राजनिघण्टु · भाग 120
राजनिघण्टु, मङ्गलाचरण
श्रीकण्ठाचलमेखलापरिणमत्कुम्भीन्द्रबुद्ध्या रदप्रान्तोत्तम्भितसंभृताब्दगलितैः शीतैर् अपां शीकरैः ।
निर्वाणे मदसंज्वरे प्रमुदितस् तेनातपत्रश्रियं तन्वानेन निरन्तरं दिशतु वः श्रीविघ्नराजो मुदम् ॥ रज्नि_म्.1
कर्पूरक्षोदगौरं धृतकपिलजटं त्रीक्षणं चन्द्रमौलिं सौधं कुण्डं सुधांशुं वरयुतम् अभयं दोश्चतुष्के दधानम् ।
वामोत्सङ्गे वहन्तं विविधमणिगणालङ्कृताम् उज्ज्वलाङ्गीं शर्वाणीं स्वानुरूपां तमनिशममृतेशाख्यम् ईशं स्मरामि ॥ रज्नि_म्.2
श्रीमन्महेशनलिनासननिर्जरेन्द्रास् तत्राश्विनाव् अथ ततो त्रितनूद्भवश् च ।
धन्वन्तरिश् चरकसुश्रुतसूरिमुख्यास् ते ऽप्य् आयुरागमकृतः कृतिनो जयन्तु ॥ रज्नि_म्.3
शम्भुं प्रणम्य शिरसा स्वगुरून् उपास्य पित्रोः पदाब्जयुगले प्रणिपत्य भक्त्या ।
विघ्नेशितारम् अधिगम्य सरस्वतीं च प्रारम्भि भैषजहिताय निघण्टुराजः ॥ रज्नि_म्.4
राजनिघण्टु, ग्रन्थप्रस्तावना
धन्वन्तरीयमदनादिहलायुधादीन् विश्वप्रकाश्यमरकोषसशेषराजौ ।
आलोक्य लोकविदितांश् च विचिन्त्य शब्दान् द्रव्याभिधानगणसंग्रह एष सृष्टः ॥ रज्नि_ग्प्र्.1
आयुःश्रुतीनामतुलोपकारकं धन्वन्तरिग्रन्थमतानुसारकम् ।
आचक्ष्महे लक्षणलक्ष्मधारकं नामोच्चयं सर्वरुजापसारकम् ॥ रज्नि_ग्प्र्.2
निर्देशलक्षणपरीक्षणनिर्णयेन नानाविधौषधविचारपरायणो यः ।
सो ऽधीत्य यत् सकलम् एनम् अवैति सर्वं तस्माद् अयं जयति सर्वनिघण्टुराजः ॥ रज्नि_ग्प्र्.3
नानाविधौषधिरसाह्वयवीर्यपाकप्रस्तावनिस्तरणपण्डितचेतनो ऽपि ।
मुह्यत्य् अवश्यम् अनवेक्ष्य निघण्टुम् एनं तस्माद् अयं विरचितो भिषजां हिताय ॥ रज्नि_ग्प्र्.4
निघण्टुना विना वैद्यो विद्वान् व्याकरणं विना ।
अनभ्यासेन धानुष्कस् त्रयो हास्यस्य भाजनम् ॥ रज्नि_ग्प्र्.5
नानादेशविशेषभाषितवशाद् यत् संस्कृतप्राकृतापभ्रंशादिकनाम्नि नैव गणना द्रव्योच्चयव्याहृतौ ।
तस्माद् अत्र तु यावतास्त्य् उपकृतिस् तावन् मया गृह्यते पाथोदैः परिपीयते किम् अखिलं तद् वारि वारां निधेः ॥ रज्नि_ग्प्र्.6
आभीरगोपालपुलिन्दतापसाः पान्थास् तथान्ये ऽपि च वन्यपारगाः ।
परीक्ष्य तेभ्यो विविधोषधाभिधारसादिलक्ष्माणि ततः प्रयोजयेत् ॥ रज्नि_ग्प्र्.7
नानाभिधेयम् अथ यत्र शिवासमङ्गाश्यामादिनाम निगमेषु निवेशितं यत् ।
प्रस्ताववीर्यरसयोगवशाद् अमुष्य बुद्ध्या विमृश्य भिषजां च धृतिर् विधेया ॥ रज्नि_ग्प्र्.8
नामानि क्वचिद् इह रूढितः स्वभावात् देश्योक्त्या क्वचन च लाञ्छनोपमाभ्याम् ।
वीर्येण क्वचिद् इतराह्वयादिदेशात् द्रव्याणां ध्रुवम् इति सप्तधोदितानि ॥ रज्नि_ग्प्र्.9
अत्रौषधीनिवहनामगुणाभिधानप्रस्तावतस् तदुपयुक्ततयेतराणि ।
क्षेत्रावनीधरनदीनरतिर्यगादीन् व्याख्यागुणैर् अतिसविस्तरम् ईरितानि ॥ रज्नि_ग्प्र्.10
एकः को ऽपि सचेतसां यदि मुदे कल्पेत जल्पे गुणस् तत्रान्ये ऽपि विनार्थनां बहुमतिं सन्तः स्वयं तन्वते ।
अप्य् आर्द्रीकृतशैलसानुगशिलाम् आपीय चान्द्रीं सुधाम् अम्भोधिः कुमुदैर् दृशश् च जगतां नन्दन्ति केनार्दिताः ॥ रज्नि_ग्प्र्.11
अप्रसिद्धाभिधं चात्र यद् औषधम् उदीरितम् ।
तस्याभिधाविवेकः स्याद् एकार्थादिनिरूपणे ॥ रज्नि_ग्प्र्.12
रम्भाश्यामादिनाम्ना ये स्वर्गस्त्रीतरुणीति च ।
अर्था नानार्थतन्त्रोक्तास् त्यक्तास् ते ऽस्मिन्न् अपार्थकाः ॥ रज्नि_ग्प्र्.13
व्यक्तिः कृतात्र कर्णाटमहाराष्ट्रीयभाषया ।
आन्ध्रलाटादिभाषास् तु ज्ञातव्यास् तद्द्वयाश्रयाः ॥ रज्नि_ग्प्र्.14
एतत्त्रिनेत्रगुणनीयगुणानुविद्धवर्णाढ्यवृत्तसितमौक्तिकवर्गसारम् ।
कण्ठे सतां सकलनिवृतिधामनामचिन्तामणिप्रकरदाम करोतु केलिम् ॥ रज्नि_ग्प्र्.15
अत्रानूपादिर् अस्माद् अवनिर् अथ गुडूचीशताह्वादिको द्वौ तत्प्रान्ते पर्पटादिस् तदुपरि पठितौ पिप्पलीमूलकादिः ।
शाल्मल्यादिः प्रभद्रादिकम् अनु करवीरादिर् आम्रादिर् अन्यस् तस्याग्रे चन्दनादिस् तदनु निगदितः कोमलः काञ्चनादिः ॥ रज्नि_ग्प्र्.16
पानीयः क्षीरशाल्यादिकम् अनु कथितो मासमानुष्यकादिः सिंहादिः स्याद् गदादिस् तदनु भवति सत्त्वाधिको मिश्रको ऽन्यः ।
एकार्थादिस् तद् एतैस् त्रिकरपरिचितैः प्रातिभोन्मेषसर्गं वर्गैर् आसाद्य वैद्यो निजमतहृदये निस्तरां निश्चिनोतु ॥ रज्नि_ग्प्र्.17
काश्मीरेण कपर्दिपादकमलद्वंद्वार्चनोपार्जितश्रीसौभाग्ययशःप्रतापपदवी धाम्ना प्रतिष्ठापिता ।
सेयं श्रीनरसिंहनामविदुषो स्वर्वैद्यविद्यास्थितिः प्रीत्या प्राप्तसुवर्णराजिरचना चित्रोज्ज्वला पीठिका ॥ रज्नि_ग्प्र्.18
अन्यत्र विद्यमानत्वाद् उपयोगानवेक्षणात् ।
वृथा विस्तरभीत्या च नोक्तो गुणगणो मया ॥ रज्नि_ग्प्र्.19
राजनिघण्टु, आनूपादिवर्ग
नानाक्षौणीजनानाजलमृगसहितं निर्झरव्रातशीतं शैलाकीर्णं कनीयः कुररमुखखगालङ्कृतं ताम्रभूमि ।
बिभ्रद् व्रीह्यादिकं यत् स्थलम् अतिविपुलं नीरसं यत् त्व् अनुष्णं पित्तघ्नं श्लेष्मवातप्रदम् उदररुजापामदं स्याद् अनूपम् ॥ रज्नि_1.1
तच् चोक्तकृत्स्ननिजलक्षणधारिभूरिच्छायावृतान्तरवहद् बहुवारिमुख्यम् ।
ईषत् प्रकाशसलिलं यदि मध्यमं तत् एतच् च नातिबहलाम्बु भवेत् कनीयः ॥ रज्नि_1.2
यत्रानूपविपर्ययस् तनुतृणास्तीर्णा धरा धूसरा मुद्गव्रीहियवादिधान्यफलदा तीव्रोष्मवत्य् उत्तमा ।
प्रायः पित्तविवृद्धिर् उद्धतबलाः स्युर् नीरजः प्राणिनो गावो ऽजाश् च पयः क्षरन्ति बहु तत्कूपे जलं जाङ्गलम् ॥ रज्नि_1.3
एतच् च मुख्यम् उदितं स्वगुणैः समग्रम् अल्पाल्पभूरुहयुतं यदि मध्यमं तत् ।
तच् चापि कूपखनने सुलभाम्बु यत् तज् ज्ञेयं कनीय इति जाङ्गलकं त्रिरूपम् ॥ रज्नि_1.4
लक्ष्मोन्मीलति यत्र किंचिद् उभयोस् तज् जाङ्गलानूपयोर् गोधूमोल्वणयावनालविलसन्माषादिधान्योद्भवः ।
नानावर्णम् अशेषजन्तुसुखदं देशं बुधा मध्यमं दोषोद्भूतिविकोपशान्तिसहितं साधारणं तं विदुः ॥ रज्नि_1.5
तच् च साधारणं द्वेधानूपजाङ्गलयोः परम् ।
यत्र यत्र गुणाधिक्यं तत्र तस्य गुणं भजेत् ॥ रज्नि_1.6
मुख्यं तद्देशवैषम्यान् नास्ति साधारणं क्वचित् ।
सूक्ष्मत्वाल् लक्ष्म तत्त्वस्य तद्विधैर् वेदम् इष्यते ॥ रज्नि_1.7
क्षेत्रभेदं प्रवक्ष्यामि शिवेनाख्यातम् अञ्जसा ।
ब्राह्मं क्षात्रं च वैश्यीयं शौद्रं चेति यथाक्रमात् ॥ रज्नि_1.8
तत्र क्षेत्रे ब्रह्मभूमीरुहाढ्यं वारिस्फारं यत् कुशाङ्कूरकीर्णम् ।
रम्यं यच् च श्वेतमृत्स्नासमेतं तद् व्याचष्टे ब्राह्मम् इत्य् अष्टमूर्तिः ॥ रज्नि_1.9
ताम्रभूमिवलयं विभूधरं यन् मृगेन्द्रमुखसंकुलं कुलम् ।
घोरघोषि खदिरादिदुर्गमं क्षात्रम् एतद् उदितं पिनाकिना ॥ रज्नि_1.10
शातकुम्भनिभभूमिभास्वरं स्वर्णरेणुनिचितं विधानवत् ।
सिद्धकिंनरसुपर्वसेवितं वैश्यम् आख्यद् इदम् इन्दुशेखरः ॥ रज्नि_1.11
श्यामस्थलाढ्यं बहुशस्यभूतिदं लसत्तृणैर् बब्बुलवृक्षवृद्धिदम् ।
धान्योद्भवैः कर्षकलोकहर्षदं जगाद शौद्रं जगतौ वृषध्वजः ॥ रज्नि_1.12
द्रव्यं क्षेत्राद् उदितम् अनघं ब्राह्म तत् सिद्धिदायि क्षत्राद् उत्थं वलिपलितजिद् विश्वरोगापहारि ।
वैश्याज् जातं प्रभवतितरां धातुलोहादिसिद्धौ शौद्राद् एतज् जनितम् अखिलव्याधिविद्रावकं द्राक् ॥ रज्नि_1.13
ब्रह्मा शक्रः किंनरेशस् तथा भूर् इत्य् एतेषां देवताः स्युः क्रमेण ।
प्रोक्तास् तत्र प्राग् उमावल्लभेन प्रत्येकं ते पञ्च भूतानि वक्ष्ये ॥ रज्नि_1.14
पीतस्फुरद्वलयशर्करिलाश्मरम्यं पीतं यद् उत्तममृगं चतुरस्रभूतम् ।
प्रायश् च पीतकुसुमान्वितवीरुदादि तत् पार्थिवं कठिनम् उद्यद् अशेषतस् तु ॥ रज्नि_1.15
अर्धचन्द्राकृतिश्वेतं कमलाभं दृषच्चितम् ।
नदीनदजलाकीर्णम् आप्यं तत् क्षेत्रम् उच्यते ॥ रज्नि_1.16
खदिरादिद्रुमाकीर्णं भूरिचित्रकवेणुकम् ।
त्रिकोणं रक्तपाषाणं क्षेत्रं तैजसम् उत्तमम् ॥ रज्नि_1.17
धूम्रस्थलं धूम्रदृषत्परीतं षट्कोणकं तूर्णमृगावकीर्णम् ।
शाकैस् तृणैर् अञ्चितरूक्षवृक्षकं प्रकारम् एतत् खलु वायवीयम् ॥ रज्नि_1.18
नानावर्णं वर्तुलं तत् प्रशस्तं प्रायः शुभ्रं पर्वताकीर्णम् उच्चैः ।
यच् च स्थानं पावनं देवतानां प्राह क्षेत्रं त्रीक्षणस् त्व् आन्तरिक्षम् ॥ रज्नि_1.19
द्रव्यं व्याधिहरं बलातिशयकृत् स्वादु स्थिरं पार्थिवं स्याद् आप्यं कटुकं कषायम् अखिलं शीतं च पित्तापहम् ।
यत् तिक्तं लवणं च दीप्यमरुजिच् चोष्णं च तत् तैजसं वायव्यं तु हिमोष्णम् अम्लम् अबलं स्यान् नाभसं नीरसम् ॥ रज्नि_1.20
ब्रह्मा विष्णुश् च रुद्रो ऽस्माद् ईश्वरो ऽथ सदाशिवः ।
इत्य् एताः कमतः पञ्च क्षेत्रभूताधिदेवताः ॥ रज्नि_1.21
जित्वा जवाद् अजरसैन्यम् इहाजहार वीरः पुरा युधि सुधाकलशं गरुत्मान् ।
कीर्णैस् तदा भुवि सुधाशकलैः किलासीद् वृक्षादिकं सकलम् अस्य सुधांशुर् ईशः ॥ रज्नि_1.22
तत्रोत्पन्नास् तूत्तमे क्षेत्रभागे विप्रीयादौ विप्रुषो यत्र यत्र ।
क्षौणीजादिद्रव्यभूयं प्रपन्नास् तास् ताः संज्ञा बिभ्रते तत्र भूयः ॥ रज्नि_1.23
एवं क्षेत्रानुगुण्येन तज्जा विप्रादिवर्णिनः ।
यदि वा लक्षणं वक्ष्याम्य् अमोहाय मनीषिणाम् ॥ रज्नि_1.24
किसलयकुसुमे प्रकाण्डशाखादिषु विशदेषु वदन्ति विप्रम् एतान् ।
नरपतिमतिलोहितेषु वैश्यं कनकनिभेषु सितेतरेषु शूद्रम् ॥ रज्नि_1.25
विप्रादिजातिसम्भूतान् विप्रादिष्व् एव योजयेत् ।
गुणाढ्यान् अपि वृक्षादीन् प्रातिलोम्यं न चाचरेत् ॥ रज्नि_1.26
विप्रो विप्राद्येषु वर्णेषु राजा राजन्यादौ वैश्यमुख्येषु वैश्यः ।
शूद्रः शूद्राद्येषु शस्तं गुणाढ्यं द्रव्यं नैव प्रातिलोम्येन किंचित् ॥ रज्नि_1.27
द्रव्यं यद् अङ्कूरजम् आहुर् आर्यास् तत् ते पुनः पञ्चविधं वदन्ति ।
वनस्पतिश् चापि स एव वानस्पत्यः क्षुपो वीरुद् अथौषधीश् च ॥ रज्नि_1.28
ज्ञेयः सो ऽत्र वनस्पतिः फलति यः पुष्पैर् विना तैः फलं वानस्पत्य इति स्मृतस् तनुर् असौ ह्रस्वः क्षुपः कथ्यते ।
या वेल्लत्यगमादिसंश्रयवशाद् एषा तु वल्ली मता शाल्यादिः पुनर् ओषधिः फलपरीपाकावसानान्विता ॥ रज्नि_1.29
स्त्रीपुंनपुंसकत्वेन त्रैविध्यं स्थावरेष्व् अपि ।
शृणु वक्ष्यामि तल्लक्ष्म व्यक्तम् अत्र यथाक्रमम् ॥ रज्नि_1.30
इक्षुवेणुतरुवीरुदादयः स्कन्धकाण्डफलपुष्पपल्लवैः ।
स्निग्धदीर्घतनुतामनोरमास् ताः स्त्रियः खलु मता विपश्चिताम् ॥ रज्नि_1.31
यत्र पुष्पप्रवालादि नातिदीर्घं न चाल्पकम् ।
स्थूलं परुषम् इत्य् एष पुमान् उक्तो मनीषिभिः ॥ रज्नि_1.32
स्त्रीपुंसयोर् यत्र विभाति लक्ष्म द्वयोर् अपि स्कन्धफलादिकेषु ।
संदेहदं नैकतरावधारि नपुंसकं तद्विबुधा वदन्ति ॥ रज्नि_1.33
द्रव्यं पुमान् स्याद् अखिलस्य जन्तोर् आरोग्यदं तद्बलवर्धनं च ।
स्त्री दुर्बला स्वल्पगुणा गुणाढ्या स्त्रीष्व् एव न क्वापि नपुंसकः स्यात् ॥ रज्नि_1.34
यदि स्त्रियः स्त्रीषु कृता गुणाढ्याः क्लीबानि तु क्लीबशरीरभाजाम् ।
सदा च सर्वत्र पुमान् प्रयुक्तौ गुणावहश् चेति च केचिद् आहुः ॥ रज्नि_1.35
क्षुत्पिपासा च निद्रा च वृक्षादिष्व् अपि लक्ष्यते ।
मृज्जलादानतस् त्व् आद्ये पर्णसंकोचितान्तिमा ॥ रज्नि_1.36
यत्काठिन्ये सा क्षितिर्योद्भवो ऽम्भस्तेजस्तूष्मा वर्धते यत् स वातः ।
यद् यच् छिद्रं तन् नभः स्थावराणाम् इत्य् एतेषां पञ्चभूतात्मकत्वम् ॥ रज्नि_1.37
इत्थं देशगुणस्वरूपकथनप्रक्रान्तकान्तारजक्षेत्रद्रव्यगुणान्वयक्रमम् इमं वर्गं पठित्वा नरः ।
प्राप्नोत्य् आशु भिषक् प्रयोगविषयप्रावीण्यपारीणताहंकुर्वाणसुपर्वसंसदगदङ्कारक्रियाकौशलम् ॥ रज्नि_1.38
असूत सुतम् ईश्वरः श्रुतयशा यम् अष्टादशप्रभेदविधवाङ्मयाम्बुनिधिपारपारीणधीः ।
अमुष्य नृहरीशितुः कृतिवरस्य वर्गः कृतावसावगमदादिमः सदभिधानचूडामणौ ॥ रज्नि_1.39
राजनिघण्टु, धरण्यादिवर्ग
अथ धरणिधरित्रीभूतधात्रीधराभूक्षितिमहिधरणीडाक्ष्मावनीमेदिनीज्या ।
अवनिरुदधिवस्त्रा गौः क्षमा क्षौणिर् उर्वी कुरपि वसुमतीरा काश्यपी रत्रगर्भा ॥ रज्नि_2.1
क्षमादिमा भूमिरिला वसुन्धरा वरा च धात्री वसुधाचलोर्वरा ।
विश्वम्भराद्या जगती क्षिती रसा पृथ्वी च गोत्रा पृथिवी पृथुर् मही ॥ रज्नि_2.2
क्षौणी सर्वसहानन्ता भूतमाता च निश्चला ।
भूमी वीजप्रसूः श्यामा क्रोडकान्ता च कीर्तिता ॥ रज्नि_2.3
सा भूमिर् उर्वराख्या या सर्वशस्योद्भवप्रदा ।
समस्तवस्तूद्भवनाद् उर्वरा नाम भूरियम् ॥ रज्नि_2.4
मृन् मृत्तिका प्रशस्ता सा मृत्सा मृत्स्नेति चेष्यते ॥ रज्नि_2.5
क्षारा मृदूषरो देशस् तद्वान् इरणम् ऊषरम् ।
खिलम् अप्रहतं प्राहुर् धन्वा तु मरुर् उच्यते ॥ रज्नि_2.6
मरुप्रायस् तु यो देशः स चोक्तो जाङ्गलाभिधः ।
कृष्णमृत् कृष्णभूमिः स्यात् पाण्डुभूमिस् तु पाण्डुमृत् ॥ रज्नि_2.7
स शार्करः शार्करिलो देशो यः शर्करान्वितः ।
सैकतः स्यात् सिकतिलः सिकतावांश् च यो भवेत् ॥ रज्नि_2.8
देशो जनपदो नीवृद्विषयश् चोपवर्त्तनम् ।
प्रदेशः स्थानम् आख्या भूर् अवकाशः स्थितिः पदम् ॥ रज्नि_2.9
नद्यम्बुजैर् भृतो धान्यैर् नदीमात्रक उच्यते ।
वृष्ट्यम्बजैस् तु तैर् एष देशः स्याद् देवमातृकः ॥ रज्नि_2.10
नदीवृष्टिजलोद्भूतैर् नानाधान्यैः समावृतः ।
देशो द्वयानुगमनात् स द्वैमातृक उच्यते ॥ रज्नि_2.11
मुद्गादीनां क्षेत्रम् उद्भूतिदं यत् तन् मौद्गीनं कोद्रवीणं तथान्यत् ।
व्रैहेयं स्यात् किंच शालेयम् एवं बुद्धाणव्यञ्चाणवीनं च विद्यात् ॥ रज्नि_2.12
अथ माष्यं माषीणं भङ्ग्यं भाङ्गीनम् उम्यम् औमीनम् ।
तिल्यं तैलीनं स्याद् इति षष्टिक्यं च यव्यं च ॥ रज्नि_2.13
शाकादेर् यत्र निष्पत्तिर् एतत् स्याच् छाकशाकटम् ।
शाकशाकिनम् इत्य् एतत् तथा वास्तूकशाकटम् ॥ रज्नि_2.14
अथ गिरिधरणीध्रगोत्रभूभृत्शिखरिशिलोच्चयशैलसानुमन्तः ।
क्षितिभृदगनगावनीधराद्रिस्थिरकुधराश् च धराधरो धरश् च ॥ रज्नि_2.15
अहार्यः पर्वतो ग्रावा कटकी प्रस्थवान् अपि ।
शृङ्गी च वृक्षवांश् चेति शब्दाः शैलार्थवाचकाः ॥ रज्नि_2.16
मध्यमस् तु नितम्बः स्यात् कटकं मेखला च सा ।
तटे तटी प्रपातश् च प्रस्थे स्नुः सानुसानुनी ॥ रज्नि_2.17
शृङ्गं तु शिखरं कूटं कन्दरे कन्दरा दरी ।
विलं गुहा शिलासन्धिर् देवखातं च गह्वरम् ॥ रज्नि_2.18
प्रत्यन्तगिरयः पादा गण्डशैलाश्च्युतोपलाः ।
आकरः खनिर् इत्य् उक्तो धातवो गैरिकादयः ॥ रज्नि_2.19
ग्रावा प्रस्तरपाषाणौ दृषदश्मोपलः शिला ।
लोहानि विविधानि स्युर् अश्मसारादिसंज्ञया ॥ रज्नि_2.20
काननं गहनं सत्रं कान्तारं विपिनं वनम् ।
अरण्यम् अटवी दावो दवश् च वनवाचकाः ॥ रज्नि_2.21
अन्यद् उद्यानम् आक्रीडो यत्र क्रीडन्ति रागिणः ।
नृपालयेषु प्रमदवनम् अन्तःपुरोचितम् ॥ रज्नि_2.22
महावनम् अरण्यानी महारण्यं महाटवी ।
अथोपवनम् आरामः पुरप्रान्ते वनं तु यत् ॥ रज्नि_2.23
कुजः क्षितिरुहो ऽङ्घ्रिपः शिखरिपादपौ विष्टरः कुठस् तरुर् अनोकहः कुरुहभूरुहद्रुद्रुमाः ।
अगो नगवनस्पती विटपिशाखिभूजागमा महीजधरणीरुहक्षितिजवृक्षशालादयः ॥ रज्नि_2.24
फलितः फलवान् एष फलिनश् च फली तथा ।
फलेग्रहिर् अबन्ध्यो यः स्याद् अमोघफलोदयः ॥ रज्नि_2.25
अथावकेशी बन्ध्यो ऽयं विफलो निष्फलो ऽफलः ।
उक्तौ प्राग् आत्मना भिन्नौ वानस्पत्यवनस्पती ॥ रज्नि_2.26
मूलं तु नेत्रं पादः स्याद् अङ्घ्रिश्चरणम् इत्य् अपि ।
उद्भेदस् त्व् अङ्कुरो ज्ञेयः प्ररोहो ऽङ्कूर इत्य् अपि ॥ रज्नि_2.27
अर्वाग्भागो ऽस्य बुध्नः स्यात् नितम्बः सपृथुर् भवेत् ।
आस्कन्धात् त प्रकाण्डः स्यात् काण्डो दण्डश् च कथ्यते ॥ रज्नि_2.28
स्कन्धप्रमाणास्य लतास् तु शाखाः स्कन्धोत्थशाखास् तु भवन्ति शालाः ।
जटाः शिरास् तस्य किलावरोहाः शाखा शिफा मज्जनि सारम् आहुः ॥ रज्नि_2.29
निष्कुटं कोटरं प्रोक्तं त्वचि वल्कं तु वल्कलम् ।
नवपुष्पाढ्यशाखाग्रे वल्लरी मञ्जरी तथा ॥ रज्नि_2.30
पर्णं पत्रं दलं बर्हं पलाशं छदनं छदः ।
स्यात् पल्लवः किशलयः प्रबालः पल्लवं नवम् ॥ रज्नि_2.31
विस्तारो विटपः प्रोक्तः प्राग्रं तु शिखरं शिरः ।
माढिः पर्णशिरा ज्ञेया वृन्तं प्रसवबन्धनम् ॥ रज्नि_2.32
कुलक्षारकजालककलिकास् तु कुडमले कथिताः ।
कुसुमं सुमनः प्रसूनप्रसवसुमं सूनुफुल्लपुष्पं स्यात् ॥ रज्नि_2.33
मकरन्दो मरन्दश् च मधु पुष्परसाह्वयम् ।
पौष्पं रजः परागः स्यान् मधुली धूलिका च सा ॥ रज्नि_2.34
गुच्छो गुलुञ्छः स्तवको गुच्छकः कुसुमोच्चयः ।
समं परिमलामोदगन्धसौरभ्यसौरभम् ॥ रज्नि_2.35
उज्जृम्भितम् उज्जृम्भं स्मितम् उन्मिषितं विनिद्रम् उन्निद्रम् ।
उन्मीलितं विजृम्भितम् उद्बुद्धोद्भिदुरभिन्नम् उद्भिन्नम् ॥ रज्नि_2.36
विकसितहसितविकस्वरविकचव्याकोशफुल्लसम्फुल्लम् ।
स्फुटम् उदितदलितदीर्णस्फुटितोत्फुल्लप्रफुल्लम् एकार्थम् ॥ रज्नि_2.37
निद्राणं मुद्रितं सुप्तं मिलितं मीलितं नतम् ।
निकूणितं सङ्कुचितं सनिद्रम् अलसं समम् ॥ रज्नि_2.38
आहुस् तरूणां फलम् अत्र शस्यं तद् आमम् उक्तं हि शलाटुसंज्ञम् ।
शुष्कं तु वानं प्रवदन्ति गुल्मस्तम्बौ प्रकाण्डैरहितो महीजः ॥ रज्नि_2.39
उलपं गुल्मिनी वीरुल्लता वल्ली प्रतानिनी ।
व्रततिः प्रततिश् चैषा विस्तीर्णा वीरुद् उच्यते ॥ रज्नि_2.40
अथ वक्षामि नक्षत्रवृक्षानागमलक्षितान् ।
पूज्यान् आयुष्यदांश् चैव वर्द्धनात् पालनाद् अपि ॥ रज्नि_2.41
विषद्रुधात्रीतरुहेमदुग्धा जम्बूस् तथा खादिरकृष्णवंशाः ।
अश्वत्थनागौ च वटः पलाशः प्लक्षस् तथाम्बष्ठतरुः क्रमेण ॥ रज्नि_2.42
बिल्वार्जुनौ चैव विकङ्कतो ऽथ सकेसराः शम्बरसर्जवञ्जुलाः ।
सपानसार्काश् च शमीकदम्बास् तथाम्रनिम्बौ मधुकद्रुमः क्रमात् ॥ रज्नि_2.43
अमी नक्षत्रदैवत्या वृक्षाः स्युः सप्तविंशतिः ।
अश्विन्यादिक्रमाद् एषाम् एषा नक्षत्रपद्धतिः ॥ रज्नि_2.44
यस् त्व् एतेषाम् आत्मजन्मर्क्षभाजां मर्त्यः कुर्याद् भेषजादीन् मदान्धः ।
तस्यायुष्यं श्रीकलत्रं च पुत्रो नश्यत्य् एषा वर्धते वर्द्धनाद्यैः ॥ रज्नि_2.45
आचार्योक्तौ स्फुटम् अथ बृहत्सुश्रुते नारदीये नारायण्यां क्वचिद् अपि तथान्यत्र तन्त्रान्तरेषु ।
ज्ञात्वापीह प्रथितभिषजा नातिदृष्टोपयोगं नैवास्माभिर् विशदितम् इदं गौरवाद् ग्रन्थभीतेः ॥ रज्नि_2.46
तालाद्या जातयः सर्वाः क्रमुकः केतकी तथा ।
खर्जूरीनारिकेलाद्यास् तरयवृक्षाः प्रकीर्तिताः ॥ रज्नि_2.47
सर्वाआंरो चार्द्राणि नवौएषधानि सुवीर्य्यवन्तीति वदन्ति धीराः ।
सर्वारिय शुष्कारिय तु मध्यमानि शुष्काणि जेईर्णानि च निष्फलानि ॥ रज्नि_2.48
वास्तूककुटजगुडूचीवासाकुष्माण्डकादिशतपत्री ।
इत्यादि तु नित्यार्द्रं गुणवच् छुष्कं यदा तदा द्विमुयणम् ।
विडङ्ग मधु मगूरी दाडिमं पिप्पलो गुडुः ।
नागवल्लेईन्दुवश्शाल्याद्याः पुराणाः स्युआआरुणोत्तमाः ॥ रज्नि_2.49
काठिन्यं मध्यकाठिन्यं मार्दवं चेति तु त्रिधा ।
द्रव्याणाम् इह सर्वेषां प्रकृतिः कथ्यते बुधैः ॥ रज्नि_2.50
द्रव्याणां सन्ति सर्वेषां पूर्वैर् उक्तास् त्रयो गुणाः ।
रसो वीर्यं विपाकश् च ज्ञातव्यास् ते ऽतियत्नतः ॥ रज्नि_2.51
रसस् तु मधुरादिः स्याद् वीर्यं कार्यसमर्थता ।
परिणामे गुणाढ्यत्वं विपाक इति संज्ञितम् ॥ रज्नि_2.52
शीतम् उष्णं च रूक्षं च स्निग्धं तीक्ष्णं तथा मृदु ।
पिच्छिलं विशदं चेति वीर्यम् अष्टविधं स्मृतम् ॥ रज्नि_2.53
निस्कुटप्रमदकाननादिषु द्रव्यम् एतद् अपि निर्गुणं भवेत् ।
क्वाप्यलीकवचनोपकर्णनात् क्वाप्यसाधुवनितादिसेवनात् ॥ रज्नि_2.54
जातं श्मशाने वल्मीके देशे मूत्रादिदूषिते ।
द्रव्यं नैवोपयोगाय भिषजाम् उपजायते ॥ रज्नि_2.55
कन्दं हिमर्तौ शिशिरे च मूलं पुष्पं वसन्ते गुणदं वदन्ति ।
प्रबालपत्राणि निदाघकाले स्युः पङ्कजातानि शरत्प्रयोगे ॥ रज्नि_2.56
निम्बोडुम्बरजम्बवाद्या यथाकालं गुणोत्तराः ।
कन्दादिष्व् अथ सर्वेषां पृथग् एव रसाद्यः ॥ रज्नि_2.57
केचित् कन्दे के ऽपि मूलेषु केचित् पत्रे पुष्पे के ऽपि केचित् फलेषु ।
त्वच्य् एवान्ये वल्कले केचिद् इत्थं द्रव्यस्तोमा भिन्नभिन्नं गुणाढ्याः ॥ रज्नि_2.58
देशे देशे योजनद्वादशान्ते भिन्नान्य् आहुर् द्रव्यनामानि लोके ।
किंचामीषु प्राणिनां वर्णभाषाचेष्टाच्छाया भिन्नरूपा विभाति ॥ रज्नि_2.59
अनिर्दिष्टप्रयोगेषु मूलं ग्राह्यं त्वगादिषु ।
सामान्योक्तौ प्रयोक्तव्यं प्राहुस् तोयं तु नाभसम् ॥ रज्नि_2.60
चूर्णकल्ककषायाणां प्रमाणं यत्र नोदितम् ।
तत्र द्रव्यप्रमाणेन स्वयं बुद्ध्या प्रयोजयेत् ॥ रज्नि_2.61
माध्वीकं सर्वमद्यानां मधूनां माक्षिकं तथा ।
तैलं तु तिलसम्भूतं धातवो वस्तिसम्भवाः ॥ रज्नि_2.62
शालीनां रक्तशालिः स्यात् सूप्यानां मुद्ग एव च ।
मूलानां पिप्पलीमूलं फलानां मदनं फलम् ॥ रज्नि_2.63
त्वचा तु गन्धद्रव्याणां पत्राणां गन्धपत्रकम् ।
जीवन्तिशाकं शाकानां लवणानां च सैन्धवम् ॥ रज्नि_2.64
सामान्यपुष्पनिर्देशात् मालतीकुसुमं क्षिपेत् ।
इत्थम् अन्ये ऽपि बोद्धव्याः प्रयोगा योगलक्षिताः ॥ रज्नि_2.65
द्रव्यं वातहरं यत् तत् सकलं दीपनं परम् ।
कफहारि समं प्रोक्तं पित्तघ्नं मन्ददीपनम् ॥ रज्नि_2.66
यच् छीतवीर्यं गुरु पित्तहारि द्रव्यं नृणां वातकरं तद् उक्तम् ।
यदुष्णवीर्यं लघु वातहारि श्लेष्मापहं पित्तकरं च तत् स्यात् ॥ रज्नि_2.67
इति बहुविधदेशभूध्रभूमीरुहवनगुल्मलताभिधागुणानाम् ।
सविवरम् अभिधाय लक्ष्म साधारणम् अथ तच् च विशेषतो ऽभिधास्ये ॥ रज्नि_2.68
इत्थं भूमीविपिनविषयक्षेत्रगोत्रादिनामस्तोमाख्यानप्रकरणगुणव्याकृतिप्रौढम् एनम् ।
वर्गं बुद्ध्वा भिषग् उपचितानर्गलात्यन्तसूक्ष्मप्रज्ञालोकप्रकटितधियाम् आधिराज्ये भिषज्येत् ॥ रज्नि_2.69
इत्य् एष वैद्यकविकल्पविधानिदानचूडामणौ मृडपरागमपारगेण ।
राजनिघण्टु, गुडूच्यादिवर्ग
गुडूची चाथ मूर्वा च पटोलो ऽरण्यजस् तथा ।
काकोली च द्विधा प्रोक्ता माषपर्णी तथापरे ॥ रज्नि_3.1
मुद्गपर्णी च जीवन्ती त्रिविधा चाथ लिङ्गिनी ।
कटुकोशातकी चैव कपिकच्छुस् तथापरे ॥ रज्नि_3.2
खलता कटुतुम्बी च देवदाली तथा स्मृता ।
वन्ध्याकर्कोटकी प्रोक्ता कटुतुण्ड्य् आखुकर्णिका ॥ रज्नि_3.3
द्विधेन्द्रवारुणी चात्र यवतिक्तेश्वरी तथा ।
ज्योतिष्मती द्विधा चैव द्विधा च गिरिकर्णिका ॥ रज्नि_3.4
मोरटश् चाथ चेद् इन्दीवरा वस्तान्त्रिका च सा ।
सोमवल्ली तथा वत्सादनी गोपालकर्कटी ॥ रज्नि_3.5
काकतुण्डी द्विधा चाथ गुञ्जा द्विर् वृद्धदारु च ।
कैवर्ती ताम्रवल्ली च काण्डीरी चाथ जन्तुका ॥ रज्नि_3.6
अम्लपर्णी तथा शङ्खपुष्पी चावर्तकी तथा ।
कर्णस्फोटा तथा कट्वी लता चैवामृतस्रवा ।
पुत्रदा च पलाशी च विज्ञेयात्र नवाभिधा ॥ रज्नि_3.7
सुमतिभिर् इत्थम् अनुक्ता बोद्धव्या वीरुधः क्रमाद् एताः ।
अस्मिन् वीरुद्वर्गे नाम्ना च गुणैश् च कीर्त्यन्ते ॥ रज्नि_3.8
आ पानीयात् परिगणनयैवाप्रसिद्धाभिधाना नाम्नाम् उक्ता परिमितिकथाप्य् अत्र सर्वौषधीनाम् ।
सापि क्वापि स्फुटम् अभिधया क्वापि च प्रौढिभङ्ग्या प्रोक्ता नोक्ता प्रथितविषये सापि नष्टाङ्कवाक्ये ॥ रज्नि_3.9
तस्माद् इह न यत्रोक्ता नाम्नाम् अङ्कादिनिर्मितिः ।
तत्र तत्राष्टसंख्यैव ज्ञेया सर्वत्र सूरिभिः ॥ रज्नि_3.10
यद्य् अपि क्वापि नष्टाङ्कसंख्यानियतिर् ईक्ष्यते ।
तत्र स्फुटत्वबुद्ध्यैव नोक्ता संख्येति बुध्यताम् ॥ रज्नि_3.11
द्रव्याणां गणयशो नियोगवशतो वीर्यं परे प्रोचिरे प्राचीनैर् न च तद्वशेन निगमेषूक्तश् चिकित्साक्रमः ।
तस्यान्नैगमयोगसंग्रहविदां संवादवाग्भिस् तथा नैवास्माभिर् अभाणि किंतु तद् इह प्रत्येकशः कथ्यते ॥ रज्नि_3.12
ज्ञेया गुडूच्य् अमृतवल्ल्य् अमृता ज्वरारिः श्यामा वरा सुरकृता मधुपर्णिका च ।
छिन्नोद्भवामृतलता च रसायनी च छिन्ना च सोमलतिकामृतसम्भवा च ॥ रज्नि_3.13
वत्सादनी छिन्नरुहा विशल्या भिषक्प्रिया कुण्डलिनी वयःस्था ।
जीवन्तिका नागकुमारिका च स्याच् छद्मिका सैव च चण्डहासा ॥ रज्नि_3.14
अन्या कन्दोद्भवा कन्दामृता पिण्डगुडूचिका ।
बहुच्छिन्ना बहुरुहा पिण्डालुः कन्दरोहिणी ॥ रज्नि_3.15
पूर्वा वार्धिकराह्वा स्याद् उत्तरा लोकसंज्ञिका ।
गुडूच्योर् उभयोर् इत्थम् एकत्रिंशद् इहाभिधाः ॥ रज्नि_3.16
ज्ञेया गुडूची गुरुर् उष्णवीर्या तिक्ता कषाया ज्वरनाशिनी च ।
दाहार्तितृष्णावमिरक्तवातप्रमेहपाण्डुभ्रमहारिणी च ॥ रज्नि_3.17
कन्दोद्भवा गुडूची च कटूष्णा संनिपातहा विषघ्नी ज्वरभूतघ्नी वलीपलितनाशिनी ॥ रज्नि_3.18
मूर्वा दिव्यलता मिरा मधुरसा देवी त्रिपर्णी मधुश्रेणी भिन्नदलामरी मधुमती तिक्ता पृथक्पर्णिका ।
गोकर्णी लघुपर्णिका च दहनी तेजस्विनी मोरटा देवश्रेणीमधूलिकामधुदलाः स्युः पीलुनी रक्तला ॥ रज्नि_3.19
सुखोषिता स्निग्धपर्णी पीलुपर्णी मधुस्रवा ।
ज्वलनी गोपवल्ली चेत्य् अष्टविंशतिसंज्ञकाः ॥ रज्नि_3.20
मूर्वा तिक्तकषायोष्णा हृद्रोगकफवातहृत् ।
वमिप्रमेहकुष्ठादिविषमज्वरहारिणी ॥ रज्नि_3.21
स्यात् पटोलः कटुफलः कुलकः कर्कशच्छदः ।
राजनामामृतफलः पाण्डुः पाण्डुफलो मतः ॥ रज्नि_3.22
बीजगर्भो नागफलः कुष्ठारिः कासमर्दनः ।
पञ्चराजिफलो ज्योत्स्नी कुष्ठघ्नः षोडशाह्वयः ॥ रज्नि_3.23
पटोलः कटुतिक्तोष्णः रक्तपित्तबलासजित् ।
कफकण्डूतिकुष्ठासृग्ज्वरदाहार्तिनाशनः ॥ रज्नि_3.24
काकोली मधुरा काकी कालिका वायसोलिका ।
क्षीरा च ध्वाङ्क्षिका वीरा शुक्ला धीरा च मेदुरा ॥ रज्नि_3.25
ध्वाङ्क्षोली स्वादुमांसी च वयःस्था चैव जीविनी ।
इत्य् एषा खलु काकोली ज्ञेया पञ्चदशाह्वया ॥ रज्नि_3.26
काकोली मधुरा स्निग्धा क्षयपित्तानिलार्तिनुत् ।
रक्तदाहज्वरघ्नी च कफशुक्रविवर्धनी ॥ रज्नि_3.27
द्वितीया क्षीरकाकोली क्षीरशुक्ला पयस्विनी ।
पयस्या क्षीरमधुरा वीरा क्षीरविषाणिका ॥ रज्नि_3.28
जीववल्ली जीवशुक्ला स्याद् इत्य् एषा नवाह्वया ।
रसवीर्यविपाकेषु काकोल्या सदृशी च सा ॥ रज्नि_3.29
माषपर्णी तु काम्बोजी कृष्णवृन्ता महासहा ।
आर्द्रमाषा मांसमाषा मङ्गल्या हयपुच्छिका ॥ रज्नि_3.30
हंसमाषाश्वपुच्छा च पाण्डुरा माषपत्त्रिका ।
कल्याणी वज्रमूली च शालिपर्णी विसारिणी ॥ रज्नि_3.31
आत्मोद्भवा बहुफला स्वयम्भूः सुलभा घना ।
इत्य् एषा माषपर्णी स्याद् एकविंशतिनामका ॥ रज्नि_3.32
माषपर्णी रसे तिक्ता वृष्या दाहज्वरापहा ।
शुक्रवृद्धिकरी बल्या शीतला पुष्टिवर्धिनी ॥ रज्नि_3.33
मुद्गपर्णी क्षुद्रसहा शिम्बी मार्जारगन्धिका ।
वनजा रिङ्गिणी ह्रस्वा सूर्यपर्णी कुरङ्गिका ॥ रज्नि_3.34
कांसिका काकमुद्गा च वनमुद्गा वनोद्भवा ।
अरण्यमुद्गा वन्येति ज्ञेया पञ्चदशाह्वया ॥ रज्नि_3.35
मुद्गपर्णी हिमा कासवातरक्तक्षयापहा ।
पित्तदाहज्वरान् हन्ति चक्षुष्या शुक्रवृद्धिकृत् ॥ रज्नि_3.36
जीवन्ती स्याज् जीवनी जीवनीया जीवा जीव्या जीवदा जीवदात्री ।
शाकश्रेष्ठा जीवभद्रा च भद्रा मङ्गल्या च क्षुद्रजीवा यशस्या ॥ रज्नि_3.37
शृङ्गाटी जीवपृष्ठा च काञ्जिका शशशिम्बिका ।
सुपिङ्गलेति जीवन्ती ज्ञेया चाष्टादशाभिधा ॥ रज्नि_3.38
जीवन्ती मधुरा शीता रक्तपित्तानिलापहा ।
क्षयदाहज्वरान् हन्ति कफवीर्यविवर्धनी ॥ रज्नि_3.39
जीवन्त्य् अन्या बृहत्पूर्वा पुत्रभद्रा प्रियंकरी ।
मधुरा जीवपृष्ठा च बृहज्जीवा यशस्करी ॥ रज्नि_3.40
एवम् एव बृहत्पूर्वा रसवीर्यबलान्विता ।
भूतविद्रावणी ज्ञेया वेगाद् रसनियामिका ॥ रज्नि_3.41
हेमा हेमवती सौम्या तृणग्रन्थिर् हिमाश्रया ।
स्वर्णपर्णी सुजीवन्ती स्वर्णजीवा सुवर्णिका ॥ रज्नि_3.42
हेमपुष्पी स्वर्णलता स्वर्णजीवन्तिका च सा ।
हेमवल्ली हेमलता नामान्य् अस्याश् चतुर्दश ॥ रज्नि_3.43
स्वर्णजीवन्तिका वृष्या चक्षुष्या मधुरा तथा ।
शिशिरा वातपित्तासृग्दाहजिद् बलवर्धनी ॥ रज्नि_3.44
लिङ्गिनी बहुपत्त्रा स्याद् ईश्वरी शैवमल्लिका ।
स्वयम्भूर् लिङ्गसम्भूता लिङ्गी चित्रफलामृता ॥ रज्नि_3.45
पण्डोली लिङ्गजा देवी चण्डापस्तम्भिनी तथा ।
शिवजा शिववल्ली च विज्ञेया षोडशाह्वया ॥ रज्नि_3.46
लिङ्गिनी कटुर् उष्णा च दुर्गन्धा च रसायनी ।
सर्वसिद्धिकरी दिव्या वश्या रसनियामिनी ॥ रज्नि_3.47
कोषातकी कृतच्छिद्रा जालिनी कृतवेधना ।
क्ष्वेडा सुतिक्ता घण्टाली मृदङ्गफलिनी तथा ॥ रज्नि_3.48
कोशातकी तु शिशिरा कटुकाल्पकषायका ।
पित्तवातकफघ्नी च मलाध्मानविशोधिनी ॥ रज्नि_3.49
कपिकच्छुरात्मगुप्ता स्वयंगुप्ता महर्षभी ।
लाङ्गूली कुण्डली चण्डा मर्कटी दुरभिग्रहा ॥ रज्नि_3.50
कपिरोमफला गुप्ता दुःस्पर्शा कच्छुरा जया ।
प्रावृषेण्या शूकशिम्बी बदरी गुरुर् आर्षभी ॥ रज्नि_3.51
शिम्बी वराहिका तीक्ष्णा रोमालुर् वनशूकरी ।
कीशरोमा रोमवल्ली स्यात् षड्विंशतिनामका ॥ रज्नि_3.52
कपिकच्छूः स्वादुरसा वृष्या वातक्षयापहा ।
शीतपित्तास्रहन्त्री च विकृता व्रणनाशिनी ॥ रज्नि_3.53
खवल्ल्य् आकाशवल्ली स्याद् अस्पर्शा व्योमवल्लिका ।
आकाशनामपूर्वा सा वल्लीपर्यायगा स्मृता ॥ रज्नि_3.54
आकाशवल्ली कटुका मधुरा पित्तनाशिनी ।
वृष्या रसायनी बल्या दिव्यौषधिपरा स्मृता ॥ रज्नि_3.55
कटुतुम्बी कटुफला तुम्बिनी कटुतुम्बिनी ।
बृहत्फला राजपुत्री तिक्तबीजा च तुम्बिका ॥ रज्नि_3.56
कटुतुम्बी कटुस् तीक्ष्णा वान्तिकृत् श्वासवातजित् ।
कासघ्नी शोधनी शोफव्रणविषापहा ॥ रज्नि_3.57
जीमूतकः कण्टफला गरागरी वेणी सहा क्रोशफला च कट्फला ।
घोरा कदम्बा विषहा च कर्कटी स्याद् देवदाली खलु सारमूषिका ॥ रज्नि_3.58
वृत्तकोशा विषघ्नी च दाली लोमशपत्त्रिका ।
तुरङ्गिका च तर्कारी नाम्नाम् एकोनविंशतिः ॥ रज्नि_3.59
देवदाली तु तिक्तोष्णा कटुः पाण्डुकफापहा ।
दुर्नामश्वासकासघ्नी कामलाभूतनाशनी ॥ रज्नि_3.60
वन्ध्या देवी वन्ध्यकर्कोटका स्यान् नागारातिर् नागहन्त्री मनोज्ञा ।
पथ्या दिव्या पुत्रदात्री सुकन्दा श्रीकन्दा सा कन्दवल्लीश्वरी च ॥ रज्नि_3.61
सुगन्धा सर्पदमनी विषकण्टकिनी वरा ।
कुमारी भूतहन्त्री च नाम्नाम् इत्य् ऊनविंशतिः ॥ रज्नि_3.62
वन्ध्याकर्कोटकी तिक्ता कटूष्णा च कफापहा ।
स्थावरादिविषघ्नी च शस्यते सा रसायने ॥ रज्नि_3.63
तिक्ततुण्डी तु तिक्ताख्या कटुका कटुतुण्डिका ।
बिम्बी च कटुतिक्तादितुण्डीपर्यायगा च सा ॥ रज्नि_3.64
कटुतुण्डी कटुस् तिक्ता कफवान्तिविषापहा ।
अरोचकास्रपित्तघ्नी सदा पथ्या च रोचनी ॥ रज्नि_3.65
स्याद् आखुकर्णी कृषिका द्रवन्ती चित्रा सुकर्णोन्दुरुकर्णिका च ।
न्यग्रोधिका मूषिकनागकर्णी स्याद् वृश्चिकर्णी बहुकर्णिका च ॥ रज्नि_3.66
माता भूमिचरी चण्डा शम्बरी बहुपादिका ।
प्रत्यक्श्रेणी वृषा चैव पुत्रश्रेण्य् अद्रिभूह्वया ॥ रज्नि_3.67
आखुकर्णी कटूष्णा च कफपित्तहरा सदा ।
आनाहज्वरशूलार्तिनाशिनी पाचनी परा ॥ रज्नि_3.68
ऐन्द्रीन्द्रवारुण्य् अरुणा मृगादनी गवादनी क्षुद्रसहेन्द्रचिर्भिटा ।
सूर्या विषघ्नी गुणकर्णिकामरा माता सुवर्णा सुफला च तारका ॥ रज्नि_3.69
वृषभाक्षी गवाक्षी च पीतपुष्पीन्द्रवल्लरी ।
हेमपुष्पी क्षुद्रफला वारुणी बालकप्रिया ॥ रज्नि_3.70
रक्तेर्वारुर् विषलता शक्रवल्ली विषापहा ।
अमृता विषवल्ली च ज्ञेयोनत्रिंशदाह्वया ॥ रज्नि_3.71
इन्द्रवारुणिका तिक्ता कटुशीता च रोचनी ।
गुल्मपित्तोदरश्लेष्मक्रिमिकुष्ठज्वरापहा ॥ रज्नि_3.72
महेन्द्रवारुणी रम्या चित्रवल्ली महाफला ।
सा माहेन्द्री चित्रफला त्रपुसी त्रपुसा च सा ॥ रज्नि_3.73
आत्मरक्षा विशाला च दीर्घवल्ली बृहत्फला ।
स्याद् बृहद्वारुणी सौम्या नामान्य् अस्याश् चतुर्दश ॥ रज्नि_3.74
महेन्द्रवारुणी ज्ञेया पूर्वोक्तगुणभागिनी ।
रसे वीर्ये विपाके च किंचिद् एषा गुणाधिका ॥ रज्नि_3.75
यवतिक्ता महातिक्ता दृढपादा विसर्पिणी ।
नाकुली नेत्रमीला च शङ्खिनी पत्रतण्डुली ॥ रज्नि_3.76
तण्डुली चाक्षपीडा च सूक्ष्मपुष्पी यशस्विनी ।
माहेश्वरी तिक्तयवा यावी तिक्तेति षोडश ॥ रज्नि_3.77
यवतिक्ता सतिक्ताम्ला दीपनी रुचितत्परा ।
क्रिमिकुष्ठविषघ्न्य् आमदोषघ्नी रेचनी च सा ॥ रज्नि_3.78
रौद्री जटा रुद्रजटा च रुद्रा सौम्या सुगन्धा सुहता घना च ।
स्याद् ईश्वरी रुद्रलता सुपत्त्रा सुगन्धपत्रा सुरभिः शिवाह्वा ॥ रज्नि_3.79
पत्त्रवल्ली जटावल्ली रुद्राणी नेत्रपुष्करा ।
महाजटा जटारुद्रा नाम्नां विंशतिर् ईरिता ॥ रज्नि_3.80
जटा कटुरसा श्वासकासहृद्रोगनाशिनी ।
विद्राविणी चैव रक्षसां च निबर्हिणी ॥ रज्नि_3.81
ज्योतिष्मती स्वर्णलतानलप्रभा ज्योतिर्लता सा कटभी सुपिङ्गला ।
दीप्ता च मेध्या मतिदो च दुर्जरा सरस्वती स्याद् अमृतार्कसंख्यया ॥ रज्नि_3.82
तेजोवती बहुरसा कनकप्रभान्या तीक्ष्णा सुवर्णनकुली लवणाग्निदीप्ता ।
तेजस्विनी सुरलताग्निफलाग्निगर्भा स्यात् कङ्गणी तद् अनु शैलसुता सुतैला ॥ रज्नि_3.83
सुवेगा वायसी तीव्रा काकाण्डी वायसादनी ।
गीर्लता श्रीफली सौम्या ब्राह्मी लवणकिंशुका ॥ रज्नि_3.84
पारावतपदी पीता पीततैला यशस्विनी ।
मेध्या मेधाविनी धीरा स्याद् एकत्रिंशदाह्वया ॥ रज्नि_3.85
ज्योतिष्मती तिक्तरसा च रूक्षा किंचित् कटुर् वातकफापहा च ।
दाहप्रदा दीपनकृच् च मेध्या प्रज्ञां च पुष्णाति तथा द्वितीया ॥ रज्नि_3.86
अश्वक्षुराद्रिकर्णी च कटभी दधिपुष्पिका ।
गर्दभी सितपुष्पी च श्वेतस्पन्दापराजिता ॥ रज्नि_3.87
श्वेता भद्रा सुपुष्पी च विषहन्त्री त्रिर् एकधा ।
नागपर्यायकर्णी स्याद् अश्वाह्वादिक्षुरी स्मृता ॥ रज्नि_3.88
गिरिकर्णी हिमा तिक्ता पित्तोपद्रवनाशिनी ।
चक्षुष्या विषदोषघ्नी त्रिदोषशमनी च सा ॥ रज्नि_3.89
नीलपुष्पी महानीला स्यान् नीला गिरिकर्णिका ।
गवादनी व्यक्तगन्धा नीलस्यन्दा षडाह्वया ॥ रज्नि_3.90
नीलाद्रिकर्णी शिशिरा सतिक्ता रक्तातिसारज्वरदाहहन्त्री ।
विच्छर्दिकोन्मादमदभ्रमार्तिश्वासातिकासामयहारिणी च ॥ रज्नि_3.91
मोरटः कीर्णपुष्पश् च पीलुपत्त्रो मधुस्रवः ।
घनमूलो दीर्घमूलः पुरुषः क्षीरमोरटः ॥ रज्नि_3.92
मोरटः क्षीरबहुलो मधुरः सकषायकः ।
पित्तदाहज्वरान् हन्ति वृष्यो बलविवर्धनः ॥ रज्नि_3.93
इन्दीवरा युग्मफला दीर्घवृत्तोत्तमारणी ।
पुष्पमञ्जरिका द्रोणी करम्भा नलिका च सा ॥ रज्नि_3.94
इन्दीवरा कटुः शीता पित्तश्लेष्मापहारिका ।
चक्षुष्या कासदोषघ्नी व्रणक्रिमिहरा परा ॥ रज्नि_3.95
वस्तान्त्री वृषगन्धाख्या मेषान्त्री वृत्तपत्त्रिका ।
अजान्त्री वोकडी चैव स्याद् इत्य् एषा षडाह्वया ॥ रज्नि_3.96
वस्तान्त्री स्यात् कटुरसा कासदोषविनाशिनी ।
बीजदा गर्भजननी कीर्तिता भिषगुत्तमैः ॥ रज्नि_3.97
सोमवल्ली महागुल्मा यज्ञश्रेष्ठा धनुर्लता ।
सोमार्हा गुल्मवल्ली च यज्ञवल्ली द्विजप्रिया ।
सोमक्षीरा च सोमा च यज्ञाङ्गा रुद्रसंख्यया ॥ रज्नि_3.98
सोमवल्ली कटुः शीता मधुरा पित्तदाहनुत् ।
तृष्णाविशोषशमनी पावनी यज्ञसाधनी ॥ रज्नि_3.99
सौम्या महिषवल्ली च प्रतिसोमान्त्रवल्लिका ।
अपत्त्रवल्लिका प्रोक्ता काण्डशाखा षडाह्वया ।
रसवीर्यविपाके च सोमवल्लीसमा स्मृता ॥ रज्नि_3.100
वत्सादनी सोमवल्ली विक्रान्ता मेचकाभिधा ।
पातालगरुडी तार्क्षी सौपर्णी गारुडी तथा ॥ रज्नि_3.101
वासनी दीर्घकाण्डा च दृढकाण्डा महाबला ।
दीर्घवल्ली दृढलता नामान्य् अस्याश् चतुर्दश ॥ रज्नि_3.102
वत्सादनी तु मधुरा पित्तदाहास्रदोषनुत् ।
वृष्या संतर्पणी रुच्या विषदोषविनाशिनी ॥ रज्नि_3.103
गोपालकर्कटी वन्या गोपकर्कटिका तथा ।
क्षुद्रेर्वारुः क्षुद्रफला गोपाली क्षुद्रचिर्भटा ॥ रज्नि_3.104
गोपालकर्कटी शीता मधुरा पित्तनाशनी ।
मूत्रकृच्छ्राश्मरीमेहदाहशोषनिकृन्तनी ॥ रज्नि_3.105
काकनासा ध्वाङ्क्षनासा काकतुण्डा च वायसी ।
सुरङ्गी तस्करस्नायुर् ध्वाङ्क्षतुण्डा सुनासिका ॥ रज्नि_3.106
वायसाह्वा ध्वाङ्क्षनखी काकाक्षा ध्वाङ्क्षनासिका ।
काकप्राणा च विज्ञेया नामान्य् अस्यास् त्रयोदश ॥ रज्नि_3.107
काकनासा तु मधुरा शिशिरा पित्तहारिणी ।
रसायनी दार्ढ्यकरी विशेषात् पलितापहा ॥ रज्नि_3.108
काकादनी काकपीलुः काकशिम्बी च रक्तला ।
ध्वाङ्क्षादनी वक्त्रशल्या दुर्मोहा वायसादनी ॥ रज्नि_3.109
काकतुण्डी ध्वाङ्क्षनखी वायसी काकदन्तिका ।
ध्वाङ्क्षदन्तीति विज्ञेयास् तिस्रश् च दश चाभिधाः ॥ रज्नि_3.110
काकादनी कटूष्णा च तिक्ता दिव्यरसायनी ।
वातदोषहरा रुच्या पलितस्तम्भिनी परा ॥ रज्नि_3.111
गुञ्जा चूडामणिः सौम्या शिखण्डी कृष्णलारुणा ।
ताम्रिका शीतपाकी स्याद् उच्चटा कृष्णचूडिका ॥ रज्नि_3.112
रक्ता च रक्तिका चैव काम्भोजी भिल्लिभूषणा ।
वन्यास्या मानचूडा च विज्ञेया षोडशाह्वया ॥ रज्नि_3.113
द्वितीया श्वेतकाम्भोजी श्वेतगुञ्जा भिरिण्टिका ।
काकादनी काकपीलुर् वक्त्रशल्या षडाह्वया ॥ रज्नि_3.114
गुञ्जाद्वयं तु तिक्तोष्णं बीजं वान्तिकरी शिफा ।
शूलघ्नं विषकृत् पत्त्रं वश्ये श्वेतं च शस्यते ॥ रज्नि_3.115
वृद्धदारुक आवेगी जुङ्गको दीर्घबालुकः ।
वृद्धः कोटरपुष्पी स्याद् अजान्त्री छागलान्त्रिका ॥ रज्नि_3.116
जीर्णदारु द्वितीया स्याज् जीर्णा फञ्जी सुपुष्पिका ।
अजरा सूक्ष्मपत्त्रा च विज्ञेया च षडाह्वया ॥ रज्नि_3.117
वृद्धदारुद्वयं गौल्यं पिच्छिलं कफवातहृत् ।
बल्यं कासामदोषघ्नं द्वितीयं स्वल्पवीर्यदम् ॥ रज्नि_3.118
कैवर्तिका सुरङ्गा च लता वल्ली द्रुमारुहा ।
रिङ्गिणी वस्त्ररङ्गा च भगा चेत्य् अष्टधाभिधा ॥ रज्नि_3.119
कैवर्तिका लघुर् वृष्या कषाया कफनाशनी ।
कासश्वासहरा चैव सैव मन्दाग्निदोषनुत् ॥ रज्नि_3.120
ताली तमाली ताम्रा च ताम्रवल्ली तमालिका ।
सूक्ष्मवल्ली सुलोमा च शोधनी तालिका नव ॥ रज्नि_3.121
ताम्रवल्ली कषाया स्यात् कफदोषविनाशनी ।
मुखकण्ठोत्थदोषघ्नी श्लेष्मशुद्धिकरी परा ॥ रज्नि_3.122
काण्डीरः काण्डकटुको नासासंवेदनः पटुः ।
उग्रकाण्डस् तोयवल्ली कारवल्ली सुकाण्डकः ॥ रज्नि_3.123
काण्डीरः कटुतिक्तोष्णः सरो दुष्टव्रणार्तिनुत् ।
लूतागुल्मोदरप्लीहशूलमन्दाग्निनाशनः ॥ रज्नि_3.124
जन्तुका जन्तुकारी च जननी चक्रवर्तिनी ।
तिर्यक्फला निशान्धा च बहुपत्त्रा सुपत्त्रिका ॥ रज्नि_3.125
राजकृष्णा जनेष्टा च कपिकच्छुफलोपमा ।
रञ्जनी सूक्ष्मवल्ली च भ्रमरी कृष्णवल्लिका ॥ रज्नि_3.126
विज्जुल्लिका वृक्षरुहा ग्रन्थिपर्णी सुवल्लिका ।
तरुवल्ली दीर्घफला एकविंशतिसंज्ञका ॥ रज्नि_3.127
जन्तुका शिशिरा तिक्ता रक्तपित्तकफापहा ।
दाहतृष्णावमिघ्नी च रुचिकृद् दीपनी परा ॥ रज्नि_3.128
अत्यम्लपर्णी तीक्ष्णा च कण्डुला वल्लिसूरणा ।
वल्ली करवडादिश् च वनस्थारण्यवासिनी ॥ रज्नि_3.129
अत्यम्लपर्णी तीक्ष्णाम्ला प्लीहशूलविनाशनी ।
वातहृद् दीपनी रुच्या गुल्मश्लेष्मामयापहा ॥ रज्नि_3.130
शङ्खपुष्पी सुपुष्पी च शङ्खाह्वा कम्बुमालिनी ।
सितपुष्पी कम्बुपुष्पी मेध्या वनविलासिनी ॥ रज्नि_3.131
चिरिण्टी शङ्खकुसुमा भूलग्ना शङ्खमालिनी ।
इत्य् एषा शङ्खपुष्पी स्याद् उक्ता द्वादशनामभिः ॥ रज्नि_3.132
शङ्खपुष्पी हिमा तिक्ता मेधाकृत् स्वरकारिणी ।
ग्रहभूतादिदोषघ्नी वशीकरणसिद्धिदा ॥ रज्नि_3.133
वर्तकी तिन्दुकिनी विभाण्डी विषाणिका रङ्गलता मनोज्ञा ।
सा रक्तपुष्पी महादिजाली सा पीतकीलापि च चर्मरङ्गा ॥ रज्नि_3.134
वामावर्ता च संयुक्ता भूसंख्या शशिसंयुता ।
आवर्तकी कषायाम्ला शीतला पित्तहारिणी ॥ रज्नि_3.135
कर्णस्फोटा श्रुतिस्फोटा त्रिपुटा कृष्णतण्डुला ।
चित्रपर्णी स्फोटलता चन्द्रिका चार्धचन्द्रिका ॥ रज्नि_3.136
कर्णस्फोटा कटुस् तिक्ता हिमा सर्वविषापहा ।
ग्रहभूतादिदोषघ्नी सर्वव्याधिविनाशिनी ॥ रज्नि_3.137
कट्वी कटुकवल्ली च सुकाष्ठा काष्ठवल्लिका ।
सुवल्ली च महावल्ली पशुमोहनिका कटुः ॥ रज्नि_3.138
कट्वी तु कटुका शीता कफश्वासार्तिनाशनी ।
नानाज्वरहरा रुच्या राजयक्ष्मनिवारिणी ॥ रज्नि_3.139
ज्ञेयामृतस्रवा वृत्तारुहाख्या तोयवल्लिका ।
घनवल्ली सितलता नामभिः शरसम्मिता ॥ रज्नि_3.140
उक्तामृतस्रवा पथ्या ईषत् तिक्ता रसायनी ।
विषघ्नी व्रणकुष्ठादीन् कामलां श्वयथुं जयेत् ॥ रज्नि_3.141
पुत्रदात्री तु वातारिर् भ्रमरी श्वेतपुष्पिका ।
वृत्तपत्त्रातिगन्धालुर् वैशिजाता सुवल्लरी ॥ रज्नि_3.142
पुत्रदात्री तु वातघ्नी कटुर् उष्णा कफापहा ।
सुरभिः सर्वदा पथ्या वन्ध्यादोषविनाशनी ॥ रज्नि_3.143
पलाशी पत्त्रवल्ली पर्णवल्ली पलाशिका ।
खुरपर्णी सुपर्णी च दीर्घवल्ली विषादनी ॥ रज्नि_3.144
अम्लपत्त्री दीर्घपत्त्री रसाम्ला चाम्लका च सा ।
अम्लातकी काञ्जिका च स्याच् चतुर्दशधाभिधा ॥ रज्नि_3.145
पलाशी लघुरम्या च मुखदोषविनाशनी ।
अरोचकहरा पथ्या पित्तकोपकरी च सा ॥ रज्नि_3.146
इति बहुविधवल्लीस्तोमनामाभिधानप्रगुणगुणयथावद्वर्णनापूर्णम् एनम् ।
सुललितपदसर्गं वर्गनाम्ना च वैद्यः सदसि बहुविलासं व्यासवद् व्यातनोतु ॥ रज्नि_3.147
दीप्ता दीधितयस् तथान्धतमसध्वंसाय भानोर् इव व्यातन्वन्ति निजं रुजां विजयते वीर्यं विरुद्धौ च याः ।
तासाम् एव विलासभूमिर् असमो वर्गः श्रुतो वीरुधां वीरुद्वर्ग इति प्रतीतमहिमा नैसर्गिकैर् यो गुणैः ॥ रज्नि_3.148
प्राप्ता यस्य परिग्रहं त्रिविधसद्वीरैकचूडामणेस् तीव्राण्य् ओषधयः स्रवन्ति सहसा वीर्याण्य् अजर्याद् इव ।
तस्यायं नृहरेः कृतौ स्थितिम् अगाद् वर्गो गुडूच्यादिकस् तार्तीयीकतयाभिधानरचनाचूडामणौ कीर्तितः ॥ रज्नि_3.149
राजनिघण्टु, पर्पटादिवर्ग
पर्पटो जीवकश् चैवर्षभकः श्रावणी द्विधा ।
मेदाद्वयम् ऋद्धिवृद्धी धूम्रपत्त्रा प्रसारणी ॥ रज्नि_4.1
चतुष्पाषाणभेदः स्यात् कन्या बर्हिशिखा तथा ।
क्षीरिणीद्वितयं चैव त्रायमाणा रुदन्तिका ॥ रज्नि_4.2
ब्राह्मी द्विधा च वन्दाकः कुलत्था तण्डुलीयकः ।
चिविल्लो नागशुण्डी च कुटुम्बी स्थलपद्मिनी ॥ रज्नि_4.3
जम्बूश् च नागदन्ती च विष्णुक्रान्ता कुणञ्जरः ।
भूम्यामली च गोरक्षी गोलोमी दुग्धफेनिका ॥ रज्नि_4.4
क्षुद्राम्लिका च लज्जाह्वी हंसपादी च काथरा ।
पुनर्नवात्रयं प्रोक्तं वसुको द्विविधः स्मृतः ॥ रज्नि_4.5
सर्पिणी चालिर् मत्स्याक्षी गुण्डालावनिपाटली ।
स्यात् पाण्डुरफली श्वेता ब्रह्मदण्डी द्रवन्तिका ॥ रज्नि_4.6
द्रोणपुष्पीद्वयं चैव झण्डूर् गोरक्षदुग्धिका ।
नवबाणमिताः क्षुद्रक्षुपाः प्रोक्ता यथाक्रमात् ॥ रज्नि_4.7
पर्पटश् चरको रेणुस् तृष्णारिः खरको रजः ।
शीतः शीतप्रियः पांशुः कल्पाङ्गी वर्मकण्टकः ॥ रज्नि_4.8
कृशशाखः पर्पटकः सुतिक्तो रक्तपुष्पकः ।
पित्तारिः कटुपत्त्रश् च कवचो ऽष्टादशाभिधः ॥ रज्नि_4.9
पर्पटः शीतलस् तिक्तः पित्तश्लेष्मज्वरापहः ।
रक्तदाहारुचिग्लानिमदविभ्रमनाशनः ॥ रज्नि_4.10
जीवको जीवनो जीव्यः शृङ्गाह्वः प्राणदः प्रियः ।
चिरजीवी च मधुरो मङ्गल्यः कूर्चशीर्षकः ॥ रज्नि_4.11
ह्रस्वाङ्गो वृद्धिदश् चोक्तो ह्य् आयुष्मान् जीवदस् तथा ।
दीर्घायुर् बलदश् चैव नामान्य् एतानि षोडश ॥ रज्नि_4.12
जीवको मधुरः शीतो रक्तपित्तानिलार्तिजित् ।
क्षयदाहज्वरान् हन्ति शुक्रश्लेष्मविवर्धनः ॥ रज्नि_4.13
ऋषभो गोपतिर् धीरो विषाणी धूर्द्धरो वृषः ।
ककुद्मान् पुङ्गवो वोढा शृङ्गी धुर्यश् च भूपतिः ॥ रज्नि_4.14
कामी ऋक्षप्रियश् चोक्षा लाङ्गुली गौश् च बन्धुरः ।
गोरक्षो वनवासी च ज्ञेयो विंशतिनामकः ॥ रज्नि_4.15
ऋषभो मधुरः शीतः पित्तरक्तविरेकनुत् ।
शुक्रश्लेष्मकरो दाहक्षयज्वरहरश् च सः ॥ रज्नि_4.16
श्रावणी स्यान् मुण्डितिका भिक्षुः श्रवणशीर्षिका ।
श्रवणा च प्रव्रजिता परिव्राजी तपोधना ॥ रज्नि_4.17
श्रावणी तु कषाया स्यात् कटूष्णा कफपित्तनुत् ।
आमातीसारकासघ्नी विषच्छर्दिविनाशिनी ॥ रज्नि_4.18
महाश्रावणिकान्या सा महामुण्डी च लोचनी ।
कदम्बपुष्पी विकचा क्रोडचूडा पलङ्कषा ॥ रज्नि_4.19
नदीकदम्बो मुण्डाख्या महामुण्डनिका च सा ।
छिन्ना ग्रन्थिनिका माता स्थविरा लोभनी तथा ।
भूकदम्बो ऽलम्बुषा स्याद् इति सप्तदशाह्वया ॥ रज्नि_4.20
महामुण्ड्य् उष्णतिक्ता च ईषद् गौल्या मरुच्छिदा ।
स्वरकृद् रोचनी चैव मेहहृच् च रसायनी ॥ रज्नि_4.21
मेदा वसा मणिच्छिद्रा जीवनी शल्यपर्णिका ।
नखच्छेद्या हिमा रङ्गा मध्यदेशे प्रजायते ॥ रज्नि_4.22
मेदःसारा स्नेहवती मेदिनी मधुरा वरा ।
स्निग्धा मेदोद्रवा साध्वी शल्यदा बहुरन्ध्रिका ।
ऊनविंशत्याह्वया सा मता पूरुषदन्तिका ॥ रज्नि_4.23
मेदा तु मधुरा शीता पित्तदाहार्तिकासनुत् ।
राजयक्ष्मज्वरहरा वातदोषकरी च सा ॥ रज्नि_4.24
महामेदा वसुच्छिद्रा जीवनी पांशुरागिणी ।
देवेष्टा सुरमेदा च दिव्या देवमणिस् तथा ॥ रज्नि_4.25
देवगन्धा महाच्छिद्रा ऋक्षार्हा रुद्रसंमिता ।
महामेदाभिधः कन्दो लताजातः सुपाण्डुरः ।
मेदापि शुक्लकन्दः स्यान् मेदोधातुम् इव स्रवेत् ॥ रज्नि_4.26
महामेदा हिमा रुच्या कफशुक्रप्रवृद्धिकृत् ।
हन्ति दाहास्रपित्तानि क्षयवातज्वरं च सा ॥ रज्नि_4.27
ऋद्धिः सिद्धिः प्राणदा जीवदात्री सिद्धा योग्या चेतनीया रथाङ्गी ।
मङ्गल्या स्याल् लोककान्ता यशस्या जीवश्रेष्ठा द्वादशाह्वा क्रमेण ॥ रज्नि_4.28
वृद्धिस् तुष्टिः पुष्टिदा वृद्धिदात्री मङ्गल्या श्रीः सम्पद् आशीर् जनेष्टा ।
लक्ष्मीर् भूतिर् मुत् सुखं जीवभद्रा स्याद् इत्य् एषा लोकसंज्ञा क्रमेण ॥ रज्नि_4.29
ऋद्धिर् वृद्धिश् च कन्दौ द्वौ भवतः कोशयामले ।
श्वेतरोमान्वितः कन्दो लताजातः सरन्ध्रकः ॥ रज्नि_4.30
तूलग्रन्थिसमा ऋद्धिर् वामावर्तफला च सा ।
वृद्धिस् तु दक्षिणावर्तफला प्रोक्ता महर्षिभिः ॥ रज्नि_4.31
ऋद्धिर् वृद्धिश् च मधुरा सुस्निग्धा तिक्तशीतला ।
रुचिमेधाकरी श्लेष्मक्रिमिकुष्ठहरा परा ॥ रज्नि_4.32
प्रयोगेष्व् अनयोर् एकं यथालाभं प्रयोजयेत् ।
यत्र द्वयानुसृष्टिः स्याद् द्वयम् अप्य् अत्र योजयेत् ॥ रज्नि_4.33
धूम्रपत्त्रा तु धूम्राह्वा सुलभा तु स्वयम्भुवा ।
गृध्रपत्त्रा च गृध्राणी क्रिमिघ्नी स्त्रीमलापहा ॥ रज्नि_4.34
धूम्रपत्त्रा रसे तिक्ता शोफघ्नी क्रिमिनाशिनी ।
उष्णा कासहरा चैव रुच्या दीपनकारिणी ॥ रज्नि_4.35
प्रसारणी सुप्रसरा सारणी सरणी सरा ।
चारुपर्णी राजबला भद्रपर्णी प्रतानिका ॥ रज्नि_4.36
प्रबला राजपर्णी च बल्या भद्रबला तथा ।
चन्द्रवल्ली प्रभद्रा च ज्ञेया पञ्चदशाह्वया ॥ रज्नि_4.37
प्रसारणी गुरूष्णा च तिक्ता वातविनाशिनी ।
अर्शःश्वयथुहन्त्री च मलविष्टम्भहारिणी ॥ रज्नि_4.38
पाषाणभेदको ऽश्मघ्नः शिलाभेदो ऽश्मभेदकः ।
श्वेता चोपलभेदी च नगजिच् छिलिगर्भजा ॥ रज्नि_4.39
पाषाणभेदो मधुरस् तिक्तो मेहविनाशनः ।
तृड्दाहमूत्रकृच्छ्रघ्नः शीतलश् चाश्मरीहरः ॥ रज्नि_4.40
अन्या तु वटपत्त्री स्याद् अन्या चैरावती च सा ।
गोधावतीरावती च श्यामा खट्वाङ्गनामिका ॥ रज्नि_4.41
वटपत्त्री हिमा गौल्या मेहकृच्छ्रविनाशिनी ।
बलदा व्रणहन्त्री च किंचिद् दीपनकारिणी ॥ रज्नि_4.42
अन्या श्वेता शिलावल्का शिलाजा शैलवल्कला ।
वल्कला शैलगर्भाह्वा शिलात्वक् सप्तनामिका ॥ रज्नि_4.43
शिलावल्कं हिमं स्वादु मेहकृच्छ्रविनाशनम् ।
मूत्ररोधाश्मरीशूलक्षयपित्तापहारकम् ॥ रज्नि_4.44
क्षुद्रपाषाणभेदान्या चतुष्पत्त्री च पार्वती ।
नागभूर् अश्मकेतुश् च गिरिभूः कन्दरोद्भवा ॥ रज्नि_4.45
शैलोद्भवा च गिरिजा नगजा च दशाह्वया ।
क्षुद्रपाषाणभेदा तु व्रणकृच्छ्राश्मरीहरा ॥ रज्नि_4.46
गृहकन्या कुमारी च कन्यका दीर्घपत्त्रिका ।
स्थलेरुहा मृदुः कन्या बहुपत्त्रामराजरा ॥ रज्नि_4.47
कण्टकप्रावृता वीरा भृङ्गेष्टा विपुलस्रवा ।
ब्रह्मघ्नी तरुणी रामा कपिला चाम्बुधिस्रवा ।
सुकण्टका स्थूलदलेत्य् एकविंशतिनामका ॥ रज्नि_4.48
गृहकन्या हिमा तिक्ता मदगन्धिः कफापहा ।
पित्तकासविषश्वासकुष्ठघ्नी च रसायनी ॥ रज्नि_4.49
बर्हिचूडा तु शिखिनी शिखालुः सुशिखा शिखा ।
शिखाबला केकिशिखा मयूराद्यभिधा शिखा ॥ रज्नि_4.50
बर्हिचूडा रसे स्वादुर् मूत्रकृच्छ्रविनाशिनी ।
बालग्रहादिदोषघ्नी वश्यकर्मणि शस्यते ॥ रज्नि_4.51
क्षीरिणी काञ्चनक्षीरी कर्षणी कटुपर्णिका ।
तिक्तदुग्धा हैमवती हिमदुग्धा हिमावती ॥ रज्नि_4.52
हिमाद्रिजा पीतदुग्धा यवचिञ्चा हिमोद्भवा ।
हैमी च हिमजा चेति चतुरेकगुणाह्वया ॥ रज्नि_4.53
क्षीरिणी कटुतिक्ता च रेचनी शोफतापनुत् ।
क्रिमिदोषकफघ्नी च पित्तज्वरहरा च सा ॥ रज्नि_4.54
स्वर्णक्षीरी स्वर्णदुग्धा स्वर्णाह्वा रुक्मिणी तथा ।
सुवर्णा हेमदुग्धी च हेमक्षीरी च काञ्चनी ॥ रज्नि_4.55
स्वर्णक्षीरी हिमा तिक्ता क्रिमिपित्तकफापहा ।
मूत्रकृच्छ्राश्मरीशोफदाहज्वरहरा परा ॥ रज्नि_4.56
त्रायमाणा कृतत्राणा त्रायन्ती त्रायमाणिका ।
बलभद्रा सुकामा च वार्षिकी गिरिजानुजा ॥ रज्नि_4.57
मङ्गल्याह्वा देवबला पालनी भयनाशिनी ।
अवनी रक्षणी त्राणा विज्ञेया षोडशाह्वया ॥ रज्नि_4.58
त्रायन्ती शीतमधुरा गुल्मज्वरकफास्रनुत् ।
भ्रमतृष्णाक्षयग्लानिविषच्छर्दिविनाशिनी ॥ रज्नि_4.59
स्याद् रुदन्ती स्रवत्तोया संजीवन्य् अमृतस्रवा ।
रोमाञ्चिका महामांसी चणपत्त्री सुधास्रवा ॥ रज्नि_4.60
रुदन्ती कटुतिक्तोष्णा क्षयक्रिमिविनाशिनी ।
रक्तपित्तकफश्वासमेहहारी रसायनी ॥ रज्नि_4.61
चणपत्त्रसमं पत्त्रं क्षुपं चैव तथाम्लकम् ।
शिशिरे जलबिन्दूनां स्रवन्तीति रुदन्तिका ॥ रज्नि_4.62
ब्राह्मी सरस्वती सौम्या सुरश्रेष्ठा सुवर्चला ।
कपोतवेगा वैधात्री दिव्यतेजा महौषधी ॥ रज्नि_4.63
स्वायम्भुवी सोमलता सुरेज्या ब्रह्मकन्यका ।
मण्डूकमाता मत्स्याक्षी मण्डूकी सुरसा तथा ॥ रज्नि_4.64
मेध्या वीरा भारती च वरा च परमेष्ठिनी ।
दिव्या च शारदी चेति चतुर्विंशतिनामका ॥ रज्नि_4.65
ब्राह्मी हिमा कषाया च तिक्ता वातास्रपित्तजित् ।
बुद्धिं प्रज्ञां च मेधां च कुर्याद् आयुष्यवर्धनी ॥ रज्नि_4.66
ब्राह्मी तु क्षुद्रपत्त्रान्या लघुब्राह्मी जलोद्भवा ।
ब्राह्मी तिक्तरसोष्णा च सरा वातामशोफजित् ॥ रज्नि_4.67
वन्दाकः पादपरुहा शिखरी तरुरोहिणी ।
वृक्षादनी वृक्षरुहा कामवृक्षश् च शेखरी ॥ रज्नि_4.68
केशरूपा तरुरुहा तरुस्था गन्धमेदिनी ।
कामिनी तरुरुट् श्यामा द्रुपदी षोडशाभिधाः ॥ रज्नि_4.69
वन्दाकस् तिक्तशिशिरः कफपित्तश्रमापहः ।
वश्यादिसिद्धिदो वृष्यः कषायश् च रसायनः ॥ रज्नि_4.70
कुलत्था दृक्प्रसादा च ज्ञेयारण्यकुलत्थिका ।
कुलाली लोचनहिता चक्षुष्या कुम्भकारिका ॥ रज्नि_4.71
कुलत्थिका कटुस् तिक्ता स्याद् अर्शःशूलनाशनी ।
विबन्धाध्मानशमनी चक्षुष्या व्रणरोपणी ॥ रज्नि_4.72
तण्डुलीयस् तु भण्डीरस् तण्डुली तण्डुलीयकः ।
ग्रन्थिलो बहुवीर्यश् च मेघनादो घनस्वनः ॥ रज्नि_4.73
सुशाकः पथ्यशाकश् च स्फूर्जथुः स्वनिताह्वयः ।
वीरस् तण्डुलनामा च पर्यायाश् च चतुर्दश ॥ रज्नि_4.74
तण्डुलीयस् तु शिशिरो मधुरो विषनाशनः ।
रुचिकृद् दीपनः पथ्यः पित्तदाहभ्रमापहः ॥ रज्नि_4.75
चिविल्लिका रक्तदला खरच्छदा स्यात् क्षुद्रघोली मधुमालपत्त्रिका ।
चिविल्लिका चैव कटुः कषायिका ज्वरे ऽतिसारे च हिता रसायनी ॥ रज्नि_4.76
हस्तिशुण्डी महाशुण्डी शुण्डी घूसरपत्त्रिका ।
हस्तिशुण्डी कटूष्णा स्यात् संनिपातज्वरापहा ॥ रज्नि_4.77
कुटुम्बिनी पयस्या च क्षीरिणी जलकामुका ।
वक्रशल्या दुराधर्षा क्रूरकर्मा झिरिण्टिका ॥ रज्नि_4.78
शीता प्रहरजाया च शीतला च जलेरुहा ।
विख्याता किल विद्वद्भिर् एषा द्वादशनामभिः ॥ रज्नि_4.79
कुटुम्बिनी तु मधुरा ग्राहिणी कफपित्तनुत् ।
व्रणास्रदोषकण्डूतिनाशनी सा रसायनी ॥ रज्नि_4.80
स्थलपद्मी तु पद्माह्वा चारटी पद्मचारिणी ।
सुगन्धमूलाम्बुरुहा लक्ष्मीश्रेष्ठा सुपुष्करा ॥ रज्नि_4.81
रम्या पद्मवती चातिचरा स्थूलरुहा स्मृता ।
ज्ञेया पुष्करिणी चैव पुष्कराद्या च पर्णिका ।
पुष्करादियुता नाडी प्रोक्ता पञ्चदशाह्वया ॥ रज्नि_4.82
स्थलादिपद्मिनी गौल्या तिक्ता शीता च वान्तिनुत् ।
रक्तपित्तहरा मेहभूतातीसारनाशनी ॥ रज्नि_4.83
जम्बूर् जाम्बवती वृत्ता वृत्तपुष्पा च जाम्बवी ।
मदघ्नी नागदमनी दुर्धर्षा दुःसहा नव ॥ रज्नि_4.84
ज्ञेया जम्बूस् त्रिदोषघ्नी तीक्ष्णोष्णा कटुतिक्तका ।
उदराध्मानदोषघ्नी कोष्ठशोधनकारिणी ॥ रज्नि_4.85
नागदन्ती श्वेतघण्टा मधुपुष्पा विशोधनी ।
नागस्फोता विशालाक्षी नागच्छत्रा विचक्षणा ॥ रज्नि_4.86
सर्पपुष्पी शुक्लपुष्पी स्वादुका शीतदन्तिका ।
सितपुष्पी सर्पदन्ती नागिनी बाणभूमिता ॥ रज्नि_4.87
नागदन्ती कटुस् तिक्ता रूक्षा वातकफापहा ।
मेधाकृद् विषदोषघ्नी पाचनी शुभदायिनी ।
गुल्मशूलोदरव्याधिकण्ठदोषनिकृन्तनी ॥ रज्नि_4.88
विष्णुक्रान्ता हरिक्रान्ता नीलपुष्पापराजिता ।
नीलक्रान्ता सतीना च विक्रान्ता छर्दिका च सा ।
विष्णुक्रान्ता कटुस् तिक्ता कफवातामयापहा ॥ रज्नि_4.89
कुणञ्जरः कुणञ्जी च कुणञ्जो ऽरण्यवास्तुकः ।
कुणञ्जो मधुरो रुच्यो दीपनः पाचनो हितः ॥ रज्नि_4.90
भूम्यामली तमाली च ताली चैव तमालिका ।
उच्चटा दृढपादी च वितुन्ना च वितुन्निका ॥ रज्नि_4.91
भूधात्री चारुटा वृष्या विषघ्नी बहुपत्रिका ।
बहुवीर्याहिभयदा विश्वपर्णी हिमालया ।
जटा वीरा च नाम्नां सा भवेद् एकोनविंशतिः ॥ रज्नि_4.92
भूधात्री तु कषायाम्ला पित्तमेहविनाशनी ।
शिशिरा मूत्ररोगार्तिशमनी दाहनाशनी ॥ रज्नि_4.93
गोरक्षी सर्पदण्डी च दीर्घदण्डी सुदण्डिका ।
चित्रला गन्धबहुला गोपाली पञ्चपर्णिका ॥ रज्नि_4.94
गोरक्षी मधुरा तिक्ता शिशिरा दाहपित्तनुत् ।
विस्फोटवान्त्यतीसारज्वरदोषविनाशनी ॥ रज्नि_4.95
गोलोमिका तु गोधूमी गोजा क्रोष्टुकपुच्छिका ।
गोसम्भवा प्रस्तरिणी विज्ञेयेति षडाह्वया ॥ रज्नि_4.96
गोलोमिका कटुस् तिक्ता त्रिदोषशमनी हिमा ।
मूलरोगास्रदोषघ्नी ग्राहिणी दीपनी च सा ॥ रज्नि_4.97
दुग्धफेनी पयःफेनी फेनदुग्धा पयस्विनी ।
लूतारिर् व्रणकेतुश् च गोजापर्णी च सप्तधा ॥ रज्नि_4.98
दुग्धफेनी कटुस् तिक्ता शिशिरा विषनाशिनी ।
व्रणापसारिणी रुच्या युक्त्या चैव रसायनी ॥ रज्नि_4.99
क्षुद्राम्लिका तु चाङ्गेरी चुक्राह्वा चुक्रिका च सा ।
लोणाम्ला च चतुष्पर्णी लोणा लोडाम्लपत्रिका ॥ रज्नि_4.100
अम्बष्ठाम्लवती चैव अम्ला दन्तशठा मता ।
शस्त्राङ्गा चाम्लपत्री च ज्ञेया पञ्चदशाह्वया ॥ रज्नि_4.101
क्षुद्राम्ली च रसे साम्ला सोष्णा सा वह्निवर्धनी ।
रुचिकृद् ग्रहणीदोषदुर्नामघ्नी कफापहा ॥ रज्नि_4.102
रक्तपादी शमीपत्रा स्पृक्का खदिरपत्रिका ।
सङ्कोचनी समङ्गा च नमस्कारी प्रसारिणी ॥ रज्नि_4.103
लज्जालुः सप्तपर्णी स्यात् खदिरी गण्डमालिका ।
लज्जा च लज्जिका चैव स्पर्शलज्जास्ररोधनी ॥ रज्नि_4.104
रक्तमूला ताम्रमूला स्वगुप्ताञ्जलिकारिका ।
नाम्नां विंशतिर् इत्य् उक्ता लज्जायास् तु भिषग्वरैः ॥ रज्नि_4.105
रक्तपादी कटुः शीता पित्तातीसारनाशनी ।
शोफदाहश्रमश्वासव्रणकुष्ठकफास्रनुत् ॥ रज्नि_4.106
लज्जालुर् वैपरीत्यान्या अल्पक्षुपबृहद्दला ।
वैपरीत्या तु लज्जालुर् ह्य् अभिधाने प्रयोजयेत् ॥ रज्नि_4.107
लज्जालुर् वैपरीत्याह्वा कटुर् उष्णा कफामनुत् ।
रसो नियामको ऽत्यन्तनानाविज्ञानकारकः ॥ रज्नि_4.108
रक्तपाद्य् अपरा प्रोक्ता त्रिपदा हंसपादिका ।
घृतमण्डलिका ज्ञेया विश्वग्रन्थिस् त्रिपादिका ॥ रज्नि_4.109
विपादी कीटमारी च हेमपादी मधुस्रवा ।
कर्णाटी ताम्रपत्री च विक्रान्ता सुवहा तथा ॥ रज्नि_4.110
ब्रह्मादनी पदाङ्गी च शीताङ्गी सुतपादुका ।
संचारिणी च पदिका प्रह्लादी कीलपादिका ॥ रज्नि_4.111
मूल पाठ: Rājanighaṇṭu [also called Nighaṇṭurāja, or Abhidhānacūḍāmaṇi] · Edition: Calcutta 1933 : Siddheshvarayantra · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0