राजनिघण्टु · भाग 161180
राजसो लवणाम्लतिक्तकटुकप्रायोष्णभोजी पटुः प्रौढो नातिकृशो ऽप्यकालपलिती क्रोधप्रपञ्चान्वितः ।
द्राघीयान् महिलाशयो वितरिता सोपाधिकं याचितो गौराङ्गः कनकादिदीप्तिललितः स्वप्नी च पित्तात्मकः ॥ रज्नि_21.12
निद्रालुर्बहुभाषकः सुकुटिलः क्रूराशयो नास्तिकः प्रायः पर्युषितातिशीतविरसाहारैकनिष्ठो ऽलसः ।
कार्येष्वत्यभिमानवान् असमये दाता यथेच्छं कृशः स्वप्ने व्योमगतिः सितेतरतनुर् वातूलकस् तामसः ॥ रज्नि_21.13
सत्त्वादयो गुणा यत्र मिश्रिताः सन्ति भूयसा ।
मिश्रप्रकृतिकः सो ऽयं विज्ञातव्यो मनीषिभिः ॥ रज्नि_21.14
सत्त्वादिरजसा मिश्रे श्रेष्ठं सत्त्वादितामसे ।
मध्यमं रजसा मिश्रे कनीयो गुणमिश्रणम् ॥ रज्नि_21.15
सत्त्वं चित्तविकाशमाशु तनुते दत्ते प्रबोधं परं कालुष्यं कुरुते रजस्तु मनसः प्रस्तौति चाव्याकृतिम् ।
आन्ध्यं हन्त हृदि प्रयच्छति तिरोधत्ते स्वतत्त्वे धियं संधत्ते जडतां च संततम् उपाधत्ते प्रमीलां तमः ॥ रज्नि_21.16
वातः स्वैरः स्याल्लघुः शीतरूक्षः सूक्ष्मस्पर्शज्ञानकस् तोदकारी ।
माधुर्यान्ने सो ऽभ्रकाले ऽपराह्णे प्रत्यूषे ऽन्ने याति जीर्णे च कोपम् ॥ रज्नि_21.17
पित्तं च तिक्ताम्लरसं च सारकं चोष्णं द्रवं तीक्ष्णम् इदं मधौ बहु ।
वर्षान्तकाले भृशम् अर्धरात्रे मध्यंदिने ऽन्नस्य जरे च कुप्यति ॥ रज्नि_21.18
श्लेष्मा गुरुः श्लक्ष्णमृदुः स्थिरस्तथा स्निग्धः पटुः शीतजडश् च गौल्यवान् ।
शीते वसन्ते च भृशं निशामुखे पूर्वे ऽह्नि भुक्तोपरि च प्रकुप्यति ॥ रज्नि_21.19
दोषत्रयस्य ये भेदा वृद्धिक्षयविकल्पतः ।
तानतः सम्प्रवक्ष्यामि संक्षेपार्थं समञ्जसम् ॥ रज्नि_21.20
एकैकवृद्धौ स्युर् भेदास् त्रयो ये वृद्धिदास् त्रयः ।
तत्राप्येकतरा ह्य् अर्थे षडेवं द्वादशैव ते ॥ रज्नि_21.21
वृद्धान्योन्यव्यत्ययाभ्यां षट् त्रिवृद्ध्या तु सप्तमः ।
वृद्धोऽन्योन्यो वृद्धतरः परो वृद्धतमस्त्विति ॥ रज्नि_21.22
तारतम्येन षड्भेदास्त एवं पञ्चविंशतिः ।
एवं क्षयेऽपि तावन्तस् ततः पञ्चाशद् ईरिताः ॥ रज्नि_21.23
वृद्धोऽन्योन्यः समो ऽन्यश्च क्षीणस्त्विति पुनश्च षट् ।
द्विवृद्ध्यैकक्षयाद् उक्तव्यत्ययाच्च पुनश्च षट् ॥ रज्नि_21.24
एते द्वादशतः सर्वे द्विषष्टिः समुदाहृताः ।
त्रिषष्टिस्त्वन्तिमो भेदस् त्रयाणां प्रकृतौ स्थितिः ॥ रज्नि_21.25
एवं दोषत्रयस्यैतान् भेदान् विज्ञाय तत्त्वतः ।
ततो भिषक् प्रयुञ्जीत तदवस्थोचिताः क्रियाः ॥ रज्नि_21.26
कालस्तु वेला समयोऽप्यनेहा दिष्टश्चलश्चावसरो ऽस्थिरश्च ।
सो ऽप्येष भूतः किल वर्तमानस्तथा भविष्यन्निति च त्रिधोक्तः ॥ रज्नि_21.27
भूते वृत्तमतीतं च ह्यस्तनं निसृतं गतम् ।
वर्तमाने भवच्चाद्यतनं स्यादधुनातनम् ॥ रज्नि_21.28
अनागतं भविष्ये स्यात् श्वस्तनं च प्रगेतनम् ।
वर्त्स्यद् वर्तिष्यमाणं च स्यादागामि च भावि च ॥ रज्नि_21.29
साधारणं तु सामान्यं तत् सर्वत्रानुवर्तते ।
विशेषणं विशेषश्च सकृत्स्थाने च वर्तते ।
तुर्यं पादं चतुर्थांशम् ईषत् किंचित् तथोच्यते ॥ रज्नि_21.30
भूषापीयुषांशुस्वच्छोद्योतप्रस्यन्दामन्दस्वच्छन्दापूराम्भःस्वर्गङ्गासङ्गोन्मीलनमौलिम् ।
मेरुश्रीकैलासक्रीडासङ्घाटीशोभनाम्भःश्लाघाजङ्घालश्रीगौरीगूढाङ्गं वन्दे शम्भुम् ॥ रज्नि_21.31
शब्दोच्चारे सकलगुरुके षष्टिवर्णप्रमाणे मानं काले पलमिति दश स्यात् क्षणस्तानि तैस्तु ।
षड्भिर् नाडी प्रहर इति ताः सप्त सार्धास् तथाहोरात्रो ज्ञेयः सुमतिभिर् असाव् अष्टभिस्तैः प्रदिष्टः ॥ रज्नि_21.32
पक्षः स्यात्पञ्चदशभिरहोरात्रैर् उभाव् इमौ ।
मासो द्वादशभिर्मासैः संवत्सर उदाहृतः ॥ रज्नि_21.33
द्विशश्चैत्रादिभिर्मासैर्विज्ञेया ऋतवश्च षट् ॥ रज्नि_21.34
त्रिभिस् त्रिभिः क्रमादेतैः स्यातां च विषुवायने ॥ रज्नि_21.35
पलं विघटिका प्रोक्ता नाडी तास्तु त्रिविंशतिः ।
नाडी तु घटिका प्रोक्ता तद्द्वयं च मुहूर्तकम् ॥ रज्नि_21.36
यामः प्रहर इत्युक्तो दिनभागो दिनांशकः ॥ रज्नि_21.37
अहोरात्रदिवारात्राहर्दिवाहर्निशानि च ॥ रज्नि_21.38
घस्रो दिनोऽपि दिवसो वासरो भास्वरो दिवा ॥ रज्नि_21.39
प्राह्णापराह्णमध्याह्नसायाह्नाः स्युस् तदंशकाः ॥ रज्नि_21.40
प्रातर्दिनादिः प्रत्यूषो निशान्तः प्रत्युषो ऽप्युषः ।
व्युष्टं चाहर्मुखं कल्यं प्रगे प्राह्णं प्रभातकम् ॥ रज्नि_21.41
आतपस्तु दिनज्योतिः सूर्यालोको दिनप्रभा ।
रविप्रकाशः प्रद्योतस् तमोरिस् तपनद्युतिः ॥ रज्नि_21.42
रोचिर् दीप्तिर् द्युतिः शोचिस्त्विडोजो भा रुचिः प्रभा ।
विभा लोकप्रकाशश्च तेज ओजायितं च रुक् ॥ रज्नि_21.43
सायंसंध्या दिनान्तश्च निशादिर् दिवसात्ययः ।
सायं पितृप्रसूश्चाथ प्रदोषः स्यान्निशामुखम् ॥ रज्नि_21.44
छाया विभानुगा श्यामा तेजोभीरुरनातपः ।
अभीतिर् आतपाभावो भावालीना च सा स्मृता ॥ रज्नि_21.45
शर्वरी क्षणदा रात्रिर्निशा श्यामा तमस्विनी ।
तमी त्रियामा शयनी क्षपा यामवती तमा ॥ रज्नि_21.46
नक्तं निशीथिनी दोषा ताराभूषा विभावरी ।
ज्योतिष्मती तारकिणी काली सापि कलापिनी ॥ रज्नि_21.47
सा ज्यौत्स्नी चन्द्रिकायुक्ता तमिस्रा तु तमोऽन्विता ॥ रज्नि_21.48
अर्धरात्रो निशीथे स्यान्मध्यरात्रश्च स स्मृतः ॥ रज्नि_21.49
ज्योत्स्ना तु चन्द्रिका चान्द्री कौमुदी कामवल्लभा ।
चन्द्रातपश्चन्द्रकान्ता शीतामृततरङ्गिणी ॥ रज्नि_21.50
कान्तिस्तु सुषमा शोभा छविश्छाया विभा शुभा ।
श्रीर् लक्ष्मीर् दक्प्रियाभिख्या भानं भातिरुमा रमा ॥ रज्नि_21.51
तमस्तमिस्रं तिमिरं ध्वान्तं संतमसं तमः ।
अन्धकारश्च भूछायं तच्चान्धतमसं घनम् ॥ रज्नि_21.52
आतपः कटुको रूक्षश्छाया मधुरशीतला ।
त्रिदोषशमनी ज्योत्स्ना सर्वव्याधिकरं तमः ॥ रज्नि_21.53
पक्षादिः प्रथमाद्या च पक्षतिः प्रतिपच् च सा ॥ रज्नि_21.54
पक्षान्तो ऽर्केन्दुविश्लेषः पर्व पञ्चदशी तथा ।
द्वितीयं तु भवेत्पर्व चन्द्रार्कात्यन्तसंगमः ॥ रज्नि_21.55
प्रतिपदमारभ्यैताः क्रमात् द्वितीयादिकाश्च पञ्चदश ।
पक्षे तिथयो ज्ञेयाः पक्षश्च सितोऽसितो द्विविधः ॥ रज्नि_21.56
सितस्त्वापूर्यमाणः स्यात् शुक्लश्च विशदः शुदि ॥ रज्नि_21.57
असितो मलिनः कृष्णो बहुलो वदि च स्मृतः ॥ रज्नि_21.58
दिवसैर्यत्र तत्रापि वसुसागरसम्मितैः ।
भिषक्क्रियोपयोगाय मण्डलं भिषजां मतम् ॥ रज्नि_21.59
पूर्णिमा पौर्णमासी च ज्यौत्स्नी चेन्दुमती सिता ।
सा पूर्वानुमतिर् ज्ञेया राका स्यादुत्तरा च सा ॥ रज्नि_21.60
दर्शस्तु स्याद् अमावास्यामावस्यार्केन्दुसंगमः ।
सा पूर्वा तु सिनीवाली द्वितीया तु कुहूर्मता ॥ रज्नि_21.61
मासार्धस्तु भवेत्पक्षः स पञ्चदशरात्रकः ॥ रज्नि_21.62
द्विपक्षस् तु भवेन्मासश्चैत्राद्या द्वादशाश्च ते ॥ रज्नि_21.63
चैत्रस्तु चैत्रिकश्चैत्री मधुः कालादिकश्च सः ॥ रज्नि_21.64
वैशाखो माधवो राधो ज्यैष्ठः शुक्रस्तपस्तथा ॥ रज्नि_21.65
आषाढः शुचिरुक्तः श्रावणिकः श्रावणो नभाश्चापि ॥ रज्नि_21.66
भाद्रो भाद्रपदोऽपि प्रौष्ठपदः स्यान्नभो नभस्यश्च ॥ रज्नि_21.67
इषस्त्वाश्वयुजश्च स्यादाश्विनः शारदश्च सः ॥ रज्नि_21.68
कार्त्तिको बाहुलोऽपि स्याद् ऊर्जः कार्त्तिकिकश् च सः ॥ रज्नि_21.69
मार्गः सहा मार्गशीर्ष आग्रहायणिकोऽपि सः ॥ रज्नि_21.70
पौषस्तु पौषिकस् तैषः सहस्यो हैमनोऽपि च ॥ रज्नि_21.71
माघस्तपाः तपस्यस्तु फाल्गुनो वत्सरान्तकः ॥ रज्नि_21.72
चैत्रादिमासौ द्वौ द्वौ स्युर् नाम्ना षडृतवः क्रमात् ॥ रज्नि_21.73
भवेद्वसन्तो मधुमाधवाभ्यां स्यातां तथा शुक्रशुची निदाघः ।
नभोनभस्यौ जलदागमः स्याद् इषोर्जकाभ्यां शरदं वदन्ति ॥ रज्नि_21.74
हेमन्तकालस्तु सहःसहस्यौ तपस्तपस्यौ शिशिरः क्रमेण ।
मासद्विकेनेति वसन्तकाद्या धीमद्भिर् उक्ता ऋतवः षडेते ॥ रज्नि_21.75
ऋतुराजो वसन्तः स्यात् सुरभिर्माधवो मधुः ।
पुष्पमासः पिकानन्दः कान्तः कामरसश्च सः ॥ रज्नि_21.76
निदाघस्तूष्मको घर्मो ग्रीष्म ऊष्मागमस्तपः ।
तापनश्चोष्णकालः स्यादुष्णश्चोष्णागमश्च सः ॥ रज्नि_21.77
वर्षाः प्रावृड्वर्षकालो घर्मान्तो जलदागमः ।
मयूरोल्लासकः कान्तश्चातकाह्लादनोऽपि सः ॥ रज्नि_21.78
शरद्वर्षावसायः स्यान्मेघान्तः प्रावृडत्ययः ॥ रज्नि_21.79
ऊष्मापहस्तु हेमन्तः शरदन्तो हिमागमः ॥ रज्नि_21.80
शिशिरः कम्पनः शीतो हिमकूटश्च कोटनः ।
इत्येतन्नामतः प्रोक्तमृतुषट्कं यथाक्रमम् ॥ रज्नि_21.81
इह सुरभिनिदाघमेघकालाः शरद्धिमशिशिरहायनाः क्रमेण ।
प्रतिदिनमृतवः स्युर् ऊर्ध्वम् अर्कोदयसमयाद् दशकेन नाडिकानाम् ॥ रज्नि_21.82
मकरक्रान्तिमारभ्य भानोः स्याद् उत्तरायणम् ॥ रज्नि_21.83
कर्कटक्रमणाद् ऊर्ध्वं दक्षिणायनम् उच्यते ॥ रज्नि_21.84
यदा तुलायां मेषे च सूर्यसंक्रमणं क्रमात् ।
तदा विषुवती स्यातां विषुवे अपि ते स्मृते ॥ रज्नि_21.85
कालज्ञैः षष्टिराख्याता वत्सराः प्रभवादयः ।
शरत्संवत्सरोऽब्दश्च हायनो वत्सरः समाः ॥ रज्नि_21.86
वसन्ते दक्षिणो वातो भवेद्वर्षासु पश्चिमः ।
उत्तरः शारदे काले पूर्वो हैमन्तशैशिरे ॥ रज्नि_21.87
पूर्वस्तु मधुरो वातः स्निग्धः कटुरसान्वितः ।
गुरुर्विदाहशमनो वातदः पित्तनाशनः ॥ रज्नि_21.88
दक्षिणः षड्रसो वायुश्चक्षुष्यो बलवर्धनः ।
रक्तपित्तप्रशमनः सौख्यकान्तिबलप्रदः ॥ रज्नि_21.89
पश्चिमो मारुतस्तीक्ष्णः कफमेदोविशोषणः ।
सद्यः प्राणापहो दुष्टः शोषकारी शरीरिणाम् ॥ रज्नि_21.90
उत्तरः पवनः स्निग्धो मृदुर् मधुर एव च ।
सकषायरसः शीतो दोषाणां च प्रकोपणः ॥ रज्नि_21.91
कृत्वैकम् अवधिं तस्माद् इदं पूर्वं च पश्चिमम् ।
इति देशौ निदिश्येते यया सा दिगिति स्मृता ॥ रज्नि_21.92
दिगाशा च हरित्काष्ठा ककुप्सा च निदेशिनी ।
सा च देशविभागेन दशधा परिकल्प्यते ॥ रज्नि_21.93
ज्योतींषि तपनादीनि ज्योतिश्चक्रभ्रमीक्रमात् ।
यतो नित्यम् उदीयन्ते सा पूर्वाख्या दिगुच्यते ॥ रज्नि_21.94
पूर्वा च दक्षिणा चैव पश्चिमा चोत्तरापि च ।
प्रादक्षिण्यक्रमेणैताश् चतस्रः स्युर् महादिशः ॥ रज्नि_21.95
पूर्वा प्राची पुरो मघोन्यैन्द्री माघवती च सा ।
शामनी दक्षिणावाची यामी वैवस्वती च सा ॥ रज्नि_21.96
पश्चिमा तु प्रतीची स्याद्वारुणी प्रत्यगित्यपि ।
उत्तरा दिक् तु कौबेरी दैवी सा स्यादुदीच्यपि ॥ रज्नि_21.97
दिशोर्द्वयोर्द्वयोर्मध्ये यो भागः कोणसंज्ञकः ।
विदिशस्ताश्चतस्रश्च प्रोक्ता उपदिशस्तथा ॥ रज्नि_21.98
आग्नेयी स्यात् प्राच्यवाच्योस् तु मध्ये नैरृत्याख्या स्याद् अवाचीप्रतीच्योः ।
वायव्यापि स्याद् उदीचीप्रतीच्योर् ऐशानी स्यादन्तरा प्राच्युदीच्योः ॥ रज्नि_21.99
उपरिष्टाद् दिग् ऊर्ध्वं स्याद् अधस्ताद् अधरा स्मृता ।
अन्तस्त्वभ्यन्तरं प्रोक्तम् अन्तरं चान्तरालकम् ॥ रज्नि_21.100
स्पष्टस्त्वष्टयवैर्देशो मितो ज्ञेयोऽङ्गुलाह्वयः ।
स्याच्चतुर्विंशकैस्तैस्तु हस्तो हस्तचतुष्टयम् ॥ रज्नि_21.101
दण्डो दण्डैर्द्विसाहस्रैः क्रोशस्तेषां चतुष्टयम् ।
योजनं स्यादिति ह्य् एष देशस्योक्तो मितिक्रमः ॥ रज्नि_21.102
इति प्रस्तावतो वैद्यस्योपयुक्ततया मया ।
परिमाणं तथोन्मानमिति द्वितयम् ईर्यते ॥ रज्नि_21.103
धान्ये सा निष्टिका पुंसो यत्तु मुष्टिचतुष्टयम् ।
तद्द्वयेनाष्टिका ज्ञेया कुडवस्तद्द्वयेन तु ॥ रज्नि_21.104
प्रस्थस्तु तच्चतुष्केण तच्चतुष्केण चाढकी ।
ताश् चतस्रो भवेद्द्रोणः खारी तेषां तु विंशतिः ॥ रज्नि_21.105
गोधूमद्वितयोन्मितिस्तु कथिता गुञ्जा तया सार्धया वल्लो वल्लचतुष्टयेन भिषजां माषो मतस् तच् चतुः ।
निष्को निष्कयुगं तु सार्धम् उदितः कर्षः पलं तच् चतुस् तद्वत् तच्छतकेन चाथ च तुला भारस्तुलाविंशतिः ॥ रज्नि_21.106
इत्थं सत्त्वरजस्तमस्त्रिगुणिकानुक्रान्तदोषत्रयप्रक्रान्तोचितकालदेशकलनाभिख्यानसुख्यापितम् ।
वर्गं स्वर्गसभासु भास्वरभिषग्वर्यातिवीर्यामयध्वंसाश्चर्यकरीं प्रयाति मतिमानेनं पठित्वा प्रथाम् ॥ रज्नि_21.107
संग्रामोत्संगरिङ्गत्तुरगसुरपटोद्धूतधात्रीरजोभिः संरम्भं याति सान्द्रे तमसि किल शमं यद्द्विषां याति सत्त्वम् ।
तस्यैषोऽप्येकविंशः श्रयति खलु कृतौ नामनिर्माणचूडारत्नापीडे प्रशान्तिं नरहरिकृतिनः को ऽपि सत्त्वादिवर्गः ॥ रज्नि_21.108
राजनिघण्टु, मिश्रकादिवर्ग
यान्यौषधानि मिलितानि परस्परेण संज्ञान्तरैर् व्यवहृतानि च योगकृद्भिः ।
तेषां स्वरूपकथनाय विमिश्रकाख्यं वर्गं महागुणमुदारम् उदीरयामः ॥ रज्नि_22.1
पिप्पली मरिचं शुण्ठी त्रयमेतद्विमिश्रितम् ।
त्रिकटु त्र्यूषणं त्र्यूषं कटुत्रयकटुत्रिकम् ॥ रज्नि_22.2
हरीतकी चामलकं विभीतकमिति त्रयम् ।
त्रिफला त्रिफली चैव फलत्रयफलत्रिके ॥ रज्नि_22.3
द्राक्षाकाश्मर्यखर्जूरीफलानि मिलितानि तु ।
मधुरत्रिफला ज्ञेया मधुरादिफलत्रयम् ॥ रज्नि_22.4
जातीफलं पूगफलं लवंगकलिकाफलम् ।
सुगन्धित्रिफला प्रोक्ता सुरभित्रिफला च सा ॥ रज्नि_22.5
चन्दनं कुङ्कुमं वारि त्रयमेतद् वरार्धकम् ।
त्रिभागकुङ्कुमोपेतं तदुक्तं चाद्यपुष्पकम् ॥ रज्नि_22.6
सैन्धवं च विडं चैव रुचकं चेति मिश्रितम् ।
लवणत्रयम् आख्यातं तच्च त्रिलवणं तथा ॥ रज्नि_22.7
सर्जिक्षारं यवक्षारं टङ्कक्षारमेव च ।
क्षारत्रयं समाख्यातं त्रिक्षारं च प्रकीर्तितम् ॥ रज्नि_22.8
हरीतकी नागरं च गुडश्चेति त्रयं समम् ।
समत्रितयमित्युक्तं त्रिसमं च समत्रयम् ॥ रज्नि_22.9
सितामाक्षिकसर्पींषि मिलितानि यदा तदा ।
मधुरत्रयमाख्यातं त्रिमधु स्यान्मधुत्रयम् ॥ रज्नि_22.10
गुडोत्पन्ना हिमोत्पन्ना मधुजातेति मिश्रितम् ।
त्रिशर्करा च त्रिसिता सितात्रयसितात्रिके ॥ रज्नि_22.11
कालाञ्जनसमायुक्ते पुष्पाञ्जनरसाञ्जने ।
अञ्जनत्रितयं प्राहुस्त्र्यञ्जनं चाञ्जनत्रयम् ॥ रज्नि_22.12
वातः पित्तं कफश्चेति त्रयमेकत्र संयुतम् ।
दोषत्रयं त्रिदोषं स्याद्दोषत्रितयमित्यपि ॥ रज्नि_22.13
वातपित्तकफा यत्र समतां यान्ति नित्यशः ।
त्रिदोषसमम् इत्येतत् समदोषत्रयं तथा ॥ रज्नि_22.14
बृहती चाग्निदमनी दुःस्पर्शा चेति तु त्रयम् ।
कण्टकारीत्रयं प्रोक्तं त्रिकण्टं कण्टकत्रयम् ॥ रज्नि_22.15
नागरातिविषा मुस्ता त्रयमेतत्त्रिकार्षिकम् ॥ रज्नि_22.16
गुडूच्या मिलितं तच्च चातुर्भद्रकमुच्यते ॥ रज्नि_22.17
त्वगेलापत्त्रकैस् तुल्यैस् त्रिसुगन्धि त्रिजातकम् ।
नागकेशरसंयुक्तं चातुर्जातकम् उच्यते ॥ रज्नि_22.18
एलात्वक्पत्त्रकैस् तुल्यैर् मरिचेन समन्वितैः ।
कटुपूर्वम् इदं चान्यच्चातुर्जातकमुच्यते ॥ रज्नि_22.19
श्रीखण्डागुरुकर्पूरकाश्मीरैस् तु समांशकैः ।
मृगाङ्कमुकुटार्हो ऽयं मिलितैर् देवकर्दर्मः ॥ रज्नि_22.20
कर्पूरागुरुकस्तूरीकक्कोलैर् यक्षधूपकः ।
एकीकृतमिदं सर्वं यक्षकर्दम इष्यते ॥ रज्नि_22.21
कुङ्कुमागुरुकुरङ्गनाभिकाचन्द्रचन्दनसमांशसम्भृतम् ।
त्र्यक्षपूजनपरैकगोचरं यक्षकर्दमम् इमं प्रचक्षते ॥ रज्नि_22.22
कर्पूरकक्कोललवंगपुष्पगुवाकजातीफलपञ्चकेन ।
समांशभागेन च योजितेन मनोहरं पञ्चसुगन्धिकं स्यात् ॥ रज्नि_22.23
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः ।
सर्वैरेकत्र मिलितैः पञ्चकोलकमुच्यते ॥ रज्नि_22.24
न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः ।
सर्वैरेकत्र मिलितैः पञ्चवेतसमुच्यते ॥ रज्नि_22.25
शालिपर्णी पृश्निपर्णी बृहती कण्टकारिका ।
तथा गोक्षुरकश्चेति लघ्विदं पञ्चमूलकम् ॥ रज्नि_22.26
बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटला तथा ।
सर्वैस्तु मिलितैरेतैः स्यान्महापञ्चमूलकम् ॥ रज्नि_22.27
पञ्चमूलकयोर् एतद्द्वयं च मिलितं यदा ।
तदा भिषग्भिराख्यातं गुणाढ्यं दशमूलकम् ॥ रज्नि_22.28
बलापुनर्नवैरण्डसूप्यपर्णीद्वयेन च ।
एकत्र योजितेनैतन्मध्यमं पञ्चमूलकम् ॥ रज्नि_22.29
गुडूची गोक्षुरश्चैव मूषली मुण्डिका तथा ।
शतावरीति पञ्चानां योगः पञ्चामृताभिधः ॥ रज्नि_22.30
गव्यमाज्यं दधि क्षीरं माक्षिकं शर्करान्वितम् ।
एकत्र मिलितं ज्ञेयं दिव्यं पञ्चामृतं परम् ॥ रज्नि_22.31
गोमूत्रं गोमयं क्षीरं गव्यमाज्यं दधीति च ।
युक्तमेतद्यथायोगं पञ्चगव्यमुदाहृतम् ॥ रज्नि_22.32
निम्बस्य पत्त्रत्वक्पुष्पफलमूलैर् विमिश्रितैः ।
पञ्चनिम्बं समाख्यातं तत् तिक्तं निम्बपञ्चकम् ॥ रज्नि_22.33
कोलदाडिमवृक्षाम्लं चुल्लकी साम्लवेतसा ।
फलं पञ्चाम्लमुद्दिष्टमम्लपञ्चफलं स्मृतम् ॥ रज्नि_22.34
जम्बीरनारङ्गसहाम्लवेतसैः सतिन्तिडीकैश् च सबीजपूरकैः ।
समांशभागेन तु मेलितैरिदं द्वितीयमुक्तं च फलाम्लपञ्चकम् ॥ रज्नि_22.35
चाङ्गेरी लिकुचाम्लवेतसयुतं जम्बीरकं पूरकं नारङ्गं फलषाडवस्त्विति तु पिण्डाम्लं च बीजाम्लकम् ।
अम्बष्ठासहितं द्विर् एतदुदितं पञ्चाम्लकं तद्द्वयं विज्ञेयं करमर्दनिम्बुकयुतं स्यादम्लवर्गाह्वयम् ॥ रज्नि_22.36
तैलकन्दः सुधाकन्दः क्रोडकन्दो रुदन्तिका ।
सर्पनेत्रयुताः पञ्च सिद्धौषधिकसंज्ञकाः ॥ रज्नि_22.37
शैरीषं कुसुमं मूलं फलं पत्त्रं त्वगित्ययम् ।
कीटारिः कथितो योगः पञ्चशैरीषकाभिधः ॥ रज्नि_22.38
त्वक्पत्त्रकुसुमं मूलं फलमेकस्य शाखिनः ।
एकत्र मिलितं तच्चेत् पञ्चाङ्गमिति संज्ञितम् ॥ रज्नि_22.39
विदारिगन्धा बृहती पृश्निपर्णी निदिग्धिका ।
श्वदंष्ट्रा चेति सम्प्रोक्तो योगः पञ्चगणाभिधः ॥ रज्नि_22.40
अत्यम्लपर्णीकाण्डीरमालाकन्दद्विशूरणैः ।
प्रोक्तो भवति योगोऽयं पञ्चशूरणसंज्ञकः ॥ रज्नि_22.41
शृङ्गिकः कालकूटश्च मुस्तको वत्सनाभकः ।
सक्तुकश्चेति योगोऽयं महापञ्चविषाभिधः ॥ रज्नि_22.42
स्नुह्यर्ककरवीराणि लाङ्गली विषमुष्टिका ।
एतान्युपविषाण्याहुः पञ्च पाण्डित्यशालिनः ॥ रज्नि_22.43
गवाम् अजानां मेषीणां महिषीणां च मिश्रितम् ।
मूत्रेण गर्दभीनां यत्तन्मूत्रं मूत्रपञ्चकम् ॥ रज्नि_22.44
सुवर्णं रजतं ताम्रं त्रयमेतत्त्रिलोहकम् ॥ रज्नि_22.45
वङ्गनागसमायुक्तं तत्प्राहुः पञ्चलोहकम् ॥ रज्नि_22.46
सुवर्णं रजतं ताम्रं त्रपु कृष्णायसं समम् ।
ग्रहाङ्गमिति बोद्धव्यं द्वितीयं पञ्चलोहकम् ॥ रज्नि_22.47
यवमुष्ककसर्जानां पलाशतिलयोस्तथा ।
क्षारैस्तु पञ्चभिः प्रोक्तः पञ्चक्षाराभिधो गणः ॥ रज्नि_22.48
काचसैन्धवसामुद्रविडसौवर्चलैः समैः ॥ रज्नि_22.49
स्यात्पञ्चलवणं तच्च मृत्स्नोपेतं षडाह्वयम् ॥ रज्नि_22.50
धवापामार्गकुटजलाङ्गलीतिलमुष्कजैः ।
क्षारैरेतैस्तु मिलितैः क्षारषट्कमुदाहृतम् ॥ रज्नि_22.51
रसासृङ्मांसमेदोऽस्थिमज्जाशुक्रसमाह्वयैः ।
शरीरस्थैर्यदैर् एतैः सप्तधातुमयो गणः ॥ रज्नि_22.52
दरदः पारदं सस्यो वैक्रान्तं कान्तमभ्रकम् ।
माक्षिकं विमलं चेति स्युर् एतेऽष्टौ महारसाः ॥ रज्नि_22.53
खेचराञ्जनकङ्गुष्ठगन्धालगैरिकक्षितीः ।
शैलेयाञ्जनसम्मिश्राः शंसन्त्युपरसान् बुधाः ॥ रज्नि_22.54
कम्पिल्लगौरीचपलाकपर्दसशैलसिन्दूरकवह्निजारान् ।
पाषाणिनो वोदरशृङ्गयुक्तानित्यष्ट सामान्यरसानि चाहुः ॥ रज्नि_22.55
पञ्चलोहसमायुक्तैः कान्तमुण्डकतीक्ष्णकैः ।
कल्पितः कथितो धीरैरष्टलोहाभिधो गणः ॥ रज्नि_22.56
शिग्रुमूलकपलाशचुक्रिकाचित्रकार्द्रकसनिम्बसम्भवैः ।
इक्षुशैखरिकमोचकोद्भवैः क्षारपूर्वदशकं प्रकीर्तितम् ॥ रज्नि_22.57
मूत्राणि हस्तिमहिषोष्ट्रगवाजकानां मेषाश्वरासभकमानुषमानुषीणाम् ।
यत्नेन यत्र मिलितानि दशेति तानि शास्त्रेषु मूत्रदशकाह्वयभाञ्जि भान्ति ॥ रज्नि_22.58
स्याज्जीवकर्षभकयुग्ययुगद्विमेदाकाकोलिकाद्वययुतद्विकसूप्यपर्ण्या ।
जीव्या मधूकयुतया मधुराह्वयोऽयं योगो महानिह विराजति जीवकादिः ॥ रज्नि_22.59
जीवकर्षभकौ मेदे काकोल्यावृद्धिवृद्धिके ।
एकत्र मिलितैरेतैरष्टवर्गः प्रकीर्तितः ॥ रज्नि_22.60
कुष्ठमांसीहरिद्राभिर् वचाशैलेयचन्दनैः ।
मुराकर्चूरमुस्ताभिः सर्वौषधम् उदाहृतम् ॥ रज्नि_22.61
अजाजी मरिचं शुण्ठी ग्रन्थि धान्यं निशाह्वयम् ।
पिप्पली मरिचं चेति वेशवारगणो मतः ॥ रज्नि_22.62
सर्वौषधिसमायुक्ताः शुष्काश्चामलकत्वचः ।
यदा तदायं योगः स्यात् सुगन्धामलकाभिधः ॥ रज्नि_22.63
द्राक्षादाडिमखर्जूरकदलीशर्करान्वितम् ।
लाजाचूर्णं समध्वाज्यं संतर्पणम् उदाहृतम् ॥ रज्नि_22.64
सक्तुभिः सर्पिषाभ्यक्तैः शीतवारिपरिप्लुतैः ।
नात्यच्छो नातिसान्द्रश्च मन्थः इत्यभिधीयते ॥ रज्नि_22.65
दाडिमं किंशुकं लाक्षा बन्धूकं च निशाह्वयम् ।
कुसुम्भपुष्पं मञ्जिष्ठा इत्येतै रक्तवर्गकः ॥ रज्नि_22.66
खटिनीश्वेतसंयुक्ताः शङ्खशुक्तिवराटिकाः ।
भृष्टाश्मशर्करा चेति शुक्लवर्ग उदाहृतः ॥ रज्नि_22.67
भार्गीशटीपुष्करवत्सबीजदुरालभाशृङ्गिपटोलतिक्ताः ।
किरातविश्वेन्द्रकणेन्द्रबीजधान्यानि तिक्तं सुरदारुकं च ॥ रज्नि_22.68
अष्टादशाङ्गाभिध एष योगः समागमे स्याद्दशमूलकेन ।
द्विधा च भार्ग्यादिक एक एष ज्ञेयो द्वितीयस्तु किरातकादिः ॥ रज्नि_22.69
द्वात्रिंशत्पलसम्मितं दधि पलान्यष्टौ च खण्डं पलस्यार्धं चेन्मरिचस्य तेन तुलितं युक्तं त्वगेलाह्वयम् ।
मध्वाज्यं च युतं तदर्धमिलितं संशोधितैर् योजिता भाण्डे स्याद्धिमवासिते शिखरिणी श्रीकण्ठभोग्या गुणैः ॥ रज्नि_22.70
इत्थं नानामिश्रयोगाभिधानादेनं वर्गं मिश्रकाख्यं विदित्वा ।
वैद्यः कुर्याद् योगम् अत्रत्यसंज्ञाप्रज्ञासंज्ञो बन्धुभिर्येन धीरः ॥ रज्नि_22.71
शौर्यासङ्गरता रमा स्वयमुमा शश्वच्छिवासङ्गिनी सा वाणी चतुराननप्रणयिनी श्रीसम्मिता यं श्रिता ।
तस्यागाद् अभिधानशेखरमणौ वर्गो नृसिंहेशितुर् द्वाविंशो ऽवसितिं कृतौ कृतधियां यो मिश्रकाख्यो मतः ॥ रज्नि_22.72
राजनिघण्टु, एकार्थादिवर्ग, एकार्थवर्ग
श्रीश्च लक्ष्मीफले ज्ञेया त्व् असनो बीजवृक्षकः ।
शालूकं पद्मकन्दे स्यात् सदापुष्पो रविद्रुमे ॥ रज्नि_23.1
कुबेरको नन्दिवृक्षे गोकण्टो गोक्षुरे तथा ।
दन्तफलस्तु पिप्पल्यां कसेरुर् भद्रमुस्तके ॥ रज्नि_23.2
नागरोत्था कच्छरुहा अङ्कोले दीर्घकीलके ।
वल्लकी सल्लकीवृक्षे मातुलुङ्गे तु पूरकः ॥ रज्नि_23.3
ब्रह्मघ्नी तु कुमारी स्यादङ्कोले गूढमल्लिका ।
अतिविषा श्वेतवचोपकुञ्ची स्थूलजीरके ॥ रज्नि_23.4
कवचः स्यात्पर्पटके लवणं तु पयोधिजम् ।
बृहत्त्वक् सप्तपर्णे स्यात्काम्भोजी वाकुची तथा ॥ रज्नि_23.5
कीटपादी हंसपाद्यां कुनटी तु मनःशिला ।
वैकुण्ठम् अर्जके प्राहुर्भूधात्र्यां तु तमालिनी ॥ रज्नि_23.6
शतकुन्दः शरीरे स्यादग्निकाष्ठं तथागुरौ ।
सूक्ष्मपत्त्री शतावर्यां क्षीरपर्ण्यर्कसंज्ञके ॥ रज्नि_23.7
शौण्डी तु पिप्पली ज्ञेया कस्तूर्यां मदनी तथा ।
ब्रह्मपर्णी पृश्निपर्ण्यां चित्रपर्णी च सा स्मृता ॥ रज्नि_23.8
छत्त्रपर्णः सप्तपर्णे पीलुपर्णी तु तुण्डिका ।
शाकश्रेष्ठस्तु वृन्ताके शङ्गरः शमिर् उच्यते ॥ रज्नि_23.9
गोरटः स्याद्विट्खदिरे तुण्डिश् चारण्यबिम्बिका ।
विष्णुगुप्तं तु चाणक्यमूले ऽनन्ता यवासके ॥ रज्नि_23.10
कपिकच्छुर् आत्मगुप्ता वातपोथस्तु किंशुके ।
पीता तु रजनी ज्ञेया बोधिवृक्षस्तु पिप्पलः ॥ रज्नि_23.11
उशीरे समगन्धिः स्याद्धिङ्गुले चूर्णपारदः ।
हिङ्गाव् अगूढगन्धः स्याद्गोदन्ते विस्रगन्धिके ॥ रज्नि_23.12
शम्यामीशान इत्याहुर्दिवान्धो घूक उच्यते ।
पयस्या क्षीरकाकोल्यां शतवेध्यम्लवेतसे ॥ रज्नि_23.13
रोचनी नारिकेले च भूधात्र्यां चारुहा स्मृता ।
प्रियां प्रियङ्गुके प्राहुः खराह्वा चाजमोदके ॥ रज्नि_23.14
तगरं दण्डहस्ती स्याद्रसोनो लशुने स्मृतः ।
तपस्विनी जटामांस्यां मेघपुष्ये ऽजशृङ्गिका ॥ रज्नि_23.15
ज्ञेयं मातुलपुष्पं तु धुस्तूरे चोरके रिपुः ।
शष्पं बालतृणं प्रोक्तं शैलेयं चाश्मपुष्पके ॥ रज्नि_23.16
श्रीपुष्पं तु लवंगे स्याद्बालपुष्पी तु यूथिका ।
स्थूलपुष्पं तु झेण्डूके चित्रके दारुणः स्मृतः ॥ रज्नि_23.17
अथ स्याद्विषपुष्पं तु पुष्पं श्यामदलान्वितम् ।
बलभद्रः कदम्बोऽन्यः शाखोटे भूतवृक्षकः ॥ रज्नि_23.18
रामा तमालपत्त्रे स्याद्भूर्जे चर्मदलो मतः ।
आत्मशल्या शतावर्यां पिक्यां कलभवल्लभा ॥ रज्नि_23.19
विप्रप्रिया पलाशे च ज्वरारिस्तु गुडूचिका ।
कण्टकार्यां तु श्वेतायां ज्ञेया तु कपटेश्वरी ॥ रज्नि_23.20
पाण्डुफलं पटोले स्याच्छालिपर्ण्यां स्थिरा मता ।
गायत्री खदिरे प्रोक्ता स्याद् एर्वारुस्तु कर्कटी ॥ रज्नि_23.21
नीवारे ऽरण्यशालिः स्यात्पार्वत्यां गजपिप्पली ।
स्पृक्कायां देवपुत्री स्यादङ्कोले देवदारु च ॥ रज्नि_23.22
रीठां प्रकीर्यके प्राहुर् दन्त्यां केशरुहा स्मृता ।
आम्रस्तु सहकारे स्यात् ज्ञेयस्ताले द्रुमेश्वरः ॥ रज्नि_23.23
दुष्पुत्रश्चोरके प्रोक्तो माडे चैव वितानकः ।
माचिषा मण्डके प्रोक्ता मार्जारी मृगनाभिजा ॥ रज्नि_23.24
तिन्तिडीके तु बीजाम्लः कदल्यां तु सकृत्फला ।
जर्तिलश् चारण्यतिले तार्क्ष्यशैलं रसाञ्जने ॥ रज्नि_23.25
विभीतके कलिन्दः स्याच्छालिर्ज्ञेया तु पाटला ।
रङ्गमाता तु लाक्षायाम् अग्निज्वाला तु धातकी ॥ रज्नि_23.26
तिनिशे स्याद्भस्मगर्भा मधूल्यां मधुकर्कटी ।
सितगुञ्जा काकपीलौ चन्द्रायां तु गुडूचिका ॥ रज्नि_23.27
नटश्चाशोकवृक्षे स्याद्दाडिमे फलषाडवः ।
निष्पावे तु पलङ्कः स्यात्कलशी पृश्निपर्णिका ॥ रज्नि_23.28
राजान्ने दीर्घशूकः स्याज्जरणः कृष्णजीरके ।
पिङ्गा चैव हरिद्रायां श्वेतशूके यवः स्मृतः ॥ रज्नि_23.29
श्यामाके तु त्रिबीजः स्यादाढक्यां तुवरी स्मृता ।
गोधूमेऽथ मृदुः प्रोक्तः करला त्रिपुटा तथा ॥ रज्नि_23.30
सूपश्रेष्ठो हरिन्मुद्गे राजान्ने ह्रस्वतण्डुलः ।
मकुष्टो वनमुद्गे स्यान्मकुष्ठे च कृमीलकः ॥ रज्नि_23.31
कृष्णः काश्मीरवृक्षे स्यात् विषतिन्दुर् विषद्रुमे ।
पलाशे पत्त्रकः प्रोक्तो न्यग्रोधो रोहिणः स्मृतः ॥ रज्नि_23.32
नारिकेले रसफलस्तथा ताले तु शम्बरः ।
विकङ्कतो मृदुफले केसरे बकुलः स्मृतः ॥ रज्नि_23.33
शेफाली सिन्धुवारे च मत्स्याक्षे हिलमोचिका ।
वास्तुके श्वेतचिल्ली स्यात् वेल्लिका स्यादुपोदकी ॥ रज्नि_23.34
आरामवल्लिकायां तु मूलपोती तु विश्रुता ।
मकरन्दः पुष्परसे जात्यां तु सुमना स्मृता ॥ रज्नि_23.35
आम्रातके पीतनकः क्षौद्रे पुष्पासवः स्मृतः ।
मृदुः कन्या तु सम्प्रोक्ता जीवा स्याज्जीवके तथा ॥ रज्नि_23.36
छिन्नायां तु गुडूची स्यान्नारायण्यां शतावरी ।
सर्जे तु बस्तकर्णी च शलाटुर् बिल्वके तथा ॥ रज्नि_23.37
सर्जान्तरे चाश्वकर्णो गोकर्णी समधौ रसे ।
कृष्णं नीलाञ्जने प्राहुराखुकर्णी तु शम्बरी ॥ रज्नि_23.38
दुर्गा तु श्यामयक्षी स्याद्भूतो मुस्ताथ दुर्ग्रहः ।
अपामार्गो ऽथ रक्ता तु मञ्जिष्ठायां शटस्तथा ॥ रज्नि_23.39
धुस्तूरे ब्रह्मजा ब्राह्मी गन्धर्वः कोकिले स्मृतः ।
सरटी तु दुरारोहा बाहुल्यां तर्वटः स्मृतः ॥ रज्नि_23.40
सर्षपं तु दुराधर्षो ह्रीवेरं बालके तथा ।
हैमवती चाल्परसा भिषङ्माताटरूषके ॥ रज्नि_23.41
ब्रह्मपुत्री तु भार्गी स्याद्धस्तिपर्णी तु कर्कटी ।
तुलसी बहुमञ्जर्यां कटभ्यां गर्दभी स्मृता ॥ रज्नि_23.42
कच्छुघ्नो हवुषायां च शाल्मली च यमद्रुमे ।
सूक्ष्मैला चैव कोरङ्ग्यां गन्धाढ्यां धूम्रपत्त्रिका ॥ रज्नि_23.43
शैलजा गजपिप्पल्यां क्षीरिणी तु कुटुम्बिनी ।
देवबलायां त्रायन्ती कटी च खदिरे स्मृता ॥ रज्नि_23.44
इन्दीवरा करम्भायां कन्दे चेन्दीवरं स्मृतम् ।
पुष्पान्तरे राजकन्या पार्थिवे तगरं तथा ॥ रज्नि_23.45
सागरे रत्नगर्भश्च रत्नगर्भा तु मेदिनी ।
सुवर्णे काञ्चनं ज्ञेयं हेमदुग्धा तु काञ्चनी ॥ रज्नि_23.46
प्रसारिण्यां राजबला कर्पूरे हिमवालुकः ।
हिमं कर्पूरके प्राहुर् गोशीर्षं चन्दनं स्मृतम् ॥ रज्नि_23.47
ब्रह्मदारुः स्मृतः फञ्ज्यां पण्यन्धा पणधा स्मृता ।
वत्सादनी गुडूच्यां च सोमवल्ल्यन्त्रवल्लिका ॥ रज्नि_23.48
नद्याम्रे च समष्ठिलोऽथ रजनी स्यात् कालमेष्यां बुधैर् दुग्धार्हस् तिलके पलाण्डुरिति च स्याद्दीपने चोक्ततः ।
मोचा हस्तिविषाणके च कथिता भार्ग्यां तु पद्मा स्मृता निम्बे शीर्णदलस्तथात्र कथितः स्याद्धान्यराजो यवे ॥ रज्नि_23.49
राजनिघण्टु, एकार्थादिवर्ग, द्व्यर्थाः
सौराष्ट्र्यां रुचिदे चैव संधानं च प्रचक्षते ।
पलाशिके शटी लाक्षा कितवश् चोरके शठे ॥ रज्नि_24.1
बलाका बर्हिणश्चैव मेघानन्दः प्रकीर्तितः ।
आकाशेऽभ्रके गगनं जलूका मत्कुणास्रपोः ॥ रज्नि_24.2
नासानक्षत्रयोर् नाडी कोलायां शुण्डिके कणा ।
ज्वरघ्नश् छिन्नवास्तूके ललना चारसर्जयोः ॥ रज्नि_24.3
मञ्जिष्ठायां गुडूच्यां तु कुमारी नागपूर्विका ।
मुद्गरे सप्तपर्णे स्यात् सप्तच्छदम् उदाहृतम् ॥ रज्नि_24.4
कृत्रिमकं विडे काचे पाक्यं च यवजे विडे ।
सर्पान्तरे पटोले च कुलकः समुदाहृतः ॥ रज्नि_24.5
जन्तुकायां तु वास्तुके विज्ञेया चक्रवर्तिनी ।
मधुरा जीवके प्रोक्ता मेदायां च तथा स्मृता ॥ रज्नि_24.6
कर्कन्धूश्चेति सम्प्रोक्तो बदरे पूतिमारुते ।
वासन्ती कोकिलायां तु दन्त्यापुष्पं प्रचक्षते ॥ रज्नि_24.7
चन्द्राब्जे चोत्पलं कुष्ठे कृकरश्चव्यवातयोः ।
चपला मद्यमागध्योर् धरण्यां खदिरे क्षमा ॥ रज्नि_24.8
सिन्धुपुष्पं कदम्बे च बकुले चाथ लोमशा ।
काकोल्यां च वचायां च सूक्ष्मैला चेन्द्रवारुणी ॥ रज्नि_24.9
ऐन्द्र्यां गोदावरी चैव गौतम्यां रोचना तथा ।
कुसुम्भेऽरण्यजे चैव कौसुम्भं कुसुमाञ्जने ॥ रज्नि_24.10
शटी गन्धनिशायां च चोरके चाथ कर्कटी ।
देवदाल्यां त्रपुस्यां च शताह्वायां शतावरी ॥ रज्नि_24.11
मिशिस्तु तुत्थनीलिन्यां सूक्ष्मैलायां तथा स्मृता ।
वितुन्नकं तु भूधात्र्यां ख्याता कुस्तुम्बरी तथा ॥ रज्नि_24.12
बर्हिर् दर्भे मयूरे च प्लक्षमर्कटयोः प्लवः ।
आखुपर्णी सुतश्रेण्यां प्रत्यक्श्रेण्यां तथा स्मृता ॥ रज्नि_24.13
वस्त्रे तमालपत्त्रे च अंशुकः समुदाहृतः ।
दर्भे च कुशिके वज्रं कङ्गुधान्ये प्रियङ्गुके ॥ रज्नि_24.14
कङ्गुरङ्गारवल्ली तु फञ्जी हस्तिकरञ्जयोः ।
वक्रपुष्पमगस्त्ये च पलाशे च श्वपुच्छकम् ॥ रज्नि_24.15
माषपर्ण्यां शुनः पुच्छे चिल्ली स्याच्छाकलोध्रयोः ।
अथवा चेन्द्रवारुण्यां शक्राह्वेन्द्रयवं तथा ॥ रज्नि_24.16
काकभाण्डी काकतुण्ड्यां ख्याता हस्तिकरञ्जके ।
दीर्घाङ्कुश्यां पलाशे च याज्ञिकोऽथ विदारिका ॥ रज्नि_24.17
काश्मर्यां च शृगाल्यां च टेण्टी च मृगधूर्तके ।
भल्लूकोऽथ रुदन्त्यां च गोक्षुरे चणपत्त्रकः ।
कटुकागजपिप्पल्योः ख्याता च शकुलादनी ॥ रज्नि_24.18
मन्थानके समाख्यातो राजवृक्षस्तृणाधिपे ।
मदने कुटिले चैव तगरं चाथ रक्तिका ॥ रज्नि_24.19
गुञ्जायां राजिकायां च पिशुनं चापि कुङ्कुमे ।
तगरेऽथ यवाह्वायां यवक्षारं यवासिका ॥ रज्नि_24.20
अङ्कुरौदनयोः कूरो दन्तीमधुकपुष्पयोः ।
मधुपुष्पं च शोफघ्नी शालिपर्णीपुनर्नवे ।
बालपत्त्रो यवासे च खदिरे चाथ बालके ॥ रज्नि_24.21
उदीच्यमुत्तरे देशे कपिः कीशतुरुष्कयोः ।
लाङ्गलीदर्भयोः सीरी प्रग्रहे जलवेतसे ।
व्याधिघातो लवंगं च श्रीगन्धे दिव्यचन्दने ॥ रज्नि_24.22
स्वादुकण्टकम् आचख्युर् गोक्षुरे च विकङ्कते ।
वंशबीजे यवफलो वत्सके धान्यमार्कवे ॥ रज्नि_24.23
देवप्रियः अगस्त्यः स्याद् वचा श्वेतादिपिच्छरी ।
गोलोम्यां गृञ्जनं प्रोक्तं लशुने वृत्तमूलके ॥ रज्नि_24.24
कुङ्कुमे रामठे बाह्लिर् बलायामोदनी भवेत् ।
महासमङ्गा चैश्वर्यां जटामांस्यां जटा स्मृता ॥ रज्नि_24.25
कस्तूरी मृगनाभौ च धुस्तूरे परिकीर्तिता ।
हंसपाद्यां मुसल्यां च ख्याता गोधापदी बुधैः ॥ रज्नि_24.26
तपस्वी हिङ्गुपत्त्र्यां च प्रकीर्ये रौप्यमुक्तयोः ।
तारं स्यान्माषपर्ण्यां तु लिङ्ग्यां चाहुः स्वयम्भुवम् ॥ रज्नि_24.27
सहस्रवेधी कस्तूर्यां रामठेऽथाब्जकेसरे ।
पुंनागे तुङ्गम् आचख्युस् त्रिवृद्धान्यविशेषयोः ॥ रज्नि_24.28
मसूरोऽप्यथ विश्वायां शुण्ठी प्रतिविषा तथा ।
श्रीगन्धं गन्धपाषाणे गन्धसारे ऽथ पिच्छिले ॥ रज्नि_24.29
शाल्मलीशिंशपे वासाबृहत्यौ हिंस्रिकाभिधे ।
मर्कटस्त्वजमोदायां वनौकसि च विश्रुतः ॥ रज्नि_24.30
स्याल्लाङ्गली गुडूच्यां तु विशल्यामथ तेजिनी ।
तेजोवत्यां तु मूर्वायां चाङ्गेरीलोणशाकयोः ॥ रज्नि_24.31
लोणिका चापि पिण्याकं तिलकिट्टतुरुष्कयोः ।
बृहत्यां चैव वृन्ताके वार्त्ताकी च सदाफलम् ॥ रज्नि_24.32
उदुम्बरे बिल्ववृक्षे लज्जाखदिरवृक्षयोः ।
खदिरे चाथ सामुद्रं लवणे चाब्धिफेनके ॥ रज्नि_24.33
ग्रन्थिलो गोक्षुरे बिल्वे कटुका मीनपित्तयोः ।
मत्स्यपित्ताथ रजनी हरिद्रानीलिकाख्ययोः ॥ रज्नि_24.34
मिश्रेयके मुरल्यां च वातपत्त्रो ऽथ मुस्तके ।
अब्दोऽभ्रके श्वेतपद्मे पुष्करं पुष्करे मतम् ॥ रज्नि_24.35
तुण्डिकेर्यां च कार्पासे तुण्डिका च प्रशस्यते ।
धुस्तूरे च विडे धूर्तः श्रीवेष्टे सूचिपत्त्रके ॥ रज्नि_24.36
वृक्षधूपो हिमांशौ स्यात्कर्पूरे च प्रकीर्तितः ।
जातीफलं तु शैलूषे श्रीफले च सितावरी ॥ रज्नि_24.37
सूचिपत्त्रे तु वाकुच्यां शर्करागण्डदूर्वयोः ।
मत्स्यण्डिका तु द्राक्षायां चराब्दे तापसप्रिया ॥ रज्नि_24.38
फञ्जी तु वोकडी चैव अजान्त्र्यां तु प्रचक्षते ।
अर्कावर्ते रवौ सूर्यः पेयं क्षीरे जले स्मृतम् ॥ रज्नि_24.39
कर्पूरे चुक्रके चन्द्रः क्षौद्रे ताप्ये च माक्षिकम् ।
मञ्जिष्ठा तगरे भण्डी तूच्चटा गुञ्जमुस्तयोः ॥ रज्नि_24.40
सुवर्चलं मातुलिङ्गे रुचके च सुवर्चला ।
अर्कावर्ते तु मण्डूक्यां ह्रीवेरपिचुमर्दयोः ॥ रज्नि_24.41
निम्बोऽथ सप्तलायां तु सप्तला नवमल्लिका ।
लाङ्गल्यां गजपिप्पल्यां ख्याता वह्निशिखा तथा ॥ रज्नि_24.42
ज्योतिष्मत्यां काकजङ्घा पारावतपदी तथा ।
दुरालभा यवासे च यासे च क्षुरको मतः ॥ रज्नि_24.43
गोक्षुरे कोकिलाक्षे च क्षुरे गोकण्टके क्षुरः ।
पुष्करं च पलाशे च क्षीरश्रेष्ठः प्रकीर्तितः ॥ रज्नि_24.44
सोमो धान्याभ्रके सोमे प्रिया मद्येऽङ्गनान्तरे ।
मुनिद्रुर् घण्टुके ऽगस्त्ये ऽथामृणालमुशीरके ॥ रज्नि_24.45
लामज्जके ब्रह्मवृक्षो रक्तागस्त्ये पलाशके ।
वटे प्लक्षे च शृङ्गी स्यात् कान्तारो वनवंशयोः ॥ रज्नि_24.46
भूतृणे धान्यके छत्त्रं मूलके शिग्रुमूलके ।
मूलकं च यमानी तु दीपिकाबस्तमोदयोः ॥ रज्नि_24.47
एलवालुककर्कट्योर् वालुकं क्षीरभूरुहम् ।
ताम्रं चोदुम्बरे चाथ भूर्जेन्द्रा श्रवणी तथा ॥ रज्नि_24.48
रीत्यां पुष्पाञ्जने रीतिः सचिवो मन्त्रिधूर्तयोः ।
चाणका मूलके मिश्रे शालयोऽथार्कसारिवे ॥ रज्नि_24.49
आस्फोतायां तु पर्जन्यो वृष्टिदारुहरिद्रयोः ।
लकुचं चुक्रवास्तूके लिकुचेऽथ गुणा मता ॥ रज्नि_24.50
दूर्वायां मांसरोहिण्यां सातला मांसरोहिणी ।
उभे चर्मकषायां तु नीवारे पिण्डकर्बुरे ॥ रज्नि_24.51
मुनिप्रियो वरायां तु गुडूची तु विडङ्गके ।
रसं तु पारदे बोले रसः पारदचर्मणोः ॥ रज्नि_24.52
भल्लूकः शुनके ऋक्षे पद्मिन्यां नलिनी त्व् इभी ।
किंशुके प्रवरौ ख्यातौ आरूके परिकीर्तिताः ॥ रज्नि_24.53
चित्रके मेथिकाबीजे ज्योतिष्कश्चाथ वार्षिके ।
त्रायमाणान्यपुष्ट्यां च मेथिकाचित्रमूलयोः ॥ रज्नि_24.54
वल्लरी चाथ कलभो धुस्तूरे च गजार्भके ।
त्रुटिनीलिकयोर् एला शिखण्डी च मयूरके ॥ रज्नि_24.55
सुवर्णयूथिकायां च कारवे रुचके तथा ।
तत्प्रोक्तं कृष्णलवणं दाडिमे च कपित्थके ॥ रज्नि_24.56
स्मृतं कुचफलं शाकश्रेष्ठः कुष्माण्डके तथा ।
कलिङ्गे च स्मृतश्चाथ खगो वायौ च पक्षिणि ॥ रज्नि_24.57
धनुर्वक्षो धन्वनागे स स्याद्भल्लात इत्यपि ।
घेटुके खड्गशिम्ब्यां च पृथुशिम्ब्यथ चेतना ॥ रज्नि_24.58
पथ्यारुष्कस्तु निचुले अशोके वञ्जुलः स्मृतः ।
कपिकच्छ्वां त्व् अपामार्गे मर्कटी चान्यपक्षिणी ॥ रज्नि_24.59
भारद्वाजो भवेद्वन्यकार्पासे चाथ गुग्गुलौ ।
दहनागुरौ पुरं च प्रोक्ताथ जतुपत्त्रिका ॥ रज्नि_24.60
क्षुद्राश्मभेदे चाङ्गेर्याम् अतसी शालिपर्णिका ।
एकमूला तु कुम्भी स्यात्पाटलीद्रोणपुष्पयोः ॥ रज्नि_24.61
वाराही च हरिक्रान्ता विष्णुक्रान्ताभिधा मता ।
सारङ्गश्चातके रङ्कौ शङ्खो वारिभवे नखे ॥ रज्नि_24.62
मांसलं तु फले प्रोक्तं वृन्ताके तु कलिङ्गके ।
निष्पत्त्रिकायां वंशाग्रे करीरं संप्रकीर्तितम् ॥ रज्नि_24.63
माषपर्ण्यां तु गुञ्जायां काम्भोजी चाथ पूतना ।
गन्धमांस्यां हरीतक्यां चित्राङ्गं म्लेच्छतालयोः ॥ रज्नि_24.64
अङ्कोलके तु मदनं ख्यातं गन्धोत्कटे बुधैः ।
तिनिशे शिंशपायां तु भस्मगर्भः प्रकीर्तितः ॥ रज्नि_24.65
वाते मरुद्गदे चैव ख्यातो वैद्यैः समीरणः ।
क्षीरं दुग्धे तवक्षीरे क्षवथुः क्षुतकासयोः ॥ रज्नि_24.66
सितमन्दारके पुष्पविशेषे कुरवः स्मृतः ।
सुषवी कटुहुञ्च्यां च विश्रुता स्थूलजीरके ॥ रज्नि_24.67
कण्टकी खदिरे प्रोक्ता वृन्ताके चाथ नीलिका ।
सिन्दुवारे तु नीलिन्यां पिके चैवाथ कोकिला ॥ रज्नि_24.68
कोकिलाक्षे च गान्धार्यां पत्री स्यात्सा यवासके ।
चक्राङ्गी चैव रोहिण्यां मञ्जिष्ठायां प्रकीर्तिता ॥ रज्नि_24.69
मसूरा त्रिवृतायां च प्रोक्ता धान्यविशेषके ।
गिरिजं गैरिकं प्रोक्तं शिलाजतु प्रशस्यते ॥ रज्नि_24.70
चन्द्रिका चन्द्रकान्तौ च निर्गुण्ड्यां च प्रकीर्तिता ।
फञ्जी योजनबल्यां तु भार्ग्यां चैवाथ नीलिका ॥ रज्नि_24.71
मृगाक्षी श्रीफलीकायां मृगाक्षी धात्रिकाफलम् ।
ख्यातामृतफले चाथ श्यामेक्षुः कोकिलाक्षकः ॥ रज्नि_24.72
इक्षुरके वक्रशल्यां कटुबिम्बी प्रचक्षते ।
दन्त्यन्तरे विभाण्ड्यां च प्रख्याता कर्तरी बुधैः ॥ रज्नि_24.73
अभया च समाख्याता हरीतक्यमृणालयोः ।
जन्तुकायां जनन्यां तु भ्रामरी च भिषग्वरैः ॥ रज्नि_24.74
गोरसे रोचने गव्यं कार्पास्यां चव्यचव्यके ।
गोरोचना रोचनायां ख्याता स्याद्वंशरोचना ॥ रज्नि_24.75
ज्योतिष्मत्यां पक्षिभेदे पिङ्गला च प्रकीर्तिता ।
अमृते शालिपर्ण्यां तु सुधा च परिकीर्तिता ।
रसराजः समाख्यातः पारदे च रसाञ्जने ॥ रज्नि_24.76
वल्लीकरञ्जे सितपाटलायां कुबेरनेत्राथ जटादिमांस्याम् ।
मांसी रुदन्त्यां लवणे महीजे कान्तायसाश्मे तु हि रोमकाख्यम् ॥ रज्नि_24.77
राजनिघण्टु, एकार्थादिवर्ग, त्र्यर्थाः
सितजे शतपत्त्रे च वासन्त्यां माधवी भवेत् ।
ज्योतिष्मत्यां किणिह्यां च सुपुष्प्यां कटभी स्मृता ॥ रज्नि_25.1
पुनर्नवेन्द्रगोपौ तु वर्षाभूर्दर्दुराः स्मृताः ।
सुकुमारस्तु श्यामाके चम्पके क्षवके तथा ॥ रज्नि_25.2
स्पृक्का तु सुकुमारायां नेपाली मालती स्मृता ।
महाबला गवाक्षी च गिरिकर्णी गवादनी ॥ रज्नि_25.3
अरिष्टस् तक्रभेदे च निम्बे च लशुने तथा ।
कटुका वंशदूर्वास्तु शतपर्वा च किंशुकः ॥ रज्नि_25.4
ज्योतिष्मत्यां पलाशे च नन्दीवृक्षेऽथ लाङ्गली ।
हलिन्यां गजपिप्पल्यां नारिकेले प्रशस्यते ॥ रज्नि_25.5
कदम्बे मल्लिकाख्ये च शिरीषे वृत्तपुष्पकः ।
गिरिकर्णीन्द्रवारुण्यां पिण्डिन्यां च गवादनी ॥ रज्नि_25.6
शिरीषे मधुके दन्त्यां मधुपुष्पं तु वञ्जुलः ।
अशोके चैव भेरिण्यां निचुले चाथ नाकुली ॥ रज्नि_25.7
सर्पाक्ष्यां सितक्षुद्रायां यवतिक्तेऽथ दर्दुरः ।
भल्लातके ऋषभकेऽनडुहि च प्रशस्यते ॥ रज्नि_25.8
मयूरके मेथिकायां चित्रके च भवेच्छिखी ।
कदल्यामजमोदायां गजे हस्तीति संज्ञका ॥ रज्नि_25.9
अमोघा पद्मभेदे स्यात् पाटल्यां च विलङ्गके ।
कुल्माषः काञ्जिके वंशे गन्धमाल्यां सुविश्रुतः ॥ रज्नि_25.10
सामायां महिषीवल्लीब्राह्मीहेमन्तताः स्मृताः ।
वंशे स्यान्नारिकेले च ताले च तृणराजकः ॥ रज्नि_25.11
मुस्तायामभ्रके मेघे घनश्चाथ पितृप्रियः ।
अगस्त्ये भृङ्गराजे च कालशाके च विश्रुतः ॥ रज्नि_25.12
दन्तशठस्तु चाङ्गेर्यां जम्बीरेऽथ कपित्थके ।
दहनोऽरुष्करे प्रोक्तो वृश्चिकाल्यां च चित्रके ॥ रज्नि_25.13
विडङ्गे च जयन्त्यां च मोटायां च बला स्मृता ।
आम्रातके शिरीषे च प्लक्षे चैव कपीतनः ॥ रज्नि_25.14
कुडुहुञ्च्यां कारवल्ली काण्डीरे चीरपद्मके ।
यवासे क्षुद्रखदिरे कार्पासे च मरुद्भवा ॥ रज्नि_25.15
समुद्रान्ता च स्पृक्कायां कार्पासे च यवासके ।
मण्डूकपर्णी मण्डूक्यां मञ्जिष्ठादित्यकान्तयोः ॥ रज्नि_25.16
ऋषभके तु वासायां बलीवर्दे वृषः स्मृतः ।
चाम्पेयं चम्पके प्रोक्तं किञ्जल्के नागकेसरे ॥ रज्नि_25.17
उशीरे च लवंगे च श्रीखण्डे वारिसम्भवः ।
पलितं शैलजे श्यामे शुभ्रकेशे च विश्रुतम् ॥ रज्नि_25.18
कुन्दुरुको धूपभेदे शल्लक्यां च तृणान्तरे ।
पृथ्वीकायां हिङ्गुपत्त्री स्थूलैला कलिका स्मृता ॥ रज्नि_25.19
शतपत्त्रो राजकीरे कमले पुष्पभेदके ।
न्यग्रोधस्त्वाखुपर्ण्यां च विषपर्ण्यां वटे स्मृतः ॥ रज्नि_25.20
क्षुद्राग्निमन्थे तर्कारी जीमूते चाग्निमन्थके ।
श्वेते रौप्ये च मीनाण्ड्यां सिता च परिकीर्तिता ॥ रज्नि_25.21
सोमवल्कस्तु रीठायां कदरे कृष्णगर्भके ।
शैलेयके शिलाह्वा च कुनट्यां च शिलाजतौ ॥ रज्नि_25.22
पाटलायां माषपर्ण्यां काश्मर्यां कृष्णवृन्तिका ।
जटामांस्यां च मांसे च लाक्षायां च पलं स्मृतम् ॥ रज्नि_25.23
समङ्गायां रक्तपादी मञ्जिष्ठा च बला स्मृता ।
भल्लातके बिल्यतरौ पार्थे वीरतरुः स्मृतः ॥ रज्नि_25.24
दुःस्पर्शायां कण्टकारी कपिकच्छुर् दुरालभा ।
वत्सादन्यां गुडूची च तार्क्षी च गजपिप्पली ॥ रज्नि_25.25
आमण्डे पुष्करे कञ्जे पद्मपत्त्रं प्रचक्षते ।
कालेयकं तु दार्व्यां च कुङ्कुमे हरिचन्दने ॥ रज्नि_25.26
श्रीखण्डे चाजगन्धे स्याच्छ्रीवेष्टे तिलपर्णिका ।
लोध्रे पूगीफले चैव तूले च क्रमुकः स्मृतः ॥ रज्नि_25.27
पिप्पल्यां यूथिकायां च जीरके माधवी भवेत् ।
अजमोदा शताह्वायां मिशिश्चैव शतावरी ॥ रज्नि_25.28
त्रपुस्यां कर्कटी तौसी तथा स्याद्वनकर्कटी ।
कुस्तुम्बर्यां च भूधात्र्यां धान्यं व्रीह्यादिकं स्मृतम् ॥ रज्नि_25.29
त्रपुसी देवदाली च घोटिके शफले स्मृता ।
तण्डुल्यां यवतिक्ता च शशाण्डुल्यब्दनादयोः ॥ रज्नि_25.30
सुरदारुर् गन्धबध्वोश् चण्डायां गन्धमादिनी ।
श्यामेक्षुके क्षुरकेऽपि काकाक्षे कोकिलाक्षकः ॥ रज्नि_25.31
वराङ्गं मस्तके गुह्ये त्वचायां च प्रशस्यते ।
कर्ण्यां श्वेतकिणिह्यां च कटभ्यां गिरिकर्णिका ॥ रज्नि_25.32
पतङ्गो ऽर्के मधूके च पट्टरञ्जनके तथा ।
द्राक्षा च शतवीर्यायां दूर्वा चैव शतावरी ॥ रज्नि_25.33
शुण्ठी प्रतिविषा चैव विश्वायां च शतावरी ।
जया हरिद्रा विजया जयन्त्यां च प्रशस्यते ॥ रज्नि_25.34
कच्छुरायां दुरालम्भा स्वयंगुप्ता यवासकः ।
पुण्ड्रेक्षौ चाथ गोधूमे रसाले च प्रचक्षते ॥ रज्नि_25.35
द्राक्षायां तु रसाला स्याद्वक्ष्यते च भिषग्वरैः ।
हैमवत्यां वचा श्वेतक्षीरिणी लोमशा स्मृता ॥ रज्नि_25.36
बिल्वे धात्रीफले चैव श्रीफलं चार्द्रचिक्कणे ।
जात्यां पक्षिविशेषे च कमलं सारसं स्मृतम् ।
तिलके च छिन्नरुहा सुषवी केतकी भवेत् ॥ रज्नि_25.37
वंशः सर्जद्रुमे वेणौ कुलाम्नाये च कीर्तितः ।
सलिले वत्सनाभे च व्याले चैव विषं स्मृतम् ॥ रज्नि_25.38
स्थूलकन्दो मुखालुः स्यात् शूरणं हस्तिकन्दकम् ।
आम्रातके पीतनकेऽप्यम्लिका च पलाशिका ॥ रज्नि_25.39
विषदोड्यां महानिम्बे मदने विषमुष्टिकः ।
तगरे कुङ्कुमे प्रोक्तो धुस्तूरे च शठः स्मृतः ॥ रज्नि_25.40
कपित्थः स्वर्णयूथ्यां च कुष्माण्डे नागपुष्पके ।
तिलके चातिमुक्ते च इक्षुभेदे च पुण्ड्रकः ॥ रज्नि_25.41
आखोटे वारुणी चैव गवाक्ष्यां चर्मवादिनी ।
तोयवल्ल्यां च कारण्डीरो महादुग्धामृतस्रवा ॥ रज्नि_25.42
पृथ्व्यां पुनर्नवा मेदा धारिणी च प्रशस्यते ।
मुचुकुन्दे जयापुष्पे गणेर्यां हरिवल्लभा ॥ रज्नि_25.43
कामुके लघुकाश्मर्यां कैडर्यो ऽन्यकरञ्जके ।
द्राक्षान्तरे शिखरिणी नेवाल्यां दधिभेदके ॥ रज्नि_25.44
कुटजेन्द्रयवौ प्रोक्तौ पुष्पकासीसवत्सके ।
क्षौद्रे मद्यान्तरे प्रोक्तो मधुयष्ट्यां मधुः स्मृतः ॥ रज्नि_25.45
चटके स्वरसे चैव नीलकण्ठो मयूरके ।
शोणितं कुङ्कुमे रक्ते रक्तगन्ध इति स्मृतम् ॥ रज्नि_25.46
तर्कारी देवदाल्यां च अरण्यां वह्निमण्डले ।
वसर्यां वृश्चिके चैव काकबन्ध्या सकृत्प्रजा ॥ रज्नि_25.47
कट्वङ्ग्यां च कटभ्यां च पटोल्यां दधिपुष्पिका ।
धुस्तूरे केसरे हेम्नि सुवर्णं सम्प्रचक्षते ॥ रज्नि_25.48
सुवर्णायां हरिद्रायां वारुणी कणगुग्गुलुः ।
वाराह्यां शिशुमार्यां च कन्दभेदे च शूकरी ॥ रज्नि_25.49
पलाण्ड्वन्तरे लसुने मूले चाणक्यसंज्ञके ।
महाकन्दः समाख्यातो वैद्यशास्त्रार्थकोविदैः ॥ रज्नि_25.50
लोहे च वनरम्भायां लघुपाषाणभेदके ।
त्रिष्वेतेषु च गिरिजा प्रोक्ता यत्र भिषग्वरैः ॥ रज्नि_25.51
जरणः कासमर्दे तु रामठे कृष्णजीरके ।
स शमं जायते तीक्ष्णं तगरे च प्रशस्यते ॥ रज्नि_25.52
दुरालभायां कपिकच्छुके स्यात् तथा शिखर्यां दुरभिग्रहा च ।
महासमङ्गा बहुपुत्रिका च सा सारिवा स्यात् फणिजिह्विकायाम् ॥ रज्नि_25.53
राजनिघण्टु, एकार्थादिवर्ग, चतुरर्थाः
अम्लिकायां तु चाङ्गेर्यां मोचिका चाम्रचिञ्चके ।
वयःस्थायां च काकोल्यौ दार्वी च सोमवल्लरी ॥ रज्नि_26.1
जन्तुकायां पुत्रदात्र्यां षट्पद्यां भ्रमरी त्वचौ ।
भ्रमरी चारको वैद्यशास्त्रम् आयुष्मते स्मृतः ॥ रज्नि_26.2
अभया चिर्भिटा बन्ध्या कर्कोटी च मृगादनी ।
पथ्यायां संप्रवक्ष्यन्ते चतस्रश्च भिषग्वरैः ॥ रज्नि_26.3
कुष्ठे कुन्दुरुके निम्बे राजके राजभद्रकः ।
कटके काचके लोहे तिलके गन्धभेदकः ॥ रज्नि_26.4
मीनाख्यायां महाराष्ट्र्यां काकमाच्यां ततः परम् ।
ब्रह्ममण्डूकिकायां तु मत्स्याक्षी च प्रचक्षते ॥ रज्नि_26.5
नक्तञ्चरः कौशिके स्याद्वल्गुजे दुण्डुभे पुरे ।
शिफाजगन्धाकारव्यौ मेथिका चाजमोदिका ॥ रज्नि_26.6
पञ्चास्ये मर्कटे चाश्वे मण्डूके च हरिः स्मृतः ।
श्यामालङ्का त्रिपूटायां स्थूलैला वृत्तमल्लिका ॥ रज्नि_26.7
लोहं च लोहजे कांस्ये कृष्णलोहे तथागुरौ ।
खर्जूर्यां नारिकेले च ताले वंशे दुरारुहा ॥ रज्नि_26.8
शुण्ठीमरिचपिप्पल्यां कणामूले षडूषणम् ।
अग्निस्त्वरुष्करे जारे निम्बुके चित्रके तथा ॥ रज्नि_26.9
भूताङ्कुशस्त्वपामार्गे सुकुमारश्च राजिका ।
त्वचे चाक्षबले चैव प्रोक्तस्तत्र भिषग्वरैः ॥ रज्नि_26.10
शमी हरिद्रा वृद्धिश्च लक्ष्मी स्यात्पद्मचारिणी ।
जम्बूकी सोममत्स्याक्षी क्रोडी ब्राह्मी च कीर्त्तिता ॥ रज्नि_26.11
मार्कवे भ्रामरे भृङ्गस्त्वचे पक्षिविशेषके ।
रोचनं स्याद्दाडिमके जम्भे निम्बे च पूरके ॥ रज्नि_26.12
सिताब्जे दमने व्याघ्रे रुग्भेदे पुण्डरीककः ।
जलजं मौक्तिके शङ्खे लोणक्षारे लवंगके ॥ रज्नि_26.13
वन्ध्याकर्कोटकी चैव बृहत्यन्या च लक्ष्मणा ।
सुतदा पुत्रदायां तु चतस्रः परिकीर्तिताः ॥ रज्नि_26.14
उशीरं गृञ्जनं चैव मधुपुष्पं च वञ्जुलः ।
दीर्घपत्त्रे च केतक्यां कन्यायां दीर्घपत्त्रिका ॥ रज्नि_26.15
वासन्ते रुचके प्लक्षः कलिङ्गे देवसर्षपः ।
लामज्जके दीर्घमूलं यासे वेल्लन्तरे शठे ॥ रज्नि_26.16
तथा स्याच्छालिपर्ण्यां च दीर्घमूला स्मृता बुधैः ।
रामायां त्रायमाणायां कन्याशोकश् च सातला ॥ रज्नि_26.17
अमृतं वेदनक्षारे सुधायां च तथा विषे ।
वराहः शिशुमारे च वाराह्यां शूकरे घने ॥ रज्नि_26.18
वाराहे वञ्जुले कासे नादेयी जलवेतसे ।
शारदो बकुले राष्ट्र्यां सारिवाकृष्णमुद्गयोः ॥ रज्नि_26.19
कुब्जके वार्षिकायां च फलिन्यां योषिति प्रिया ।
काश्मीरं कुङ्कुमे देशे पौष्करे मृगनाभिजे ॥ रज्नि_26.20
केसरो बकुले हेम्नि किञ्जल्के च कसीसके ।
जम्बीरः स्यान्मरुवके गुच्छे चार्जुनयुग्मके ॥ रज्नि_26.21
वसुके वसुराजार्ककृष्णागुरुपुनर्नवाः ।
जपानृकन्दान्यक्षुद्रामुचुकुन्देषु लक्ष्मणा ॥ रज्नि_26.22
हर्षणे सारसे कामी चक्रे पारावते तथा ।
मूषके कुक्कुटे क्रौड्यां वृश्चिके च बहुप्रजः ॥ रज्नि_26.23
अजशृङ्गी च मञ्जिष्ठायुक्ता कर्कटशृङ्गिका ।
प्रतिविषासमायुक्ता शृङ्ग्यां चैव प्रशस्यते ॥ रज्नि_26.24
सुरसे तुलसी ब्राह्मी निर्गुण्डी कणगुग्गुलुः ।
चीनायां कारबल्यां च वचायां लवणे पटुः ॥ रज्नि_26.25
पाटल्यां श्यामकिणिही ताम्रवल्ली तथापरम् ।
जीवन्तिका ताम्रपुष्पी कथिताः शास्त्रकोविदैः ॥ रज्नि_26.26
हिङ्गुले कुङ्कुमे रक्तमस्रे चोक्तं च पद्मके ।
दुग्धी गोडुर् भूपलाशे काकोल्यां दुग्धफेनके ॥ रज्नि_26.27
मुसली स्वर्णुली चैव कण्टकारीन्द्रवारुणौ ।
आख्याता हेमपुष्प्यां च नानार्थज्ञविशारदैः ॥ रज्नि_26.28
निशायां चैव नीलिन्यां हरिद्रायाम् अलक्तके ।
रजनीति समाख्याता आयुर्वेदेषु धीमता ॥ रज्नि_26.29
राजनिघण्टु, एकार्थादिवर्ग, पञ्चार्थाः
अजमोदाजगन्धा च शिखण्डी कोकिलाक्षकः ।
अपामार्गस्तु पञ्चैते मयूर इति शब्दिताः ॥ रज्नि_27.1
कदली शाल्मली मोचा नीली शोभाञ्जनं तथा ।
पञ्चस्वेतेषु मोचाख्यां प्रयुञ्जन्ति भिषग्वराः ॥ रज्नि_27.2
सुरभिः शल्लकी वोकं कदम्बश्चम्पकः सुरा ।
ययो दर्भो हरिद्रा च पवित्रे हिज्जलस् तिलः ॥ रज्नि_27.3
यमानी जीरकश्चैव मोदाब्जा रक्तचित्रकः ।
निम्बुश्चेति च पञ्चैवं दीप्यकाः समुदाहृताः ॥ रज्नि_27.4
कपिकच्छूः कोविदारः पन्नगः कृतमालकः ।
तथा छिन्नरुहा चेति कुण्डलीपञ्चकं स्मृतम् ॥ रज्नि_27.5
शलाटुर् अग्निमन्थश् च क्षुद्राग्निमथनं तथा ।
काश्मीरी शिंशपा चैव श्रीपर्णी पञ्चधा स्मृता ॥ रज्नि_27.6
महासमङ्गा वन्दाका जतुका चामृतस्रवा ।
महामेदा च पञ्चैता ज्ञेया वृक्षरुहा बुधैः ॥ रज्नि_27.7
गोविशेषे मृगादन्यां शिंशपारेणुकाह्वयोः ।
रीत्यन्तरे च विबुधैः कपिला पञ्चसु स्मृता ॥ रज्नि_27.8
कायस्थायां च काकोल्यौ पथ्यैला बहुमञ्जरी ।
व्यालस्तु चित्रकव्याघ्रसिंहदुष्टद्विपादिषु ॥ रज्नि_27.9
वृन्ताके चान्यवारुण्यां क्षुद्रायां चिर्भिटाह्वये ।
लिङ्गिन्यां चेति पञ्चसु ज्ञेया चित्रफला बुधैः ॥ रज्नि_27.10
बर्बरो हिङ्गुले बाले भारङ्ग्यां हरिचन्दने ।
असिते चार्जके चैव कथितः शास्त्रकोविदैः ॥ रज्नि_27.11
यमान्याम् अजमोदायां वचायां दीप्यके तथा ।
अरक्तलशुने चैव ह्य् उग्रगन्धा तु पञ्चसु ॥ रज्नि_27.12
महाबलायां सम्प्रोक्ता सहदेवी तु नीलिनी ।
वत्सादनी देवसहा पिप्पली पञ्चसु स्मृता ॥ रज्नि_27.13
ज्योतिष्मत्यां काकतुण्ड्यां काकमाच्यां तथैव च ।
वायसी काकजङ्घायां काक्यां चैव तु पञ्चधा ॥ रज्नि_27.14
लिङ्गिनी स्वर्णजीवन्ती रौद्री स्यान्नाकुली तथा ।
बन्ध्याकर्कोटकी चैव ईश्वर्यां सम्प्रचक्षते ॥ रज्नि_27.15
वसन्तदूत्यां गणिकारिकाम्रवासन्तिकापाटलकोकिलाश् च ।
वत्सादनी वाकुचिका गुडूची सौमा समण्डूकिकसोमवल्ल्याम् ॥ रज्नि_27.16
चक्री नखान्तरे कोके दद्रुघ्ने तिनिशे खरे ।
सिन्धुजे तिलके धात्र्यां पारदे टङ्कणे शिवम् ॥ रज्नि_27.17
जाती सुरीरी कटुतुम्बिनी च छुछुन्दरी रेणुरसाजपुत्री ।
स्वर्णेऽप्यथो गुग्गुलुकेसराखुशठेषु धीराः कनकं वदन्ति ॥ रज्नि_27.18
राजनिघण्टु, एकार्थादिवर्ग, षडर्थाः
बृहद्बला वरी ताली कटुकातिविषा तथा ।
काकोली चैव षड्वर्गं वीरायां च प्रचक्षते ॥ रज्नि_28.1
सातला क्षीरकाकोली विभाण्डी चाजशृङ्गिका ।
कुञ्जरो दर्दुरश् चैव षड्विषाणीति कीर्तिता ॥ रज्नि_28.2
नीलदूर्वा निशाह्वश्च रोचना च हरीतकी ।
बहुपुष्पी भिषग्वर्यैः शिवायां षडमी स्मृताः ॥ रज्नि_28.3
निम्बखर्जूरितालीसं मरिचं वृत्तमूलकम् ।
पलाण्डुश्चेति षडमी निम्बसंज्ञाः प्रकीर्तिताः ॥ रज्नि_28.4
मूर्वा स्पृक्का सहदेवा देवद्रोणी च केसरम् ।
आदित्यभक्ताः षडिति देवीसंज्ञाः प्रकीर्तिताः ॥ रज्नि_28.5
ब्राह्मणः क्षत्रियो वैश्यो दन्तः सर्पः खगस्तथा ।
द्विजद्विजन्मशब्दाभ्याम् ईरिताः सूरिभिः सदा ॥ रज्नि_28.6
गवादनी चैव दूर्वा गण्डदूर्वा च हस्तिनी ।
प्रतीची मदिरा चेति वारुण्यां षट् सुसन्मताः ॥ रज्नि_28.7
हपुषा पीतनिर्गुण्डी विष्णुक्रान्ता जयन्तिका ।
शिताद्रिकर्णीशङ्खिन्यौ षडेता अपराजिताः ॥ रज्नि_28.8
कुमारी च वराही च वन्ध्याकर्कोटकी मृदुः ।
स्थूलैला स्थलपर्णी च षट्कन्याश्च कुमारिकाः ॥ रज्नि_28.9
बीजद्रुमे गजे चैव सीसके नागकेसरे ।
विषे च पन्नगे चैव षट्सूक्तो नाग इत्यपि ॥ रज्नि_28.10
सूक्ष्मैला च महाराष्ट्री मत्स्याक्षी काकमाचिका ।
गण्डदूर्वा च गण्डूकी मत्स्यादन्यां षडीरिताः ॥ रज्नि_28.11
माणे कलिङ्गे कोशाम्रे शल्ये काके च धूर्तके ।
मदनश्च समाख्यातः षडमी समुदाहृताः ॥ रज्नि_28.12
दोडी गुडूची मेदा च काकोली हरिणी तथा ।
जीवन्ती चैव षट् प्रोक्ता जीवन्त्यां च भिषग्वरैः ॥ रज्नि_28.13
धूम्राटभृङ्ग्योः खलु मांसले च प्लक्षे शिरीषे कुटजे कुलिङ्गः ।
द्राक्षा च दूर्वा जरणा कणा च कृष्णाभिधा वाकुचिका कटुश्च ॥ रज्नि_28.14
राजनिघण्टु, एकार्थादिवर्ग, सप्तार्थाः
भद्रायां तु बला नीली दन्ती काश्मरी सारिवा ।
मूल पाठ: Rājanighaṇṭu [also called Nighaṇṭurāja, or Abhidhānacūḍāmaṇi] · Edition: Calcutta 1933 : Siddheshvarayantra · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0