भाषा

ENहिગુ
ग्रंथ पाठ

राजनिघण्टु · भाग 2140

गोधापदी च हंसाङ्घ्रिर् धार्त्तराष्ट्रपदी तथा ।
हंसपादी च विज्ञेया नाम्ना चैषा शराक्षिधा ॥ रज्नि_4.112
हंसपादी कटूष्णा स्यात् विषभूतविनाशिनी ।
भ्रान्त्यपस्मारदोषघ्नी विज्ञेया च रसायनी ॥ रज्नि_4.113
काथरा हयपर्यायैः काथरान्तैः प्रकीर्तिता ।
अश्वकाथरिका तिक्ता वातघ्नी दीपनी परा ॥ रज्नि_4.114
पुनर्नवा विशाखश् च कठिल्लः शशिवाटिका ।
पृथ्वी च सितवर्षाभूर् दीर्घपत्रः कठिल्लकः ॥ रज्नि_4.115
श्वेता पुनर्नवा सोष्णा तिक्ता कफविषापहा ।
कासहृद्रोगशूलास्रपाण्डुशोफानिलार्तिनुत् ॥ रज्नि_4.116
पुनर्नवान्या रक्ताख्या क्रूरा मण्डलपत्रिका ।
रक्तकाण्डा वर्षकेतुर् लोहिता रक्तपत्रिका ॥ रज्नि_4.117
वैशाखी रक्तवर्षाभूः शोफघ्नी रक्तपुष्पिका ।
विकस्वरा विषघ्नी च प्रावृषेण्या च सारिणी ॥ रज्नि_4.118
वर्षाभवः शोणपत्रः शोणः संमीलितद्रुमः ।
पुनर्नवो नवो नव्यः स्याद् द्वाविंशतिसंज्ञया ॥ रज्नि_4.119
रक्ता पुनर्नवा तिक्ता सारिणी शोफनाशिनी ।
दरदोषघ्नी पाण्डुपित्तप्रमर्दिनी ॥ रज्नि_4.120
नीला पुनर्नवा नीला श्यामा नीलपुनर्नवा ।
कृष्णाख्या नीलवर्षाभूर् नीलिनी स्वाभिधान्विता ॥ रज्नि_4.121
नीला पुनर्नवा तिक्ता कटूष्णा च रसायनी ।
हृद्रोगपाण्डुश्वयथुश्वासवातकफापहा ॥ रज्नि_4.122
वसुको ऽथ वसुः शैवो वसो ऽथ शिवमल्लिका ।
पाशुपतः शिवमतः सुरेष्टः शिवशेखरः ।
सितो रक्तो द्विधा प्रोक्तो ज्ञेयः स च नवाभिधः ॥ रज्नि_4.123
वसुकौ कटुतिक्तोष्णौ पाके शीतौ च दीपनौ ।
अजीर्णवातगुल्मघ्नौ श्वेतश् चैव रसायनः ॥ रज्नि_4.124
सर्पिणी भुजगी भोगी कुण्डली पन्नगी फणी ।
षडभिधा सर्पिणी स्याद् विषघ्नी कुचवर्धनी ॥ रज्नि_4.125
वृश्चिका नखपर्णी च पिच्छिलाप्य् अलिपत्रिका ।
वृश्चिका पिच्छलाम्ला स्याद् अन्त्रवृद्ध्यादिदोषनुत् ॥ रज्नि_4.126
ब्राह्मी वयस्या मत्स्याक्षी मीनाक्षी सोमवल्लरी ।
मत्स्याक्षी शिशिरा रुच्या व्रणदोषक्षयापहा ॥ रज्नि_4.127
गुण्डाला तु जलोद्भूता गुच्छबुध्ना जलाशया ।
गुण्डाला कटुतिक्तोष्णा शोफव्रणविनाशनी ॥ रज्नि_4.128
भूपाटली च कुम्भी च भूताली रक्तपुष्पिका ।
भूपाटली कटूष्णा च पारदे सुप्रयोजिका ॥ रज्नि_4.129
पाटली पाण्डुरफली धूसरा वृत्तबीजका ।
भूरिफली तथा पाण्डुफली स्यात् षड्विधाभिधा ॥ रज्नि_4.130
शिशिरा पाण्डुरफली गौल्या कृच्छ्रार्तिदोषहा ।

बल्या पित्तहरा वृष्या मूत्राघातनिवारणी ॥ रज्नि_4.131
श्वेता तु छुरिकापत्री पर्वमूलाप्य् अविप्रिया ।
श्वेतातिमधुरा शीता स्तन्यदा रुचिकृत् परा ॥ रज्नि_4.132
ब्रह्मदण्ड्य् अजलादण्डी कण्टपत्रफला च सा ।
ब्रह्मदण्डी कटूष्णा स्यात् कफशोफानिलापहा ॥ रज्नि_4.133
द्रवन्ती शाम्बरी चित्रा न्यग्रोधी शतमूलिका ।
प्रत्यक्श्रेणी वृषा चण्डा पत्रश्रेण्य् आखुकर्णिका ॥ रज्नि_4.134
मूषकाह्वादिका कर्णी प्रतिपर्णीशिफा सा ।
सहस्रमूली विक्रान्ता ज्ञेया स्याच् चतुरेकधा ॥ रज्नि_4.135
द्रवन्ती मधुरा शीता रसबन्धकरी परा ।
ज्वरघ्नी क्रिमिहा शूलशमनी च रसायनी ॥ रज्नि_4.136
द्रोणपुष्पी दीर्घपत्रा कुम्भयोनिः कुतुम्बिका ।
चित्राक्षुपः कुतुम्बा च सुपुष्पा चित्रपत्त्रिका ॥ रज्नि_4.137
द्रोणपुष्पी कटुः सोष्णा रुच्या वातकफापहा ।
अग्निमान्द्यहरा चैव पथ्या वातापहारिणी ॥ रज्नि_4.138
अन्या चैव महाद्रोणा कुरुम्बा देवपूर्वका ।
दिव्यपुष्पा महाद्रोणी देवीकाण्डा षडाह्वया ॥ रज्नि_4.139
देवद्रोणी कटुस् तिक्ता मेध्या वातार्तिभूतनुत् ।
कफमान्द्यापहा चैव युक्त्या पारदशोधने ॥ रज्नि_4.140
झण्डूः स्यात् स्थूलपुष्पा तु झण्डूको झेण्डुकस् तथा ।
झण्डूः कटुकषायः स्यात् ज्वरभूतग्रहापहा ॥ रज्नि_4.141
गोरक्षदुग्धी गोरक्षी ताम्रदुग्धी रसायनी ।
बहुपत्रा मृताजीवी मृतसंजीवनी मुनिः ॥ रज्नि_4.142
गोरक्षदुग्धी मधुरा वृष्या सा ग्राहिणी हिमा ।
सर्ववश्यकरी चैव रसे सिद्धिगुणप्रदा ॥ रज्नि_4.143
इत्थं वितत्य विशदीक्रियमाणनानाक्षुद्रक्षुपाह्वयगुणप्रगुणापवर्गम् ।
वर्गं विधाय मुखमण्डनम् एनम् उच्चैर् उच्चाटनाय च रुजां प्रभुरस् तु वैद्यः क्षुधं रान्ति जनस्योच्चैस् तस्मात् क्षुद्राः प्रकीर्तिताः ।
तेषां क्षुपाणां वर्गो ऽयम् आदाने धातुर् उच्यते ॥ रज्नि_4.144
धत्ते नित्यसमाधिसंस्तववशात् प्रीत्यार्चितेशार्पितां स्वात्मीयामृतहस्ततां किल सदा यः सर्वसंजीवनीम् ।
वर्गस् तस्य कृतौ नृसिंहकृतिनो यः पर्पटादिमहान् एष प्राञ्चति नामकाण्डपरिषच्चूडामणौ पञ्चमः ॥ रज्नि_4.145
राजनिघण्टु, पिप्पल्यादिवर्ग
चतुर्धा पिप्पली प्रोक्ता तन्मूलं नागरं तथा ।
आर्द्रकं मरिचद्वन्द्वं धान्यकं च यवानिका ॥ रज्नि_5.1
चव्यं च चित्रकद्वन्द्वं विडङ्गं च वचाद्वयम् ।
कुलञ्जो जीरकाः पञ्च मेथिका हिङ्गुपत्रिका ॥ रज्नि_5.2
हिङ्गुद्वयं चाग्निजारौ रास्ने एलाद्वयं शिवम् ।
सौवर्चलं च काचाह्वं विडं च गडनामकम् ॥ रज्नि_5.3
सामुद्रं द्रौणिकं चान्यद् औषरं रोमकं तथा ।
नवधा लवणं प्रोक्तम् अजमोदा च रेणुका ॥ रज्नि_5.4
बोलं कर्चूरकः पाठा वृक्षाम्लश् चाम्लवेतसम् ।

कटुकातिविषा मुस्ता द्वयं यष्टीमधुद्वयम् ॥ रज्नि_5.5
भार्गी पुष्करमूलं च शृङ्ग्य् अथो दन्तिकाद्वयम् ।
जैपालश् च त्रिवृद् द्वेधा त्वक् पत्रं नागकेशरम् ॥ रज्नि_5.6
तवक्षीरं च तालीसपत्राख्यं वंशरोचना ।
मञ्जिष्ठा च चतुर्धा स्याद् धरिद्रे च द्विधा मते ॥ रज्नि_5.7
लाक्षा चालक्तको लोध्रो धातक्य् अब्धिफलं तथा ।
निर्विषाथ विषद्वन्द्वं द्विधा चाम्लहरिद्रका ॥ रज्नि_5.8
अब्धिफेनम् अफेनं च टङ्कणौ साकुरुण्डकम् ।
हिमावली हस्तिमदः स्वर्जिको लोणकं तथा ॥ रज्नि_5.9
वज्रको यवजश् चाथ सर्वक्षारो ऽथ मायिका ।
औषधान्य् अभिधीयन्ते षडङ्गमितसंख्यया ॥ रज्नि_5.10
पिप्पली कृकरा शौण्डी चपला मागधी कणा ।
कटुबीजा च कोरङ्गी वैदेही तिक्ततण्डुला ॥ रज्नि_5.11
श्यामा दन्तफला कृष्णा कोला च मगधोद्भवा ।
उषणा चोपकुल्या च स्मृत्याह्वा तीक्ष्णतण्डुला ॥ रज्नि_5.12
पिप्पली ज्वरहा वृष्या स्निग्धोष्णा कटुतिक्तका ।
दीपनी मारुतश्वासकासश्लेष्मक्षयापहा ॥ रज्नि_5.13
गजोषणा चव्यफला चव्यजा गजपिप्पली ।
श्रेयसी छिद्रवैदेही दीर्घग्रन्थिश् च तैजसी ।
वर्तुली स्थूलवैदेही ज्ञेया चेति दशाभिधा ॥ रज्नि_5.14
गजोषणा कटूष्णा च रूक्षा मलविशोषणी ।
बलासवातहन्त्री च स्तन्यवर्णविवर्धिनी ॥ रज्नि_5.15
सैंहली सर्पदण्डा च सर्पाङ्गी ब्रह्मभूमिजा ।
पार्वती शैलजा ताम्रा लम्बबीजा तथोत्कटा ॥ रज्नि_5.16
अद्रिजा सिंहलस्था च लम्बदन्ता च जीवला ।
जीवाली जीवनेत्रा च कुरवी षोडशाह्वया ॥ रज्नि_5.17
सैंहली कटुर् उष्णा च जन्तुघ्नी दीपनी परा ।
कफश्वाससमीरार्तिशमनी कोष्ठशोधनी ॥ रज्नि_5.18
वनादिपिप्पल्यभिधानयुक्तं सूक्ष्मादिपिप्पल्यभिधानम् एतत् ।
क्षुद्रादिपिप्पल्यभिधानयोग्यं वनाभिधापूर्वकणाभिधानम् ॥ रज्नि_5.19
वनपिप्पलिका चोष्णा तीक्ष्णा रुच्या च दीपनी ।
आमा भवेद् गुणाढ्या तु शुष्का स्वल्पगुणा स्मृता ॥ रज्नि_5.20
ग्रन्थिकं पिप्पलीमूलं मूलं तु चविकाशिरः ।
कोलमूलं कटुग्रन्थि कटुमूलं कटूषणम् ॥ रज्नि_5.21
सर्वग्रन्थि च पत्राढ्यं विरूपं शोणसम्भवम् ।
सुग्रन्थि ग्रन्थिलं चैव पर्यायाः स्युश् चतुर्दश ॥ रज्नि_5.22
कटूष्णं पिप्पलीमूलं श्लेष्मक्रिमिविनाशनम् ।
दीपनं वातरोगघ्नं रोचनं पित्तकोपनम् ॥ रज्नि_5.23
शुण्ठी महौषधं विश्वं नागरं विश्वभेषजम् ।
विश्वौषधं कटुग्रन्थि कटुभद्रं कटूषणम् ॥ रज्नि_5.24

सौपर्णं शृङ्गवेरं च कफारिश् चार्द्रकं स्मृतम् ।
शोषणं नागराह्वं च विज्ञेयं षोडशाह्वयम् ॥ रज्नि_5.25
शुण्ठी कटूष्णा स्निग्धा च कफशोफानिलापहा ।
शूलबन्धोदराध्मानश्वासश्लीपदहारिणी ॥ रज्नि_5.26
आर्द्रकं गुल्ममूलं च मूलजं कन्दलं वरम् ।
शृङ्गवेरं महीजं च सैकतेष्टम् अनूपजम् ॥ रज्नि_5.27
अपाकशाकं चार्द्राख्यं राहुच्छत्रं सुशाककम् ।
शार्ङ्गं स्याद् आर्द्रशाकं च सच्छाकम् ऋतुभूह्वयम् ॥ रज्नि_5.28
कटूष्णम् आर्द्रकं हृद्यं विपाके शीतलं लघु ।
दीपनं रुचिदं शोफकफकण्ठामयापहम् ॥ रज्नि_5.29
मरिचं पलितं श्यामं कोलं वल्लीजम् ऊषणम् ।
यवनेष्टं वृत्तफलं शाकाङ्गं धर्मपत्तनम् ॥ रज्नि_5.30
कटुकं च शिरोवृत्तं वीरं कफविरोधि च ।
रूक्षं सर्वहितं कृष्णं सप्तभूख्यं निरूपितम् ॥ रज्नि_5.31
मरिचं कटु तिक्तोष्णं लघु श्लेष्मविनाशनम् ।
समीरकृमिहृद्रोगहरं च रुचिकारकम् ॥ रज्नि_5.32
सितमरिचं तु सिताख्यं सितवल्लीजं च बालकं बहुलम् ।
धवलं चन्द्रकम् एतन् मुनिनाम गुणाधिकं च वश्यकरम् ॥ रज्नि_5.33
कटूष्णं श्वेतमरिचं विषघ्नं भूतनाशनम् ।
अवृष्यं दृष्टिरोगघ्नं युक्त्या चैव रसायनम् ॥ रज्नि_5.34
धान्यकं धान्यजं धान्यं धानेयं धनिकं तथा ।
कुस्तुम्बुरुश् चावलिका छत्रधान्यं वितुन्नकम् ॥ रज्नि_5.35
सुगन्धिः शाकयोग्यश् च सूक्ष्मपत्रो जनप्रियः ।
धान्यबीजो बीजधान्यं वेधकं षोडशाह्वयम् ॥ रज्नि_5.36
धान्यकं मधुरं शीतं कषायं पित्तनाशनम् ।
ज्वरकासतृषाच्छर्दिकफहारि च दीपनम् ॥ रज्नि_5.37
यवानी दीप्यको दीप्यो यवसाह्वो यवाग्रजः ।
दीपनी चोग्रगन्धा च वातारिर् भूकदम्बकः ॥ रज्नि_5.38
यवजो दीपनीयश् च शूलहन्त्री यवानिका ।
उग्रा च तीव्रगन्धा च ज्ञेया पञ्चदशाह्वया ॥ रज्नि_5.39
यवानी कटुतिक्तोष्णा वातार्शःश्लेष्मनाशनी ।
शूलाध्मानक्रिमिच्छर्दिमर्दनी दीपनी परा ॥ रज्नि_5.40
चव्यकं चविका चव्यं वशिरो गन्धनाकुली ।
वल्ली च कोलवल्ली च कोलं कुटलमस्तकम् ।
तीक्ष्णा करिणिका वल्ली कृकरो नेत्रभूह्वया ॥ रज्नि_5.41
चव्यं स्याद् उष्णकटुकं लघु रोचनदीपनम् ।
जन्तूद्रेकापहं कासश्वासशूलार्तिकृन्तनम् ॥ रज्नि_5.42
चित्रको ऽग्निश् च शार्दूलश् चित्रपाली कटुः शिखी ।
कृशानुर् दहनो व्यालो ज्योतिष्कः पालकस् तथा ॥ रज्नि_5.43
अनलो दारुणो वह्निः पावकः शबलस् तथा ।

पाठी द्वीपी च चित्राङ्गो ज्ञेयः शूरश् च विंशतिः ॥ रज्नि_5.44
चित्रको ऽग्निसमः पाके कटुः शोफकफापहः ।
वातोदरार्शोग्रहणीक्रिमिकण्डूतिनाशनः ॥ रज्नि_5.45
कालो व्यालः कालमूलो ऽतिदीप्यो मार्जारो ऽग्निर् दाहकः पावकश् च ।
चित्राङ्गो ऽयं रक्तचित्रो महाङ्गः स्याद् रुद्राह्वश् चित्रको ऽन्यो गुणाढ्यः ॥ रज्नि_5.46
स्थूलकायकरो रुच्यः कुष्ठघ्नो रक्तचित्रकः ।
रसे नियामको लोहे वेधकश् च रसायनः ॥ रज्नि_5.47
विडङ्गा क्रिमिहा चैत्रा तण्डुला तण्डुलीयका ।
वातारिस् तण्डुला प्रोक्ता जन्तुघ्नी मृगगामिनी ॥ रज्नि_5.48
कैरली गह्वरामोघा कपाली चित्रतण्डुला ।
वरा सुचित्रबीजा च जन्तुहन्त्री च षोडश ॥ रज्नि_5.49
विडङ्गा कटुर् उष्णा च लघुर् वातकफार्तिनुत् ।
अग्निमान्द्यारुचिभ्रान्तिक्रिमिदोषविनाशनी ॥ रज्नि_5.50
वचोग्रगन्धा गोलोमी जटिलोग्रा च लोमशा ।
रक्षोघ्नी विजया भद्रा मङ्गल्येति दशाह्वया ॥ रज्नि_5.51
वचा तीक्ष्णा कटूष्णा च कफामग्रन्थिशोफनुत् ।
वातज्वरातिसारघ्नी वान्तिकृन् मादनुत् ॥ रज्नि_5.52
मेध्या श्वेतवचा त्व् अन्या षड्ग्रन्था दीर्घपत्रिका ।
तीक्ष्णगन्धा हैमवती मङ्गल्या विजया च सा ॥ रज्नि_5.53
श्वेतवचातिगुणाढ्या मतिमेधायुःसमृद्धिदा कफनुत् ।
वृष्या च वातभूतक्रिमिदोषघ्नी च दीपनी च वचा ॥ रज्नि_5.54
कुलञ्जो गन्धमूलश् च तीक्ष्णमूलः कुलञ्जनः ।
कुलञ्जः कटुतिक्तोष्णो दीपनो मुखदोषनुत् ॥ रज्नि_5.55
जीरको जरणो जीरो जीर्णो दीप्यश् च दीपकः ।
अजाजिको वह्निशङ्खो मागधश् च नवाह्वयः ॥ रज्नि_5.56
जीरकः कटुर् उष्णश् च वातहृद् दीपनः परः ।
गुल्माध्मानातिसारघ्नो ग्रहणीक्रिमिहृत् परः ॥ रज्नि_5.57
गौरादिजीरकस् त्व् अन्यो ऽजाजी स्यात् श्वेतजीरकः ।
कणाह्वा कणजीर्णा च कणा दीप्यः सितादिकः ।
ज्ञेया दीर्घकणा चैव सिताजाजी दशाह्वया ॥ रज्नि_5.58
गौराजाजी हिमा रुच्या कटुर् मधुरदीपनी ।
क्रिमिघ्नी विषहन्त्री च चक्षुष्याध्माननाशिनी ॥ रज्नि_5.59
कृष्णा तु जरणा काली बहुगन्धा च भेदिनी ।
कटुभेदिनिका रुच्या नीला नीलकणा स्मृता ॥ रज्नि_5.60
काश्मीरजीरका वर्षा काली स्याद् दन्तशोधनी ।
कालमेषी सुगन्धा च विज्ञेया बाणभूह्वया ॥ रज्नि_5.61
जरणा कटुर् उष्णा च कफशोफनिकृन्तनी ।
रुच्या जीर्णज्वरघ्नी च चक्षुष्या ग्रहणीहरा ॥ रज्नि_5.62
दीप्योपकुञ्चिका काली पृथ्वी स्थूलकणा पृथुः ।
मनोज्ञा जरणी जीर्णा तरुणी स्थूलजीरकः ।

सुषवी कारवी ज्ञेया पृथ्वीका च चतुर्दश ॥ रज्नि_5.63
पृथ्वीका कटुतिक्तोष्णा वातगुल्मामदोषनुत् ।
श्लेष्माध्मानहरा जीर्णा जन्तुघ्नी दीपनी परा ॥ रज्नि_5.64
बृहत्पाली क्षुद्रपत्रो ऽरण्यजीरः कणा तथा ।
वनजीरः कटुः शीतो व्रणहा पञ्चनामकः ॥ रज्नि_5.65
जीरकाः कटुकाः पाके क्रिमिघ्ना वह्निदीपनाः ।
जीर्णज्वरहरा रुच्या व्रणहाध्माननाशनाः ॥ रज्नि_5.66
मेथिका मेथिनी मेथी दीपनी बहुपत्रिका ।
वेधनी गन्धबीजा च ज्योतिर्गन्धफला तथा ॥ रज्नि_5.67
वल्लरी चन्द्रिका मेथा मिश्रपुष्पा च कैरवी ।
कुञ्चिका बहुपर्णी च पीतबीजा मुनीन्दुधा ॥ रज्नि_5.68
मेथिका कटुर् उष्णा च रक्तपित्तप्रकोपणी ।
अरोचकहरा दीप्तिकरा वातघ्नदीपनी ॥ रज्नि_5.69
पृथ्वीका हिङ्गुपत्री च कवरी दीर्घिका पृथुः ।
तन्वी च दारुपत्री च बिल्वी बाष्पी नवाह्वया ॥ रज्नि_5.70
हिङ्गुपत्री कटुस् तीक्ष्णा तिक्तोष्णा कफवातनुत् ।
आमक्रिमिहरा रुच्या पथ्या दीपनपाचनी ॥ रज्नि_5.71
हिङ्गूग्रगन्धं भूतारिर् वाह्लीकं जन्तुनाशनम् ।
शूलगुल्मादिरक्षोघ्नम् उग्रवीर्यं च रामठम् ॥ रज्नि_5.72
अगूढगन्धं जरणं भेदनं सूपधूपनम् ।
दीप्तं सहस्रवेधीति ज्ञेयं पञ्चदशाभिधम् ॥ रज्नि_5.73
हृद्यं हिङ्गु कटूष्णं च क्रिमिवातकफापहम् ।
विबन्धाध्मानशूलघ्नं चक्षुष्यं गुल्मनाशनम् ॥ रज्नि_5.74
नाडीहिङ्गुः पलाशाख्या जन्तुका रामठी च सा ।
वंशपत्री च पिण्डाह्वा सुवीर्या हिङ्गुनाडिका ॥ रज्नि_5.75
नाडीहिङ्गुः कटूष्णा च कफवातार्तिशान्तिकृत् ।
विष्ठाविबन्धदोषघ्नम् आनाहामयहारि च ॥ रज्नि_5.76
अग्निजारो ऽग्निनिर्यासो ऽप्य् अग्निगर्भो ऽग्निजः स्मृतः ।
वडवाग्निमलो ज्ञेयो जरायुश् चाग्निसम्भवः ॥ रज्नि_5.77
स्याद् अग्निजारः कटुर् उष्णवीर्यस् तुण्डामयो वातकफापहश् च ।
पित्तप्रदः सो ऽधिकसंनिपातशूलार्तिशीतामयनाशकश् च ॥ रज्नि_5.78
जाराभो दहनस्पर्शी पिच्छिलः सागरे भवः ।
जरायुस् तच् चतुर्वर्णः तेषु श्रेष्ठः सलोहितः ॥ रज्नि_5.79
रास्ना युक्तरसा रम्या श्रेयसी रसना रसा ।
सुगन्धिमूला सुरसा रसाढ्यातिरसा दश ॥ रज्नि_5.80
रास्ना तु त्रिविधा प्रोक्ता पत्रं तृणं तथा ।
ज्ञेये दले श्रेष्ठे तृणरास्ना च मध्यमा ॥ रज्नि_5.81
रास्ना गुरुश् च तिक्तोष्णा विषवातास्रकासजित् ।
शोफकम्पोदरश्लेष्मशमनी पाचनी च सा ॥ रज्नि_5.82
स्थूलैला बृहदेला त्रिपुटा त्रिदिवोद्भवा च भद्रैला ।

सुरभित्वक् च महैला पृथ्वी कन्या कुमारिका चैन्द्री ॥ रज्नि_5.83
कायस्था गोपुटा कान्ता घृताची गर्भसम्भवा ।
इन्द्राणी दिव्यगन्धा च विज्ञेयाष्टादशाह्वया ॥ रज्नि_5.84
एला बहुलगन्धैन्द्री द्राविडी निष्कुटिस् त्रुटिः ।
कपोतवर्णी गौराङ्गी बाला बलवती हिमा ॥ रज्नि_5.85
चन्द्रिका चोपकुञ्ची च सूक्ष्मा सागरगामिनी ।
गर्भारिर् गन्धफलिका कायस्थाष्टादशाह्वया ॥ रज्नि_5.86
एलाद्वयं शीतलतिक्तम् उक्तं सुगन्धि पित्तार्तिकफापहारि ।
करोति हृद्रोगमलार्तिवस्तिशूलघ्नम् अत्र स्थविरा गुणाढ्या ॥ रज्नि_5.87
सैन्धवं स्याच् छीतशिवं नादेयं सिन्धुजं शिवम् ।
शुद्धं शिवात्मजं पथ्यं मणिमन्थं नवाभिधम् ॥ रज्नि_5.88
सैन्धवं लवणं वृष्यं चक्षुष्यं रुचिदीपनम् ।
त्रिदोषशमनं पूतं व्रणदोषविबन्धजित् ॥ रज्नि_5.89
सैन्धवं द्विविधं ज्ञेयं श्वेतं रक्तम् इति क्रमात् ।
रसवीर्यविपाकेषु गुणाढ्यं नूतनं शिवम् ॥ रज्नि_5.90
सौवर्चलं तु रुचकं तिलकं हृद्यगन्धकम् ।
अक्षं च कृष्णलवणं रुच्यं कौद्रविकं तथा ॥ रज्नि_5.91
सौवर्चलं लघु क्षारं कटूष्णं गुल्मजन्तुजित् ।
ऊर्ध्ववातामशूलार्तिविबन्धारोचकान् जयेत् ॥ रज्नि_5.92
नीलं काचोद्भवं काचं तिलकं काचसम्भवम् ।
काचसौवर्चलं कृष्णलवणं पाक्यजं स्मृतम् ॥ रज्नि_5.93
काचोत्थं हृद्यगन्धं च तत् काललवणं तथा ।
कुरुविन्दं काचमलं कृत्रिमं च चतुर्दश ॥ रज्नि_5.94
काचादिलवणं रुच्यम् ईषत् क्षारं च पित्तलम् ।
दाहकं कफवातघ्नं दीपनं गुल्मशूलहृत् ॥ रज्नि_5.95
विडं द्राविडकं खण्डं कृतकं क्षारम् आसुरम् ।
सुपाक्यं खण्डलवणं धूर्तं कृत्रिमकं दश ॥ रज्नि_5.96
विडम् उष्णं च लवणं दीपनं वातनाशनम् ।
रुच्यं चाजीर्णशूलघ्नं गुल्ममेहविनाशनम् ॥ रज्नि_5.97
गाढादिलवणं शुभ्रं पृथ्वीजं गडदेशजम् ।
गडोत्थं च महारम्भं साम्भरं सम्भरोद्भवम् ॥ रज्नि_5.98
गडोत्थं तूष्णलवणम् ईषद् अम्लं मलापहम् ।
दीपनं कफवातघ्नम् अर्शोघ्नं कोष्ठशोधनम् ॥ रज्नि_5.99
सामुद्रकं तु सामुद्रं समुद्रलवणं शिवम् ।
वंशिरं सागरोत्थं च शिशिरं लवणाब्धिजम् ॥ रज्नि_5.100
सामुद्रं लघु हृद्यं च पलितास्रदपित्तदम् ।
विदाहि कफवातघ्नं दीपनं रुचिकृत् परम् ॥ रज्नि_5.101
द्रौणेयं वार्धेयं द्रोणीजं वारिजं च वार्धिभवम् ।
द्रोणीलवणं द्रोणं त्रिकटुलवणं च वसुसंज्ञम् ॥ रज्नि_5.102
द्रौणेयं लवणं पाके नात्युष्णम् अविदाहि च ।

भेदनं स्निग्धम् ईषच् च शूलघ्नं चाल्पपित्तलम् ॥ रज्नि_5.103
औषरकं सार्वगुणं सार्वरसं सर्वलवणम् ऊषरजम् ।
साम्भारं बहुलवणं मेलकलवणं च मिश्रकं नवधा ॥ रज्नि_5.104
औषरं तु कटु क्षारं तिक्तं वातकफापहम् ।
विदाहि पित्तकृद् ग्राहि मूत्रसंशोषकारि च ॥ रज्नि_5.105
रोमकम् औद्भिदम् उक्तं वसुकं वसु पांशुलवणम् ऊषरजम् ।
पांशवम् औषरम् ऐरिणम् और्वं सार्वसहं रुद्रैः ॥ रज्नि_5.106
रोमकं तीक्ष्णमत्युष्णं कटु तिक्तं च दीपनम् ।
दाहशोषकरं ग्राहि पित्तकोपकरं परम् ॥ रज्नि_5.107
अजमोदा खराह्वा च बस्तमोदा च मर्कटी ।
मोदा गन्धदला हस्तिकारवी गन्धपत्रिका ॥ रज्नि_5.108
मायूरी शिखिमोदा च मोदाढ्या वह्निदीपिका ।
ब्रह्मकोशी विशाली च हृद्यगन्धोग्रगन्धिका ।
मोदिनी फलमुख्या च वसुचन्द्राभिधा मता ॥ रज्नि_5.109
अजमोदा कटुर् उष्णा रूक्षा कफवातहारिणी रुचिकृत् ।
शूलाध्मानारोचकजठरामयनाशनी चैव ॥ रज्नि_5.110
रेणुका कपिला कान्ता नन्दिनी महिला द्विजा ।
राजपुत्री हिमा रेणुः पाण्डुपत्री हरेणुका ॥ रज्नि_5.111
सुपर्णी शिशिरा शान्ता कौन्ती वृत्ता च धर्मिणी ।
कपिलोमा हैमवती पाण्डुपत्री च विंशतिः ॥ रज्नि_5.112
रेणुका तु कटुः शीता खर्जूकण्डूतिहारिणी ।
तृष्णादाहविषघ्नी च मुखवैमल्यकारिणी ॥ रज्नि_5.113
बोलं रक्तापहं मुण्डं सुरसं पिण्डकं विषम् ।
निर्लोहं बर्बरं पिण्डं सौरभं रक्तगन्धकम् ॥ रज्नि_5.114
रसगन्धं महागन्धं विश्वं च शुभगन्धकम् ।
विश्वगन्धं गन्धरसं व्रणारिर् वसुभूह्वयम् ॥ रज्नि_5.115
बोलं तु कटुतिक्तोष्णं कषायं रक्तदोषनुत् ।
कफपित्तामयान् हन्ति प्रदरादिरुजापहम् ॥ रज्नि_5.116
कर्चूरो द्राविडः कार्शो दुर्लभो गन्धमूलकः ।
वेधमुख्यो गन्धसारो जटिलश् चाष्टनामकः ॥ रज्नि_5.117
कर्चूरः कटुतिक्तोष्णः कफकासविनाशनः ।
मुखवैशद्यजननो गलगण्डादिदोषनुत् ॥ रज्नि_5.118
पाठाम्बष्ठाम्बष्ठिका स्यात् प्राचीना पापचेलिका ।
पाठिका स्थापनी चैव श्रेयसी वृद्धिकर्णिका ॥ रज्नि_5.119
एकाष्ठीला कुचैली च दीपनी वरतिक्तका ।
तिक्तपुष्पा बृहत्तिक्ता दीपनी त्रिशिरा वृकी ।
मालवी च वरा देवी वृत्तपर्णी द्विदृङ्मिता ॥ रज्नि_5.120
पाठा तिक्ता गुरूष्णा च वातपित्तज्वरापहा ।
भग्नसन्धानकृत् पित्तदाहातीसारशूलहृत् ॥ रज्नि_5.121
वृक्षाम्लम् अम्लशाकं स्याच् चुक्राम्लं तित्तिडीफलम् ।

शाकाम्लम् अम्लपूरं च पूराम्लं रक्तपूरकम् ॥ रज्नि_5.122
चूडाम्लबीजाम्लफलाम्लकं स्याद् अम्लादिवृक्षाम्लफलं रसाम्लम् ।
श्रेष्ठाम्लम् अत्यम्लम् अथाम्लबीजं फलं च चुक्रादि नगेन्दुसंख्यम् ॥ रज्नि_5.123
वृक्षाम्लम् अम्लं कटुकं कषायं सोष्णं कफार्शोघ्नम् उदीरयन्ति ।
तृष्णासमीरोदरहृद्गदादिगुल्मातीसारव्रणदोषनाशि ॥ रज्नि_5.124
अम्लो ऽम्लवेतसो वेधी रसाम्लो वीरवेतसः ।
वेतसाम्लश् चाम्लसारः शतवेधी च वेधकः ॥ रज्नि_5.125
भीमश् च भेदनो भेदी राजाम्लश् चाम्लभेदनः ।
अम्लाङ्कुशो रक्तसारः फलाम्लश् चाम्लनायकः ॥ रज्नि_5.126
सहस्रवेधी वीराम्लो गुल्मकेतुर् धराक्षिधा ।
शङ्खमांसादिद्रावी स्याद् द्विधा चैवाम्लवेतसः ॥ रज्नि_5.127
अम्लवेतसम् अत्यम्लं कषायोष्णं च वातजित् ।
कफार्शःश्रमगुल्मघ्नम् अरोचकहरं परम् ॥ रज्नि_5.128
कटुका जननी तिक्ता रोहिणी तिक्तरोहिणी ।
चक्राङ्गी मत्स्यपित्ता च बकुला शुकुलादनी ॥ रज्नि_5.129
सादनी शतपर्वा स्यात् चक्राङ्गी मत्स्यभेदिनी ।
अशोकरोहिणी कृष्णा कृष्णमेदा महौषधी ॥ रज्नि_5.130
कट्व्य् अञ्जनी काण्डरुहा कटुश् च कटुरोहिणी ।
केदारकटुकारिष्टाप्य् आमघ्नी पञ्चविंशतिः ॥ रज्नि_5.131
कटुकातिकटुस् तिक्ता शीतपित्तास्रदोषजित् ।
बलासारोचकश्वासज्वरहृद् रेचनी च सा ॥ रज्नि_5.132
अतिविषा श्वेतकन्दा विश्वा शृङ्गी च भङ्गुरा ।
विरूपा श्यामकन्दा च विश्वरूपा महौषधी ॥ रज्नि_5.133
वीरा प्रतिविषा चान्द्री विषा श्वेतवचा स्मृता ।
अरुणोपविषा चैव ज्ञेया षोडशसम्मिता ॥ रज्नि_5.134
कटूष्णातिविषा तिक्ता कफपित्तज्वरापहा ।
आमातीसारकासघ्नी विषच्छर्दिविनाशनी ॥ रज्नि_5.135
त्रिविधातिविषा ज्ञेया शुक्ला कृष्णा तथारुणा ।
रसवीर्यविपाकेषु निर्विशेषगुणा च सा ॥ रज्नि_5.136
दोलायां गोमयक्वाथे पचेद् अतिविषां ततः ।
सूर्यतापे भवेच् छुष्का योजयेत् तां भिषग्वरः ॥ रज्नि_5.137
मुस्ताभद्रावारिदाम्भोदमेघा जीमूतो ऽब्दो नीरदो ऽब्भ्रं घनश् च ।
गाङ्गेयं स्याद् भद्रमुस्ता वराही गुञ्जा ग्रन्थिर् भद्रकासी कसेरुः ॥ रज्नि_5.138
क्रोडेष्टा कुरुविन्दाख्या सुगन्धिर् ग्रन्थिला हिमा ।
वन्या राजकसेरुश् च कच्छोत्था पञ्चविंशतिः ॥ रज्नि_5.139
भद्रमुस्ता कषाया च तिक्ता शीता च पाचनी ।
पित्तज्वरकफघ्नी च ज्ञेया सङ्ग्रहणी च सा ॥ रज्नि_5.140
अपरा नागरमुस्ता नागरोत्था नागरादिघनसंज्ञा ।
चक्राङ्का नादेयी चूडाला पिण्डमुस्ता च ॥ रज्नि_5.141
शिशिरा च वृषध्वाङ्क्षी कच्छरुहा चारुकेसरोच्चटा ।

सा पूर्णकोष्ठसंज्ञा कलापिनी सागरेन्दुमिता ॥ रज्नि_5.142
तिक्ता नागरमुस्ता कटुः कषाया च शीतला कफनुत् ।
पित्तज्वरातिसारारुचितृष्णादाहनाशनी श्रमहृत् ॥ रज्नि_5.143
यष्टीमधुर् मधुयष्टी मधुवल्ली मधुस्रवा ।
मधुकं मधुका यष्टी यष्ट्याह्वं वसुसंमितम् ॥ रज्नि_5.144
मधुरं यष्टिमधुकं किंचित् तिक्तं च शीतलम् ।
चक्षुष्यं पित्तहृद् रुच्यं शोषतृष्णाव्रणापहम् ॥ रज्नि_5.145
अन्यत् क्लीतनम् उक्तं क्लीतनकं क्लीतनीयकं मधुकम् ।
मधुवल्ली च मधूली मधुरलता मधुरसातिरसा ॥ रज्नि_5.146
शोषापहा च सौम्या स्थलजा जलजा च सा द्विधाभूता ।
सामान्येन मतेयम् एकादशसंज्ञा बहुज्ञधिया ॥ रज्नि_5.147
क्लीतनं मधुरं रुच्यं बल्यं वृष्यं व्रणापहम् ।
शीतलं गुरु चक्षुष्यम् अस्रपित्तापहं परम् ॥ रज्नि_5.148
भार्ङ्गी गर्दभिशाकश् च फञ्जी चाङ्गारवल्लरी ।
वर्षा ब्राह्मणयष्टिश् च बर्बरो भृङ्गजा च सा ॥ रज्नि_5.149
पद्मा यष्टिश् च भारङ्गी वातारिः कासजित् परम् ।
सुरूपा भ्रमरेष्टा च शक्रमाता च षोडश ॥ रज्नि_5.150
भार्ङ्गी तु कटुतिक्तोष्णा कासश्वासविनाशनी ।
शोफव्रणक्रिमिघ्नी च दाहज्वरनिवारिणी ॥ रज्नि_5.151
मूलं पुष्करमूलं च पुष्करं पद्मपत्रकम् ।
पद्मं पुष्करजं बीजं पौष्करं पुष्कराह्वयम् ॥ रज्नि_5.152
काश्मीरं ब्रह्मतीर्थं च श्वासारिर् मूलपुष्करम् ।
ज्ञेयं पञ्चदशाह्वं च पुष्कराद्ये जटाशिफे ॥ रज्नि_5.153
पुष्करं कटुतिक्तोष्णं कफवातज्वरापहम् ।
श्वासारोचककासघ्नं शोफघ्नं पाण्डुनाशनम् ॥ रज्नि_5.154
शृङ्गी कुलीरशृङ्गी स्यात् घोषा च वनमूर्धजा ।
चन्द्रा कर्कटशृङ्गी च महाघोषा च शृङ्गिका ॥ रज्नि_5.155
कालिका चेन्दुखण्डा च लताङ्गी च विषाणिका ।
चक्रा च शिखरं चैव कर्कटाह्वा त्रिपञ्चधा ॥ रज्नि_5.156
तिक्ता कर्कटशृङ्गी तु गुरुर् उष्णानिलापहा ।
हिक्कातीसारकासघ्नी श्वासपित्तास्रनाशनी ॥ रज्नि_5.157
दन्ती शीघ्रा श्येनघण्टा निकुम्भी नागस्फोता दन्तिनी चोपचित्रा ।
भद्रा रूक्षा रोचनी चानुकूला निःशल्या स्याद् वक्रदन्ता विशल्या ॥ रज्नि_5.158
मधुपुष्पैरण्डफला भद्राण्य् एरण्डपत्रिका ।
उदुम्बरदला चैव तरुणी चाणुरेवती ।
विशोधनी च कुम्भी च ज्ञेया चाग्निकराह्वया ॥ रज्नि_5.159
दन्ती कटूष्णा शूलामत्वग्दोषशमनी च सा ।
अर्शोव्रणाश्मरीशल्यशोधनी दीपनी परा ॥ रज्नि_5.160
अन्या दन्ती केशरुहा विषभद्रा जयावहा ।
आवर्तकी वराङ्गी च जयाह्वा भद्रदन्तिका ॥ रज्नि_5.161

अन्या दन्ती कटूष्णा च रेचनी क्रिमिहा परा ।
शूलकुष्ठामदोषघ्नी त्वगामयविनाशनी ॥ रज्नि_5.162
रेचको जयपालश् च सारकस् तित्तिरीफलम् ।
दन्तीबीजं मलद्रावि ज्ञेयं स्याद् बीजरेचनी ॥ रज्नि_5.163
कुम्भीबीजं कुम्भिनीबीजसंज्ञं घण्टाबीजं दन्तिनीबीजम् उक्तम् ।
बीजान्ताख्यं शोधनी चक्रदन्त्यो वेदेन्द्वाख्यं तन्निकुम्भ्याश् च बीजम् ॥ रज्नि_5.164
जैपालः कटुर् उष्णश् च क्रिमिहारी विरेचनः ।
दीपनः कफवातघ्नो जठरामयशोधनः ॥ रज्नि_5.165
उक्ता त्रिवृन् मालविका मसूरा श्यामार्धचन्द्रा विदला सुषेणी ।
कालिन्दिका सैव तु कालमेषी काली त्रिवेलावनिचन्द्रसंज्ञा ॥ रज्नि_5.166
त्रिवृत् तिक्ता कटूष्णा च क्रिमिश्लेष्मोदरार्तिजित् ।
कुष्ठकण्डूव्रणान् हन्ति प्रशस्ता च विरेचने ॥ रज्नि_5.167
रक्तान्यापि च कालिन्दी त्रिपुटा ताम्रपुष्पिका ।
कुलवर्णा मसूरी चाप्य् अमृता काकनासिका ॥ रज्नि_5.168
रक्ता त्रिवृद् रसे तिक्ता कटूष्णा रेचनी च सा ।
ग्रहणीमलविष्टम्भहारिणी हितकारिणी ॥ रज्नि_5.169
त्वचं त्वग्वल्कलं भृङ्गं वराङ्गं मुखशोधनम् ।
शकलं सैंहलं वन्यं सुरसं रामवल्लभम् ॥ रज्नि_5.170
उत्कटं बहुगन्धं च विज्जुलं च वनप्रियम् ।
लाटपर्णं गन्धवल्कं वरं शीतं ग्रहक्षिती ॥ रज्नि_5.171
त्वचं तु कटुकं शीतं कफकासविनाशनम् ।
शुक्रामशमनं चैव कण्ठशुद्धिकरं लघु ॥ रज्नि_5.172
पत्रं तमालपत्रं च पत्रकं छदनं दलम् ।
पलाशम् अंशुकं वासस् तापसं सुकुमारकम् ॥ रज्नि_5.173
वस्त्रं तमालकं रामं गोपनं वसनं तथा ।
तमालं सुरभिगन्धं ज्ञेयं सप्तदशाह्वयम् ॥ रज्नि_5.174
पत्रकं लघु तिक्तोष्णं कफवातविषापहम् ।
वस्तिकण्डूतिदोषघ्नं मुखमस्तकशोधनम् ॥ रज्नि_5.175
किञ्जल्कं कनकाह्वं च केसरं नागकेशरम् ।
चाम्पेयं नागकिञ्जल्कं नागीयं काञ्चनं तथा ॥ रज्नि_5.176
सुवर्णं हेमकिञ्जल्कं रुक्मं हेमं च पिञ्जरम् ।
फणिपुन्नागयोगादि केसरं पञ्चभूह्वयम् ॥ रज्नि_5.177
नागकेशरम् अल्पोष्णं लघु तिक्तं कफापहम् ।
वस्तिवातामयघ्नं च कण्ठशीर्षरुजापहम् ॥ रज्नि_5.178
तवक्षीरं पयःक्षीरं यवजं गवयोद्भवम् ।
अन्यद् गोधूमजं चान्यत् पिष्टिकातण्डुलोद्भवम् ॥ रज्नि_5.179
अन्यच् च तालसम्भूतं तालक्षीरादिनामकम् ।
वनगोक्षीरजं श्रेष्ठम् अभावे ऽन्यद् उदीरितम् ॥ रज्नि_5.180
तवक्षीरं तु मधुरं शिशिरं दाहपित्तनुत् ।
क्षयकासकफश्वासनाशनं चास्रदोषनुत् ॥ रज्नि_5.181

तालीसपत्रं तालीशं पत्राख्यं च शुकोदरम् ।
धात्रीपत्त्रं चार्कवेधं करिपत्रं घनच्छदम् ॥ रज्नि_5.182
नीलं नीलाम्बरं तालं तालीपत्रं तलाह्वयम् ।
तालीसपत्रकस्येति नामान्य् आहुस् त्रयोदश ॥ रज्नि_5.183
तालीसपत्रं तिक्तोष्णं मधुरं कफवातनुत् ।
कासहिक्काक्षयश्वासच्छर्दिदोषविनाशकृत् ॥ रज्नि_5.184
स्याद् वंशरोचना वांशी तुङ्गक्षीरी तुगा शुभा ।
त्वक्क्षीरी वंशगा शुक्रा वंशक्षीरी च वैणवी ॥ रज्नि_5.185
त्वक्सारा कर्मरी श्वेतावंशकर्पूररोचने ।
तुङ्गा रोचनिका पिङ्गा नवेन्दुर् वंशशर्करा ॥ रज्नि_5.186
स्याद् वंशरोचना रूक्षा कषाया मधुरा हिमा ।
रक्तशुद्धिकरी तापपित्तोद्रेकहरा शुभा ॥ रज्नि_5.187
तवक्षीरे यवक्षीरे क्षीरे जातं गुणोत्तरम् ।
वंशक्षीरीसमं प्रोक्तं तदभावे ऽन्यवस्तुजम् ॥ रज्नि_5.188
गवयक्षीरजं क्षीरं सुस्निग्धं शीतलं लघु ।
सुगन्धि द्रावकं शुभ्रम् अन्यत् स्वल्पगुणं स्मृतम् ॥ रज्नि_5.189
मञ्जिष्ठा हरिणी रक्ता गौरी योजनवल्लिका ।
समङ्गा विकसा पद्मा रोहिणी कालमेषिका ॥ रज्नि_5.190
भण्डी चित्रलता चित्रा चित्राङ्गी जननी च सा ।
मण्डूकपर्णी विजया मञ्जूषा रक्तयष्टिका ॥ रज्नि_5.191
क्षेत्रिणी चैव रागाढ्या भण्डीरी कालभाण्डिका ।
अरुणा ज्वरहन्त्री च छद्मा नागकुमारिका ॥ रज्नि_5.192
भाण्डीरलतिका चैव रागाङ्गी वस्त्रभूषणा ।
त्रिंशाह्वया तथा प्रोक्ता मञ्जिष्ठा च भिषग्वरैः ॥ रज्नि_5.193
मञ्जिष्ठा मधुरा स्वादे कषायोष्णा गुरुस् तथा ।
व्रणमेहज्वरश्लेष्मविषनेत्रामयापहा ॥ रज्नि_5.194
चोलश् च योजनी कौञ्जी सिंहिली च चतुर्विधा ।
मञ्जिष्ठा चैव सा प्रोक्ता विलोमे चोत्तमोत्तमा ॥ रज्नि_5.195
हरिद्रा हरिद्रञ्जनी स्वर्णवर्णा सुवर्णा शिवा वर्णिनी दीर्घरागा ।
हरिद्री च पीता वराङ्गी च गौरी जनिष्ठा वरा वर्णदात्री पवित्रा ॥ रज्नि_5.196
हरिता रजनीनाम्नी विषघ्नी वरवर्णिनी ।
पिङ्गला वर्णदा चैव मङ्गल्या मङ्गला च सा ॥ रज्नि_5.197
लक्ष्मी भद्रा शिफा शोफा शोभना सुभगाह्वया ।
श्यामा जयन्तिका द्वे च त्रिंशन्नामविलासिनी ॥ रज्नि_5.198
हरिद्रा कटुतिक्तोष्णा कफवातास्रकुष्ठनुत् ।
मेहकण्डूव्रणान् हन्ति देहवर्णविधायिनी ॥ रज्नि_5.199
अन्या दारुहरिद्रा च दार्वी पीतद्रु पीतिका ।
कालेयकं पीतदारु स्थिररागा च कामिनी ॥ रज्नि_5.200
कटङ्कटेरी पर्जन्या पीता दारुनिशा स्मृता ।
कालीयकं कामवती दारुपीता पचम्पचा ।

स्यात् कर्कटकिनी ज्ञेया प्रोक्ता सप्तदशाह्वया ॥ रज्नि_5.201
तिक्ता दारुहरिद्रा तु कटूष्णा व्रणमेहनुत् ।
कण्डूविसर्पत्वग्दोषविषकर्णाक्षिदोषहा ॥ रज्नि_5.202
लाक्षा खदिरका रक्ता रङ्गमाता पलङ्कषा ।
जतु च क्रिमिजा चैव द्रुमव्याधिर् अलक्तकः ॥ रज्नि_5.203
पलाशी मुद्रणी दीप्तिर् जन्तुका गन्धमादनी ।
नीला द्रवरसा चैव पित्तारिर् मुनिभूह्वया ॥ रज्नि_5.204
लाक्षा तिक्तकषाया स्यात् श्लेष्मपित्तार्तिदोषनुत् ।
विषरक्तप्रशमनी विषमज्वरनाशनी ॥ रज्नि_5.205
अलक्तको जन्तुरसो रागो निर्भर्त्सनस् तथा ।
जननी जन्तुकारी च संधर्षा चक्रमर्दिनी ॥ रज्नि_5.206
अलक्तकः सुतिक्तोष्णः कफवातामयापहः ।
कण्ठरुक्शमनो रुच्यो व्रणदोषार्तिनाशनः ॥ रज्नि_5.207
लोध्रो रोध्रो भिल्लतरुश् चिल्लकः काण्डकीलकः ।
तिरीटो लोध्रको वृक्षः शम्बरो हस्तिरोध्रकः ॥ रज्नि_5.208
तिल्वकः काण्डहीनश् च शावरो हेमपुष्पकः ।
भिल्ली शावरकश् चैव ज्ञेयः पञ्चदशाह्वयः ॥ रज्नि_5.209
क्रमुकः पट्टिकारोध्रो वल्करोध्रो बृहद्दलः ।
जीर्णबुध्नो बृहद्वल्को जीर्णपत्रो ऽक्षिभेषजः ॥ रज्नि_5.210
शावरः श्वेतरोध्रश् च मार्जनो बहलत्वचः ।
पट्टी लाक्षाप्रसादश् च वल्कलो बाणभूह्वयः ॥ रज्नि_5.211
लोध्रद्वयं कषायं स्यात् शीतं वातकफास्रनुत् ।
चक्षुष्यं विषहृत् तत्र विशिष्टो वल्करोध्रकः ॥ रज्नि_5.212
धातकी वह्निपुष्पी च ताम्रपुष्पी च धावनी ।
अग्निज्वाला सुभिक्षा च पार्वती बहुपुष्पिका ॥ रज्नि_5.213
कुमुदा सीधुपुष्पी च कुञ्जरा मद्यवासिनी ।
गुच्छसङ्घादिपुष्पान्ता ज्ञेया सा लोध्रपुष्पिणी ।
तीव्रज्वाला वह्निशिखा मद्यपुष्पीन्द्रसम्मिता ॥ रज्नि_5.214
धातकी कटुर् उष्णा च मदकृद् विषनाशनी ।
प्रवाहिकातिसारघ्नी विसर्पव्रणनाशिनी ॥ रज्नि_5.215
समुद्रनाम प्रथमं पश्चात् फलम् उदाहरेत् ।
समुद्रफलम् इत्यादि नाम वाच्यं भिषग्वरैः ॥ रज्नि_5.216
फलं समुद्रस्य कटूष्णकारि वातापहं भूतनिरोधकारि ।
त्रिदोषदावानलदोषहारि कफामयभ्रान्तिविरोधकारि ॥ रज्नि_5.217
निर्विषापविषा चैव विविषा विषहा परा ।
विषहन्त्री विषाभावा ह्य् अविषा विषवैरिणी ॥ रज्नि_5.218
निर्विषा तु कटुः शीता कफवातास्रदोषनुत् ।
अनेकविषदोषघ्नी व्रणसंरोपणी च सा ॥ रज्नि_5.219
विषम् आहेयम् अमृतं गरलं दारदं गरम् ।
कालकूटं कालकूटे हरिद्रं रक्तशृङ्गकम् ॥ रज्नि_5.220

नीलं च गरदं क्ष्वेडो घोरं हालाहलं हरम् ।
मरं हलाहलं शृङ्गी भूगरं चैकविंशतिः ॥ रज्नि_5.221
अमृतं स्यात् वत्सनाभो विषम् उग्रं महौषधम् ।
गरलं मरणं नागं स्तोककं प्राणहारकम् ।
गरलं स्थावरादि स्यात् प्रोक्तं चैकादशाह्वयम् ॥ रज्नि_5.222
वत्सनाभो ऽतिमधुरः सोष्णो वातकफापहः ।
कण्ठरुक्संनिपातघ्नः पित्तसंतापकारकः ॥ रज्नि_5.223
स्थावरे विषजातीनां श्रेष्ठौ नागोग्रशृङ्गकौ ।
नागो देहकरे श्रेष्ठो लोहे चैवोग्रशृङ्गकः ॥ रज्नि_5.224
विषस्याष्टादशभिदाश् चतुर्वर्गाश् च यत् पृथक् ।
तद् अत्र नोक्तम् अस्माभिर् ग्रन्थगौरवभीरुभिः ॥ रज्नि_5.225
शटी शठी पलाशश् च षड्ग्रन्था सुव्रता वधूः ।
सुगन्धमूला गन्धाली शटिका च पलाशिका ॥ रज्नि_5.226
सुभद्रा च तृणी दूर्वा गन्धा पृथुपलाशिका ।
सौम्या हिमोद्भवा गन्धवधूर् नागेन्दुसम्मिता ॥ रज्नि_5.227
शटी सतिक्ताम्लरसा लघूष्णा रुचिप्रदा च ज्वरहारिणी च ।
कफास्रकण्डूव्रणदोषहन्त्री वक्त्रामयध्वंसकरी च सोक्ता ॥ रज्नि_5.228
अन्या तु गन्धपत्त्रा स्यात् स्थूलास्या तिक्तकन्दका ।
वनजा शटिका वन्या स्तवक्षीर्य् एकपत्त्रिका ॥ रज्नि_5.229
गन्धपीता पलाशान्ता गन्धाढ्या गन्धपत्त्रिका ।
दीर्घपत्त्रा गन्धनिशा शरभूह्वा सुपाकिनी ॥ रज्नि_5.230
गन्धपत्त्रा कटुः स्वादुस् तीक्ष्णोष्णा कफवातजित् ।
कासच्छर्दिज्वरान् हन्ति पित्तकोपं करोति च ॥ रज्नि_5.231
समुद्रफेनं फेनश् च वार्धिफेनं पयोधिजम् ।
सुफेनम् अब्धिहिण्डीरं सामुद्रं सप्तनामकम् ॥ रज्नि_5.232
समुद्रफेनं शिशिरं कषायं नेत्ररोगनुत् ।
कफकण्ठामयघ्नं च रुचिकृत् कर्णरोगहृत् ॥ रज्नि_5.233
अफेनं खस्खसरसो निफेनं चाहिफेनकम् ।
अफेनं संनिपातघ्नं वृष्यं बल्यं च मोहदम् ॥ रज्नि_5.234
चतुर्विधम् अफेनं स्यात् जारणं मारणं तथा ।
धारणं सारणं चैव क्रमाद् वक्ष्ये तु लक्षणम् ॥ रज्नि_5.235
श्वेतं च जारणं प्रोक्तं कृष्णवर्णं च मारणम् ।
धारणं पीतवर्णं तु कर्बुरं सारणं तथा ॥ रज्नि_5.236
जारणं जारयेद् अन्नं मारणं मृत्युदायकम् ।
धारणं च वयःस्तम्भं सारणं मलसारणम् ॥ रज्नि_5.237
टङ्गणष् टङ्कणक्षारो रङ्गः क्षारो रसाधिकः ।
लोहद्रावी रसघ्नश् च सुभगो रङ्गदश् च सः ॥ रज्नि_5.238
वर्तुलः कनकक्षारो मलिनो धातुवल्लभः ।
त्रयोदशाह्वयश् चायं कथितस् तु भिषग्वरैः ॥ रज्नि_5.239
कथितष् टङ्कणक्षारः कटूष्णः कफनाशनः ।

स्थावरादिविषघ्नश् च कासश्वासापहारकः ॥ रज्नि_5.240
द्वितीयं टङ्गणं श्वेतं श्वेतकं श्वेतटङ्गणम् ।
लोहशुद्धिकरं सिन्धुमालतीतीरसम्भवम् ।
शिवं च द्रावकं प्रोक्तं शितक्षारं दशाभिधम् ॥ रज्नि_5.241
सुश्वेतं टङ्कणं स्निग्धं टूष्णं कफवातनुत् ।
आमक्षयापहृच् छ्वासविषकासमलापहम् ॥ रज्नि_5.242
साकुरुण्डो ग्रन्थिफलो विकटो वस्त्रभूषणः ।
कुरुण्डः कर्बुरफलः सकुरुण्डश् च सप्तधा ॥ रज्नि_5.243
साकुरुण्डः कषायश् च रुचिकृद् दीपनः परः ।
श्लेष्मवातापहारी च वस्त्ररञ्जनको लघुः ॥ रज्नि_5.244
हिमावली च हृद्धात्री कुष्ठघ्नो गारकुष्ठकः ।
अङ्गारग्रन्थिको ग्रन्थी ग्रन्थिलो मुनिसंज्ञकः ॥ रज्नि_5.245
हिमावली सरा तिक्ता प्लीहगुल्मोदरापहा ।
क्रिमिकुष्ठगुदात्युग्रखर्जूकण्डूतिहारिणी ॥ रज्नि_5.246
हस्तिमदो गजमदो गजदानं मदस् तथा ।
कुम्भिमदो दन्तिमदो दानं द्वीपिमदो ऽष्टधा ॥ रज्नि_5.247
स्निग्धो हस्तिमदस् तिक्तः केश्यो ऽपस्मारनाशनः ।
विषहृत् कुष्ठकण्डूतिव्रणदद्रुविसर्पनुत् ॥ रज्नि_5.248
स्वर्जिक्षारः स्वर्जिकश् च क्षारस्वर्जी सुखार्जिकः ।
सुवर्चिकः सुवर्ची च सुखवर्चा मुनिह्वयः ॥ रज्नि_5.249
स्वर्जिकः कटुर् उष्णश् च तीक्ष्णो वातकफार्तिनुत् ।
गुल्माध्मानक्रिमीन् हन्ति व्रणजाठरदोषनुत् ॥ रज्नि_5.250
लवणारं लवणोत्थं लवणासुरजं च लवणभेदश् च ।
जलजं लवणक्षारं लवणं च क्षारलवणं च ॥ रज्नि_5.251
लोणारक्षारम् अत्युष्णं तीक्ष्णं पित्तप्रवृद्धिदम् ।
क्षारं लवणम् ईषच् च वातगुल्मादिदोषनुत् ॥ रज्नि_5.252
वज्रकं वज्रकक्षारं क्षारश्रेष्ठं विदारकम् ।
सारं चन्दनसारं च धूमोत्थं धूमजं गजाः ॥ रज्नि_5.253
वज्रकं क्षारम् अत्युष्णं तीक्ष्णं क्षारं च रेचनम् ।
गुल्मोदरातिविष्टम्भशूलप्रशमनं सरम् ॥ रज्नि_5.254
यवक्षारः स्मृतः पाक्यो यवजो यवसूचकः ।
यवशूको यवाह्वश् च यवापत्यं यवाग्रजः ॥ रज्नि_5.255
यवक्षारः कटूष्णश् च कफवातोदरार्तिनुत् ।
आमशूलाश्मरीकृच्छ्रविषदोषहरः सरः ॥ रज्नि_5.256
सर्वक्षारो बहुक्षारः समूहक्षारकस् तथा ।
स्तोमक्षारो महाक्षारो मलारिः क्षारमेलकः ॥ रज्नि_5.257
सर्वक्षारो ह्य् अतिक्षारश् चक्षुष्यो वस्तिशोधनः ।
गुदावर्तक्रिमिघ्नश् च मलवस्त्रविशोधनः ॥ रज्नि_5.258
मायाफलं मायिफलं च मायिका छिद्राफलं मायि च पञ्चनामकम् ।
मायाफलं वातहरं कटूष्णकम् शैथिल्यसंकोचककेशकार्ष्णयदम् ॥ रज्नि_5.259

इत्थं नानाद्रव्यसम्भारनामग्रामव्याख्यातद्गुणाख्यानपूर्वम् ।
वर्गं वीर्यध्वस्तरोगोपसर्गं बुद्ध्वा वैद्यो विश्ववन्द्यत्वम् ईयात् ॥ रज्नि_5.260
साफल्याय किलैत्य यानि जनुषः कान्तारदूरान्तरात् स्वौजःपात्रविचारणाय विपणेर् मध्यं समध्यासते ।
तेषाम् आश्रयभूमिर् एष भणितः पण्यौषधीनां बुधैर् वर्गो द्रव्यगुणाभिधाननिपुणैः पण्यादिवर्गात्मना ॥ रज्नि_5.261
यः सौम्येन सदाशयेन कलयन् दिव्यागमानां जनैर् दुर्ग्राहं महिमानम् आशु नुदते स्वं जग्मुषां दुर्गतीः ।
वर्गः पिप्पलिकादिर् एष नृहरेस् तस्येह शस्यात्मनो ।
नामग्रामशिखामणौ खलु कृतौ षष्ठः प्रतिष्ठाम् अगात् ॥ रज्नि_5.262
राजनिघण्टु, शताह्वादिवर्ग
शताह्वा चैव मिश्रेया शालिपर्णी समष्ठिला ।
बृहती कण्टकारी च द्विधा स्यात् पृश्निपर्णिका ॥ रज्नि_6.1
द्विधा गोक्षुरकश् चैव यासो वासा शतावरी ।
धन्वयासद्वयं चाग्निदमनी वाकुची तथा ॥ रज्नि_6.2
शणपुष्पी द्विधा चैव त्रिविधा शरपुङ्खिका ।
शणो ऽम्बष्ठा द्विधा नीली द्विधा गोजिह्विका स्मृता ॥ रज्नि_6.3
अपामार्गद्वयं पञ्च बला राष्ट्री महादि च ।
हयगन्धा च हपुषा शतावर्यौ द्विधा मते ॥ रज्नि_6.4
एलवालुकतैरण्यौ कलिकारी जयन्तिका ।
काकमाची श्रुतश्रेणी भृङ्गराजस् त्रिधा मतः ॥ रज्नि_6.5
काकजङ्घा त्रिधा चुञ्चुः त्रिविधः सिन्दुवारकः ।
भेण्डा स्यात् पुत्रदा चैव तक्रा स्वर्णुलिकाह्वया ॥ रज्नि_6.6
खस्खसः शिमृडी चैव ज्ञेयो वन्यकुसुम्भकः ।
द्वयाहुल्यः कासमर्दश् च रविपत्त्री द्विधाम्लिका ॥ रज्नि_6.7
अजगन्धादित्यभक्ता विषमुष्टिर् द्विधा परा ।
कालाञ्जनी द्विकार्पासी द्विविधः कोकिलाक्षकः ॥ रज्नि_6.8
सातला कामवृद्धिश् च चक्रमर्दो ऽथ झिञ्झिरा ।
शताह्वाद्याः क्रमेणैव क्षुपाः प्रोक्ता यथागुणाः ॥ रज्नि_6.9
शताह्वा शतपुष्पा च मिसिर् घोषा च पोतिका ।
अहिच्छत्त्राप्य् अवाक्पुष्पी माधवी कारवी शिफा ॥ रज्नि_6.10
सङ्घातपत्त्रिका छत्त्रा वज्रपुष्पा सुपुष्पिका ।
शतप्रसूना बहला पुष्पाह्वा शतपत्त्रिका ॥ रज्नि_6.11
वनपुष्पा भूरिपुष्पा सुगन्धा सूक्ष्मपत्त्रिका ।
गन्धारिकातिच्छत्रा च चतुर्विंशतिनामका ॥ रज्नि_6.12
शताह्वा तु कटुस् तिक्ता स्निग्धा श्लेष्मातिसारनुत् ।
ज्वरनेत्रव्रणघ्नी च वस्तिकर्मणि शस्यते ॥ रज्नि_6.13
मिश्रेया तालपर्णी च तालपत्रा मिशिस् तथा ।
शालेया स्याच् छीतशिवा शालीना वनजा च सा ॥ रज्नि_6.14
अवाक्पुष्पी मधुरिका छत्त्रा संहितपुष्पिका ।
सुपुष्पा सुरसा वन्या ज्ञेया पञ्चदशाह्वया ॥ रज्नि_6.15
मिश्रेया मधुरा स्निग्धा कटुः कफहरा परा ।
वातपित्तोत्थदोषघ्नी प्लीहजन्तुविनाशनी ॥ रज्नि_6.16

स्याच् छालिपर्णी सुदला सुपत्त्रिका स्थिरा च सौम्या कुमुदा गुहा ध्रुवा ।
विदारिगन्धांशुमती सुपर्णिका स्याद् दीर्घमूलापि च दीर्घपत्त्रिका ॥ रज्नि_6.17
वातघ्नी पीतिनी तन्वी सुधा सर्वानुकारिणी ।
शोफघ्नी सुभगा देवी निश्चला व्रीहिपर्णिका ॥ रज्नि_6.18
सुमूला च सुरूपा च सुपत्त्रा शुभपत्त्रिका ।
शालिपर्णी शालिदला स्याद् ऊनत्रिंशदाह्वया ॥ रज्नि_6.19
शालिपर्णी रसे तिक्ता गुरूष्णा वातदोषनुत् ।
विषमज्वरमेहार्शःशोफसंतापनाशनी ॥ रज्नि_6.20
समष्ठिला च भण्डीरो नद्याम्रश् चाम्रगन्धधृक् ।
काकाम्रः कण्टकिफलो ऽप्य् उपदंशो मुनिह्वयः ॥ रज्नि_6.21
नद्याम्रः कटुर् उष्णश् च रुच्यो मुखविशोधनः ।
कफवातप्रशमनो दाहकृद् दीपनः परः ॥ रज्नि_6.22
बृहती महतिक्रान्ता वार्त्ताकी सिंहिकाकुली ।
राष्ट्रिका स्थलकण्टा च भण्टाकी तु महोटिका ॥ रज्नि_6.23
बहुपत्त्री कण्टतनुः कण्टालुः कट्फला तथा ।
डोरली वनवृन्ताकी नामान्य् अस्याश् चतुर्दश ॥ रज्नि_6.24
बृहती कटुतिक्तोष्णा वातजिज् ज्वरहारिणी ।
अरोचकामकासघ्नी श्वासहृद्रोगनाशनी ॥ रज्नि_6.25
बृहत्य् अन्या सर्पतनुः क्षविका पीततण्डुला ।
पुत्रप्रदा बहुफला गोधिनीति षडाह्वया ॥ रज्नि_6.26
क्षविका बृहती तिक्ता कटुर् उष्णा च तत्समा ।
युक्त्या द्रव्यविशेषेण धारासंस्तम्भसिद्धिदा ॥ रज्नि_6.27
श्वेतान्या श्वेतबृहती ज्ञेया श्वेतमहोटिका ।
श्वेतसिंही श्वेतफला श्वेतवार्त्ताकिनी च षट् ॥ रज्नि_6.28
विज्ञेया श्वेतबृहती वातश्लेष्मविनाशनी ।
रुच्या चाञ्जनयोगेन नानानेत्रामयापहा ॥ रज्नि_6.29
कण्टकारी कण्टकिनी दुःस्पर्शा दुष्प्रधर्षिणी ।
क्षुद्रा व्याघ्री निदिग्धा च धाविनी क्षुद्रकण्टिका ॥ रज्नि_6.30
बहुकण्टा क्षुद्रकण्टा ज्ञेया क्षुद्रफला च सा ।
कण्टारिका चित्रफला स्याच् चतुर्दशसंज्ञका ॥ रज्नि_6.31
कण्टकारी कटूष्णा च दीपनी श्वासकासजित् ।
प्रतिश्यायार्तिदोषघ्नी कफवातज्वरार्तिनुत् ॥ रज्नि_6.32
सितकण्टारिका श्वेता क्षेत्रदूती च लक्ष्मणा ।
सितसिंही सितक्षुद्रा क्षुद्रवार्ताकिनी सिता ॥ रज्नि_6.33
क्लिन्ना च कटुवार्त्ताकी क्षेत्रजा कपटेश्वरी ।
स्यान् निःस्नेहफला रामा सितकण्टा महौषधी ॥ रज्नि_6.34
गर्दभी चन्द्रिका चान्द्री चन्द्रपुष्पा प्रियंकरी ।
नाकुली दुर्लभा रास्ना द्विर् एषा द्वादशाह्वया ॥ रज्नि_6.35
श्वेतकण्टारिका रुच्या कटूष्णा कफवातनुत् ।
चक्षुष्या दीपनी ज्ञेया प्रोक्ता रसनियामिका ॥ रज्नि_6.36

स्यात् पृश्निपर्णी कलसी महागुहा शृगालविन्ना धमनी च मेखला ।
लाङ्गलिका क्रोष्टुकपुच्छिका गुहा शृगालिका सैव च सिंहपुच्छिका ॥ रज्नि_6.37
पृथक्पर्णी दीर्घपर्णी दीर्घा क्रोष्टुकमेखला ।
चित्रपर्ण्य् उपचित्रा च श्वपुच्छाष्टादशाह्वया ॥ रज्नि_6.38
पृश्निपर्णी कटूष्णाम्ला तिक्तातीसारकासजित् ।
वातरोगज्वरोन्मादव्रणदाहविनाशनी ॥ रज्नि_6.39
स्याद् गोक्षुरो गोक्षुरकः क्षुराङ्गः श्वदंष्ट्रकः कण्टकभद्रकण्टकौ ।
स्याद् व्यालदंष्ट्रः क्षुरको महाङ्गो दुश्चक्रमश् च क्रमशो दशाह्वः ॥ रज्नि_6.40
क्षुद्रो ऽपरो गोक्षुरकस् त्रिकण्टकः कण्टी षडङ्गो बहुकण्टकः क्षुरः ।
गोकण्टकः कण्टफलः पलंकषः क्षुद्रक्षुरो भक्षटकश् चणद्रुमः ॥ रज्नि_6.41
स्थलशृङ्गाटकश् चैव वनशृङ्गाटकस् तथा ।
इक्षुगन्धः स्वादुकण्टः पर्यायाः षोडश स्मृताः ॥ रज्नि_6.42
स्याताम् उभौ गोक्षुरकौ सुशीतलौ बलप्रदौ तौ मधुरौ च बृंहणौ ।
कृच्छ्राश्मरीमेहविदाहनाशनौ रसायनौ तत्र बृहद् गुणोत्तरः ॥ रज्नि_6.43
यासो यवासो बहुकण्टको ऽल्पकः क्षुद्रेङ्गुदी रोदनिका च कच्छुरा ।
स्याद् बालपत्त्रो ऽधिककण्टकः खरः सुदूरमूली विषकण्टको ऽपि सः ॥ रज्नि_6.44
अनन्तस् तीक्ष्णकण्टश् च समुद्रान्तो मरूद्भवः ।
दीर्घमूलः सूक्ष्मपत्त्रो विषघ्नः कण्टकालुकः ।
त्रिपर्णिका च गान्धारी चैकविंशतिनामभिः ॥ रज्नि_6.45
यासो मधुरतिक्तो ऽसौ शीतः पित्तार्तिदाहजित् ।
बलदीपनकृत् तृष्णाकफच्छर्दिविसर्पजित् ॥ रज्नि_6.46
वासकः सिंहिका वासा भिषङ्माता वसादनी ।
आटरूषः सिंहमुखी सिंही कण्ठीरवी वृषः ॥ रज्नि_6.47
शितपर्णी वाजिदन्ता नासा पञ्चमुखी तथा ।
सिंहपर्णी मृगेन्द्राणी नामान्य् अस्यास् तु षोडश ॥ रज्नि_6.48
वासा तिक्ता कटुः शीता कासघ्नी रक्तपित्तजित् ।
कामलाकफवैकल्यज्वरश्वासक्षयापहा ॥ रज्नि_6.49
शितावरी शितावरः सूच्याह्वः सूचिपत्त्रकः ।
श्रीवारकः शिखी बभ्रुः स्वस्तिकः सुनिषण्णकः ॥ रज्नि_6.50
कुरुटः कुक्कुटः सूचीदलः श्वेताम्बरो ऽपि सः ।
मेधाकृद् ग्राहकश् चेति ज्ञेयः पञ्चदशाह्वयः ॥ रज्नि_6.51
शितावरस् तु संग्राही कषायोष्णस् त्रिदोषजित् ।
मेधारुचिप्रदो दाहज्वरहारी रसायनः ॥ रज्नि_6.52
धन्वयासो दुरालम्भा ताम्रमूली च कच्छुरा ।
दुरालभा च दुःस्पर्शा धन्वी धन्वयवासकः ॥ रज्नि_6.53
प्रबोधनी सूक्ष्मदला विरूपा दुरभिग्रहा ।
दुर्लभा दुष्प्रधर्षा च स्याच् चतुर्दशसंज्ञका ॥ रज्नि_6.54
दुरालम्भा कटुस् तिक्ता सोष्णा क्षाराम्लिका तथा ।
मधुरा वातपित्तघ्नी ज्वरगुल्मप्रमेहजित् ॥ रज्नि_6.55
अन्या क्षुद्रदुरालम्भा मरुस्था मरुसम्भवा ।

विशारदाजभक्षा स्याद् अजादन्य् उष्ट्रभक्षिका ॥ रज्नि_6.56
कषाया कफहृच् चैव ग्राहिणी करभप्रिया ।
करभादनिका चेति विज्ञेया द्वादशाभिधा ॥ रज्नि_6.57
दुरालम्भा द्वितीया च गौल्याम्लज्वरकुष्ठनुत् ।
श्वासकासभ्रमघ्नी च पारदे शुद्धिकारिका ॥ रज्नि_6.58
अथाग्निदमनी वह्निदमनी बहुकण्टका ।
वल्लिकण्टारिका गुच्छफला क्षुद्रफला च सा ॥ रज्नि_6.59
विज्ञेया क्षुद्रदुःस्पर्शा क्षुद्रकण्टारिका तथा ।
मर्त्येन्द्रमाता दमनी स्याद् इत्य् एषा दशाह्वया ॥ रज्नि_6.60
कटूष्णा चाग्निदमनी रूक्षा वातकफापहा ।
रुचिकृद् दीपनी हृद्या गुल्मप्लीहापहा भवेत् ॥ रज्नि_6.61
वाकुची सोमराजी च सोमवल्ली सुवल्लिका ।
सिता सितावरी चन्द्रलेखा चान्द्री च सुप्रभा ॥ रज्नि_6.62
कुष्ठहन्त्री च काम्बोजी प्रतिगन्धा च वल्गुजा ।
स्मृता चन्द्राभिधा राजी काल्माषी च तथैन्दवी ॥ रज्नि_6.63
कुष्ठदोषापहा चैव कान्तिदा वल्गुजा तथा ।
चन्द्राभिधा प्रभायुक्ता विंशतिः स्यात् तु नामतः ॥ रज्नि_6.64
वाकुची कटुतिक्तोष्णा क्रिमिकुष्ठकफापहा ।
त्वग्दोषविषकण्डूतिखर्जुप्रशमनी च सा ॥ रज्नि_6.65
शणपुष्पी बृहत्पुष्पी शणिका शणघण्टिका ।
पीतपुष्पी स्थूलफला लोमशा माल्यपुष्पिका ॥ रज्नि_6.66
शणपुष्पी रसे तिक्ता कषाया कफवातजित् ।
अजीर्णज्वरदोषघ्नी वमनी रक्तदोषनुत् ॥ रज्नि_6.67
द्वितीयान्या सूक्ष्मपुष्पा स्यात् क्षुद्रशणपुष्पिका ।
विष्टिका सूक्ष्मपर्णी च बाणाह्वा सूक्ष्मघण्टिका ।
शणपुष्पी क्षुद्रतिक्ता वम्या रसनियामिका ॥ रज्नि_6.68
तृतीयान्या वृत्तपर्णी श्वेतपुष्पा महासिता ।
सा महाश्वेतघण्टी च सा महाशणपुष्पिका ॥ रज्नि_6.69
महाश्वेता कषायोष्णा शस्ता रसनियामिका ।
कुतूहलेषु च प्रोक्ता मोहनस्तम्भनादिषु ॥ रज्नि_6.70
शरपुङ्खा काण्डपुङ्खा बाणपुङ्खेषुपुङ्खिका ।
ज्ञेया सायकपुङ्खा च इषुपुङ्खा च षड्विधा ॥ रज्नि_6.71
शराभिधा च पुङ्खा स्याच् छ्वेताढ्या सितसायका ।
सितपुङ्खा श्वेतपुङ्खा शुभ्रपुङ्खा च पञ्चधा ॥ रज्नि_6.72
शरपुङ्खा कटूष्णा च क्रिमिवातरुजापहा ।
श्वेता त्व् एषा गुणाढ्या स्यात् प्रशस्ता च रसायने ॥ रज्नि_6.73
अन्या तु कण्टपुङ्खा स्यात् कण्टालुः कण्टपुङ्खिका ।
कण्टपुङ्खा कटूष्णा च कृमिशूलविनाशनी ॥ रज्नि_6.74
शणस् तु माल्यपुष्पः स्याद् वमनः कटुतिक्तकः ।
निशावनो दीर्घशाखस् त्वक्सारो दीर्घपल्लवः ।

शणस् त्व् अम्लः कषायश् च मलगर्भास्रपातनः ।
वान्तिकृद् वातकफनुज् ज्ञेयस् तीव्राङ्गमर्दजित् ॥ रज्नि_6.75
अम्बष्ठाम्बालिकाम्बाला शठाम्बाम्बष्ठिकाम्बिका ।
अम्बा च माचिका चैव दृढवल्का मयूरिका ॥ रज्नि_6.76
गन्धपत्त्री चित्रपुष्पी श्रेयसी मुखवाचिका ।
छिन्नपत्त्रा भूरिमल्ली विज्ञेया षोडशाह्वया ॥ रज्नि_6.77
अम्बष्ठा सा कषायाम्ला कफकण्ठरुजापहा ।
वातामयबलासघ्नी रुचिकृद् दीपनी परा ॥ रज्नि_6.78
नीली नीला नीलिनी नीलपत्त्री तुत्था राज्ञी नीलिका नीलपुष्पी ।
काली श्यामा शोधनी श्रीफला च ग्राम्या भद्रा भारवाही च मोचा ॥ रज्नि_6.79
कृष्णा व्यञ्जनकेशी च रञ्जनी च महाफला ।
असिता क्लीतनी नीलकेशी चारटिका मता ॥ रज्नि_6.80
गन्धपुष्पा श्यामलिका रङ्गपत्त्री महाबला ।
स्थिररङ्गा रङ्गपुष्पी स्याद् एषा त्रिंशदाह्वया ॥ रज्नि_6.81
नीली तु कटुतिक्तोष्णा केश्या कासकफामनुत् ।
मरुद्विषोदरव्याधिगुल्मजन्तुज्वरापहा ॥ रज्नि_6.82
अन्या चैव महानील्य् अमला राजनीलिका ।
तुत्था श्रीफलिका मेला केशार्हा भृशपत्त्रिका ॥ रज्नि_6.83
महानीली गुणाढ्या स्याद् रङ्गश्रेष्ठा सुवीर्यदा ।
पूर्वोक्तनीलिकादेश्या सगुणा सर्वकर्मसु ॥ रज्नि_6.84
गोजिह्वा खरपत्त्री स्यात् प्रतना दार्विका तथा ।
अधोमुखा धेनुजिह्वा अधःपुष्पी च सप्तधा ॥ रज्नि_6.85
गोजिह्वा कटुका तीव्रा शीतला पित्तनाशनी ।
व्रणसंरोपणी चैव सर्वदन्तविषार्तिजित् ॥ रज्नि_6.86
अपामार्गस् तु शिखरी किणिही खरमञ्जरी ।
दुर्ग्रहश् चाप्य् अधःशल्यः प्रत्यक्पुष्पी मयूरकः ॥ रज्नि_6.87
काण्डकण्टः शैखरिको मर्कटी दुरभिग्रहः ।
वशिरश् च पराक्पुष्पी कण्टी मर्कटपिप्पली ॥ रज्नि_6.88
कटुर् माञ्जरिको नन्दी क्षवकः पङ्क्तिकण्टकः ।
मालाकण्टश् च कुब्जश् च त्रयोविंशतिनामकः ॥ रज्नि_6.89
अपामार्गस् तु तिक्तोष्णः कटुश् च कफनाशनः ।
अर्शःकण्डूदरामघ्नो रक्तहृद् ग्राहि वान्तिकृत् ॥ रज्नि_6.90
अन्यो रक्तो ह्य् अपामार्गः क्षुद्रापामार्गकस् तथा ।
आघट्टको दुग्धनिका रक्तबिन्द्वल्पपत्त्रिका ॥ रज्नि_6.91
रक्तो ऽपामार्गकः शीतः कटुकः कफवातनुत् ।
व्रणकण्डूविषघ्नश् च संग्राही वान्तिकृत् परः ॥ रज्नि_6.92
बला समङ्गोदकिका च भद्रा भद्रोदनी स्यात् खरकाष्ठिका च ।
कल्याणिनी भद्रबला च मोटा वाटी बलाढ्येति च रुद्रसंज्ञा ॥ रज्नि_6.93
बलातितिक्ता मधुरा पित्तातीसारनाशनी ।
बलवीर्यप्रदा पुष्टिकफरोगविशोधनी ॥ रज्नि_6.94

मूल पाठ: Rājanighaṇṭu [also called Nighaṇṭurāja, or Abhidhānacūḍāmaṇi] · Edition: Calcutta 1933 : Siddheshvarayantra · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc