त्रिंशशिम्बिका ।
स्थूलशिम्बी महाशिम्बी बृहच्छिम्बी सुशिम्बिका ॥ रज्नि_7.183
असिशिम्बी तु मधुरा कषाया श्लेष्मपित्तजित् ।
व्रणदोषापहन्त्री च शीतला रुचिदीपनी ॥ रज्नि_7.184

करका कारवल्ली च चीरिपत्त्रः करिल्लका ।
सूक्ष्मवल्ली कण्टफला पीतपुष्पाम्बुवल्लिका ॥ रज्नि_7.185
कारवल्ली सुतिक्तोष्णा दीपनी कफवातजित् ।
अरोचकहरा चैव रक्तदोषहरी च सा ॥ रज्नि_7.186
कर्कोटकी स्वादुफला मनोज्ञा च मनस्विनी ।
बोधना वन्ध्यकर्कोटी देवी कण्टफलापि च ॥ रज्नि_7.187
कर्कोटकी कटूष्णा च तिक्ता विषविनाशनी ।
वातघ्नी पित्तहृत् चैव दीपनी रुचिकारिणी ॥ रज्नि_7.188
अथ भवति मधुरबिम्बी मधुबिम्बी स्वादुतुम्बिका तुण्डी ।
रक्तफला रुचिरफला सोष्णफला पीलुपर्णी च ॥ रज्नि_7.189
बिम्बी तु मधुरा शीता पित्तश्वासकफापहा ।
असृग्ज्वरहरा रम्या कासजिद् गृहबिम्बिका ॥ रज्नि_7.190
निष्पावी ग्रामजादिः स्यात् फलीनी नखपूर्विका ।
मण्डपी फलिका शिम्बी ज्ञेया गुच्छफला च सा ।
विशालफलिका चैव निष्पाविश् चिपिटा तथा ॥ रज्नि_7.191
अन्याङ्गुलीफला चैव नखनिष्पाविका स्मृता ।
वृत्तनिष्पाविका ग्राम्या नखपुच्छफला शराः ॥ रज्नि_7.192
निष्पावौ द्वौ हरिच्छुभ्रौ कषायौ मधुरौ रसौ ।
कण्ठशुद्धिकरौ मेध्यौ दीपनौ रुचिकारकौ ।
संग्राहि समवीर्यं स्याद् ईषच् छ्रेष्ठं द्वितीयकम् ॥ रज्नि_7.193
वार्त्ताकी कण्टवृन्ताकी कण्टालुः कण्टपत्त्रिका ।
निद्रालुर् मांसलफला वृन्ताकी च महोटिका ॥ रज्नि_7.194
चित्रफला कण्टकिनी महती कट्फला च सा ।
मिश्रवर्णफला नीलफला रक्तफला तथा ।
शाकश्रेष्ठा वृत्तफला नृपप्रियफलस्मृतिः ॥ रज्नि_7.195
वार्त्ताकी कटुका रुच्या मधुरा पित्तनाशिनी ।
बलपुष्टिकरी हृद्या गुरुर् वातेषु निन्दिता ॥ रज्नि_7.196
डङ्गरी डाङ्गरी चैव दीर्घेर्वारुश् च डङ्गरिः ।
डङ्गारी नागशुण्डी च गजदन्तफला मुनिः ॥ रज्नि_7.197
डङ्गरी शीतला रुच्या वातपित्तास्रदोषजित् ।
शोषहृत् तर्पणी गौल्या जाड्यहा मूत्ररोधनुत् ॥ रज्नि_7.198
बालं डाङ्गरिकं फलं सुमधुरं शीतं च पित्तापहं तृष्णादाहनिबर्हणं च रुचिकृत् संतर्पणं पुष्टिदम् ।
वीर्योन्मेषकरं बलप्रदम् इदं भ्रान्तिश्रमध्वंसनं पक्वं चेत् कुरुते तद् एव मधुरं तृड्दाहरक्तं गुरु ॥ रज्नि_7.199
अथ खर्बुजा मधुफला षड्रेखा वृत्तकर्कटी तिक्ता ।
तिक्तफला मधुपाका वृत्तेर्वारुश् च षण्मुखा नवधा ॥ रज्नि_7.200
तिक्तं बाल्ये तद् अनु मधुरं किंचिद् अम्लं च पाके निष्पक्वं चेत् तद् अमृतसमं तर्पणं पुष्टिदायि ।
वृष्यं दाहश्रमविशमनं मूत्रशुद्धिं विधत्ते पित्तोन्मादापहरकफदं खर्बुजं वीर्यकारि ॥ रज्नि_7.201
अथ कर्कटी कटुदला छर्द्यायनिका च पीनसा मूत्रफला ।
त्रपुसी च हस्तिपर्णी लोमशकण्टा च मूत्रला नवाभिधा ॥ रज्नि_7.202
कर्कटी मधुरा शीता त्वक् तिक्ता कफपित्तजित् ।

रक्तदोषकरा पक्वा मूत्ररोधार्तिनाशनी ॥ रज्नि_7.203
मूत्रावरोधशमनं बहुमूत्रकारि कृच्छ्राश्मरीप्रशमनं विनिहन्ति पित्तम् ।
वान्तिश्रमघ्नबहुदाहनिवारि रुच्यं श्लेष्मापहं लघु च कर्कटिकाफलं स्यात् ॥ रज्नि_7.204
त्रपुसी पीतपुष्पी कण्टालुस् त्रपुसकर्कटी ।
बहुफला कोशफला सा तुन्दिलफला मुनिः ॥ रज्नि_7.205
स्यात् त्रपुसीफलं रुच्यं मधुरं शिशिरं गुरु ।
भ्रमपित्तविदाहार्तिवान्तिहृद् बहुमूत्रदम् ॥ रज्नि_7.206
एर्वारुः कर्कटी प्रोक्ता व्यालपत्त्रा च लोमशा ।
स्थूला तोयफला चैव हस्तिदन्तफला मुनिः ॥ रज्नि_7.207
एर्वारुकं पित्तहरं सुशीतलं मूत्रामयघ्नं मधुरं रुचिप्रदम् ।
संतापमूर्छापहरं सुतृप्तिदं वातप्रकोपाय घनं तु सेवितम् ॥ रज्नि_7.208
अथ वालुकी बहुफला स्निग्धफला क्षेत्रकर्कटी क्षेत्ररुहा ।
मधुरफला शारदिका क्षुद्रेर्वारुश् च पीतपुष्पिका ॥ रज्नि_7.209
वालुकी मधुरा शीताध्मानहृच् च श्रमापहा ।
पित्तास्रशमनी रुच्या कुरुते कासपीनसौ ॥ रज्नि_7.210
वालुकानि च सर्वाणि दुर्जराणि गुरूणि च ।
मन्दानलं प्रकुर्वन्ति वातरक्तहराणि च ॥ रज्नि_7.211
स्याद् वालुकी शरदि वर्षजदोषकर्त्री हेमन्तजा तु खलु पित्तहरा च रुच्या ।
क्षिप्रं करोति खलु पीनसम् अर्धपक्वा पक्वा त्व् अतीव मधुरा कफकारिणी च ॥ रज्नि_7.212
चीनकर्कटिका ज्ञेया बीजकर्कटिका तथा ।
सुदीर्घा राजिलफला बाणैः कुलककर्कटी ॥ रज्नि_7.213
चीनकर्कटिका रुच्या शिशिरा पित्तनाशनी ।
मधुरा तृप्तिदा हृद्या दाहशोषापहारिणी ॥ रज्नि_7.214
स्यात् चिर्भिटा सुचित्रा चित्रफला क्षेत्रचिर्भिटा पाण्डुफला ।
पथ्या च रोचनफला चिर्भिटिका कर्कटिका ग्रहसंख्या ॥ रज्नि_7.215
बाल्ये तिक्ता चिर्भिटा किंचिद् अम्ला गौल्योपेता दीपनी सा च पाके ।
शुष्का रूक्षा श्लेष्मवातारुचिघ्नी जाड्यघ्नी सा रोचनी दीपनी च ॥ रज्नि_7.216
शशाण्डुली बहुफला तण्डुली क्षेत्रसम्भवा ।
क्षुद्राम्ला लोमशफला धूम्रवृत्तफला च सा ॥ रज्नि_7.217
शशाण्डुली तिक्तकटुश् च कोमला कट्वम्लयुक्ता जरठा कफापहा ।
पाके तु साम्ला मधुरा विदाहकृत् कफश् च शुष्का रुचिकृच् च दीपनी ॥ रज्नि_7.218
कुडुहुञ्ची श्रीफलिका प्रतिपत्त्रफला च सा ।
शुभ्रवी कारवी चैव प्रोक्ता बहुफला तथा ॥ रज्नि_7.219
क्षुद्रकारलिका प्रोक्ता ज्ञेया कन्दलता तथा ।
क्षुद्रादिकारवल्ली च प्रोक्ता सा च नवाह्वया ॥ रज्नि_7.220
कुडुहुञ्ची कटुर् उष्णा तिक्ता रुचिकारिणी च दीपनदा ।
रक्तानिलदोषकरी पथ्यापि च सा फले प्रोक्ता ॥ रज्नि_7.221
कारलीकन्दम् अर्शोघ्नं मलरोधविशोधनम् ।
योनिनिर्गतदोषघ्नं गर्भस्रावविषापहम् ॥ रज्नि_7.222
इति मूलकन्दफलपत्त्रसुन्दरक्रमनामतद्गुणनिरूपणोल्वणम् ।

अवलोक्य वर्गम् इमम् आमयोचिताम् अगदप्रयुक्तिम् अवबुध्यतां बुधः ॥ रज्नि_7.223
मन्दाग्निम् अरोचकिनं ये ऽपि शिलाम् आशयन्ति निजशक्त्या ।
तेषां शाकानाम् अयम् आश्रयभूः शाकवर्ग इति कथितः ॥ रज्नि_7.224
लब्धान्यो ऽन्यसहायवैद्यककुलाच् छङ्काकलङ्कापनुत् दस्रैक्यावतरो ऽयम् इत्य् अविरतं सन्तः प्रशंसन्ति यम् ।
तस्य श्रीनृहरेः कृताव् अवसितो यो मलकादिर् महान् वर्गो ऽसाव् अभिधानकोशपरिषच्चूडामणौ सप्तमः ॥ रज्नि_7.225
राजनिघण्टु, शाल्मल्यादिवर्ग
शाल्मली तस्य निर्यासो रोहितश् चैकवीरकः ।
पारिभद्रो ऽथ खदिरस् त्रिधारिः खादिरः स्मृतः ॥ रज्नि_8.1
शमीद्वयं च बर्बुरद्वितयं चारिमेदकः ।
पक्वाण्डेङ्गुदिका प्रोक्ता निष्पत्त्री च स्नुही द्विधा ॥ रज्नि_8.2
कन्थारिका त्रिधैरण्डो घोण्टा वल्लीकरञ्जकः ।
कारिका मदनस् त्रेधा बिल्वान्तरस् तरट्टिका ॥ रज्नि_8.3
श्रीवल्ली कुञ्जिका चैव रामकाण्डस् तथापरः ।
सयावनालौ द्विशरौ मुञ्जकाशी द्विधा कुशः ॥ रज्नि_8.4
वल्वजा कुतृणौ चाथ नलौ दूर्वा चतुर्विधा ।
कुन्दुरो भूतृणो ज्ञेय उखल इक्षुदर्भकः ॥ रज्नि_8.5
गोमूत्री शिल्पी निश्रेणी गर्मोटी मज्जरास् तथा ।
गिरिभूर् वंशपत्त्री च मन्थानः पल्लिवाहकः ॥ रज्नि_8.6
पटुतृणशुको ज्ञेयः त्रिपण्यान्धः त्रिगुण्डकः ।
कसेरुश् चणिका प्रोक्ता गुण्डाला शूलिका तथा ।
परिपेल्लं हिज्जुलं च सेवालं च शराङ्कधा ॥ रज्नि_8.7
शाल्मलिश् चिरजीवी स्यात् पिच्छिलो रक्तपुष्पकः ।
कुक्कुटी तूलवृक्षश् च मोचाख्यः कण्टकद्रुमः ॥ रज्नि_8.8
रक्तफलो रम्यपुष्पो बहुवीर्यो यमद्रुमः ।
दीर्घद्रुमः स्थूलफलो दीर्घायुस् तिथिभिर् मितः ॥ रज्नि_8.9
शाल्मली पिच्छिलो वृष्यो बल्यो मधुरशीतलः ।
कषायश् च लघुः स्निग्धः शुक्रश्लेष्मविवर्धनः ॥ रज्नि_8.10
तद्रसस् तद्गुणो ग्राही कषायः कफनाशनः ।
पुष्पं तद्वच् च निर्दिष्टं फलं तस्य तथाविधम् ॥ रज्नि_8.11
मोचरसो मोचस् तु मोचस्रावश् च मोचनिर्यासः ।
पिच्छिलसारः सुरसः शाल्मलिवेष्टश् च मोचसारश् च ॥ रज्नि_8.12
मोचरसस् तु कषायः कफवातहरो रसायनो योगात् ।
बलपुष्टिवर्णवीर्यप्रज्ञायुर्देहसिद्धिदो ग्राही ॥ रज्नि_8.13
रोहीतको रोहितकश् च रोहितः कुशाल्मलिर् दाडिमपुष्पसंज्ञकः ।
सदाप्रसूनः स च कूटशाल्मलिर् विरोचनः शाल्मलिको नवाह्वयः ॥ रज्नि_8.14
सप्ताह्वः श्वेतरोहितः सितपुष्पः सिताह्वयः ।
सिताङ्गः शुक्लरोहितो लक्ष्मीवान् जनवल्लभः ॥ रज्नि_8.15
रोहितकौ कटुस्निग्धौ कषायौ च सुशीतलौ ।
क्रिमिदोषव्रणप्लीहरक्तनेत्रामयापहौ ॥ रज्नि_8.16
एकवीरो महावीरः सकृद्वीरः सुवीरकः ।

एकादिवीरपर्यायैर् वीरश् चेति षडाह्वयः ॥ रज्नि_8.17
एकवीरो भवेच् चोष्णः कटुकस् तोदवातनुत् ।
गृध्रसीकटिपृष्ठादिशूलपक्षाभिघातनुत् ॥ रज्नि_8.18
अथ भवति पारिभद्रो मन्दारः पारिजातको निम्बतरुः ।
रक्तकुसुमः क्रिमिघ्नो बहुपुष्पो रक्तकेसरो वसवः ॥ रज्नि_8.19
पारिभद्रः कटूष्णः स्यात् कफवातनिकृन्तनः ।
अरोचकहरः पथ्यो दीपनश् चापि कीर्तितः ॥ रज्नि_8.20
खदिरो बालपत्त्रश् च खाद्यः पत्त्री क्षिती क्षमा ।
सुशल्यो वक्रकण्टश् च यज्ञाङ्गो दन्तधावनः ॥ रज्नि_8.21
गायत्री जिह्मशल्यश् च कण्टी सारद्रुमस् तथा ।
कुष्ठारिर् बहुसारश् च मेध्यः सप्तदशाह्वयः ॥ रज्नि_8.22
खदिरस् तु रसे तिक्तः शीतः पित्तकफापहः ।
पाचनः कुष्ठकासास्रशोफकण्डूव्रणापहः ॥ रज्नि_8.23
खदिरः श्वेतसारो ऽन्यः कार्मुकः कुब्जकण्टकः ।
सोमसारो नेमिवृक्षः सोमवल्कः पथिद्रुमः ॥ रज्नि_8.24
श्वेतस् तु खदिरस् तिक्तः कषायः कटुर् उष्णकः ।
कण्डूतिभूतकुष्ठघ्नः कफवातव्रणापहः ॥ रज्नि_8.25
स रक्तो रक्तसारश् च सुसारस् ताम्रकण्टकः ।
स प्रोक्तो बहुशल्यश् च याज्ञिकः कुष्ठतोदनः ।
यूपद्रुमो ऽस्रखदिरो ऽपरुश् च दशधा स्मृतः ॥ रज्नि_8.26
कटूष्णो रक्तखदिरः कषायो गुरुतिक्तकः ।
आमवातास्रवातघ्नो व्रणभूतज्वरापहः ॥ रज्नि_8.27
विट्खदिरः काम्भोजी कालस्कन्धश् च गोरटो मरुजः ।
पत्त्रतरुर् बहुसारः संसारः खादिरो ग्रहैर् महासारः ॥ रज्नि_8.28
विट्खदिरः कटुर् उष्णस् तिक्तो रक्तव्रणोत्थदोषहरः ।
कण्डूतिविषविसर्पज्वरकुष्ठोन्मादभूतघ्नः ॥ रज्नि_8.29
अरिः संदानिका दाला ज्ञेया खदिरपत्त्रिका ।
अरिः कषायकटुका तिक्ता रक्तार्तिपित्तनुत् ॥ रज्नि_8.30
खादिरः खदिरोद्भूतस् तत्सारो रङ्गदः स्मृतः ।
ज्ञेयः खदिरसारश् च तथा रङ्गः षडाह्वयः ॥ रज्नि_8.31
कटुकः खादिरः सारस् तिक्तोष्णः कफवातहृत् ।
व्रणकण्ठामयघ्नश् च रुचिकृद् दीपनः परः ॥ रज्नि_8.32
शमी शान्ता तुङ्गा कचरिपुफला केशमथनी शिवेशा नौर् लक्ष्मीस् तपनतनुनष्टा शुभकरी ।
हविर्गन्धा मेध्या दुरितशमनी शङ्कुफलिका सुभद्रा मङ्गल्या सुरभिर् अथ पापशमनी ॥ रज्नि_8.33
भद्राथ शंकरी ज्ञेया केशहन्त्री शिवाफला ।
सुपत्त्रा सुखदा चैव पञ्चविंशाभिधा मता ॥ रज्नि_8.34
शमी रूक्षा कषाया च रक्तपित्तातिसारजित् ।
तत्फलं तु गुरु स्वादु तिक्तोष्णं केशनाशनम् ॥ रज्नि_8.35
द्वितीया तु शमी शान्ता शुभा भद्रापराजिता ।
जया च विजया चैव पूर्वोक्तगुणसंयुता ॥ रज्नि_8.36

बर्बुरो युगलाक्षश् च कण्टालुस् तीक्ष्णकण्टकः ।
गोशृङ्गः पङ्क्तिबीजश् च दीर्घकण्टः कफान्तकः ।
दृढबीजः श्वासभक्ष्यो ज्ञेयश् चेति दशाह्वयः ॥ रज्नि_8.37
बर्बुरस् तु कषायोष्णः कफकासामयापहः ।
आमरक्तातिसारघ्नः पित्तदाहार्तिनाशनः ॥ रज्नि_8.38
जालबर्बुरकस् त्व् अन्यश् छत्त्राकः स्थूलकण्टकः ।
सूक्ष्मशाखस् तनुच्छायो रन्ध्रकण्टः षडाह्वयः ॥ रज्नि_8.39
जालबर्बुरको रूक्षो वातामयविनाशकृत् ।
पित्तकृच् च कषायोष्णः कफहृद् दाहकारकः ॥ रज्नि_8.40
इरिमेदो ऽरिमेदश् च गोधास्कन्धो ऽरिमेदकः ।
अहिमेदो ऽहिमारश् च शितमेदो ऽहिमेदकः ॥ रज्नि_8.41
अरिमेदः कषायोष्णस् तिक्तो भूतविनाशकः ।
शोफातिसारकासघ्नो विषवीसर्पनाशनः ॥ रज्नि_8.42
पक्वाण्डः पञ्चकृत् पञ्चवर्धनः पञ्चरक्षकः ।
दृष्ट्यञ्जनविधौ शस्तः कटुः जीर्णज्वरापहः ॥ रज्नि_8.43
इङ्गुदी हिङ्गुपत्त्रश् च विषकण्टो ऽनिलान्तकः ।
गौरस् तूक्तः सुपत्त्रश् च शूलारिस् तापसद्रुमः ॥ रज्नि_8.44
तीक्ष्णकण्टस् तैलफलः पूतिगन्धो विगन्धकः ।
ज्ञेयः क्रोष्टुफलश् चैव वह्नीन्दुगणिताह्वयः ॥ रज्नि_8.45
इङ्गुदी मदगन्धिः स्यात् कटूष्णा फेनिला लघुः ।
रसायनी हन्ति जन्तुवातामयकफव्रणान् ॥ रज्नि_8.46
निष्पत्त्रकः करीरश् च करीरग्रन्थिलस् तथा ।
कृकरो गूढपत्त्रश् च करकस् तीक्ष्णकण्टकः ॥ रज्नि_8.47
करीरम् आध्मानकरं कषायं कटूष्णम् एतत् कफकारि भूरि ।
श्वासानिलारोचकसर्वशूलविच्छर्दिखर्जूव्रणदोषहारि ॥ रज्नि_8.48
स्नुही सुधा महावृक्षः क्षीरी निस्त्रिंशपत्त्रिका ।
शाखाकण्टश् च गुण्डाख्यः सेहुण्डो वज्रकण्टकः ॥ रज्नि_8.49
बहुशाखो वज्रवृक्षो वातारिः क्षीरकाण्डकः ।
भद्रो व्याघ्रनखश् चैव नेत्रारिर् दण्डवृक्षकः ।
समन्तदुग्धो गण्डीरो ज्ञेयः स्नुक् चेति विंशतिः ॥ रज्नि_8.50
स्नुही चोष्णा पित्तदाहकुष्ठवातप्रमेहनुत् ।
क्षीरं वातविषाध्मानगुल्मोदरहरं परम् ॥ रज्नि_8.51
स्नुही चान्या त्रिधारा स्यात् तिस्रो धारास् तु यत्र सा ।
पूर्वोक्तगुणवत्य् एषा विशेषाद् रससिद्धिदा ॥ रज्नि_8.52
कन्थारी कथरी कन्था दुर्धर्षा तीक्ष्णकण्टका ।
तीक्ष्णगन्धा क्रूरगन्धा दुष्प्रवेशाष्टकाभिधा ॥ रज्नि_8.53
कन्थारी कटुतिक्तोष्णा कफवातनिकृन्तनी ।
शोफघ्नी दीपनी रुच्या रक्तग्रन्थिरुजापहा ॥ रज्नि_8.54
श्वेतैरण्डः सितैरण्डश् चित्रो गन्धर्वहस्तकः ।
आमण्डस् तरुणः शुक्लो वातारिर् दीर्घदण्डकः ।

मूल पाठ: Rājanighaṇṭu [also called Nighaṇṭurāja, or Abhidhānacūḍāmaṇi] · Edition: Calcutta 1933 : Siddheshvarayantra · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc