राजनिघण्टु · भाग 181181
श्वेताद्रिकर्णी गौरी च सप्त प्रोक्ता भिषग्वरैः ॥ रज्नि_29.1
मञ्जिष्ठा कटुका पथ्या काश्मरी चन्द्रवल्लभा ।
वन्दाको रजनी चैव रोहिण्यां सप्त च स्मृताः ॥ रज्नि_29.2
धात्री बहुफलायां स्याच्छर्दिनी काकमाचिका ।
काम्भोजी च शशाण्डूली कटुहुञ्ची च वालुकी ॥ रज्नि_29.3
मण्डूकी ब्रह्मजा शङ्खपुष्पी ज्योतिष्मती मुनिः ।
विष्णुक्रान्ता वचा श्वेता मेध्यायां सप्त संमताः ॥ रज्नि_29.4
आखुकर्णी सुतश्रेणी इन्द्राह्वा च कलिङ्गकः ।
गण्डदूर्वा गवाक्षी च चित्रायाम् ऋक्षम् एकतः ॥ रज्नि_29.5
रास्ना पाठा प्रियङ्गुश् च सितक्षुद्रा हरीतकी ।
श्रेयस्यां चेति सम्प्रोक्ता अम्बष्ठा गजपिप्पली ॥ रज्नि_29.6
राजनिघण्टु, एकार्थादिवर्ग, अष्टार्थाः
विजया काञ्चनद्वंद्वं मञ्जिष्ठा च वचा तथा ।
स्यात्तथा श्वेतनिर्गुण्डी जयन्ती काञ्जिकाभया ॥ रज्नि_30.1
एरण्डनद्याम्रलताकरञ्जाः स्याद्ब्रह्मदण्डी पनसः कुसुम्भः ।
स्याद्गोक्षुरः कण्टफले च धूर्तो भिषग्भिर् अष्टाव् इति सम्प्रदिष्टाः ॥ रज्नि_30.2
स्वर्णे कपिच्छे दधिनारिकेलयोः स्याज्जीवके चेत् स्थलपद्मके तथा ।
मयूरकेतौ समधूकके तथा माङ्गल्यम् अष्टाव् इति सम्प्रचक्षते ॥ रज्नि_30.3
राजनिघण्टु, एकार्थादिवर्ग, नवार्थाः
वातारिर्जतुकायां च भल्ल्यां नीलदवञ्जयोः ।
टेन्दुकामण्डयोर् भार्ग्यां निर्गुण्ड्यां शूराणे स्मृतः ॥ रज्नि_31.1
धात्री गुडूची रास्ना च द्विधा दूर्वा हरीतकी ।
लिङ्गिनी तुवरी मद्यं धीमतायां नवौषधी ॥ रज्नि_31.2
ब्राह्मी वराही लशुनी विषं च शुक्लादिकन्दः सितकण्टकारी ।
भूभ्याहुली चेद् अपराजिता च शुण्डीति चैतासु महौषधी स्यात् ॥ रज्नि_31.3
राजनिघण्टु, एकार्थादिवर्ग, दशार्थाः
सितायां वाकुची दूर्वा मद्यं धात्री कुटुम्बिनी ।
चन्द्रिका च प्रिया पिङ्गा त्रायमाणा च तेजिनी ॥ रज्नि_32.1
राजनिघण्टु, एकार्थादिवर्ग, एकादशार्थाः
स्यादभ्रमांसी तुलसी हरिद्रा तालं तथा रोचनहेमम् ।
जनप्रिया योजनवल्लिका स्यात् समल्लिका चन्द्रशशी च गौर्याम् ॥ रज्नि_33.1
दूर्वा निशा ऋद्धिवचा प्रिया च सा माषपर्णी शिमिरोचना त्वथ ।
त्रायन्तिका जीवनिका महाबला मङ्गल्यकायाम् इति चन्द्रमाह्वयाः ॥ रज्नि_33.2
प्रियङ्गुछिन्ना त्रिवृता कणाह्वया वन्दाकदूर्वा तुलसी च नीलिनी ।
दुर्गा खगः कस्तुरिकृष्णसारिवा श्यामा महीन्दुः कथिता भिषग्वरैः ॥ रज्नि_33.3
इत्थं विचिन्त्य विनिवेशिततत्तदेकानेकार्थनामगणसंग्रहपूर्णम् एनम् ।
वर्गं विचार्य भिषजा बहुभक्तिभाजा ज्ञेया स्वयं प्रकरणानुगुणाः प्रयोगाः ॥ रज्नि_33.4
एको यश्च मनस्विनाम् अचतुरो यश्च द्वयोरश्विनो स्त्र्यक्षाच् चाचतुरो नृपञ्चवदनो नाम्नारिषण्णां जयी ।
एकार्थादिर् अमुष्य नामरचनाचूडामणौ यस् त्रयोविंशोऽसौ समपूरि सार्धम् अमुना ग्रन्थेन वर्गो महान् ॥ रज्नि_33.5
मूल पाठ: Rājanighaṇṭu [also called Nighaṇṭurāja, or Abhidhānacūḍāmaṇi] · Edition: Calcutta 1933 : Siddheshvarayantra · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0