राजनिघण्टु · भाग 141160
रुच्यं तु वन्यजं शैत्यं बहुवीर्यबलप्रदम् ॥ रज्नि_17.30
एणस्य मांसं लघुशीतवृष्यं त्रिदोषहृत् षड्रसजं च रुच्यम् ॥ रज्नि_17.31
कुरङ्गमांसं मधुरं च तद्वत् कफापहं मांसदपित्तनाशि ॥ रज्नि_17.32
सारङ्गं जाङ्गलं स्निग्धं मधुरं लघु वृष्यकम् ॥ रज्नि_17.33
शिखरीसम्भवं मांसं लघु हृद्यं बलप्रदम् ॥ रज्नि_17.34
वराहमांसं गुरु वातहारि वृष्यं बलस्वेदकरं वनोत्थम् ॥ रज्नि_17.35
तस्माद्गुरु ग्रामवराहमांसं तनोति मेदो बलवीर्यवृद्धिम् ॥ रज्नि_17.36
शरशृङ्गस्य मांसं तु गुरु स्निग्धं कफप्रदम् ।
बल्यं वृष्यकरं पुष्टिकिंचिद्वातकरं परम् ॥ रज्नि_17.37
छागमांसं लघु स्निग्धं नातिशीतं रुचिप्रदम् ।
निर्दोषं वातपित्तघ्नं मधुरं बलपुष्टिदम् ॥ रज्नि_17.38
छागपोतभवं मांसं लघु शीतं प्रमेहजित् ।
ईषल्लघु बलं दत्ते तद् एव तृणचारिणः ॥ रज्नि_17.39
औरभ्रं मधुरं शीतं गुरु विष्टम्भि बृंहणम् ॥ रज्नि_17.40
आविकं मधुरं मांसं किंचिद् गुरु बलप्रदम् ॥ रज्नि_17.41
शल्यमांसं गुरु स्निग्धं दीपनं श्वासकासजित् ॥ रज्नि_17.42
पिच्छिलं नाकुलं मांसं वातघ्नं श्लेष्मपित्तकृत् ॥ रज्नि_17.43
गोधामांसं तु वातघ्नं श्वासकासहरं च तत् ॥ रज्नि_17.44
शशमांसं त्रिदोषघ्नं दीपनं श्वासकासजित् ॥ रज्नि_17.45
अन्ये बिलेशया ये स्युः कोकडोन्दुरुकादयः ।
मांसं च गर्हितं तेषां मान्द्यं गौरवदुर्जरम् ॥ रज्नि_17.46
आरण्यकुक्कुटक्रव्यं हृद्यं श्लेष्महरं लघु ॥ रज्नि_17.47
ग्राम्यकुक्कुटजं स्निग्धं वातहृद् दीपनं गुरु ॥ रज्नि_17.48
हारीतपललं स्वादु कफपित्तास्रदोषजित् ॥ रज्नि_17.49
वर्धनं वीर्यबलयोस्तद्वदेव कपोतजम् ॥ रज्नि_17.50
पारावतपलं स्निग्धं मधुरं गुरु शीतलम् ।
पित्तास्रदाहनुद्बल्यं तथान्यद् वीर्यवृद्धिदम् ॥ रज्नि_17.51
स्निग्धं तित्तिरिजं मांसं लघु वीर्यबलप्रदम् ।
कषायं मधुरं शीतं त्रिदोषशमनं परम् ॥ रज्नि_17.52
तद्वच्च लावकं मांसं पथ्यं ग्राहि लघु स्मृतम् ॥ रज्नि_17.53
तद्वच्च वर्तकमांसं निर्दोषं वीर्यपुष्टिदम् ॥ रज्नि_17.54
चटकायाः पलं शीतं लघु वृष्यं बलप्रदम् ॥ रज्नि_17.55
तद्वच्चारण्यचटकक्रव्यं लघु च पथ्यदम् ॥ रज्नि_17.56
चटकाच्छीतलं रुच्यं वृष्यं कापिञ्जलामिषम् ॥ रज्नि_17.57
तद्वच्चकोरजं मांसं वृष्यं च बलपुष्टिदम् ॥ रज्नि_17.58
क्रव्यं तु चक्रवाकस्य लघु स्निग्धं बलप्रदम् ।
वह्निकृत् सर्वशूलघ्नम् उष्णं वातामयापहम् ॥ रज्नि_17.59
सारसस्य तु मांसं च मधुराम्लकषायकम् ।
महातीसारपित्तघ्नं ग्रहण्यर्शोरुजापहम् ॥ रज्नि_17.60
स्निग्धहिमं गुरु वृष्यं मांसं जलपक्षिणां तु वातहरम् ॥ रज्नि_17.61
तेष्वपि च हंसमांसं वृष्यतमं तिमिरहरणं च ॥ रज्नि_17.62
अन्ये बकबलाकाद्या गुरवो मांसभक्षणात् ।
अनुक्तं तु मृगादीनां मांसं ग्राह्यं हितादिषु ॥ रज्नि_17.63
मत्स्याः स्निग्धोष्णगुरवो वातघ्ना रक्तपित्तदाः ।
तत्र कांश्चिदपि ब्रूमो विशेषगुणलक्षणान् ॥ रज्नि_17.64
रोहितो गर्गरो भीरुर् बालको बर्बरस्तथा ।
छागलो रक्तमत्स्यो ऽथ महिषश् चाविलस् तथा ॥ रज्नि_17.65
वातूको ऽलोमशा चापि ज्ञेया कर्णवशादयः ।
लक्ष्यलक्षणवीर्यादीन् कथयामि यथाक्रमम् ॥ रज्नि_17.66
कृष्णः शल्की श्वेतकुक्षिस्तु मत्स्यो यः श्रेष्ठोऽसौ रोहितो वृत्तवक्त्रः ।
कोष्णं बल्यं रोहितस्यापि मांसं वातं हन्ति स्निग्धमाप्नोति वीर्यम् ॥ रज्नि_17.67
यः पीतवर्णो ऽपि च पिच्छिलाङ्गः पृष्ठे तु रेखाबहुलः सशल्कः ।
स गर्गरो बर्बरनादरूक्षो जडश् च शीतः कफवातदायी ॥ रज्नि_17.68
पृष्ठे पक्षौ द्वौ गले पुच्छकं चेत् सर्पाभः स्यात् फूत्कृतो वृत्ततुण्डः ।
ज्ञेयः शल्की मत्स्यको भीरुरुक्तः स्निग्धो वृष्यो दुर्जरो वातकारी ॥ रज्नि_17.69
नातिस्थूलो वृत्तवक्त्रोऽपि शस्तो धत्ते दन्तान् श्मश्रुलो दीर्घकायः ।
संध्यायां वा रात्रिशेषे च वर्यः प्रोक्तो बालः पथ्यबल्यः सुवृष्यः ॥ रज्नि_17.70
पृष्ठे कुक्षौ कण्टकी दीर्घतुण्डः सर्पाभो यः सो ऽप्ययं बर्बराख्यः ।
वाताटोपं सो ऽपि दत्ते जडश् च बल्यः स्निग्धो दुर्जरो वीर्यकारी ॥ रज्नि_17.71
श्वेतं सुकायं समदीर्घवृत्तं निःशल्ककं छागलकं वदन्ति ।
नले द्विकण्टः किल तस्य पृष्ठे कण्टः सुपथ्यो रुचिदो बलप्रदः ॥ रज्नि_17.72
यो रक्ताङ्गो नातिदीर्घो न चाल्पो नातिस्थूलो रक्तमत्स्यः स चोक्तः ।
शीतो रुच्यः पुष्टिकृद्दीपनोऽसौ नाशं धत्ते किंच दोषत्रयस्य ॥ रज्नि_17.73
यः कृष्णो दीर्घकायः स्यात् स्थूलशल्को बलाधिकः ।
मत्स्यो महिषनामासौ दीपनो बलवीर्यदः ॥ रज्नि_17.74
शुक्लाङ्गस् ताम्रपक्षो यः स्वल्पाङ्गश् चाविलाह्वयः ।
सुरुच्यो मधुरो बल्यो गुणाढ्यो वीर्यपुष्टिदः ॥ रज्नि_17.75
यः स्थूलाङ्गो माहिषाकारको यस् तालुस्थाने नीरजाभां दधाति ।
शल्कं स्थूलं यस्य वातूकको ऽसौ दत्ते वीर्यं दीपनं वृष्यदायी ॥ रज्नि_17.76
वितस्तिमानः श्वेताङ्गः सूक्ष्मशल्कः सुदीपनः ।
अलोमशाह्वयो मत्स्यो बलवीर्याङ्गपुष्टिदः ॥ रज्नि_17.77
यो वृत्तगौल्यः कृष्णाङ्गः शल्की कर्णवशाभिधः ॥ रज्नि_17.78
दीपनः पाचनः पथ्यो वृष्यो ऽसौ बलपुष्टिदः ॥ रज्नि_17.79
निःशल्का निन्दिता मत्स्याः सर्वे शल्कयुता हिताः ।
वपुःस्थैर्यकरा वीर्यबलपुष्टिविवर्धनाः ॥ रज्नि_17.80
ह्रदकुल्याजलधिनिर्झरतडागवापीजले च ये मत्स्याः ।
ते तु जडा नादेया यथोत्तरं लघुतरास्तु नादेयाः ॥ रज्नि_17.81
क्षाराम्बुमत्स्या गुरवो ऽस्रदाहदा विष्टम्भदास्ते लवणार्णवादिजाः ।
तानश्नतां स्वादुजलस्थिता अपि ज्ञेया जडास्तेऽपि तथा शृतानिमान् ॥ रज्नि_17.82
शैलाटवीनगरभूजलचारिणो ये ये के ऽपि सत्त्वनिवहाः खलु सप्तसंख्याः ।
तन्मांसमत्र न वितथ्यम् अथाभ्यधायि ग्रन्थस्य विस्तरभयाच्च नवोपयोगात् ॥ रज्नि_17.83
पक्वं मांसं हितं सर्वं बलवीर्यविवर्धनम् ।
भृष्टमांसं विदाहि स्यादस्रवातादिदोषकृत् ॥ रज्नि_17.84
पूर्वार्धं पुरुषस्य तद्गुरुतरं पश्चार्धभागः स्त्रियाः स्त्री गुर्वी किल गुर्विणी यदि तथा योषिच्च तुल्या लघुः ।
पक्षी चेत्पुरुषो लघुः शृणु शिरःस्कन्धोरुपृष्ठे क्रमात् मांसं यच्च कटिस्थितं तदखिलं गुर्वेव सर्वात्मना ॥ रज्नि_17.85
रसरक्तादिधातूनां गुरुः स्यादुत्तरोत्तरम् मेढ्रवृक्कयकृन्मांसं वार्षणं चातिमात्रतः ॥ रज्नि_17.86
इत्थं प्रतिस्थलविलाम्बुनभःप्रचारप्राण्यङ्गमांसगुणनिर्णयपूर्णम् एनम् ।
वर्गं विचार्य भिषजा विनियुज्यमानो भुक्त्वाशनं न विकृतिं समुपैति मर्त्यः ॥ रज्नि_17.87
यस्यासीत् समितिद्विपाधिपबृहत्कुम्भान्तरस्थामिषप्रायाभ्यासपिपासयेव तरुणी नेत्राम्बुधारा द्विषाम् ।
तस्यायं पुरुषप्रतापसुहृदः श्रीमन्नृसिंहेशितुर् वर्गः सप्तदशो निषीदति कृतौ नामादिचूडामणौ ॥ रज्नि_17.88
राजनिघण्टु, मनुष्यादिवर्गः
मनुष्या मानुषा मर्त्या मनुजा मानवा नराः ।
द्विपादाश् चेतना भूस्था भूमिजा भूस्पृशो विशः ॥ रज्नि_18.1
पुरुषः पूरुषो ना च नरः पञ्चजनः पुमान् ।
अर्थाश्रयो ऽधिकारी स्यात् कर्मार्हश् च जनो ऽर्थवान् ॥ रज्नि_18.2
स्त्री योषिद्वनिताबला सुनयना नारी च सीमन्तिनी रामा वामदृगङ्गना च ललना कान्ता पुरंध्री वधूः ।
सुभ्रूः सा वरवर्णिनी च सुतनुस्तन्वी तनुः कामिनी तन्वङ्गी रमणी कुरङ्गनयना भीरुः प्रिया भामिनी ॥ रज्नि_18.3
योषिन्महेला महिला विलासिनी नितम्बिनी सापि च मत्तकाशिनी ।
जनी सुनेत्रा प्रमदा च सुन्दरी स्याद् अञ्चितभ्रूर् ललिता विलासिनी ॥ रज्नि_18.4
मानिनी च वरारोहा नताङ्गी च नतोदरा ।
प्रतीपदर्शिनी श्यामा कामिनी दर्शनी च सा ॥ रज्नि_18.5
भर्ता पतिर्वरः कान्तः परिणेता प्रियो गृही ॥ रज्नि_18.6
भार्या पत्नी प्रिया जाया दाराश्च गृहिणी च सा ॥ रज्नि_18.7
नपुंसकं भवेत् क्लीबं तृतीया प्रकृतिस्तथा ।
षण्ड्ःअः पण्डश्च नारी तु पोटा स्त्रीपुंसलक्षणा ॥ रज्नि_18.8
अथ राज्ञी च पट्टार्हा महिषी राजवल्लभा ॥ रज्नि_18.9
भोगिन्यो ऽन्या विलासिन्यः संभुङ्क्ते यास्तु पार्थिवः ॥ रज्नि_18.10
राजभोग्याः सुमुख्यो यास्ता भट्टिन्य इति स्मृताः ॥ रज्नि_18.11
वेश्या तु गणिका भोग्या वारस्त्री स्मरदीपिका ॥ रज्नि_18.12
ब्रह्मा तु ब्राह्मणो विप्रः षट्कर्मा च द्विजोत्तमः ॥ रज्नि_18.13
राजा तु सार्वभौमः स्यात् पार्थिवः क्षत्रियो नृपः ॥ रज्नि_18.14
वैश्यस्तु व्यवहर्ता विड् वार्त्तिको वाणिजो वणिक् ॥ रज्नि_18.15
शूद्रः पज्जश्चतुर्थः स्यात् द्विजदास उपासकः ॥ रज्नि_18.16
विप्रः क्षत्रो वैश्यशूद्रौ च वर्णाश्चत्वारोऽमी तत्र पूर्वे द्विजाः स्युः ।
एषामेव प्रातिलोम्यानुलोम्याज्जायन्तेऽन्या जातयः संकरेण ॥ रज्नि_18.17
बालः पाकोऽर्भको गर्भः पोतकः पृथुकः शिशुः ।
शावो ऽर्भो बालिशो डिम्भो वटुर् माणवको मतः ॥ रज्नि_18.18
जातो ऽर्भकः पक्षदिनेन मासतः पाकस्त्रिभिस्तैरथ पोतकाभिधः ।
षड्भिस्तु मासैः पृथुकोऽब्दतः शिशुस् त्रिभिर् वटुर् माणवकश् च सप्तभिः ॥ रज्नि_18.19
बालोऽब्दैः पञ्चदशभिः कुमारस्त्रिंशता स्मृतः ।
युवा पञ्चाशता वर्षैर् वृद्धः स्यादत उत्तरैः ॥ रज्नि_18.20
कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि ।
कैशोरम् आ पञ्चदशाद् यौवनं तु ततः परम् ॥ रज्नि_18.21
युवा वयःस्थस् तरुणो वृद्धस्तु स्थविरो जरन् ।
प्रवया यातयामश्च जीनो जीर्णश् च जर्जरः ॥ रज्नि_18.22
बालोत्तानशया डिम्भा स्तनपा च स्तनंधयी ॥ रज्नि_18.23
कन्या कुमारी गौरी तु नग्निकानागतार्तवा ॥ रज्नि_18.24
सा मध्यमा वयःस्था च युवती सुस्तनी च सा ।
चिरण्टी सुवयाः श्यामा प्रौढा दृष्टरजाश्च सा ॥ रज्नि_18.25
गुर्विण्यापन्नसत्त्वा स्याद् अन्तर्वत्नी च गर्भिणी ॥ रज्नि_18.26
निष्फला जरती वृद्धा स्थविरा च गतार्तवा ॥ रज्नि_18.27
पुष्पिता मलिना म्लाना पांशुला च रजस्वला ॥ रज्नि_18.28
वन्ध्यावकेशिनी शून्या मोघपुष्पा वृथार्तवा ॥ रज्नि_18.29
तनुस् तनूः संहननं शरीरं कलेवरं क्षेत्रवपुःपुराणि ।
गात्रं च मूर्तिर् घनकायदेहाव् अष्टाङ्गपीडानि च विग्रहश् च ॥ रज्नि_18.30
अङ्गमंसः प्रतीकश् चापघनो ऽवयवो ऽपि च ॥ रज्नि_18.31
शिरः शीर्षकमुण्डं च मूर्धा मौलिश्च मस्तकम् ।
वराङ्गम् उत्तमाङ्गं च कपालं केशभृत् स्मृतम् ॥ रज्नि_18.32
केशाः शिरसिजा वालाः कुन्तला मूर्धजाः कचाः ।
चिकुराः करुहाश् चाथ तद्वेष्टाः कवरीमुखाः ॥ रज्नि_18.33
दृग्दृष्टिर् लोचनं नेत्रं चक्षुर्नयनमम्बकम् ।
ईक्षणं ग्रहणं चाक्षि दर्शनं च विलोचनम् ॥ रज्नि_18.34
अपाङ्गो नेत्रपर्यन्तो नयनोपान्त इत्यपि ।
तयोर्मध्यगता तारा बिम्बिनी च कनीनिका ॥ रज्नि_18.35
भालं ललाटमलिकं कथयन्ति गोधिर् भ्रूश् चिल्लिका च नयनोर्ध्वगरोमराजिः ।
मध्यं तयोर्भवति कूर्चमथ श्रुतिस्तु श्रोतः श्रवः श्रवणकर्णवचोग्रहाश्च ॥ रज्नि_18.36
ओष्ठोऽधरो दन्तवासो दन्तवस्त्रं रदच्छदः ।
तयोरुभयतो देशौ यौ प्रान्तौ सृक्कणी च तौ ॥ रज्नि_18.37
घ्राणं गन्धवहो घोणा सिङ्घिणी नासिका च सा ॥ रज्नि_18.38
शङ्खः कर्णसमीपः स्यात् शिङ्घाणं नासिकामले ॥ रज्नि_18.39
तुण्डमास्यं मुखं वक्त्रं वदनं लपनानने ॥ रज्नि_18.40
ओष्ठाधरस्तु चिबुकं गण्डो गल्लः कपोलकः ॥ रज्नि_18.41
हनूस् तदूर्ध्वं दशनाश्च दन्ता द्विजा रदास्ते रदनास्तथोक्ताः ॥ रज्नि_18.42
जिह्वा रसज्ञा रसना च सोक्ता स्यात्काकुदं तालु च तालुकं च ॥ रज्नि_18.43
तदूर्ध्वं सूक्ष्मजिह्वा या घण्टिका लम्बिका च सा ॥ रज्नि_18.44
अन्याधोमूलजिह्वा स्यात् प्रतिजिह्वोपजिह्विका ॥ रज्नि_18.45
अवटुस्तु शिरःपश्चात्संधिर् घाटा कृकाटिका ॥ रज्नि_18.46
ग्रीवा च कंधरा कंधिः शिरोधिश्च शिरोधरा ॥ रज्नि_18.47
कण्ठो गलो निगालोऽथ घण्टिका गलशुण्ठिका ॥ रज्नि_18.48
धमनी तु शिरांसे तु स्कन्धोऽधःशिखरं तथा ॥ रज्नि_18.49
तस्य संधिस् तु जत्रु स्यात्कक्षा दोर्मूलसंज्ञका ॥ रज्नि_18.50
तदधस्ताद्भवेत्पार्श्वं पृष्ठं पश्चात्तनोः स्मृतम् ॥ रज्नि_18.51
दोर् दोषा च प्रवेष्टश्च बाहुर्बाहा भुजो भुजा ॥ रज्नि_18.52
पाणिस् तु पञ्चशाखः स्यात् करो हस्तः शयस्तथा ॥ रज्नि_18.53
करमूले मणिबन्धो भुजमध्ये कूर्परः कफोणिश्च ॥ रज्नि_18.54
तस्मादधः प्रकोष्ठः प्रगण्डकः कूर्परांसमध्यं स्यात् ॥ रज्नि_18.55
अङ्गुल्यः करशाखाः स्युः प्रदेशिन्यां तु तर्जनी ।
परुः स्यादङ्गुलीसंधिः पर्वसंधिश् च कथ्यते ॥ रज्नि_18.56
अथाङ्गुष्ठप्रदेशिन्यौ मध्यमानामिका तथा ।
कनिष्ठा चेति पञ्च स्युः क्रमेणाङ्गुलयः स्मृताः ॥ रज्नि_18.57
कामाङ्कुशाः कररुहाः करजा नखरा नखाः ।
पाणिजाङ्गुलीसम्भूताः पुनर्भवपुनर्नवाः ॥ रज्नि_18.58
करस्याधः प्रपाणिः स्यादूर्ध्वं करतलं स्मृतम् ।
रेखाः सामुद्रिके ज्ञेयाः शुभाशुभनिवेदिकाः ॥ रज्नि_18.59
स्तनोरसिजवक्षोजपयोधरकुचास् तथा ॥ रज्नि_18.60
स्तनाग्रं चूचुकं वृत्तं शिखा स्तनमुखं च तत् ॥ रज्नि_18.61
वक्षो वत्समुरः क्रोडो हृदयं हृद्भुजान्तरम् ॥ रज्नि_18.62
कुक्षिः पिचिण्डो जठरं तुन्दं स्यादुदरं च तत् ॥ रज्नि_18.63
जीवस्थानं तु मर्म स्यात्कटिप्रान्ते त्रिकं स्मृतम् ॥ रज्नि_18.64
नाभिः स्याद् उदरावर्तस् ततो ऽधो वस्तिरुच्यते ।
वस्तिश्च वातशीर्षं स्याद् गर्भस्थानं च तत् स्त्रियाः ॥ रज्नि_18.65
गर्भाशयो जरायुश्च गर्भाधारश्च च स्मृतः ॥ रज्नि_18.66
नाभिस्तनान्तरं जन्तोरामाशयः इति स्मृतः ॥ रज्नि_18.67
पक्वाशयो ह्य् अधो नाभेर्वस्तिर्मूत्राशयः स्मृतः ॥ रज्नि_18.68
कटिः ककुद्मती श्रोणी नितम्बश्च कटीरकम् ।
आरोहं श्रोणिफलकं कलत्रं रसनापदम् ॥ रज्नि_18.69
नितम्बश्चरमं श्रोणेः स्त्रीणां जघनमग्रतः ॥ रज्नि_18.70
ककुन्दरौ तु सर्वेषां स्यातां जघनकूपकौ ।
कटिप्रोथौ स्फिचौ पायुर् गुदापानं तदासनम् ॥ रज्नि_18.71
गुदमुष्कद्वयोर्मध्ये यो भागः स भगः स्मृतः ॥ रज्नि_18.72
मुष्कोऽण्डमण्डकोषश्च वृषणो बीजपेशिका ॥ रज्नि_18.73
शिश्नं शेफश्च लिङ्गं च मेढ्रं साधनमेहने ॥ रज्नि_18.74
योनिर्भगो वराङ्गं स्यादुपस्थं स्मरमन्दिरम् ॥ रज्नि_18.75
ऊरू तु सक्थिनी श्रोणिसक्थ्नोः संधिस् तु वङ्क्षणः ।
जङ्घोरूमध्यपर्व स्याज्जान्वष्ठीवच्च चक्रिका ॥ रज्नि_18.76
जङ्घा तु प्रसृता ज्ञेया तन्मध्ये पिण्डिका तथा ॥ रज्नि_18.77
जङ्घाङ्घ्रिसंधिग्रन्थौ तु घुटिका गुल्फ इत्यपि ॥ रज्नि_18.78
गुल्फस्याधस्तु पार्ष्णिः स्यात् पदाग्रं प्रपदं मतम् ॥ रज्नि_18.79
विक्रमश्चरणः पादः पादाङ्घ्रिश् च पदं क्रमः ॥ रज्नि_18.80
क्रोडमङ्कस्तथोत्सङ्गः प्राग्भागो वपुषः स्मृतः ॥ रज्नि_18.81
करो भवेत् संहितविस्तृताङ्गुलस् तलश् चपेटः प्रतलः प्रहस्तकः ।
मुष्टिर्भवेत् संहृतपिण्डिताङ्गुलाव् आकुञ्चितो ऽग्रे प्रसृतः प्रकीर्तितः ॥ रज्नि_18.82
स्यात् तर्जनी मध्यमिका त्व् अनामिका कनिष्ठिकाङ्गुष्ठयुता यदा तदा ।
प्रादेशतालाभिधगोस्रवस् तथा वितस्तिर् अत्यर्थम् इह क्रमादियम् ॥ रज्नि_18.83
हस्तस् तु विस्तृते पाणाव् आ मध्याङ्गुलिकूर्परम् ॥ रज्नि_18.84
बद्धमुष्टौ सरत्निः स्याद् अरत्निर् अकनिष्ठकः ॥ रज्नि_18.85
व्यामः सहस्तयोः स्यात्तु तिर्यग्बाह्वोर्यदन्तरम् ।
ऊर्ध्वं विस्तृतदोष्पाणिर् नृमानं पौरुषं विदुः ॥ रज्नि_18.86
जीवस्थानं तु मर्म स्याज्जीवागारं तद् उच्यते ॥ रज्नि_18.87
मर्मस्थानं च तत्प्रोक्तं भ्रूमध्यादिष्वनेकधा ॥ रज्नि_18.88
भ्रूमध्यकण्डगलशङ्खकचांसपृष्ठग्रीवागुदाण्डपदपाणियुगास्थिसंधीन् ।
वैद्याः शरेक्षणमितानि वदन्ति मर्मस्थानानि चाङ्गगतिनाशकराणि मर्त्ये ॥ रज्नि_18.89
लाला भवेन्मुखस्रावः सृणिका स्यन्दिनी च सा ॥ रज्नि_18.90
स्वेदो घर्मश्च घर्माम्भो दूषिका नेत्रयोर्मलम् ॥ रज्नि_18.91
मलं विष्ठा पुरीषं च विट् किट्टं पूतिकं च तत् ।
मूत्रं तु गुह्यनिष्यन्दः प्रस्रावः स्रवणं स्रवः ॥ रज्नि_18.92
वली चर्मतरंगः स्यात् त्वगूर्मिस् त्वक्तरंगकः ॥ रज्नि_18.93
पलितं च जरा लक्ष्म केशशौक्ल्यं च तद्भवेत् ॥ रज्नि_18.94
रसासृङ्मांसमेदोऽस्थिमज्जानः शुक्रसंयुताः ।
शरीरस्थैर्यदाः सम्यक् विज्ञेयाः सप्त धातवः ॥ रज्नि_18.95
रसस्तु रसिका प्रोक्ता स्वेदमाता वपुःस्रवः ।
चर्माम्भश्चर्मसारश्च रक्तसूर् अस्रमातृका ॥ रज्नि_18.96
रक्तास्रं रुधिरं त्वग्जं कीलालक्षतजानि तु ।
शोणितं लोहितं चासृक् शोणं लोहं च चर्मजम् ॥ रज्नि_18.97
मांसं तु पिशितं क्रव्यं पलं तु रस्यम् अस्रजम् ।
पललं जाङ्गलं कीरम् आमिषं च तद् उच्यते ॥ रज्नि_18.98
मेदस् तु मांससारः स्यान्मांसस्नेहो वसा वपा ॥ रज्नि_18.99
मेदोजम् अस्थिधातुः स्यात् कुल्यं कीकसकं च तत् ॥ रज्नि_18.100
अस्थिसारस् तु मज्जा स्यात् तेजो बीजं तथास्थिजम् ।
जीवनं देहसारश्च तथास्थिस्नेहसंज्ञकम् ॥ रज्नि_18.101
शुक्रं पुंस्त्वं रेतो बीजं वीर्यं च पौरुषं कथितम् ।
इन्द्रियमन्नविकारो मज्जरसो हर्षणं बलं चैव ॥ रज्नि_18.102
रसादस्रं ततो मांसं मांसान्मेदोऽस्थि तद्भवम् ।
अस्थ्नो मज्जा ततः शुक्रम् इत्थम् एषां जनिक्रमः ॥ रज्नि_18.103
तिलकं क्लोम मस्तिष्कं स्नेहस् तु मस्तकोद्भवः ॥ रज्नि_18.104
अन्त्रं पुरी तद् आख्यातं प्लीहा गुल्म इति स्मृतः ॥ रज्नि_18.105
वसा तु वस्नसा स्नायुर्वत्सोक्ता देहवल्कलम् ।
सा त्वक् [... 10 zएइछेन्] ॥ रज्नि_18.106
शिरोधिजा मन्या धमनी धरणी धरा ।
तन्तुकी जीवितज्ञा च नाडी सिंही च कीर्तिता ॥ रज्नि_18.107
कण्डरा तु महास्नायुर्महानाडी च सा स्मृता ॥ रज्नि_18.108
शरीरास्थि तु कङ्कालं स्यात्करङ्कोऽस्थिपञ्जरः ।
स्रोतांसि खानि छिद्राणि कालखण्डं यकृन्मतम् ॥ रज्नि_18.109
शिरोऽस्थि तु करोटिः स्यात् शिरस्त्राणं तु शीर्षकम् ।
तत् खण्डं खर्परं प्राहुः कपालं च तद् ईरितम् ॥ रज्नि_18.110
पृष्ठास्थि तु कसेरुः स्यात्शाखास्थि नलकं स्मृतम् ॥ रज्नि_18.111
पार्श्वास्थि पर्शुका प्रोक्तमिति देहाङ्गनिर्णयः ॥ रज्नि_18.112
आत्मा शरीरी क्षेत्रज्ञः पुद्गलः प्राण ईश्वरः ।
जीवो विभुः पुमानीशः सर्वज्ञः शम्भुरव्ययः ॥ रज्नि_18.113
प्रधानं प्रकृतिर्माया शक्तिश्चैतन्यमित्यपि ॥ रज्नि_18.114
अहंकारो ऽभिमानः स्याद् अहंताहंमतिस् तथा ॥ रज्नि_18.115
मानसं हृदयं स्वान्तं चित्तं चेतो मनश्च हृत् ॥ रज्नि_18.116
सत्त्वं रजस्तमश्चेति प्रोक्ताः पुंसस् त्रयो गुणाः ॥ रज्नि_18.117
श्रोत्रं त्वग्रसना नेत्रं नासा चेत्यक्षपञ्चकम् ॥ रज्नि_18.118
अक्षं हृषीकं करणं वर्हणं विषयीन्द्रियम् ॥ रज्नि_18.119
शब्दः स्पर्शो रसो रूपं गन्धश् च विषया अमी ।
इन्द्रियार्था गोचरास्ते पञ्चभूतगुणाः खलु ॥ रज्नि_18.120
आकाशमनिलस्तोयं तेजः पृथ्वी च तान्यपि ।
क्रमेण पञ्च भूतानि कीर्तितानि मनीषिभिः ॥ रज्नि_18.121
इत्येष मानुषवयोत्तरवर्णगात्रधात्वङ्गलक्षणनिरूपणपूर्यमाणः ।
वर्गः कृतस्तु भिषजां बहुदेहदोषनामा निदानगणनिर्णयधीनिवेशः ॥ रज्नि_18.122
इति पशुपतिपादाम्भोजसेवासमाधिप्रतिसमयसमुत्थानन्दसौख्यैकसीम्ना ।
नरहरिकृतिनायं निर्मिते याति नामप्रचयमुकुटरत्ने शान्तिमष्टादशाङ्कः ॥ रज्नि_18.123
राजनिघण्टु, सिंहादिवर्ग
सिंहः पञ्चमुखो नखी मृगपतिर्मानी हरिः केसरी क्रव्यादो नखरायुधो मृगरिपुः शूरश्च कण्ठीरवः ।
विक्रान्तो द्विरदान्तको बहुबलो दीप्तो बली विक्रमी हर्यक्षः स च दीप्तपिङ्गल इति ख्यातो मृगेन्द्रश्च सः ॥ रज्नि_19.1
महाशृङ्गस्तु शरभो मेघस्कन्धो महामनाः ।
अष्टपादो महासिंहो मनस्वी पर्वताश्रयः ॥ रज्नि_19.2
व्याघ्रः पञ्चनखो व्यालः शार्दूलोऽथ गुहाशयः ।
तीक्ष्णदंष्ट्रः पुण्डरीको द्वीपी भीरुर् नखायुधः ॥ रज्नि_19.3
चित्रकश् चित्रकायः स्यादुपव्याघ्रो मृगान्तकः ।
शूरश् च क्षुद्रशार्दूलश् चित्रव्याघ्रश् च स स्मृतः ॥ रज्नि_19.4
ऋक्षो भल्लूको ऽथ भल्लः सशल्यो दुर्घोषः स्यात् भल्लकः पृष्ठदृष्टिः ।
द्राघिष्ठः स्यात् दीर्घकेशश् चिरायुर् ज्ञेयः सो ऽयं दुश्चरो दीर्घदर्शी ॥ रज्नि_19.5
मृगादस्तु स विज्ञेयस् तरक्षुर् घोरदर्शनः ॥ रज्नि_19.6
शिवा तु भूरिमायः स्यात् गोमायुर् मृगधूर्तकः ।
शृगालो वञ्चकः क्रोष्टा फेरवः फेरुजम्बुकौ ।
शालावृकः शिवालुश्च फेरण्डो व्याघ्रसेवकः ॥ रज्नि_19.7
ईहामृगस्तु कोकः स्याद्वृको वत्सादनोऽविभुक् ।
गोवत्सारिश् छागलारिश् छागलान्तो जलाश्रयः ॥ रज्नि_19.8
कुक्कुरः सारमेयश्च भषकः श्वानकः शुनः ।
भूस्तरो वक्रलाङ्गूलो वृकारी रात्रिजागरः ॥ रज्नि_19.9
कौलेयको ग्राममृगो मृगारिर्मृगदंशकः ।
शूरः शुनिः शयालुश्च भषः शरदिकामुकः ॥ रज्नि_19.10
बिडालो मूषकारातिः वृषदंशो बिडालकः ।
शालावृकश्च मार्जारो मायावी दीप्तलोचनः ॥ रज्नि_19.11
अन्यो लोमशमार्जारः पूतिको मारजातकः ।
सुगन्धिमूत्रपतनो गन्धमार्जारकश्च सः ॥ रज्नि_19.12
द्विरदगजमतंगजेभकुम्भिद्विरदनवारणहस्तिपद्मिनागाः ।
करिकरटिविषाणिकुञ्जरास् ते रदनिमदाबलसम्मदद्विपाश् च ॥ रज्नि_19.13
भद्रः स्तम्बेरमो दन्ती द्रुमारिः षष्टिहायनः ।
मातंगः पुष्करी दन्ताबलश् चानेकपस्त्विभः ॥ रज्नि_19.14
भद्रो मन्दो मृगश्चेति विज्ञेयास्त्रिविधा गजाः ।
वनप्रचारसारूप्यसत्त्वभेदोपलक्षिताः ॥ रज्नि_19.15
स बालः कलभो ज्ञेयो दुर्दान्तो व्याल उच्यते ।
प्रभिन्नो गर्जितो भ्रान्तो मत्तो मदकलश्च सः ॥ रज्नि_19.16
इभी तु करिणी ज्ञेया हस्तिनी धेनुका वशा ।
करेणुः पद्मिनी चैव मातंगी वासिता च सा ॥ रज्नि_19.17
खड्गः खड्गमृगः क्रोधी मुखशृङ्गो मुखेबली ।
गण्डको वज्रचर्मा च खड्गी वार्ध्रीणसश् च सः ॥ रज्नि_19.18
उष्ट्रो दीर्घगतिर् बली च करभो दासेरको धूसरो लम्बोष्ठो लवणः क्रमेलकमहाजङ्घौ च बीजाङ्घ्रिकः ।
दीर्घः शृङ्खलको महान् अथ महाग्रीवो महाङ्गो महानादः सो ऽपि महाध्वगः स च महापृष्ठो बलिष्ठश् च सः ॥ रज्नि_19.19
महिषः कासरः क्रोधी कलुषश्चापि सैरिभः ।
लुलापमत्तरक्ताक्षा विषाणी कवली बली ॥ रज्नि_19.20
महिषी मन्दगमना महाक्षीरा पयस्विनी ।
लुलापकान्ता कलुषा तुरंगद्वेषिणी च सा ॥ रज्नि_19.21
गौस् तु भद्रो बलीवर्दो दम्यो दान्तः स्थिरो बली ।
उक्षानड्वान् ककुद्मान् स्यादृषभो वृषभो वृषः ॥ रज्नि_19.22
धुर्यो धुरीणो धौरेयः शांकरो हरवाहनः ।
रोहिणीरमणो वोढा गोनाथः सौरभेयकः ॥ रज्नि_19.23
वृषभस्तु वृषः प्रोक्तो महोक्षः पुंगवो बली ।
गोनाथ उक्षा ऋषभो गोप्रियो गोपतिश्च सः ॥ रज्नि_19.24
धवलः शबलस्ताम्रश् चित्रश्च धूसरस्तथा ।
इत्यादिवर्णभेदेन ज्ञेया गावो ऽत्र भेदिताः ॥ रज्नि_19.25
विनीतः शिक्षितो दान्तो धुर्यो वोढा च धौरिकः ॥ रज्नि_19.26
बालो वत्सतरः प्रोक्तो दुर्दान्तो गडिर् उच्यते ॥ रज्नि_19.27
गौर् मातोस्रा शृङ्गिणी सौरभेयी माहेयी स्याद्रोहिणी धेनुरघ्न्या ।
दोग्ध्री भद्रा भूरिमत्यानडुह्यौ कल्याणी स्यात्पावनी चार्जुनी च ॥ रज्नि_19.28
वनगौर् गवयः प्रोक्तो बलभद्रो महागवः ॥ रज्नि_19.29
गवयी वनधेनुः स्यात्सैव भिल्लगवी मता ॥ रज्नि_19.30
चमरो व्यजनो वन्यो धेनुगो बालधिप्रियः ।
तस्य स्त्री चमरी प्रोक्ता दीर्घबाला गिरिप्रिया ॥ रज्नि_19.31
वराहः स्तब्धरोमा च रोमशः शूकरः किरिः ।
वक्रदंष्ट्रः किटिर् दंष्ट्री क्रोडो दन्तायुधो बली ॥ रज्नि_19.32
पृथुस्कन्धश् च भूदारः पोत्री घोणान्तभेदनः ।
कोलः पोत्रायुधः शूरो बह्वपत्यो रदायुधः ॥ रज्नि_19.33
अन्यस्तु विड्वराहः स्याद्ग्रामीणो ग्रामशूकरः ।
ग्राम्यक्रोडो ग्राम्यकोलो विष्ठाशी दारकश्च सः ॥ रज्नि_19.34
अश्वो घोटस्तुरंगो ऽर्वा तुरगश्च तुरंगमः ।
वाहो वाजी मुद्गभोजी वीतिः सप्तिश्च सैन्धवः ॥ रज्नि_19.35
हरिर्हयश्च धाराटो जवनो जीवनो जवी ।
गन्धर्वो वाहनश्रेष्ठः श्रीभ्रातामृतसोदरः ॥ रज्नि_19.36
आरट्टसिन्धुजवनायुजपारसीककाम्बोजबाह्लिकमुखा विविधास्तुरङ्गाः ।
साम्राणशेफकमुखा अपि देशतः स्युर् वर्णेन ते ऽपि च पुनर्बहुधा भवन्ति ॥ रज्नि_19.37
श्वेतः कर्कः सो ऽथ रक्तस्तु शोणो हैमः कृष्णो नीलवर्णस्तु नीलः ।
शुभ्रैर्नेत्रैर्मल्लिकाक्षो निदिष्टः कृष्णैरुक्तः सो ऽयम् इन्द्रायुधाख्यः ॥ रज्नि_19.38
इत्थं नानावर्णभेदेन वाजी ज्ञातव्यो ऽयं लोकरूढैः सुधीभिः ।
अत्रास्माभिर्न प्रपञ्चः कृतोऽस्मादाजानेयो ऽप्यत्र वाजी कुलीनः ॥ रज्नि_19.39
सुकुलः सुविनीताश्वः किशोरस्तुरगार्भकः ॥ रज्नि_19.40
वाजिनी वडबा चापि प्रसूरश्वाश्विनी च सा ॥ रज्नि_19.41
गर्दभः शङ्कुकर्णश्च बालेयो रासभः खरः ।
भारवाहो भूरिगमश् चक्रीवान् धूसराह्वयः ॥ रज्नि_19.42
वेसरस् त्व् अश्वखरजः सकृद्गर्भो ऽध्वगः क्षमी ।
संतुष्टो मिश्रजः प्रोक्तो मिश्रशब्दोऽतिभारगः ॥ रज्नि_19.43
अजो बुक्कश्च मेध्यः स्याल्लम्बकर्णः पशुश्च सः ।
छागलो बर्करश् छागस्तुभो बस्तः पयस्वलः ॥ रज्नि_19.44
अजा पयस्विनी भीरुश्छागी मेध्या गलस्तनी ॥ रज्नि_19.45
मेषो भेडो हुडो मेण्ढ्रः ऊर्णायुर् उरणस्तथा ।
एडकः शृङ्गिणो ऽविः स्यादुरभ्रो रोमशो बली ॥ रज्नि_19.46
नानादेशविशेषेण मेषा नानाविधा अमी ॥ रज्नि_19.47
मृगः कुरङ्गो वातायुः कृष्णसारः सुलोचनः ।
हरिणोऽजिनयोनिः स्यादेणः पृषत इत्यपि ॥ रज्नि_19.48
ककुवाग् अथ सारङ्गः शाखिशृङ्गश्च चित्तलः ।
अन्यश्च भारशृङ्गः स्यात् महाशृङ्गो वनप्रियः ॥ रज्नि_19.49
रुरुस्तु रौहिषो रोही स्यान्न्यङ्कुश्चैव शम्बरः ।
नीलकः पृषतश्चैव रङ्कुः शबलपृष्ठकः ॥ रज्नि_19.50
शिखर्युपकुरङ्गः स्यात् श्रीकारी च महाजवः ।
जवनी वेगिहरिणी जङ्घालो जाङ्घिकाह्वयः ॥ रज्नि_19.51
वानरो मर्कटः कीशः कपिः शाखामृगो हरिः ।
प्लवंगमो वनौकाश्च प्लवंगः प्लवगः प्लवः ॥ रज्नि_19.52
गोलाङ्गूलस्तु गौराख्यः कपिः कृष्णमुखो हि सः ।
मन्दुराभूषणाख्यो ऽयं विज्ञेयः कृष्णवानरः ॥ रज्नि_19.53
शल्यकः स्यात् शल्यमृगो वज्रशुक्तिर् बिलेशयः ॥ रज्नि_19.54
शल्योऽन्यः श्वाविदित्युक्तः शली च शलली च सः ॥ रज्नि_19.55
शल्यलोम्नि तु विज्ञेया शलली शललं शलम् ॥ रज्नि_19.56
कोकडो जवनः प्रोक्तः कोकोवाचो बिलेशयः ।
ज्ञेयश् चमरपुच्छश् च लोमशो धूम्रवर्णकः ॥ रज्नि_19.57
नकुलः सूचिरदनः सर्पारिर् लोहिताननः ॥ रज्नि_19.58
दर्वीकरो द्विरसनः पातालनिलयो बली ।
नागश्च काद्रवेयश्च वक्रगो दन्दशूककः ॥ रज्नि_19.59
चक्षुःश्रवा विषधरो गूढाङ्घ्रिः कुण्डली फणी ।
पन्नगो वायुभक्षश्च भोगी स्याज्जिह्मगश्च सः ॥ रज्नि_19.60
सर्पो दंष्ट्री भुजंगो ऽहिर् भुजगश् च सरीसृपः ।
कञ्चुकी दीर्घपुच्छश् च द्विझ्वि उरगश्च सः ॥ रज्नि_19.61
फणिनो धवलाङ्गा ये ते नागा इति कीर्तिताः ।
अन्ये रक्तादिवर्णाढ्या बोध्याः सर्पादिनामभिः ॥ रज्नि_19.62
गोनसो मण्डलीत्युक्तश्चित्राङ्गो व्यन्तरो भवेत् ॥ रज्नि_19.63
कुलिको हरितो ज्ञेयो राजिलं डुण्डुभं विदुः ॥ रज्नि_19.64
अनन्तो वासुकिः पद्मो महापद्मोऽपि तक्षकः ।
कर्कोटः कुलिकः शङ्ख इत्यमी नागनायकाः ॥ रज्नि_19.65
तद्बान्धवास्तु कुमुदकम्बलाश्वतरादयः ॥ रज्नि_19.66
आपहृत् द्विमुखी चैव धामिणीत्यादयः परे ॥ रज्नि_19.67
मूषिको मूषकः पिङ्गोऽप्याखुरुन्दुरुको नखी ।
खनको बिलकारी च धान्यारिश्च बहुप्रजः ॥ रज्नि_19.68
अन्यो महामूषकः स्यान्मूषी विघ्नेशवाहनः ।
महाङ्गः सस्यमारी च भूफलो भित्तिपातनः ॥ रज्नि_19.69
छुछुन्दरी राजपुत्री प्रोक्तान्या प्रतिमूषिका ।
सुगन्धिमूषिका गन्धा शुण्डिनी शुण्डमूषिका ॥ रज्नि_19.70
गोधा तु गोधिका ज्ञेया दारुमत्स्याह्वया च सा ।
खरचर्मा पञ्चनखी पुलका दीर्घपुच्छिका ॥ रज्नि_19.71
गोधाजः स्यात्तु गौधेयो गौधारो गोधिकासुतः ॥ रज्नि_19.72
बर्बरी घोरिका घोरा दीर्घरूपा भयावहा ।
स्थूलचञ्चुर् दीर्घपादा सर्पभक्षी गुणारिका ॥ रज्नि_19.73
ब्राह्मणी गृहगोधा च सुपदी रक्तपुच्छिका ॥ रज्नि_19.74
सरटः कृकलासः स्यात् प्रतिसूर्यः शयानकः ।
वृत्तिस्थः कण्टकागारो दुरारोहद्रुमाश्रयः ॥ रज्नि_19.75
जाहको गात्रसंकोची मण्डली बहुरूपकः ।
कामरूपी विरूपी च बिलवासः प्रकीर्तितः ॥ रज्नि_19.76
पल्ली तु मुसली प्रोक्ता गृहगोधा गृहालिका ।
ज्येष्ठा च कुड्यमत्स्या च पल्लिका गृहगोधिका ॥ रज्नि_19.77
तन्तुवायस्तूर्णनाभो लूता मर्कटकः कृमिः ॥ रज्नि_19.78
हालाहला त्व् अञ्जलिका गिरिका बालमूषिका ॥ रज्नि_19.79
वृश्चिकः शूककीटः स्याद् अलिद्रोणश् च वृश्चिके ॥ रज्नि_19.80
अथ कर्णजलूका स्याच्चित्राङ्गी शतपद्यपि ॥ रज्नि_19.81
पिपीलकः पिपीलश्च स्त्रीसंज्ञा च पिपीलिका ॥ रज्नि_19.82
उदङ्घा कपिजङ्घिका ज्ञेया तैलपिपीलिका ॥ रज्नि_19.83
कृष्णान्या च पिपीली तु स्थूला वृक्षरुहा च सा ॥ रज्नि_19.84
मत्कुणो रक्तपायी स्याद्रक्ताङ्गो मञ्चकाश्रयी ॥ रज्नि_19.85
यादस्तु जलजन्तुः स्याज्जलप्राणी जलेशयः ।
तत्रातिक्रूरकर्मा यः स जलव्याल उच्यते ॥ रज्नि_19.86
मत्स्यो वैसारिणो मीनः पृथुरोमा झषोऽण्डजः ।
विसारः शकुली शल्की पाठीनोऽनिमिषस्तिमिः ॥ रज्नि_19.87
राजीवः शकुलः शृङ्गी वागुसः शल्यपल्लवौ ।
पाठीनः शकुलश् चैव नद्यावर्तश्च रोहितः ॥ रज्नि_19.88
मद्गुरस् तिमिरित्याद्या ज्ञेयास् तद्भेदजातयः ।
तद्भेदो मकराख्यो ऽन्यो मातंगमकरो ऽपरः ॥ रज्नि_19.89
चिलिचिमस्तिमिश् चैव तथान्यश् च तिमिङ्गिलः ।
तिमिङ्गिलगिलश्चेति महामत्स्या अमी मताः ॥ रज्नि_19.90
शिशुकः शिशुमारः स्यात्स च ग्राहो वराहकः ॥ रज्नि_19.91
भवेन्नक्रस्तु कुम्भीरो गलग्राहो महाबलः ॥ रज्नि_19.92
कच्छपः कमठः कूर्मो गूढाङ्गो धरणीधरः ।
कच्छेष्टः पल्वलावासो वृत्तः कठिनपृष्ठकः ॥ रज्नि_19.93
कर्कटः स्यात् कर्कटकः कुलीरश्च कुलीरकः ।
संदंशकः पङ्कवासस् तिर्यग्गामी स चोर्ध्वदृक् ॥ रज्नि_19.94
मण्डूको दर्दुरो मण्डो हरिर् भेकश्च लूलकः ।
शालूरः स च वर्षाभूः प्लवः कटुरवस्तथा ।
समीडन्यश्च मुण्डी च प्लवंगश्च प्लवंगमः ॥ रज्नि_19.95
पीतोऽन्यो राजमण्डूको महामण्डूक इत्यपि ।
पीताङ्गः पीतमण्डूको वर्षाघोषो महारवः ॥ रज्नि_19.96
जलूका तु जलौका स्याद्रक्तपा रक्तपायिनी ।
रक्तसंदोहिका तीक्ष्णा चर्मटी जलजीविनी ॥ रज्नि_19.97
जलकाकस्तु दात्यूहः स च स्यात् कालकण्ठकः ॥ रज्नि_19.98
जलपारावतः कोपी प्रोक्तो जलकपोतकः ॥ रज्नि_19.99
स्थले करितुरंगाद्या यावन्तः सन्ति जन्तवः ।
जलेऽपि ते च तावन्तो ज्ञातव्या जलपूर्वकाः ॥ रज्नि_19.100
खगविहगविहंगमा विहंगः पिपतिषुपत्त्रिपतत्रिपत्त्रवाहाः ।
शकुनिशकुनविष्किराण्डजा विः पतगपतन्नभसंगमा नगौकाः ॥ रज्नि_19.101
वाजी पत्त्ररथः पक्षी द्विजो नीडोद्भवो ऽनुगः ।
शकुन्तः पतगः पिच्छन् पतंगो विकिरश्च सः ॥ रज्नि_19.102
गृध्रस्तार्क्ष्यो वैनतेयः खगेन्द्रो भुजगान्तकः ।
वक्रतुण्डश्च दाक्षाय्यो गरुत्मान् दूरदर्शनः ॥ रज्नि_19.103
श्येनः शशादः क्रव्यादः क्रूरो वेगी खगान्तकः ।
कामान्धस् तीव्रसम्पातस् तरस्वी तार्क्ष्यनायकः ॥ रज्नि_19.104
काष्ठकुट्टः काष्ठभङ्गी काष्ठकूटश्च शब्दितः ॥ रज्नि_19.105
करको नीलपिच्छः स्यात् लम्बकर्णो रणप्रियः ।
रणपक्षी पिच्छबाणः स्थूलनीलो भयंकरः ॥ रज्नि_19.106
कङ्कस् तु लोहपृष्ठः स्यात् संदंशवदनः खरः ।
रणालंकरणः क्रूरः स च स्यादामिषप्रियः ॥ रज्नि_19.107
काकस्तु वायसो ध्वाङ्क्षः काणोऽरिष्टः सकृत्प्रजः ।
बलिभुग् बलिपुष्टश्च धूलिजङ्घो निमित्तकृत् ॥ रज्नि_19.108
कौशिकारिश्चिरायुश्च करटो मुखरः खरः ।
आत्मघोषो महालोलश्चिरजीवी चलाचलः ॥ रज्नि_19.109
द्रोणस्तु द्रोणकाकः स्यात् काकोलोऽरण्यवायसः ।
वनवासी महाप्राणः क्रूररावी फलप्रियः ॥ रज्नि_19.110
उलूकस्तामसो घूको दिवान्धः कौशिकः कुविः ।
नक्तंचरो निशाटश्च काकारिः क्रूरघोषकः ॥ रज्नि_19.111
वल्गुली वक्त्रविष्ठा सा दिवान्धा च निशाचरी ।
स्वैरिणी च दिवास्वापा मांसेष्टा मातृवाहिनी ॥ रज्नि_19.112
चर्मकी चर्मपक्षी च चर्माङ्गी चर्मगन्धिका ।
कृत्याशूकारिणी चर्मी चर्मपत्त्री च मेलिका ।
दिनान्धा नक्तभोजी च भ्रामणी कर्णिकाह्वया ॥ रज्नि_19.113
मयूरश्चन्द्रकी बर्ही नीलकण्ठः शिखी ध्वजी ।
मेघानन्दी कलापी च शिखण्डी चित्रपिच्छकः ॥ रज्नि_19.114
बर्हिणः प्रचलाकी च शुक्लापाङ्गः शिखावलः ।
केकी भुजंगभोजी च मेघनादानुलासकः ॥ रज्नि_19.115
बर्हभारः कलापः स्याद् बर्हनेत्राणि चन्द्रकाः ।
प्रचलाकः शिखा ज्ञेया ध्वनिः केकेति कथ्यते ॥ रज्नि_19.116
कुररः खरशब्दः क्रुङ् क्रौञ्चः पङ्क्तिचरः खरः ॥ रज्नि_19.117
नीलक्रौञ्चस् तु नीलाङ्गो दीर्घग्रीवोऽतिजागरः ॥ रज्नि_19.118
बकः कङ्को बकोटश्च तीर्थसेवी च तापसः ।
मीनघाती मृषाध्यानी निश्चलाङ्घ्रिश् च दाम्भिकः ॥ रज्नि_19.119
शकुनी पोतकी श्यामा पाण्डवी श्वेतपक्षिणी ॥ रज्नि_19.120
दुर्गा भगवती चैव सैवोक्ता सत्यपाण्डवी ॥ रज्नि_19.121
बलाका विषकण्ठी स्यात् शुष्काङ्गी दीर्घकंधरा ॥ रज्नि_19.122
घर्मान्तकामुकी श्वेता मेघनादा जलाश्रया ॥ रज्नि_19.123
चक्रः कोकश्चक्रवाको रथाङ्गो भूरिप्रेमा द्वंद्वचारी सहायः ।
कान्तः कामी रात्रिविश्लेषगामी रामावक्षोजोपमः कामुकश्च ॥ रज्नि_19.124
सारसो रसिकः कामी नीलाङ्गो भणितारवः ।
नीलकण्ठो रक्तनेत्रः काकवाक् कामिवल्लभः ॥ रज्नि_19.125
टिट्टिभी पीतपादश्च सदालूता नृजागरः ।
निशाचरी चित्रपक्षी जलशायी सुचेतना ॥ रज्नि_19.126
जलकुक्कुटकश्चान्यो जलशायी जलस्थितः ॥ रज्नि_19.127
ठिकः पाशगडष् ठिक्को जलसार्यतिलाशयः ॥ रज्नि_19.128
जलपक्षी महापक्षी जलसाघतिवासकः ॥ रज्नि_19.129
जलशायी मण्डलीनो मन्दगः श्लेष्मलोऽविषी ।
सराजी राजिमन्तश्च जलसर्पः स दुन्दुभिः ॥ रज्नि_19.130
द्विविगोडो निसश् चैव चित्री शल्पी च गोमुखः ॥ रज्नि_19.131
अन्ये च प्लवगा ये ये ते सर्वे क्षुद्रसारसाः ।
श्वेताश्चित्राश्च धूम्राद्या नानावर्णानुगाह्वयाः ॥ रज्नि_19.132
हंसो धवलपक्षी स्यात् चक्राङ्गो मानसालयः ॥ रज्नि_19.133
कलहंसस्तु कादम्बः कलनादो मरालकः ॥ रज्नि_19.134
एतेषु चञ्चुचरणेष्वरुणेषु राजहंसोऽपि धूसरतरेषु च मल्लिकाक्षः ।
कालेषु तेषु धवलः किल धार्तराष्ट्रः सो ऽप्येष धूसरतनुस्तु भवेद् अभव्यः ॥ रज्नि_19.135
हंसी तु वरटा ज्ञेया वरला वारला च सा ।
मराली मञ्जुगमना चक्राङ्गी मृदुगामिनी ॥ रज्नि_19.136
कुक्कुटस्ताम्रचूडः स्यात् कालज्ञश् चरणायुधः ।
नियोद्धा कृकवाकुश्च विष्किरो नखरायुधः ॥ रज्नि_19.137
स्यात्कपोतः कोकदेवो धूसरो धूम्रलोचनः ।
दहनोऽग्निसहायश्च भीषणो गृहनाशनः ॥ रज्नि_19.138
पारावतः कलरवोऽरुणलोचनश्च पारापतो मदनकाकुरवश्च कामी ।
रक्तेक्षणो मदनमोहनवाग्विलासी कण्ठीरवो गृहकपोतक एष उक्तः ॥ रज्नि_19.139
पारावतोऽन्यदेशीयः कामुको घुल्लुसारवः ॥ रज्नि_19.140
जलपारावतः कामी ज्ञेयो गलरवश्च सः ॥ रज्नि_19.141
कोकिलः परपुष्टः स्यात् कालः परभृतः पिकः ।
वसन्तदूतस्ताम्राक्षो गन्धर्वो मधुगायनः ॥ रज्नि_19.142
वासन्तः कलकण्ठश्च कामान्धः काकलीरवः ।
कुहूरवोऽन्यपुष्टश्च मत्तो मदनपाठकः ॥ रज्नि_19.143
कोकिला त्व् अन्यपुष्टा स्यान्मत्ता परभृता च सा ।
सुकण्ठी मधुरालापा कलकण्ठी मधूदया ॥ रज्नि_19.144
वसन्तदूती ताम्राक्षी पिकी सा च कुहूरवा ।
वासन्ती कामगा चैव गन्धर्वा वनभूषणी ॥ रज्नि_19.145
शुकः कीरो रक्ततुण्डो मेधावी मञ्जुपाठकः ॥ रज्नि_19.146
अन्यो राजशुकः प्राज्ञः शतपत्त्रो नृपप्रियः ॥ रज्नि_19.147
सारिका मधुरालापा दूती मेधाविनी च सा ।
कवरी कुत्सिताङ्गी च कष्कलाङ्गी च शारिका ॥ रज्नि_19.148
पीतपादा ह्य् उज्ज्वलाक्षी रक्तचञ्चुश्च सारिका ।
पठन्ती पाठवार्ता च बुद्धिमती भूसारिका ॥ रज्नि_19.149
गोराण्टिका गोकिराटी गोरिका कलहप्रिया ॥ रज्नि_19.150
चकोरश्चन्द्रिकापायी कौमुदीजीवनोऽपि सः ।
चातकस्तोककः सो ऽपि सारङ्गो मेघजीवनः ॥ रज्नि_19.151
हारीतकस्तु हारीतस् तेजलश्च कपिञ्जलः ॥ रज्नि_19.152
धूसरी पिङ्गला सूची भैरवी योगिनी जया ।
कुमारी सुविचित्रा च माता कोटरवासिनी ॥ रज्नि_19.153
तैलपा तु परोष्णी स्याज्जतुकाजिनपत्त्रिका ॥ रज्नि_19.154
भृङ्गः कुलिङ्गो धूम्याटो दार्वाघातः शतच्छदः ॥ रज्नि_19.155
व्याघ्राटः स्याद्भरद्वाजः खञ्जनः खञ्जरीटकः ।
समन्तभद्रः कृष्णस्तु स्वल्पकृष्णः सुभद्रकः ॥ रज्नि_19.156
द्वीपवासी मुनिश्चैव चातुर्मास्यविदर्शनः ।
चाषः किकीदिविः प्रोक्तो नीलाङ्गः पुण्यदर्शनः ॥ रज्नि_19.157
वर्तको वर्तिको वर्तिर् गाञ्जिकायश्च कथ्यते ॥ रज्नि_19.158
कलविङ्कस्तु चटकः कामुको नीलकण्ठकः ॥ रज्नि_19.159
चटका कलविङ्की स्यात् चाटकैरस्तु तत्सुतः ॥ रज्नि_19.160
धूसरो ऽरण्यचटकः कुजो भूमिशयश्च सः ।
भारीटः श्यामचटकः शैशिरः कणभक्षकः ॥ रज्नि_19.161
धूसरो ऽन्यो ऽतिसूक्ष्मः स्यात् चटको धान्यभक्षकः ।
गृहकृत्यक्षमो भीरुः कृषिद्विष्टः कणप्रियः ॥ रज्नि_19.162
लावा तु लावकः प्रोक्तो लावः स च लवः स्मृतः ॥ रज्नि_19.163
तित्तिरिस् तित्तिरश् चैव तैत्तिरो याजुषो गिरिः ॥ रज्नि_19.164
कृष्णो ऽन्यस् तित्तिरिः शूरः सुभूतिः परिपालकः ॥ रज्नि_19.165
गोत्रद्वेषी भूरिपक्षः शतायुः सिद्धिकारकः ।
क्षुद्रोलूकः शाकुनेयः पिङ्गलो डुण्डुलश्च सः ।
वृक्षाश्रयी बृहद्रावः पिङ्गलाक्षो भयंकरः ॥ रज्नि_19.166
श्यामा वराही शकुनी कुमारी दुर्गा च देवी चटका च कृष्णा ।
स्यात्पोतकी पाण्डविका च वामा सा कालिका स्यात् सितबिम्बिनी च ॥ रज्नि_19.167
प्रभाकीटस्तु खद्योतः खज्योतिर् उपसूर्यकः ॥ रज्नि_19.168
तैलिनी तैलकीटः स्यात् षड्बिम्बा दद्रुनाशिनी ॥ रज्नि_19.169
शक्रगोपस्तु वर्षाभू रक्तवर्णेन्द्रगोपकौ ॥ रज्नि_19.170
भ्रमरः षट्पदो भृङ्गः कलालापः शिलीमुखः ।
पुष्पंधयो द्विरेफो ऽलिर् मधुकृन्मधुपो द्विभः ॥ रज्नि_19.171
भसरश् चञ्चरीको ऽलिः झङ्कारी मधुलोलुपः ।
इन्दीन्दिरश्च मधुलिट् मत्तो घुमुघुमारवः ॥ रज्नि_19.172
वर्वणा मक्षिका नीला सरघा मधुमक्षिका ॥ रज्नि_19.173
गन्धोली वरटा क्षुद्रा क्रूरा स्यात् क्षुद्रवर्वणा ।
रंरिकश् छत्रकारी च तीक्ष्णदंष्ट्रो महाविषः ।
पीतवर्णो दीर्घपादो मत्सर्यः क्रूरदंष्ट्रकः ॥ रज्नि_19.174
दंशो दुष्टमुखः क्रूरः क्षुद्रिका वनमक्षिका ॥ रज्नि_19.175
मक्षिका त्व् अमृतोत्पन्ना वमनी चापला च सा ॥ रज्नि_19.176
मशको वज्रतुण्डश्च सूच्यास्यः सूक्ष्ममक्षिका ।
रात्रिजागरदो धूम्रो नीलाभ्रस् त्व् अन्यजातयः ॥ रज्नि_19.177
अष्टाङ्घ्रिर् अष्टपादश्च गृहवासी च कृष्णकः ॥ रज्नि_19.178
कालिकः कोकिलः प्रोक्तः कालुञ्चः कृष्णदंष्ट्रकः ।
कसारिका दीर्घमूर्छा गृहवासा बिलाशयी ॥ रज्नि_19.179
यूका तु केशकीटः स्यात् स्वेदजः षट्पदः स्मृतः ॥ रज्नि_19.180
पक्ष्मजा पक्ष्मयूका स्यात्सूक्ष्मा षट्चरणापि सा ॥ रज्नि_19.181
श्वेतयूकाङ्गवस्त्रोत्था लिक्षा यूकाङ्गवस्त्रके ॥ रज्नि_19.182
कथितेष्वेषु यो जीवः क्षोदीयान् वृश्चिकादिकः ।
तत्र तत्र बुधैर्ज्ञेयः स सर्वः कीटसंज्ञकः ॥ रज्नि_19.183
कीटिका चटिका प्रोक्ता वज्रदंष्ट्रा बहुप्रजा ।
कृशाङ्गी तामसी शूरा कीरिभारा महाबला ॥ रज्नि_19.184
मङ्कोरो मङ्कटः कृष्णस्तीक्ष्णदंष्ट्रो विशालुकः ।
षट्पादकस्तु मात्सर्यो माकोटस् तूर्ध्वगुह्यकः ॥ रज्नि_19.185
षड्बिन्दुर् बिन्दुकीटस्तु दीर्घकीटस्तु पादतः ॥ रज्नि_19.186
प्रसहनविलम्बितद्रुतशयप्रतुदाश्च विष्किरः ।
कीटा इति कथिताः नवधात्र तिर्यञ्चः ॥ रज्नि_19.187
इत्थं नानातिर्यगाख्याप्रपञ्चव्याख्यापूर्णं वर्गमेनं विदित्वा ।
बुद्ध्या सम्यक् चाभिसंधाय धीमान् वैद्यः कुर्यान्मांसवर्गप्रयोगम् ॥ रज्नि_19.188
येनेभास्यपिता मृगाङ्कमुकुटः शार्दूलचर्माम्बरः सर्पालंकरणः सुपुङ्गवगतिः पञ्चाननोऽभ्यर्च्यते ।
तस्य श्रीनृहरीशितुः खलु कृताव् एकोनविंशो ऽभिधाचूडापीठमणाव् अगाद् अवसितिं सिंहादिवर्गो महान् ॥ रज्नि_19.189
राजनिघण्टु, रोगादिवर्ग
गदो रुजा व्याधिर् अपाटवामरोगामयातङ्कभयोपघाताः ।
रुङ्मान्द्यभङ्गार्तितमोविकारग्लानिक्षयानार्जवमृत्युभृत्याः ॥ रज्नि_20.1
राजयक्ष्मा क्षयो यक्ष्मा रोगराजो गदाग्रणीः ।
उष्मा शोषोऽतिरोगश्च रोगाधीशो नृपामयः ॥ रज्नि_20.2
पाण्डुरोगस्तु पाण्डुः स्यात् विसर्पः सचिवामयः ।
शोफः शोथस्तु श्वयथुः कासः क्षवथुरुच्यते ॥ रज्नि_20.3
क्षुतं तु क्षवथुः क्षुच्च प्रतिश्यायस्तु पीनसः ।
नेत्रामयो नेत्ररोगो मुखरोगो मुखामयः ॥ रज्नि_20.4
दुश्चर्मा मण्डलं कोठस्त्वग्दोषश्चर्मदूषिका ।
कुष्ठं तु पुण्डरीकः स्यात् श्वित्रं तु चर्मचित्रकम् ॥ रज्नि_20.5
किलाससिध्मे च शिखी श्वासः पामा विचर्चिका ।
कण्डूः कण्डूतिकण्डूयाखर्जूकण्डूयनानि च ॥ रज्नि_20.6
संचारी शुण्डिकास्फोटे पामपामे विचर्चिका ।
पीतस्फोटे तु पामा च क्षुद्रस्फोटे तु कञ्चिका ॥ रज्नि_20.7
पिटका पिटिका प्रोक्ता मसूराभा मसूरिका ।
विस्फोटः स्फोटकः स्फोटः केशघ्नस् त्व् इन्द्रलुप्तकः ॥ रज्नि_20.8
गलशुण्डी तु शुण्डा स्याद् गलगण्डो गलस्तनः ।
दन्तार्बुदो दन्तमूलं दन्तशोथो द्विजव्रणः ॥ रज्नि_20.9
गुल्मस्तु जाठरग्रन्थिः पृष्ठग्रन्थौ गडुर्भवेत् ।
पक्तिशूलं तु शूलं स्यात् पाकजं परिणामजम् ॥ रज्नि_20.10
लूता चर्मव्रणो वृक्कं नाडी नाडीव्रणो भवेत् ।
श्लीपदं पादवल्मीकं पादस्फोटो विपादिका ॥ रज्नि_20.11
विष्टम्भस्तु विबन्धः स्यादानाहो मलरोधनम् ।
अर्शांसि गुदकीलाः स्युर् दुर्नामानि गुदाङ्कुराः ॥ रज्नि_20.12
मलवेगस्त्वतीसारो ग्रहणीरुक् प्रवाहिका ।
वमथुर्वान्तिरुद्गारश्छर्दिर्विच्छर्दिका वमिः ॥ रज्नि_20.13
हृद्रोगो हृद्गदो हृद्रुग् उत्प्राणः श्वास उच्यते ।
ज्वरस्तु स ज्वरातङ्को रोगश्रेष्ठो महागदः ॥ रज्नि_20.14
द्वंद्वजा द्वंद्वदोषोत्थाः शीताद्या विषमज्वराः ।
अतीत्यागन्तवस्ते द्व्यैकाहिकत्र्याहिकादयः ॥ रज्नि_20.15
रक्तपित्तं पित्तरक्तं पित्तास्रं पित्तशोणितम् ।
इत्येवं रक्तवातादिद्वंद्वदोषम् उदाहरेत् ॥ रज्नि_20.16
तृष्णोदन्या पिपासा तृण्मदातङ्को मदात्ययः ।
पानात्ययो मदव्याधिर् मदस् तूद्रिक्तचित्तता ॥ रज्नि_20.17
मूर्छा तु मोहो मूढिश् च स्वरसादः स्वरक्षयः ।
अश्रद्धानभिलाषः स्यादरुचिश्चाप्यरोचकः ॥ रज्नि_20.18
मूत्रदोषस्तु विज्ञेयः प्रमेहो मेह इत्यपि ।
कृच्छ्रं तु मूत्रकृच्छ्रं स्यात् मूत्ररोधो ऽश्मरी च सा ॥ रज्नि_20.19
वातव्याधिश्चलातङ्को वातरोगोऽनिलामयः ।
कम्पस्तु वेपनं वेपः कम्पनं वेपथुस्तथा ॥ रज्नि_20.20
जृम्भा तु जृम्भिका जम्भा जृम्भणं जम्भिका च सा ।
आलस्यं मन्दता मान्द्यं कार्यप्रद्वेष इत्यपि ॥ रज्नि_20.21
तुन्दः स्थविष्ठ इत्युक्तो जठरघ्नो जलोदरः ।
आमो मलस्य वैषम्याद्रक्तार्तिः शोणितामयः ॥ रज्नि_20.22
जालगर्दभकः प्रोक्तो जालरासभकामयः ।
जालखरगदो ज्ञेयः स गर्दभगदस्तथा ॥ रज्नि_20.23
विद्रधिः स्याद्विदरणं हृद्ग्रन्थिर् हृद्व्रणश् च सः ।
व्रणो भगप्रदेशे यः स भगंदरनामकः ॥ रज्नि_20.24
शिरःशूलादयो ज्ञेयास् तत्तदङ्गाभिधानकाः ।
इत्थम् अन्येऽपि बोद्धव्या भिषग्भिर् देहतो गदाः ॥ रज्नि_20.25
संतापः संज्वरस्तापः शोष उष्मा च कथ्यते ।
यश्चापि कोष्ठसंतापः सो ऽन्तर्दाह इति स्मृतः ॥ रज्नि_20.26
स दाहो मुखताल्वोष्ठे दवथुश्चक्षुरादिषु ।
पाणिपादांसमूलेषु शाखापित्तं तदुच्यते ॥ रज्नि_20.27
तन्द्रा तु विषयाज्ञानं प्रमीला तन्द्रिका च सा ।
प्रलयस्त्विन्द्रियस्वापश् चेष्टानाशः प्रलीनता ॥ रज्नि_20.28
उन्मादो मतिविभ्रान्तिर् उन्मनायितम् इत्यपि ।
आवेशो भूतसंचारो भूतक्रान्तिर्ग्रहागमः ॥ रज्नि_20.29
अपस्मारो ऽङ्गविकृतिर् लोलाङ्गो भूतविक्रिया ।
स्तैमित्यं जडता जाड्यं शीतलत्वमपाटवम् ॥ रज्नि_20.30
वातिको वातजो व्याधिः पैत्तिकः पित्तसम्भवः ।
श्लैष्मिकः श्लेष्मसम्भूतः समूहः सांनिपातिकः ॥ रज्नि_20.31
व्याधितो विकृतो ग्लास्नुर्ग्लानो मन्दस्तथातुरः ।
अभ्यान्तोऽभ्यमितो रुग्नश् चामयाव्यपटुश् च सः ॥ रज्नि_20.32
तद्विशेषास्तु विज्ञेयास् तन्मत्वर्थीययोगतः ।
यथा ज्वरितकण्डूलवातकक्षयदद्रुणाः ॥ रज्नि_20.33
उत्साही द्विजदेवभेषजभिषग्भक्तोऽपि पथ्ये रतो धीरो धर्मपरायणः प्रियवचा मानी मृदुर्मानदः ।
विश्वासी ऋजुर् आस्तिकः सुचरितो दाता दयालुः शुचिर् यः स्यात् कामम् अवञ्चकः स विकृतो मुच्येत मृत्योरपि ॥ रज्नि_20.34
उपचारस्तूपचर्या चिकित्सा रुक्प्रतिक्रिया ।
निग्रहो वेदनानिष्ठा क्रिया चोपक्रमः समाः ॥ रज्नि_20.35
भैषज्यं भेषजं जैत्रमगदो जायुरौषधम् ।
आयुर्योगो गदारातिर् अमृतं च तदुच्यते ॥ रज्नि_20.36
तच्च पञ्चविधं प्रोक्तं स्वस्वयोगविशेषतः ।
रसश्चूर्णं कषायश्चावलेहः कल्क इत्यपि ॥ रज्नि_20.37
रसो दृषदि संभिन्नो दिव्यद्रव्यसमन्वितः ।
चूर्णं तु वस्तुभिः क्षुण्णैः कषायः क्वथितैस्तु तैः ॥ रज्नि_20.38
तैः पक्वैर् अवलेहः स्यात्कल्को मध्वादिमर्दितैः ॥ रज्नि_20.39
पाचनः शोधनीयश्च क्लेदनश्च शमस्तथा ।
दीपनस्तर्पणः शोष इति सप्तविधाः स्मृताः ॥ रज्नि_20.40
पाचनो ऽर्धावशेषश्च शोधनो द्वादशांशकः ।
क्लेदनश्चतुरंशस्तु शमश्चाष्टांशको मतः ॥ रज्नि_20.41
दीपनस्तु षडंशश्च तर्पणः पञ्चमांशकः ।
शोषणः षोडशांशश्च क्वाथभेदा इतीरिताः ॥ रज्नि_20.42
ज्ञेयं रसादिकथनादनन्तरं किलानुपानं कथयन्ति सूरयः ।
विलम्ब्य च क्रामणम् एतद् ईरितं रात्रौ पुनः पाचनम् एतद् ऊचिरे ॥ रज्नि_20.43
आत्मनीनं तु पथ्यं स्यादायुष्यं च हितं च तत् ॥ रज्नि_20.44
किल पाटवम् आरोग्यम् अगदं स्यादनामयम् ।
कल्पस्तु पटुरुल्लाघो निरातङ्को निरामयः ॥ रज्नि_20.45
अगदो नीरुजो निरुग् अनातङ्कश् च कथ्यते ॥ रज्नि_20.46
वैद्यः श्रेष्ठो ऽगदंकारो रोगहारी भिषग्विधिः ।
रोगज्ञो जीवनो विद्वान् आयुर्वेदी चिकित्सकः ॥ रज्नि_20.47
विप्रो वैद्यकपारगः शुचिरनूचानः कुलीनः कृती धीरः कालकलाविद् आस्तिकमतिर् दक्षः सुधीर् धार्मिकः ।
स्वाचारः समदृग्दयालुर् अखलो यः सिद्धमन्त्रक्रमः शान्तः काममलोलुपः कृतयशा वैद्यः स विद्योतते ॥ रज्नि_20.48
अधीरः कर्कशो लुब्धः सरोगो न्यूनशिक्षितः ।
पञ्च वैद्या न युज्यन्ते धन्वन्तरिसमा अपि ॥ रज्नि_20.49
पुमर्थाश् चत्वारः खलु करणसौख्यैकसुभगास् तद् एतद् भैषज्यानवरतनिषेवैकवशगम् ।
तदप्येकायत्तं फलदम् अगदंकारकृपया ततो लोके लोके न परम् उपकर्तैवममुतः ॥ रज्नि_20.50
राजानो विजिगीषया निजभुजप्रक्रान्तम् ओजोदयात् शौर्यं संगररङ्गसद्मनि यथा संबिभ्रते संगताः ।
यस्मिन्नौषधयस् तथा समुदिताः सिध्यन्ति वीर्याधिका विप्रो ऽसौ भिषग् उच्यते स्वयमिति श्रुत्यापि सत्यापितम् ॥ रज्नि_20.51
यथावद् उत्खाय शुचिप्रदेशजा द्विजेन कालादिकतत्त्ववेदिना ।
यथायथं चौषधयो गुणोत्तराः प्रत्याहरन्ते यमगोचरान् अपि ॥ रज्नि_20.52
येन त्वां खनते ब्रह्मा येन त्वां खनते भृगुः ।
येनेन्द्रो येन वरुणः खनते येन केशवः ।
तेनाहं त्वां खनिष्यामि सिद्धिं कुरु महौषध ॥ रज्नि_20.53
विप्रः पठन्न् इमं मन्त्रं प्रयतात्मा महौषधीम् ।
खात्वा खादिरकीलेन यथावत्तां प्रयोजयेत् ॥ रज्नि_20.54
वीर्यं प्रकाश्य निजमोषधयः किलोचुर् अन्योन्यम् उर्व्यपि दिवो भुवमाव्रजन्त्यः ।
जीवं मुमूर्षम् अपि यं हि वयं महिम्ना स्वेन स्तुवीमहि स जात्वपि नैव नश्येत् ॥ रज्नि_20.55
प्रत्यायिताः प्रमुदिता मुदितेन राज्ञा सोमेन साकमिदमोषधयः समूचुः ।
यस्मै द्विजो दिशति भेषजमाशु राजन् तं पालयाम इति च श्रुतिराह साक्षात् ॥ रज्नि_20.56
आसामीशो लिखितपठितः स द्विजानां हि राजा सिद्ध्यै याश्च द्विजम् अवृजिनं स्वाश्रयं कामयन्ते ।
तास्वेवान्यः प्रसरति मदाद् यस् तु जात्या च गत्या हीनः शून्यो जगति कुपिताः पातयन्त्य् एनम् एताः ॥ रज्नि_20.57
द्रव्याभिधानगदनिश्चयकायसौख्यं शल्यादिभूतविषग्रहबालवैद्यम् ।
विद्याद्रसायनवरं दृढदेहहेतुम् आयुःश्रुतेर् द्विचतुरङ्गम् इहाह शम्भुः ॥ रज्नि_20.58
अष्टाङ्गं शल्यशालाक्यकायभूतविषं तथा ।
बालो रसायनं वृष्यमिति कैश्चिदुदाहृतम् ॥ रज्नि_20.59
अष्टाङ्गज्ञः सुवैद्यो हि कियद्धीनो यथाङ्गतः ।
अङ्गहीनः स विज्ञेयो न श्लाघ्यो राजमन्दिरे ॥ रज्नि_20.60
प्राज्ञो विज्ञः पण्डितो दीर्घदर्शी धीरो धीमान् कोविदो लब्धवर्णः ।
दोषज्ञः सन् दूरदर्शी मनीषी मेधावी ज्ञः सूरिविज्ञौ विपश्चित् ॥ रज्नि_20.61
वैज्ञानिकः कृतमुखः संख्यावान् मतिमान् कृती ।
कुशाग्रीयमतिः कृष्टिः कुशलो विदुरो बुधः ॥ रज्नि_20.62
निष्णातः शिक्षितो दक्षः सुदीक्षः कृतधीः सुधीः ।
अभिज्ञो निपुणो विद्वान् कृतकर्मा विचक्षणः ॥ रज्नि_20.63
विदग्धश्चतुरश्चैव प्रौढो बोद्धा विशारदः ।
सुमेधाः सुमतिस्तीक्ष्णः प्रेक्षावान् विबुधो विदन् ॥ रज्नि_20.64
मनीषा धिषणा प्रज्ञा धारणा शेमुषी मतिः ।
धीर् बुद्धिः प्रतिपत् प्रेक्षा प्रतिपत्तिश्च चेतना ॥ रज्नि_20.65
संविज् ज्ञप्तिश् चोपलब्धिश् चिन्मेधा मननं मनः ।
भानं बोधश्च हृल्लेखः संख्या च प्रतिभा च सा ॥ रज्नि_20.66
आदानं रोगहेतुः स्यान्निदानं रोगलक्षणम् ।
चिकित्सा तत्प्रतीकारः आरोग्यं रुङ्निवर्तनम् ॥ रज्नि_20.67
मण्डः पेया विलेपी च यवागूः पथ्यभेदकाः ।
भक्तैर्विना द्रवो मण्डः पेया भक्तसमन्विता ।
विलेपी बहुभक्ता स्याद्यवागूर् विरलद्रवा ॥ रज्नि_20.68
विदलं माषमुद्गादि पक्वं सूपाभिधानकम् ॥ रज्नि_20.69
पादाहारं पथ्यमाहुश्च वैद्या विद्याद् अर्धाहारम् आहारसंज्ञम् ।
पादोनं स्याद्भोजनं भोगमन्यद्विद्याच्छेषं वातदोषप्रसूत्यै ॥ रज्नि_20.70
अन्नं जीवनमाहारः कूरं कशिपुरोदनम् ।
अन्धो भिस्सादनं भोज्यम् अन्नाद्यम् अशनं तथा ॥ रज्नि_20.71
भोज्यं पेयं तथा चोष्यं लेह्यं खाद्यं च चर्वणम् ।
निष्पेयं चैव भक्ष्यं स्यादन्नमष्टविधं स्मृतम् ॥ रज्नि_20.72
व्यञ्जनं सूपशाकादि मिष्टान्नं तेमनं स्मृतम् ।
उपदंशो विदंशः स्यात् संधानो रोचकश्च सः ॥ रज्नि_20.73
जेमनमभ्यवहारः प्रत्यवसानं च भोजनं जग्धिः ।
बल्भनम् अशनं स्वदनं निघसाहारौ च निगरणं न्यादः ॥ रज्नि_20.74
जक्षणं भक्षणं लेहः स्वादनं रसनस्वदौ ।
चर्वणं पानपीती च धयनं चूषणं भिदाः ॥ रज्नि_20.75
मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा ।
सन्तीति रसनीयत्वादन्नाद्ये षडमी रसाः ॥ रज्नि_20.76
मधुरं लौल्यम् इत्याहुर् इक्ष्वादौ च स लक्ष्यते ॥ रज्नि_20.77
लवणस्तु पटुः प्रोक्तः सैन्धवादौ स दृश्यते ॥ रज्नि_20.78
तिक्तश्च पिचुमन्दादौ व्यक्तमास्वाद्यते रसः ॥ रज्नि_20.79
कषायस्तुवरः प्रोक्तः स तु पूगीफलादिषु ॥ रज्नि_20.80
अम्लस्तु चिञ्चाजम्बीरमातुलुङ्गफलादिषु ॥ रज्नि_20.81
कटुस्तु तीक्ष्णसंज्ञः स्यान्मरीचादौ स चेक्ष्यते ॥ रज्नि_20.82
मधुरश्च रसश्चिनोति केशान् वपुषः स्थैर्यबलौजोवीर्यदायी ।
अतिसेवनतः प्रमेहशैत्यं जडतामान्द्यमुखान्करोति दोषान् ॥ रज्नि_20.83
लवणो रुचिकृद्रसो ऽग्निदायी पचनः स्वादुकरश्च सारकश्च ।
अतिसेवनतो जरां च पित्तं सितिमानं च ददाति कुष्ठकारी ॥ रज्नि_20.84
तिक्तो जन्तून् हन्ति कुष्ठं ज्वरार्तिं कासं दाहं दीपनो रोचनश्च ।
मर्त्यैर् गाढं प्रत्यहं सेवितश्चेत्तीव्रं दत्ते राजयक्ष्माणमेषः ॥ रज्नि_20.85
कषायनामा निरुणद्धि शोफं वर्णं तनोर् दीपनपाचनश्च ।
सत्त्वापहोऽसौ शिथिलत्वकारी निषेवितः पाण्डु करोति गात्रम् ॥ रज्नि_20.86
अम्लाभिधः प्रीतिकरो रुचिप्रदः प्रपाचनो ऽग्नेः पटुतां च यच्छति ।
भ्रान्तिं च कुष्ठं कफपाण्डुतां च कार्ष्ण्यं च कासं कुरुतेऽतिसेवितः ॥ रज्नि_20.87
कटुः कफं कण्ठजदोषशोफमन्दानलश्वित्रगदान् निहन्ति ।
एषोऽपि दत्ते बहुसेवितश्चेत् क्षयावहो वीर्यबलक्षयं च ॥ रज्नि_20.88
कटुः कषायश्च कफापहारिणौ माधुर्यतिक्ताव् अपि पित्तनाशनौ ।
पट्वम्लसंज्ञौ च रसौ मरुद्धरौ इत्थं द्विशोऽमी सकलामयापहाः ॥ रज्नि_20.89
अन्योन्यं मधुराम्लौ लवणाम्लौ कटुतिक्तकौ च रसौ ।
कटुलवणौ च स्यातां मिश्ररसौ तिक्तलवणौ च ॥ रज्नि_20.90
लवणमधुरौ विरुद्धाव् अथ कटुमधुरौ च तिक्तमधुरौ च ।
साधारणः कषायः सर्वत्र समानतां धत्ते ॥ रज्नि_20.91
संधत्ते मधुरोऽम्लतां च लवणो धत्ते यथावत् स्थितिं तिक्ताख्यः कटुतां तथा मधुरतां धत्ते कषायाह्वयः ।
अम्लस्तिक्तरुचिं ददाति कटुको यात्य् अन्ततस् तिक्तताम् इत्येषां स्वविपाकतो ऽपि कथिता षण्णां रसानां स्थितिः ॥ रज्नि_20.92
मधुरोऽम्लः कटुस्तिक्तः पटुस्तुवर इत्यमी ।
क्रमाद् अन्योन्यसंकीर्णा नानात्वं यान्ति षड्रसाः ॥ रज्नि_20.93
आद्याद्यो मधुरादिश्चेदेकैकेनोत्तरेण युक् ।
द्विकभेदाः पञ्चदश पर्यायैः पञ्चभिस्तथा ॥ रज्नि_20.94
आद्यः सानन्तरः प्राग्वदुत्तरेण श्रुतो यदा ।
चतुर्भिरपि पर्यायैर् आद्ये प्रोक्ता भिदा दश ॥ रज्नि_20.95
एवं द्वितीये षड्भेदास् तृतीये च त्रयः स्मृताः ।
चतुर्थे चैक इत्येते त्रिकभेदास्तु विंशतिः ॥ रज्नि_20.96
आद्यौ सानन्तरौ त्रिः षडेकैकाग्रिमयोगतः ।
त्यक्ते द्वितीये चत्वारः स्वाग्रिमैकैकसंयुते ॥ रज्नि_20.97
आद्ये त्यक्ते तु पञ्च स्युः स्वाग्रिमैकैकसंयुते ।
चतुष्कभेदा इत्येते क्रमात् पञ्चदशेरिताः ॥ रज्नि_20.98
ततः पञ्चकभेदाः षडेकैकत्यागतः स्मृताः ।
एकः सर्वसमासेन व्यासे षडिति सप्त ते ॥ रज्नि_20.99
एवं त्रिषष्टिराख्याता रसभेदाः समासतः ।
तारतम्येष्वसंख्यातांस्तान् वेत्ति यदि शंकरः ॥ रज्नि_20.100
बृंहणं पुष्टिदं पोष्यमुत्कं पीनत्वदं च तत् ।
वीर्यवृद्धिकरं वृष्यं वाजीकरणबीजकृत् ॥ रज्नि_20.101
आप्यायनं तर्पणं च प्रीणनं तोषणं च तत् ।
निःष्यन्दनम् अभिष्यन्दि नेत्रद्रावं सरं च तत् ॥ रज्नि_20.102
इति बहुविधरोगव्याधितोपक्रमोऽत्र प्रकृतभिषगनुक्ताहारपथ्यप्रयोगम् ।
इममखिलमुदित्वा वर्गमुत्सर्गसिद्धान् प्रवदतु स च विद्वान् आमयप्रत्ययांस् तान् ॥ रज्नि_20.103
येन व्याधिशतान्धकारपटलीनिष्कासनाभास्करप्रायेणापि पुनस्तरां प्रविहिता हन्त द्विषां व्याधयः ।
तस्यायं कृतिवाचि विंशतितमः श्रीमन्नृसिंहेशितुः शान्तिं नामकिरीटमण्डनमणौ वर्गो गदादिर्गतः ॥ रज्नि_20.104
राजनिघण्टु, सत्त्वादिवर्ग
सत्त्वं रजस्तमश्चेति पुंसाम् उक्तास्त्रयो गुणाः ।
तेषु क्रमादमी दोषाः कफपित्तानिलाः स्थिताः ॥ रज्नि_21.1
सत्त्वं श्लेष्मा रजः पित्तं तमश्चापि समीरणः ।
द्रव्यस्य मानमुद्रिक्तं पुंसि पुंस्यनुवर्तते ॥ रज्नि_21.2
सत्त्वं मनोविकाशः स्यात् सत्त्वायत्ता तथा स्थितिः ॥ रज्नि_21.3
रजो रूषणमुद्रेकः कालुष्यं मतिविभ्रमः ॥ रज्नि_21.4
तमस्तिमिरम् आन्ध्यं च चित्तोन्मादश्च मूढता ।
हृदयावरणं ध्वान्तमन्धकारो विमोहनम् ॥ रज्नि_21.5
वातो गन्धवहो वायुः पवमानो महाबलः ।
स्पर्शनो गन्धवाही च पवनो मरुदाशुगः ॥ रज्नि_21.6
श्वसनो मातरिश्वा च नभस्वान्मारुतोऽनिलः ।
समीरणो जगत्प्राणः समीरश्च सदागतिः ॥ रज्नि_21.7
जवनः पृषदश्वश्च तरस्वी च प्रभञ्जनः ।
प्रधावनोऽनवस्थानो धूननो मोटनः खगः ॥ रज्नि_21.8
अन्ये ऽपि वायवो देहे नाडीचक्रप्रवाहकाः ।
मया वितत्य नोक्तास्ते ग्रन्थगौरवभीरुणा ॥ रज्नि_21.9
सत्त्वादिगुणसंभिन्नदोषत्रयवशात्मना ।
आभ्यन्तरं च बाह्यं च स्वरूपं संनिरुच्यते ॥ रज्नि_21.10
सत्त्वाढ्यः शुचिरास्तिकः स्थिरमतिः पुष्टाङ्गको धार्मिकः कान्तः सो ऽपि बहुप्रजः सुमधुरक्षीरादिभोज्यप्रियः ।
दाता पात्रगुणादृतो द्रुततमं वाग्मी कृपालुः समो गौरः श्यामतनुर् घनाम्बुतुहिनस्वप्नेक्षणः श्लेष्मलः ॥ रज्नि_21.11
मूल पाठ: Rājanighaṇṭu [also called Nighaṇṭurāja, or Abhidhānacūḍāmaṇi] · Edition: Calcutta 1933 : Siddheshvarayantra · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0