भाषा

ENहिગુ
ग्रंथ पाठ

राजनिघण्टु · भाग 121140

हेमन्ते पादहीनं तु पादार्धोनं तु शारदे ।
प्रावृड्वसन्ते शिशिरे ग्रीष्मे चार्धावशेषितम् ॥ रज्नि_14.60
कौपं प्रास्रवणं वापि शिशिरर्तुवसन्तयोः ।
ग्रीष्मे चौडं तु सेवेत दोषदं स्यादतो ऽन्यथा ॥ रज्नि_14.61
तप्तं दिवा जाड्यम् उपैति नक्तं नक्तं च तप्तं तु दिवा गुरु स्यात् ।
दिवा च नक्तं च नृभिस् तदात्वतप्तं जलं युक्तमतो ग्रहीतुम् ॥ रज्नि_14.62
उष्णं क्वापि क्वापि शीतं कवोष्णं क्वापि क्वापि क्वाथशीतं च पाथः ।
इत्थं नॄणां पथ्यमेतत् प्रयुक्तं कालावस्थादेहसंस्थानुरोधात् ॥ रज्नि_14.63
अपनयति पवनदोषं दलयति कफमाशु नाशयत्यरुचिम् ।
पाचयति चान्नमनलं पुष्णाति निशीथपीतम् उष्णाम्भः ॥ रज्नि_14.64
रात्रौ पीतमजीर्णदोषशमनं शंसन्ति सामान्यतः पीतं वारि निशावसानसमये सर्वामयध्वंसनम् ।
भुक्त्वा तूर्ध्वमिदं च पुष्टिजननं प्राक् चेद् अपुष्टिप्रदं रुच्यं जाठरवह्निपाटवकरं पथ्यं च भुक्त्यन्तरे ॥ रज्नि_14.65
अत्यम्बुपानान्न विपच्यते ऽन्नम् अनम्बुपानाच्च स एव दोषः ।
तस्मान्नरो वह्निविवर्धनार्थं मुहुर् मुहुर् वारि पिबेद् अभूरि ॥ रज्नि_14.66
जलं चतुर्विधं प्राहुर् अन्तरिक्षोद्भवं बुधाः ।
धारं च कारकं चैव तौषारं हैममित्यपि ॥ रज्नि_14.67
अम्बु वर्षोद्भवं धारं कारं वर्षोपलोद्भवम् ।
नीहारतोयं तौषारं हैमं प्रातर्हिमोद्भवम् ॥ रज्नि_14.68
धारं च द्विविधं प्रोक्तं गाङ्गसामुद्रभेदतः ।
तत्र गाङ्गं गुणाढ्यं स्यात् अदोषं पाचनं परम् ॥ रज्नि_14.69
यदा स्यादाश्विने मासि सूर्यः स्वातिविशाखयोः ।
तदाम्बु जलदैर्मुक्तं गाङ्गमुक्तं मनीषिभिः ॥ रज्नि_14.70
अन्यदा मृगशीर्षादिनक्षत्रेषु यद् अम्बुदैः ।
अभिवृष्टमिदं तोयं सामुद्रमिति शब्दितम् ॥ रज्नि_14.71
धाराधरे वर्षति रौप्यपात्रे विन्यस्य शाल्योदनसिद्धपिण्डे ।
दध्नोपदिग्धे निहितं मुहूर्ताद् अविक्रियं गाङ्गम् अथान्यथा स्यात् ॥ रज्नि_14.72
गाङ्गं जलं स्वादु सुशीतलं च रुचिप्रदं पित्तकफापहं च ।
निर्दोषम् अच्छं लघु तच्च नित्यं गुणाधिकं व्योम्नि गृहीतम् आहुः ॥ रज्नि_14.73
चन्द्रकान्तोद्भवं वारि पित्तघ्नं विमलं लघु ।
मूर्छापित्तास्रदाहेषु हितं कासमदात्यये ॥ रज्नि_14.74
सामुद्रसलिलं शीतं कफवातप्रदं गुरु ।
चित्रायामाश्विने तच्च गुणाढ्यं गाङ्गवद्भवेत् ॥ रज्नि_14.75
पतितं भुवि यत्तोयं गाङ्गं सामुद्रमेव वा ।
स्वस्वाश्रयवशाद् गच्छेद् अन्यद् अन्यद् रसादिकम् ॥ रज्नि_14.76
अस्रं च लवणं च स्यात्पतितं पार्थिवस्थले ।
आप्ये तु मधुरं प्रोक्तं कटु तिक्तं च तैजसे ॥ रज्नि_14.77
कषायं वायवीये स्यादव्यक्तं नाभसे स्मृतम् ।
तत्र नाभसमेवोक्तम् उत्तमं दोषवर्जितम् ॥ रज्नि_14.78
यत्र चेदाश्विने मासि नैव वर्षति वारिदः ।
गाङ्गतोयविहीने स्युः काले तत्राधिका रुजः ॥ रज्नि_14.79

क्वचिद् उष्णं क्वचिच्छीतं क्वचित् क्वथितशीतलम् ।
क्वचिद्भेषजसंयुक्तं न क्वचिद्वारि वार्यते ॥ रज्नि_14.80
इक्षवः पञ्चधा प्रोक्ता नानावर्णगुणान्विताः ।
सितः पुण्ड्रः करङ्केक्षुः कृष्णो रक्तश्च ते क्रमात् ॥ रज्नि_14.81
इक्षुः कर्कटको वंशः कान्तारः सुकुमारकः ।
असिपत्त्रो मधुतृणो वृष्यो गुडतृणो नव ॥ रज्नि_14.82
श्वेतेक्षुस् तु सितेक्षुः स्यात् काष्ठेक्षुर् वंशपत्त्रकः ।
सुवंशः पाण्डुरेक्षुश्च काण्डेक्षुर् धवलेक्षुकः ॥ रज्नि_14.83
सितेक्षुः कठिनो रुच्यो गुरुश्च कफमूत्रकृत् ।
दीपनः पित्तदाहघ्नो विपाके कोष्णदः स्मृतः ॥ रज्नि_14.84
पुण्ड्रकस्तु रसालः स्यात् रसेक्षुः सुकुमारकः ।
कर्बुरो मिश्रवर्णश् च नेपालेक्षुश् च सप्तधा ॥ रज्नि_14.85
पुण्ड्रो ऽतिमधुरः शीतः कफकृत् पित्तनाशनः ।
दाहश्रमहरो रुच्यो रसे संतर्पणः परः ॥ रज्नि_14.86
अन्यः करङ्कशालिः स्यादिक्षुवाटीक्षुवाटिका ।
यावनी चेक्षुयोनिश्च रसाली रसदालिका ॥ रज्नि_14.87
करङ्कशालिर्मधुरः शीतलो रुचिकृन्मृदुः ।
पित्तदाहहरो वृष्यस्तेजोबलविवर्धनः ॥ रज्नि_14.88
कृष्णेक्षुरिक्षुरः प्रोक्तः श्यामेक्षुः कोकिलाक्षकः ।
श्यामवंशः श्यामलेक्षुः कोकिलेक्षुश्च कथ्यते ॥ रज्नि_14.89
कृष्णेक्षुर् उक्तो मधुरश् च पाके स्वादुः सुहृद्यः कटुको रसाढ्यः ।
त्रिदोषहारी शमवीर्यदश्च सुबल्यदायी बहुवीर्यदायी ॥ रज्नि_14.90
रक्तेक्षुः सूक्ष्मपत्त्रश्च शोणो लोहित उत्कटः ।
मधुरो ह्रस्वमूलश्च लोहितेक्षुश्च कीर्तितः ॥ रज्नि_14.91
लोहितेक्षुश्च मधुरः पाके स्याच्छीतलो मृदुः ।
पित्तदाहहरो वृष्यस्तेजोबलविवर्धनः ॥ रज्नि_14.92
इक्षुमूलं त्विक्षुनेत्रं तच्च मोरटकं तथा ।
वंशनेत्रं वंशमूलं मोरटं वंशपूरकम् ॥ रज्नि_14.93
मूलादूर्द्ध्वन्तु मधुरा मध्ये ऽतिमधुरास् तथा ।
इक्षवस्तेऽग्रभागेषु क्रमाल्लवणनीरसाः ॥ रज्नि_14.94
अभुक्ते पित्तहाश् चैते भुक्ते वातप्रकोपणाः ।
भुक्तमध्ये गुरुतरा इतीक्षूणां गुणास् त्रयः ॥ रज्नि_14.95
वृष्यो रक्तास्रपित्तश्रमशमनपटुः शीतलः श्लेस्मदो ऽल्पः स्निग्धो हृद्यश् च रुच्यो रचयति च मुदं सूत्रशुद्धिं विधत्ते ।
कान्तिं देहस्य दत्ते बलमति कुरुते बृंहणं तृप्तिदायी दन्तैर् निष्पीद्य काण्डं मृदुयतिरसितो मोहनश् चेक्षुदण्डः ॥ रज्नि_14.96
पीयूषोपमितं त्रिदोषशमनं स्याद् दन्तनिष्पीडितं तद्वच्चेद् गृहयन्त्रजं तदपरं श्लेस्मानिलघ्नं कियत् ।
एतद् वातहरं तु वातजननं जाड्यप्रतिश्वायदं प्रोक्तं पर्युषितं कफानिलकरं पानीयम् इक्षद्भवम् ॥ रज्नि_14.97
मधुरं लवणक्षारं स्निग्धं सोष्णं रुचिप्रदम् ।
वृष्यं वातकफघ्नं च यावनालशरात् रसम् ॥ रज्नि_14.98
पक्वेक्षुरसः स्निग्धः स्यात् कफवातनाशनोऽतिगुरुः ।
अतिपाकेन विदाहं तनुते पित्तास्रदोषशोषांश्च ॥ रज्नि_14.99

गुडः स्यादिक्षुसारस्तु मधुरो रसपाकजः ।
शिशुप्रियः सितादिः स्यादरुणो रसजः स्मृतः ॥ रज्नि_14.100
पित्तघ्नः पवनार्तिजिद् रुचिकरो हृद्यस्त्रिदोषापहः संयोगेन विशेषतो ज्वरहरः संतापशान्तिप्रदः ।
विण्मूत्रामयशोधनोऽग्निजननः पाण्डुप्रमेहान्तकः स्निग्धः स्वादुतरो लघुः श्रमहरः पथ्यः पुराणो गुडः ॥ रज्नि_14.101
स्याद्यावनालरसपाकभवो गुडोऽयं क्षारः कटुः सुमधुरः कफवातहारी ।
पित्तप्रदः सततमेष निषेव्यमाणः कण्डूतिकुष्ठजननो ऽस्रविदाहहारी ॥ रज्नि_14.102
शर्करोक्ता तु मीनाण्डी श्वेता मत्स्यण्डिका च सा ।
अहिच्छत्रा तु सिकता सिता चैव गुडोद्भवा ॥ रज्नि_14.103
शर्करा मधुरा शीता पित्तदाहश्रमापहा ।
रक्तदोषहरा भ्रान्तिक्रिमिकोपप्रणाशिनी ॥ रज्नि_14.104
स्निग्धा पुण्ड्रकशर्करा हितकरी क्षीणे क्षयेऽरोचके चक्षुष्या बलवर्धिनी सुमधुरा रूक्षा च वंशेक्षुजा ।
वृष्या तृप्तिबलप्रदा श्रमहरा श्यामेक्षुजा शीतला स्निग्धा कान्तिकरी रसालजनिता रक्तेक्षुजा पित्तजित् ॥ रज्नि_14.105
यावनाली हिमोत्पन्ना हिमानी हिमशर्करा ।
क्षुद्रशर्करिका क्षुद्रा गुद्गुडा जालबिन्दुजा ॥ रज्नि_14.106
हिमजा शर्करा गौल्या सोष्णा तिक्तातिपिच्छिला ।
वातघ्नी सारिका रुच्या दाहपित्तास्रदायिनी ॥ रज्नि_14.107
सितजान्या शर्करजा माधवी मधुशर्करा ।
माक्षीकशर्करा प्रोक्ता सिताखण्डश्च खण्डकः ॥ रज्नि_14.108
सिताखण्डोऽतिमधुरश्चक्षुष्यः छर्दिनाशनः ।
कुष्ठव्रणकफश्वासहिक्कापित्तास्रदोषनुत् ॥ रज्नि_14.109
यवासशर्करा त्व् अन्या सुधा मोदकमोदकः ।
तवराजः खण्डसारः खण्डजा खण्डमोदकः ॥ रज्नि_14.110
तवराजो ऽतिमधुरः पित्तश्रमतृषापहः ।
वृष्यो विदाहमूर्छार्तिभ्रान्तिशान्तिकरः सरः ॥ रज्नि_14.111
तवराजोद्भवः खण्डः सुधा मोदकजस् तथा ।
खण्डजो द्रवजः सिद्धमोदकामृतसारजः ॥ रज्नि_14.112
दाहं निवारयति तापमपाकरोति तृप्तिं नियच्छति निहन्ति च मोहमूर्छाम् ।
श्वासं निवारयति तर्पयतीन्द्रियाणि शीतः सदा सुमधुरः खलु सिद्धिखण्डः ॥ रज्नि_14.113
मधु क्षौद्रं च माक्षीकं माक्षिकं कुसुमासवम् ।
पुष्पासवं पवित्रं च पित्र्यं पुष्परसाह्वयम् ॥ रज्नि_14.114
माक्षिकं भ्रामरं क्षौद्रं पौत्तिकं छात्त्रकं तथा ।
आर्घ्यमौद्दालकं दालम् इत्यष्टौ मधुजातयः ॥ रज्नि_14.115
नानापुष्परसाहाराः कपिला वनमक्षिकाः ।
याः स्थूलास्ताभिरुत्पन्नं मधु माक्षिकमुच्यते ॥ रज्नि_14.116
ये स्निग्धाञ्जनगोलाभाः पुष्पासवपरायणाः ।
भ्रमरैर्जनितं तैस्तु भ्रामरं मधु भण्यते ॥ रज्नि_14.117
पिङ्गला मक्षिकाः सूक्ष्माः क्षुद्रा इति हि विश्रुताः ।
ताभिरुत्पादितं यत्तु तत् क्षौद्रं मधु कथ्यते ॥ रज्नि_14.118
अन्नजा मक्षिकाः पिङ्गाः पुत्तिका इति कीर्तिताः ।
तज्जातं मधु धीमद्भिः पौत्तिकं समुदाहृतम् ॥ रज्नि_14.119

छत्त्राकारं तु पटलं सरघाः पीतपिङ्गलाः ।
यत्कुर्वन्ति तदुत्पन्नं मधु छात्त्रकम् ईरितम् ॥ रज्नि_14.120
मक्षिकास्तीक्ष्णतुण्डा यास्तथा षट्पदसंनिभाः ।
तदुद्भूतं यदर्घार्हं तदार्घ्यं मधु वर्ण्यते ॥ रज्नि_14.121
औद्दालाः कपिलाः कीटा भूमेर् उद्दलनाः स्मृताः ।
वल्मीकान्तस् तदुत्पन्नमौद्दालकम् उदीर्यते ॥ रज्नि_14.122
इन्द्रनीलदलाकाराः सूक्ष्माश् चिन्वन्ति मक्षिकाः ।
यद्वृक्षकोटरान्तस्थं मधु दालमिदं स्मृतम् ॥ रज्नि_14.123
इत्येतस्याष्टधा भेदैरुत्पत्तिः कथिता क्रमात् ।
अथ वक्ष्याम्यहं तेषां वर्णवीर्यादिकं क्रमात् ॥ रज्नि_14.124
माक्षिकं तैलवर्णं स्यात् श्वेतं भ्रामरमुच्यते ।
क्षौद्रं तु कपिलाभासं पौत्तिकं घृतसंनिभम् ॥ रज्नि_14.125
आपीतवर्णं छात्त्रं स्यात्पिङ्गं चार्घ्यनामकम् ।
औद्दालं स्वर्णसदृशम् आपीतं दालमुच्यते ॥ रज्नि_14.126
माक्षिकं मधुरं रूक्षं लघु श्वासादिदोषनुत् ।
भ्रामरं पिच्छिलं रूक्षं मधुरं मुखजाड्यजित् ॥ रज्नि_14.127
क्षौद्रं तु शीतं चक्षुष्यं पिच्छिलं पित्तवातहृत् ।
पौत्तिकं मधु रूक्षोष्णम् अस्रपित्तादिदाहकृत् ॥ रज्नि_14.128
श्वित्रमेहक्रिमिघ्नं च विद्याच्छात्त्रं गुणोत्तरम् ।
आर्घ्यमध्व् अतिचक्षुष्यं कफपित्तादिदोषहृत् ॥ रज्नि_14.129
औद्दालकं तु कुष्ठादिदोषघ्नं सर्वसिद्धिदम् ।
दालं कटु कषायाम्लं मधुरं पित्तदायि च ॥ रज्नि_14.130
नवं मधु भवेत् स्थौल्यं नातिश्लेष्मकरं परम् ।
देहस्थौल्यापहं ग्राहि पुराणं मधु लेखनम् ॥ रज्नि_14.131
पक्वं दोषत्रयघ्नं मधु विविधरुजाजाड्यजिह्वामयादिध्वंसं धत्ते च रुच्यं बलमतिधृतिदं वीर्यवृद्धिं विधत्ते ।
आमं चेद् आमगुल्मामयपवनरुजापित्तदाहास्रदोषं हन्याद् वातं च शोषं जनयति नियतं ध्वंसयत्य् अन्तवृद्धिम् ॥ रज्नि_14.132
व्रणशोधनसंधाने व्रणसंरोपणादिषु ।
साधारण्या मधु हितं तत्तुल्या मधुशर्करा ॥ रज्नि_14.133
उष्णैः सहोष्णकाले वा स्वयमुष्णमथापि वा ।
आमं मधु मनुष्याणां विषवत् तापदायकम् ॥ रज्नि_14.134
कीटकादियुतमम्लदूषितं यच्च पर्युषितकं मधु स्वतः ।
कण्टकोटरगतं च मेचकं तच्च गेहजनितं च दोषकृत् ॥ रज्नि_14.135
दण्डैर् निहत्य यदुपात्तमपास्तदंशं तादृग्विधं मधु रसायनयोगयोग्यम् ।
हिक्कागुदाङ्कुरविशोफकफव्रणादिदोषापहं भवति दोषदम् अन्यथा चेत् ॥ रज्नि_14.136
माध्वी सिता मधूत्पन्ना मधुजा मधुशर्करा ।
माक्षीकशर्करा चैषा क्षौद्रजा क्षौद्रशर्करा ॥ रज्नि_14.137
यद्गुणं यन्मधु प्रोक्तं तद्गुणा तस्य शर्करा ।
विशेषाद् बलवृष्यं च तर्पणं क्षीणदेहिनाम् ॥ रज्नि_14.138
मद्यं सुरा प्रसन्ना स्यान्मदिरा वारुणी वरा ।
मत्ता कादम्बरी शीता चपला कामिनी प्रिया ॥ रज्नि_14.139

मदगन्धा च माध्वीकं मधु संधानम् आसवः ।
परिसृतामृता वीरा मेधावी मदनी च सा ॥ रज्नि_14.140
सुप्रतिभा मनोज्ञा च विपाना मोदिनी तथा ।
हालाहलगुणारिष्टं सरकोऽथ मधूलिका ।
मदोत्कटा महानन्दा द्वात्रिंशदभिधाः क्रमात् ॥ रज्नि_14.141
मद्यं सुमधुराम्लं च कफमारुतनाशनम् ।
बलदीप्तिकरं हृद्यं सरम् एतन्मदावहम् ॥ रज्नि_14.142
स्याद्धातकीरसगुडादिकृता तु गौडी पुष्पद्रवादिमधुसारमयी तु माध्वी ।
पैष्टी पुनर्विविधधान्यविकारजाता ख्याता मदाधिकतयात्र च पूर्वपूर्वा ॥ रज्नि_14.143
तालादिरसनिर्यासैः सैन्धीं हालां सुरां जगुः ।
नानाद्रव्यकदम्बेन मद्यं कादम्बरं स्मृतम् ।
सैन्धी कादम्बरी चैव द्विविधं मद्यलक्षणम् ॥ रज्नि_14.144
गौडी तीक्ष्णोष्णमधुरा वातहृत् पित्तकारिणी ।
बलकृद्दीपनी पथ्या कान्तिकृत् तर्पणी परा ॥ रज्नि_14.145
माध्वी तु मधुरा हृद्या नात्युष्णा पित्तवातहृत् ।
पाण्डुकामलगुल्मार्शःप्रमेहशमनी परा ॥ रज्नि_14.146
पैष्टी कटूष्णा तीक्ष्णा स्यान्मधुरा दीपनी परा ॥ रज्नि_14.147
सैन्धी शीता कषायाम्ला पित्तहृद्वातदा च सा ॥ रज्नि_14.148
गौडी तु शिशिरे पेया पैष्टी हेमन्तवर्षयोः ।
शरद्ग्रीष्मवसन्तेषु माध्वी ग्राह्या न चान्यथा ॥ रज्नि_14.149
कादम्बरीशर्करजादि मद्यं सुशीतलं वृष्यकरं मदाढ्यम् ।
माध्वीसमं स्यात्तृणवृक्षजातं मद्यं सुशीतं गुरु तर्पणं च ॥ रज्नि_14.150
सर्वेषां तृणवृक्षाणां निर्यासं शीतलं गुरु ।
मोहनं बलकृद्धृद्यं तृष्णासंतापनाशनम् ॥ रज्नि_14.151
ऐक्षवं तु भवेन्मद्यं शिशिरं च मदोत्कटम् ।
यवधान्यकृतं मद्यं गुरु विष्टम्भदायकम् ॥ रज्नि_14.152
शर्कराधातकीतोये कृतं शीतं मनोहरम् ।
शार्करं कथ्यते मद्यं वृष्यं दीपनमोहनम् ॥ रज्नि_14.153
अन्ये द्वादशधा मद्यभेदान् आहुर् मनीषिणः ।
उक्तेष्वन्तर्भवन्तीति नान्यैस्तु पृथगीरिताः ॥ रज्नि_14.154
मद्यं नवं सर्वविकारहेतुः सर्वं तु वातादिकदोषदायि ।
जीर्णं तु सर्वं सकलामयघ्नं बलप्रदं वृष्यकरं च दीपनम् ॥ रज्नि_14.155
मद्यप्रयोगं कुर्वन्ति शूद्रादिषु महार्तिषु ।
द्विजैस् त्रिभिस् तु न ग्राह्यं यद्यप्य् उज्जीवयेन्मृतम् ॥ रज्नि_14.156
इत्थं वार्धिनदीनदह्रदसरःकुल्यादितीरान्तरप्रक्रान्तेक्षुगुडादिमाक्षिकभिदामद्यप्रभेदान् अपि ।
प्रागस्मात्प्रतिबुध्य नामगुणतो निर्णीतयोगौचिती याथातथ्यवशाद् विनिश्चितमनाः कुर्वीत वैद्यः क्रियाम् ॥ रज्नि_14.157
यै रस्यमाना हि नृणां यथास्वं दोषान्निरस्यन्त्यपि दुर्निरासान् ।
तेषां रसानां वसतिः किलायं वर्गः प्रसिद्धो रसवर्गनाम्ना ॥ रज्नि_14.158
निस्यन्दं दुग्धसिन्धाव् अमृतमथ समस्तौषधीनां न दोहं तापाहं नो चिकित्सामभिलषति रसं नापि दोषाकरस्य ।
लब्ध्वा यत् सौहृदय्यं जगति बुधजनस्तेन वर्गः कृतोऽस्मिन् पानीयादिः प्रसिद्धिं व्रजति मनुमितो नामगीर्मौलिरत्ने ॥ रज्नि_14.159

राजनिघण्टु, क्षीरादिवर्ग
क्षीरं पीयूषम् ऊधस्यं दुग्धं स्तन्यं पयोऽमृतम् ॥ रज्नि_15.1
क्षीरजं दधि तद्रूप्यं विरलं मस्तु तज्जलम् ॥ रज्नि_15.2
दधिजं नवनीतं स्यात्सारो हैयंगवीनकम् ॥ रज्नि_15.3
घृतमाज्यं हविः सर्पिः पवित्रं नवनीतजम् ।
अमृतं चाभिघारश्च होम्यम् आयुश्च तैजसम् ॥ रज्नि_15.4
म्रक्षणं स्नेहनं स्नेहः स्निग्धता म्रक्ष एव च ।
अभ्यङ्गो ऽभ्यञ्जनं चैव चोपडश्च घृतादिकः ॥ रज्नि_15.5
तक्रं गोरसजं घोलं कालशेयविलोडितम् ।
दण्डाहतमरिष्टो ऽम्लम् उदश्विन्मथितं द्रवः ॥ रज्नि_15.6
तक्रं त्रिभागदधिसंयुतमम्बु धीरैरुक्तं दधिद्विगुणवारियुतं तु मस्तु ।
दध्यम्भसी यदि समे तदुदश्विदाहुस् तत् केवलं तु मथितं मुनयो वदन्ति ॥ रज्नि_15.7
गोमूत्रं गोजलं गोम्भो गोनिष्यन्दश्च गोद्रवः ।
गोमयं गोपुरीषं स्याद् गोविष्ठा गोमलं च तत् ॥ रज्नि_15.8
गोमहिषीछागलाविकगजतुरगखरोष्ट्रमानुषस्त्रीणाम् ।
क्षीरादिकगुणदोषौ वक्ष्ये क्रमतो यथायोगम् ॥ रज्नि_15.9
गव्यं क्षीरं पथ्यम् अत्यन्तरुच्यं स्वादु स्निग्धं पित्तवातामयघ्नम् ।
कान्तिप्रज्ञाबुद्धिमेधाङ्गपुष्टिं धत्ते स्पष्टं वीर्यवृद्धिं विधत्ते ॥ रज्नि_15.10
गौल्यं तु महिषीक्षीरं विपाके शीतलं गुरु ।
बलपुष्टिप्रदं वृष्यं पित्तदाहास्रनाशनम् ॥ रज्नि_15.11
अजानां लघुकायत्वान्नानाद्रव्यनिषेवणात् ।
नात्यम्बुपानाद् व्यायामात् सर्वव्याधिहरं पयः ॥ रज्नि_15.12
सूक्ष्माजदुग्धेति च संवदार्हं गोदुग्धवीर्यात् त्व् अधिकं गुणे च ।
सुक्षीणदेहेषु च पथ्यम् उक्तं स्थूलाजदुग्धं किल किंचिदूनम् ॥ रज्नि_15.13
आविकं तु पयः स्निग्धं कफपित्तहरं परम् ।
स्थौल्यमेहहरं पथ्यं लोमशं गुरु वृद्धिदम् ॥ रज्नि_15.14
मधुरं हस्तिनीक्षीरं वृष्यं गुरु कषायकम् ।
स्निग्धं स्थैर्यकरं शीतं चक्षुष्यं बलवर्धनम् ॥ रज्नि_15.15
अश्वीक्षीरं तु रूक्षाम्लं लवणं दीपनं लघु ।
देहस्थैर्यकरं बल्यं गौरवकान्तिकृत्परम् ॥ रज्नि_15.16
बलकृद् गर्दभीक्षीरं वातश्वासहरं परम् ।
मधुराम्लरसं रूक्षं दीपनं पथ्यदं स्मृतम् ॥ रज्नि_15.17
उष्ट्रीक्षीरं कुष्ठशोफापहं तत्पित्तार्शोघ्नं तत्कफाटोपहारि ।
आनाहार्तिजन्तुगुल्मोदराख्यं श्वासोल्लासं नाशयत्याशु पीतम् ॥ रज्नि_15.18
मधुरं मानुषीक्षीरं कषायं च हिमं लघु ।
चक्षुष्यं दीपनं पथ्यं पाचनं रोचनं च तत् ॥ रज्नि_15.19
क्षीरं कासश्वासकोपाय सर्वं गुर्वामं स्यात् प्रायशो दोषदायि ।
तच्चेत्तप्तं वर्तितं पथ्यमुक्तं नारीक्षीरं त्व् आमम् एवामयघ्नम् ॥ रज्नि_15.20
उक्तं गव्यादिकं दुग्धं धारोष्णममृतोपमम् ।
सर्वामयहरं पथ्यं चिरसंस्थं तु दोषदम् ॥ रज्नि_15.21

के ऽप्य् आविकं पथ्यतमं शृतोष्णं क्षीरं त्व् अजानां शृतशीतमाहुः ।
दोहान्तशीतं महिषीपयश्च गव्यं तु धारोष्णमिदं प्रशस्तम् ॥ रज्नि_15.22
वृष्यं बृंहणम् अग्निवर्धनकरं पूर्वाह्णपीतं पयो मध्याह्ने बलदायकं कफहरं कृच्छ्रस्य विच्छेदकम् ।
बाल्ये वह्निकरं ततो बलकरं वीर्यप्रदं वार्द्धके रात्रौ क्षीरमनेकदोषशमनं सेव्यं ततः सर्वदा ॥ रज्नि_15.23
क्षीरं मुहूर्तत्रितयोषितं यद् अतप्तम् एतद् विकृतिं प्रयाति ।
उष्णं तु दोषं कुरुते तदूर्ध्वं विषोपमं स्याद् उषितं दशानाम् ॥ रज्नि_15.24
जीर्णज्वरे कफे क्षीणे क्षीरं स्याद् अमृतोपमम् ।
तदेव तरुणे पीतं विषवद्धन्ति मानुषम् ॥ रज्नि_15.25
चतुर्थभागं सलिलं निधाय यत्नाद् यद् आवर्तितम् उत्तमं तत् ।
सर्वामयघ्नं बलपुष्टिकारि वीर्यप्रदं क्षीरम् अतिप्रशस्तम् ॥ रज्नि_15.26
गव्यं पूर्वाह्णकाले स्यादपराह्णे तु माहिषम् ।
क्षीरं सशर्करं पथ्यं यद् वा सात्म्ये च सर्वदा ॥ रज्नि_15.27
पित्तघ्नं शृतशीतलं कफहरं पक्वं तदुष्णं भवेच्छीतं यत्तु न पाचितं तदखिलं विष्टम्भदोषप्रदम् ।
धारोष्णं त्व् अमृतं पयः श्रमहरं निद्राकरं कान्तिदं वृष्यं बृंहणम् अग्निवर्धनम् अतिस्वादु त्रिदोषापहम् ॥ रज्नि_15.28
क्षीरं न युञ्जीत कदाप्यतप्तं तप्तं न चैतल्लवणेन सार्धम् ।
पिष्टान्नसंधानकमाषमुद्गकोशातकीकन्दफलादिकैश् च ॥ रज्नि_15.29
मत्स्यमांसगुडमुद्गमूलकैः कुष्ठमावहति सेवितं पयः ।
शाकजाम्बवरसैस्तु सेवितं मारयत्यबुधम् आशु सर्पवत् ॥ रज्नि_15.30
स्निग्धं शीतं गुरु क्षीरं सर्वकालं न सेवयेत् ।
दीप्ताग्निं कुरुते मन्दं मन्दाग्निं नष्टमेव च ॥ रज्नि_15.31
नित्यं तीव्राग्निना सेव्यं सुपक्वं माहिषं पयः ।
पुष्णन्ति धातवः सर्वे बलपुष्टिविवर्धनम् ॥ रज्नि_15.32
क्षीरं गवाजकादेर्मधुरं क्षारं नवप्रसूतानाम् ।
रूक्षञ्च पित्तदाहं करोति रक्तामयं कुरुते ॥ रज्नि_15.33
मधुरं त्रिदोषशमनं क्षीरं मध्यप्रसूतानाम् ।
लवणं मधुरं क्षीरं विदाहजननं चिरप्रसूतानाम् ॥ रज्नि_15.34
गुणहीनं निःसारं क्षीरं प्रथमप्रसूतानाम् ।
मध्यवयसां रसायनमुक्तमिदं दुर्बलं तु वृद्धानाम् ॥ रज्नि_15.35
तासां मासत्रयादूर्द्ध्वं गुर्विणीनाञ्च यत्पयः ।
तद्दाहि लवणं क्षीरं मधुरं पित्तदोषकृत् ॥ रज्नि_15.36
गवादीनां वर्णभेदाद्गुणा दुग्धादिके पृथक् ।
कैश्चिदुक्तो विशेषाच्च विशेषो देशभेदतः ॥ रज्नि_15.37
देशेषु देशेषु च तेषु तेषु तृणाम्बुनी यादृशदोषयुक्ते ।
तत्सेवनादेव गवादिकानां गुणादि दुग्धादिषु तादृशं मतम् ॥ रज्नि_15.38
शीतं स्निग्धं गुरुर् गौल्यं वृष्यं पित्तापहं परम् ।
ज्ञेया चैवाभिधा तस्य कीलाटं तु पयःच्छदः ॥ रज्नि_15.39
दधि गव्यम् अतिपवित्रं शीतं स्निग्धं च दीपनं बलकृत् ।
मधुरमरोचकहारि ग्राहि च वातामयघ्नं च ॥ रज्नि_15.40
माहिषं मधुरं स्निग्धं श्लेष्मकृद् रक्तपित्तजित् ।
बलास्रवर्धनं वृष्यं श्रमघ्नं शोधनं दधि ॥ रज्नि_15.41

दध्याजं कफवातघ्नं लघूष्णं नेत्रदोषनुत् ।
दुर्नामश्वासकासघ्नं रुच्यं दीपनपाचनम् ॥ रज्नि_15.42
आविकं दधि सुस्निग्धं कफपित्तकरं गुरु ।
वाते च रक्तवाते च पथ्यं शोफव्रणापहम् ॥ रज्नि_15.43
हस्तिनीदधि कषायलघूष्णं पक्तिशूलशमनं रुचिप्रदम् ।
दीप्तिदं खलु बलासगदघ्नं वीर्यवर्धनबलप्रदम् उक्तम् ॥ रज्नि_15.44
अश्वीदधि स्यान्मधुरं कषायं कफार्तिमूर्छामयहारि रूक्षम् ।
वाताल्पदं दीपनकारि नेत्रदोषापहं तत् कथितं पृथिव्याम् ॥ रज्नि_15.45
गर्दभीदधि रूक्षोष्णं लघु दीपनपाचनम् ।
मधुराम्लरसं रुच्यं वातदोषविनाशनम् ॥ रज्नि_15.46
औष्ट्रम् अर्शांसि कुष्ठानि क्रिमिशूलोदराणि च ।
निहन्ति कटुकं स्वादु किंचिद् अम्लरसं दधि ॥ रज्नि_15.47
विपाके मधुरं बल्यम् अम्लं संतर्पणं गुरु ।
चक्षुष्यं ग्रहदोषघ्नं दधि स्त्रीस्तन्यसम्भवम् ॥ रज्नि_15.48
दध्यम्लं गुरु वातदोषशमनं संग्राहि मूत्रावहं बल्यं शोफकरं च रुच्यशमनं वह्नेश्च शान्तिप्रदम् ।
कासश्वाससुपीनसेषु विषमे शीतज्वरे स्याद्धितं रक्तोद्रेककरं करोति सततं शुक्रस्य वृद्धिं पराम् ॥ रज्नि_15.49
दधि मधुरमीषदम्लं मधुराम्लं वा हितं न चात्युष्णम् ।
यावद्यावन्मधुरं दोषहरं तावद् उक्तम् इदम् ॥ रज्नि_15.50
लवणमरिचसर्पिःशर्करामुद्गधात्रीकुसुमरसविहीनं नैतद् अश्नन्ति नित्यम् ।
न च शरदि वसन्ते नोष्णकाले न रात्रौ न दधि कफविकारे पित्तदोषे ऽपि नाद्यात् ॥ रज्नि_15.51
त्रिकटुकयुतमेतद्राजिकाचूर्णमिश्रं कफहरम् अनिलघ्नं वह्निसंधुक्षणं च ।
तुहिनशिशिरकाले सेवितं चातिपथ्यं रचयति तनुदार्ढ्यं कान्तिमत्त्वं च नॄणाम् ॥ रज्नि_15.52
उष्णाम्लं रुचिपक्तिदं क्लमहरं बल्यं कषायं सरं भुक्तिच्छेदकरं तृषोदरगदप्लीहार्शसां नाशनम् ।
स्रोतःशुद्धिकरं कफानिलहरं विष्टम्भशूलापहं पाण्डुश्वासविकारगुल्मशमनं मस्तु प्रशस्तं लघु ॥ रज्नि_15.53
उक्तं श्लेष्मसमीरहारि मथितं तत् श्लेष्मपित्तापहं रुच्यं प्राहुर् उदश्विदाख्यम् अधिकं तक्रं त्रिदोषापहम् ।
मन्दाग्नाव् अरुचौ विदाहविषमश्वासार्तिकासादिषु श्रेष्ठं पथ्यतमं वदन्ति सुधियस् तक्रत्रयं ह्य् उत्तमम् ॥ रज्नि_15.54
तक्रं त्रिदोषशमनं रुचिदीपनीयं रुच्यं वमिश्रमहरं क्लमहारि मस्तु ।
बल्यप्रदं पवननाशम् उदश्विदाख्यं शस्तं कफश्रममरुद्वमनेषु घोलम् ॥ रज्नि_15.55
अम्लेन वातं मधुरेण पित्तं कफं कषायेण निहन्ति सद्यः ।
यथा सुराणाम् अमृतं हिताय तथा नराणाम् इह तक्रमाहुः ॥ रज्नि_15.56
आमातिसारे च विषूचिकायां वातज्वरे पाण्डुषु कामलेषु ।
प्रमेहगुल्मोदरवातशूले नित्यं पिबेत् तक्रम् अरोचके च ॥ रज्नि_15.57
शीतकालेऽग्निमान्द्ये च कफे पाण्ड्वामयेषु च ।
मार्गोपरोधे कुष्ठादिव्याधौ तक्रं प्रशस्यते ॥ रज्नि_15.58
वातोदरी पिबेत्तक्रं पिप्पलीलवणान्वितम् ।
शर्करामरिचोपेतं स्वादु पित्तोदरी पिबेत् ॥ रज्नि_15.59
यवानीसैन्धवाजाजीव्योषयुक्तं कफोदरे ।
संनिपातोदरे तक्रं त्रिकटुक्षारसैन्धवम् ॥ रज्नि_15.60
तक्रं दद्यान्नो क्षते नोष्णकाले नो दौर्बल्ये नो तृषामूर्छिते च ।
नैव भ्रान्तौ नैव पित्तास्रदोषे नैतद्दद्यात् सूतिकायां विशेषात् ॥ रज्नि_15.61

तक्रं स्नेहान्वितं तुन्दनिद्राजाड्यप्रदं गुरु ।
अर्धावशिष्टं सामान्यं निःशेषं लघु पथ्यदम् ॥ रज्नि_15.62
शीतं वर्णबलावहं सुमधुरं वृष्यं च संग्राहकं वातघ्नं कफहारकं रुचिकरं सर्वाङ्गशूलापहम् ।
कासघ्नं श्रमनाशनं सुखकरं कान्तिप्रदं पुष्टिदं चक्षुष्यं नवनीतम् उद्धृतनवं गोः सर्वदोषापहम् ॥ रज्नि_15.63
गव्यं च माहिषं चापि नवनीतं नवोद्भवम् ।
शस्यते बालवृद्धानां बलकृत् पुष्टिवर्धनम् ॥ रज्नि_15.64
माहिषं नवनीतं तु कषायं मधुरं रसे ।
शीतं वृष्यप्रदं ग्राहि पित्तघ्नं तु बलप्रदम् ॥ रज्नि_15.65
लघ्व् आजं तु मधुरं कषायं च त्रिदोषनुत् ।
चक्षुष्यं दीपनं बल्यं नवनीतं हितं सदा ॥ रज्नि_15.66
नवनीतं नवोत्थं तु छागजं क्षयकासजित् ।
बल्यं नेत्रामयघ्नं च कफघ्नं दीपनं परम् ॥ रज्नि_15.67
आविकं नवनीतं तु विपाके तु हिमं लघु ।
योनिशूले कफे वाते दुर्नाम्नि च हितं सदा ॥ रज्नि_15.68
ऐडकं नवनीतं तु कषायं शीतलं लघु ।
मेधाहृद्गुरु पुष्ट्यं च स्थौल्यं मन्दाग्निदीपनम् ॥ रज्नि_15.69
हस्तिनीनवनीतं तु कषायं शीतलं लघु ।
तिक्तं विष्टम्भि जन्तुघ्नं हन्ति पित्तकफक्रिमीन् ॥ रज्नि_15.70
अश्वीयं नवनीतं स्यात्कषायं कफवातजित् ।
चक्षुष्यं कटुकं चोष्णम् ईषद् वातापहारकम् ॥ रज्नि_15.71
गर्दभीनवनीतं तु कषायं कफवातनुत् ।
बल्यं दीपनदं पाके लघूष्णं मूत्रदोषनुत् ॥ रज्नि_15.72
औष्ट्रं तु नवनीतं स्याद्विपाके लघु शीतलम् ।
व्रणक्रिमिकफास्रघ्नं वातघ्नं विषनाशनम् ॥ रज्नि_15.73
नवनीतं तु नारीणां रुच्यं पाके लघु स्मृतम् ।
चक्षुष्यं सर्वरोगघ्नं दीपनं विषनाशनम् ॥ रज्नि_15.74
शीतं रुच्यनवोद्धृतं सुमधुरं वृष्यं च वातापहं कासघ्नं क्रिमिनाशनं कफकरं संग्राहि शूलापहम् ।
बल्यं पुष्टिकरं तृषार्तिशमनं संतापविच्छेदनं चक्षुष्यं श्रमहारि तर्पणकरं दध्युद्भवं पित्तजित् ॥ रज्नि_15.75
एकाहाद्युषितं प्रोक्तमुत्तरोत्तरगन्धदम् ।
अहृद्यं सर्वरोगाढ्यं दधिजं तद्घृतं स्मृतम् ॥ रज्नि_15.76
धीकान्तिस्मृतिदायकं बलकरं मेधाप्रदं पुष्टिकृत् वातश्लेष्महरं श्रमोपशमनं पित्तापहं हृद्यदम् ।
वह्नेर्वृद्धिकरं विपाकमधुरं वृष्यं वपुःस्थैर्यदं गव्यं हव्यतमं घृतं बहुगुणं भोग्यं भवेद्भाग्यतः ॥ रज्नि_15.77
सर्पिर्माहिषमुत्तमं धृतिकरं सौख्यप्रदं कान्तिकृत् वातश्लेष्मनिबर्हणं बलकरं वर्णप्रदाने क्षमम् ।
दुर्नामग्रहणीविकारशमनं मन्दानलोद्दीपनं चक्षुष्यं नवगव्यतः परमिदं हृद्यं मनोहारि च ॥ रज्नि_15.78
आजमाज्यं तु चक्षुष्यं दीपनं बलवर्धनम् ।
कासश्वासकफान्तकं राजयक्ष्मसु शस्यते ॥ रज्नि_15.79
पाके लघ्वाविकं सर्पिर्नवं पित्तप्रकोपणम् ।
योनिदोषे कफे वाते शोफे कम्पे च तद्धितम् ॥ रज्नि_15.80
ऐडकं घृतम् अतीव गौरवाद् वर्ज्यमिव सुकुमारदेहिनाम् ।
बुद्धिपाटवकरं बलावहं सेवितं च कुरुते नृणां वपुः ॥ रज्नि_15.81

निहन्ति हस्तिनीसर्पिः कफपित्तविषक्रिमीन् ।
कषायं लघु विष्टम्भि तिक्तं चाग्निकरं परम् ॥ रज्नि_15.82
अश्वीसर्पिस्तु कटुकं मधुरं च कषायकम् ।
ईषद् दीपनदं मूर्छाहारि वाताल्पदं गुरु ॥ रज्नि_15.83
घृतं गार्दभिकं बल्यं दीपनं मूत्रदोषनुत् ।
पाके लघूष्णवीर्यं च कषायं कफनाशनम् ॥ रज्नि_15.84
घृतम् औष्ट्रं तु मधुरं विपाके कटुशीतलम् ।
कुष्ठक्रिमिहरं वातकफगुल्मोदरापहम् ॥ रज्नि_15.85
नारीसर्पिस्तु चक्षुष्यं पथ्यं सर्वामयापहम् ।
मन्दाग्निदीपनं रुच्यं पाके लघु विषापहम् ॥ रज्नि_15.86
मदापस्मारमूर्छादिशिरःकर्णाक्षिजा रुजः ।
सर्पिः पुराणं जयति व्रणशोधनरोपणम् ॥ रज्नि_15.87
आयुर्वृद्धिं वपुषि दृढतां सौकुमार्यं च कान्तिं बुद्धिं धत्ते स्मृतिबलकरं शीतविध्वंसनं च ।
पथ्यं बाल्ये वयसि तरुणे वार्द्धके चातिबल्यं नान्यत् किंचिज् जगति गुणदं सर्पिषः पथ्यमस्ति ॥ रज्नि_15.88
काञ्जिकं काञ्जिका वीरं कुल्माषाभिभवं तथा ।
अवन्तिसोमं धान्याम्लम् आरनालो ऽम्लसारकः ॥ रज्नि_15.89
काञ्जिकं वातशोफघ्नं पित्तघ्नं ज्वरनाशनम् ।
दाहमूर्छाश्रमघ्नं च शूलाध्मानविबन्धनुत् ॥ रज्नि_15.90
काञ्जिकं काञ्जितैलं च पलितं वातकारकम् ।
दाहकं गात्रशैथिल्यं मर्दनान्न च भक्षणात् ॥ रज्नि_15.91
चुक्रं सहस्रवेधं च रसाम्लं चुक्रवेधकम् ।
शाखाम्लभेदनं चैवम् अम्लसारं च चुक्रिका ॥ रज्नि_15.92
चुक्रं तिक्ताम्लकं स्वादु कफपित्तविनाशनम् ।
नासिकागददुर्गन्धशिरोरोगहरं परम् ॥ रज्नि_15.93
सौवीरकं सुवीराम्लं ज्ञेयं गोधूमसम्भवम् ।
यवाम्लजं यवोत्थं च तुषोत्थं च तुषोदकम् ॥ रज्नि_15.94
सौवीरकं चाम्लरसं केश्यं मस्तकदोषजित् ।
जराशैथिल्यहरणं बलसंतर्पणं परम् ॥ रज्नि_15.95
तण्डुलोत्थं तण्डुलाम्बु कषायं मधुरं लघु ।
संग्राहि विषविच्छर्दितृड्दाहव्रणनाशकृत् ।
तुषाम्बु दीपनं हृद्यं हृत्पाण्डुकृमिरोगनुत् ॥ रज्नि_15.96
अन्नोदजः शिवरसस् त्र्यहात् पर्युषिते रसे ।
दीपनो मधुराम्लस् तु दाहजिल्लघुतर्पणः ॥ रज्नि_15.97
गोमूत्रं कटुतिक्तोष्णं कफवातहरं लघु ।
पित्तकृद्दीपनं मेध्यं त्वग्दोषघ्नं मतिप्रदम् ॥ रज्नि_15.98
माहिषं मूत्रम् आनाहशोफगुल्माक्षिदोषनुत् ।
कटूष्णं कुष्ठकण्डूतिशूलोदररुजापहम् ॥ रज्नि_15.99
अजामूत्रं कटूष्णं च रूक्षं नाडीविषार्तिजित् ।
प्लीहोदरकफश्वासगुल्मशोफहरं लघु ॥ रज्नि_15.100
आविकं तिक्तकटुकं मूत्रम् उष्णं च कुष्ठजित् ।

दुर्नामोदरशूलास्रशोफमेहविषापहम् ॥ रज्नि_15.101
हस्तिमूत्रं तु तिक्तोष्णं लवणं वातभूतनुत् ।
तिक्तं कषायं शूलघ्नं हिक्काश्वासहरं परम् ॥ रज्नि_15.102
अश्वमूत्रं तु तिक्तोष्णं तीक्ष्णं च विषदोषजित् ।
वातप्रकोपशमनं पित्तकारि प्रदीपनम् ॥ रज्नि_15.103
खरमूत्रं कटूष्णं च क्षारं तीक्ष्णं कफापहम् ।
महावातापहं भूतकम्पोन्मादहरं परम् ॥ रज्नि_15.104
औष्ट्रकं कटु तिक्तोष्णं लवणं पित्तकोपनम् ।
बल्यं जठररोगघ्नं वातदोषविनाशनम् ॥ रज्नि_15.105
मानुषं मूत्रमामघ्नं क्रिमिव्रणविषार्तिनुत् ।
तिक्तोष्णं लवणं रूक्षं भूतत्वग्दोषवातजित् ॥ रज्नि_15.106
शूलगुल्मोदरानाहवातविच्छर्दनादिषु ।
मूत्रप्रयोगसाध्येषु गोमूत्रं कल्पयेद् बुधः ॥ रज्नि_15.107
तैलं यत् तिलसर्षपोदितकुसुम्भोत्थातसीधान्यजं यच्चैरण्डकरञ्जकेङ्गुदीफलैर् निम्बाक्षशिग्र्वस्थिभिः ।
ज्योतिष्मत्यभयोद्भवं मधुरिकाकोशाम्रचिञ्चाभवं कर्पूरत्रपुसादिजं च सकलं सिद्ध्यै क्रमात् कथ्यते ॥ रज्नि_15.108
तिलतैलम् अलंकरोति केशं मधुरं तिक्तकषायम् उष्णतीक्ष्णम् ।
बलकृत् कफवातजन्तुखर्जूव्रणकण्डूतिहरं च कान्तिदायि ॥ रज्नि_15.109
सर्षपतैलं तिक्तं कटुकोष्णं वातकफविकारघ्नम् ।
पित्तास्रदोषदं क्रिमिकुष्ठघ्नं तिलजवच्च चक्षुष्यम् ॥ रज्नि_15.110
कुसुम्भतैलं क्रिमिहारि तेजोबलावहं यक्ष्ममलापहं च ।
त्रिदोषकृत्पुष्टिबलक्षयं च करोति कण्डूं च करोति दृष्टेः ॥ रज्नि_15.111
मधुरं त्व् अतसीतैलं पिच्छिलं चानिलापहम् ।
मदगन्धि कषायं च कफकासापहारकम् ॥ रज्नि_15.112
गोधूमयावनालव्रीहियवाद्यखिलधान्यजं तैलम् ।
वातकफपित्तशमनं कण्डूकुष्ठादिहारि चक्षुष्यम् ॥ रज्नि_15.113
एरण्डतैलं कृमिदोषनाशनं वातामयघ्नं सकलाङ्गशूलहृत् ।
कुष्ठापहं स्वादु रसायनोत्तमं पित्तप्रकोपं कुरुते ऽतिदीपनम् ॥ रज्नि_15.114
करञ्जतैलं नयनार्तिनाशनं वातामयध्वंसनम् उष्णतीक्ष्णकम् ।
कुष्ठार्तिकण्डूतिविचर्चिकापहं लेपेन नानाविधचर्मदोषनुत् ॥ रज्नि_15.115
स्निग्धं स्यादिङ्गुदीतैलं मधुरं पित्तनाशनम् ।
शीतलं कान्तिदं बल्यं श्लेष्मलं केशवर्धनम् ॥ रज्नि_15.116
निम्बतैलं तु नात्युष्णं क्रिमिकुष्ठकफापहम् ॥ रज्नि_15.117
आक्षं स्वादु हिमं केश्यं गुरु पित्तानिलापहम् ॥ रज्नि_15.118
शिग्रुतैलं कटूष्णं च वातजित्कफनाशनम् ।
त्वग्दोषव्रणकण्डूतिशोफहारि च पिच्छिलम् ॥ रज्नि_15.119
कटु ज्योतिष्मतीतैलं तिक्तोष्णं वातनाशनम् ।
पित्तसंतापनं मेधाप्रज्ञाबुद्धिविवर्धनम् ॥ रज्नि_15.120
शीतं हरीतकीतैलं कषायं मधुरं कटु ।
सर्वव्याधिहरं पथ्यं नानात्वग्दोषनाशनम् ॥ रज्नि_15.121
तीक्ष्णं तु राजिकातैलं ज्ञेयं वातादिदोषनुत् ।

शिशिरं कटु पुंस्त्वघ्नं केश्यं त्वग्दोषनाशनम् ॥ रज्नि_15.122
सरं कोशाम्रजं तैलं क्रिमिकुष्ठव्रणापहम् ।
तिक्ताम्लमधुरं बल्यं पथ्यं रोचनपाचनम् ॥ रज्नि_15.123
यच्च चिञ्चीभवं तैलं कटु पाके विलेखनम् ।
कफवातहरं रुच्यं कषायं नातिशीतलम् ॥ रज्नि_15.124
कर्पूरतैलहिमतैलसितांशुतैलशीताभ्रतैलतुहिनांशुसुधांशुतैलम् ।
कर्पूरतैलं कटुकोष्णकफामहारि वातामयघ्नरददार्ढ्यदपित्तहारि ॥ रज्नि_15.125
त्रपुसैर्वारुकचारककुष्माण्डप्रभृतिबीजजं च यत्तैलम् ।
तन्मधुरं गुरु शिशिरं केश्यं कफपित्तनाशि कान्तिकरम् ॥ रज्नि_15.126
तैलं न सेवयेद्धीमान् यस्य कस्य च यद्भवेत् ।
विषसाम्यगुणत्वाच्च योगे तन्न प्रयोजयेत् ॥ रज्नि_15.127
विषस्य तैलस्य न किंचिद् अन्तरं मृतस्य सुप्तस्य न किंचिद् अन्तरम् ।
तृणस्य दासस्य न किंचिद् अन्तरं मूर्खस्य काष्ठस्य न किंचिद् अन्तरम् ॥ रज्नि_15.128
इत्थं गवादिकपयःप्रभृतिप्रपञ्चप्रस्ताववर्णिततिलादिकतैलजातम् ।
वर्गं निसर्गललितोज्ज्वलशब्दसर्गं बुद्ध्वा भिषक्पतिर् अशङ्कतया भिषज्येत् ॥ रज्नि_15.129
पातारम् आत्मनः किल यान्ति प्रत्युपचिकीर्षया यानि ।
तेषाम् एव निवासः परिकथितः पेयवर्ग इति कृतिभिः ॥ रज्नि_15.130
पायं पायं मधुरविमलां शीतलां यस्य कीर्तिस्रोतोधारां जहति सुजना दुर्जनासंगदौस्थ्यम् ।
वर्गस्तस्य व्रजति नृहरेर् नामनिर्माणनाम्नश् चूडारत्ने खलु तिथिमितः क्षीरकादिः समाप्तिम् ॥ रज्नि_15.131
राजनिघण्टु, शाल्यादिवर्ग
धान्यं भोग्यं च भोगार्हमन्नाद्यं जीवसाधनम् ।
तच्च तावत् त्रिधा ज्ञेयं शूकशिम्बीतृणाह्वयम् ॥ रज्नि_16.1
व्रीह्यादिकं यदिह शूकसमन्वितं स्यात् तच्छूकधान्यम् अथ मुद्गमकुष्टकादि ।
शिम्बीनिगूढम् इति तत् प्रवदन्ति शिम्बीधान्यं तृणोद्भवतया तृणधान्यम् अन्यत् ॥ रज्नि_16.2
वातादिदोषशमनं लघु शूकधान्यं तेजोबलातिशयवीर्यविवृद्धिदायि ।
शिम्बीभवं गुरु हिमं च विबन्धदायि वातूलकं तु शिशिरं तृणधान्यम् आहुः ॥ रज्नि_16.3
देशे देशे शूकधान्येषु संख्या ज्ञातुं शक्या नैव तद्दैवतैर्वा ।
तस्माद् एषां येषु भोगोपयोगास् तान्यस्माभिर् व्याक्रियन्ते कियन्ति ॥ रज्नि_16.4
शालयः कलमा रुच्या व्रीहिश्रेष्ठा नृपप्रियाः ।
धान्योत्तमाश् च विज्ञेयाः कैदाराः सुकुमारकाः ॥ रज्नि_16.5
राजान्नषष्टिकसिततररक्तमुण्डस्थूलाणुगन्धनिरपादिकशालिसंज्ञाः ।
व्रीहिस् तथेति दशधा भुवि शालयस्तु तेषां क्रमेण गुणनामगणं ब्रवीमि ॥ रज्नि_16.6
राजान्नं दीर्घशूकः खरिपुदिवसजं षष्टिको वर्णतो द्वौ निःशूको मुण्डशालिः स्वगुणविशदितः स्वाभिधानास्त्रयोऽन्ये ।
मासैर् यो ऽन्यस् त्रिभिः स्यात् स भवति निरपो यो ऽपि वृष्ट्यम्बुसम्भूर् एष स्याद्व्रीहिसंज्ञस्तदिति दशविधाः शालयस्तु प्रसिद्धाः ॥ रज्नि_16.7
शालिर् नृपान्नं राजान्नं राजार्हं दीर्घशूककम् ।
धान्यश्रेष्ठं राजधान्यं राजेष्टं दीर्घकूरकम् ॥ रज्नि_16.8
राजान्नं तु त्रिदोषघ्नं सुस्निग्धं मधुरं लघु ।
दीपनं बलकृत्पथ्यं कान्तिदं वीर्यवर्धनम् ॥ रज्नि_16.9
राजान्नं त्रिविधं स्वशूकभिदया ज्ञेयं सितं लोहितं कृष्णं चेति रसाधिकं च तदिदं स्याद् औत्तरोत्तर्यतः ।
त्रैविध्यादिह तण्डुलाश् च हरिताः श्वेतास्तथा लोहिताः सामान्येन भवन्ति ते ऽप्यथ गुणैः स्युः पूर्वपूर्वोत्तराः ॥ रज्नि_16.10

षष्टिकः षष्टिशालिः स्यात् षष्टिजः स्निग्धतण्डुलः ।
षष्टिवासरजः सो ऽयं ज्ञेयो मासद्वयोद्भवः ॥ रज्नि_16.11
गौरो नीलः षष्टिकोऽयं द्विधा स्याद् आद्यो रुच्यः शीतलो दोषहारी ।
बल्यः पथ्यो दीपनो वीर्यवृद्धिं दत्ते चास्मात् किंचिद् ऊनो द्वितीयः ॥ रज्नि_16.12
कृष्णशालिः कालशालिः श्यामशालिः सितेतरः ॥ रज्नि_16.13
कृष्णशालिस् त्रिदोषघ्नो मधुरः पुष्टिवर्धनः ।
वर्णकान्तिकरो बल्यो दाहजिद् वीर्यवृद्धिकृत् ॥ रज्नि_16.14
रक्तशालिस् ताम्रशालिः शोणशालिश्च लोहितः ।
रक्तशालिः सुमधुरो लघुः स्निग्धो बलावहः ॥ रज्नि_16.15
रुचिकृद्दीपनः पथ्यो मुखजाड्यरुजापहः ।
सर्वामयहरो रुच्यः पित्तदाहानिलास्रजित् ॥ रज्नि_16.16
मुण्डशालिर्मुण्डनको निःशूको यवशूकजः ॥ रज्नि_16.17
मुण्डशालिस्त्रिदोषघ्नो मधुराम्लो बलप्रदः ॥ रज्नि_16.18
स्थूलशालिर्महाशालिः स्थूलाङ्गः स्थूलतण्डुलः ।
एवंगन्धाढ्यशालेश्च नामान्यूह्यानि सूरिभिः ॥ रज्नि_16.19
महाशालिः स्वादुर्मधुरशिशिरः पित्तशमनो ज्वरं जीर्णं दाहं जठररुजम् अह्नाय शमयेत् ।
शिशूनां यूनां वा यदपि जरतां वा हितकरः सदा सेव्यः सर्वैर् अनलबलवीर्याणि कुरुते ॥ रज्नि_16.20
सूक्ष्मशालिः सूचिशालिः पोतशालिश्च सूचकः ॥ रज्नि_16.21
सूक्ष्मशालिः सुमधुरो लघुः पित्तास्रदाहनुत् ।
दीपनः पाचनश्चैव किंचिद् वातविकारजित् ॥ रज्नि_16.22
गन्धशालिस्तु कल्माषो गन्धालुः कलमोत्तमः ।
सुगन्धिर्गन्धबहुलः सुरभिर् गन्धतण्डुलः ॥ रज्नि_16.23
सुगन्धशालिर् मधुरो ऽतिवृष्यदः पित्तश्रमास्रारुचिदाहशान्तिदः ।
स्तन्यस्तु गर्भस्थिरताल्पवातदः पुष्टिप्रदश्चाल्पकफश्च बल्यदः ॥ रज्नि_16.24
निरपो मधुरः स्निग्धः शीतलो दाहपित्तजित् ।
त्रिदोषशमनो रुच्यः पथ्यः सर्वामयापनुत् ॥ रज्नि_16.25
व्रीहिर् गौरो मधुरशिशिरः पित्तहारी कषायः स्निग्धो वृष्यः कृमिकफहरस् तापरक्तापहश् च ।
पुष्टिं दत्ते श्रमशमनकृद् वीर्यवृद्धिं विधत्ते रुच्यो ऽत्यन्तं जनयति मुदं वातकृन्मेचको ऽन्यः ॥ रज्नि_16.26
मण्डकः स्थूलशालिश् च स्याद् बिम्बशालिकस् तथा ।
निजातिशाणहुल्याश् च बिम्बी कौसेन्दुकस् तथा ॥ रज्नि_16.27
प्रसाधिका जीरकाख्या सश्यामा मधुरा मता ।
राजानां मौलिकस्यापि शालिः स्याद् उर्वरी तथा ॥ रज्नि_16.28
सूक्ष्मशालिः कुदितिका सुशालिर् गुरुशालयः ।
वनशालिर् गुण्डुरूकी क्षीरिका पङ्क्तयः पृथक् ।
एतानि शालिनामानि प्रख्यातानि प्रसिद्धतः ॥ रज्नि_16.29
अशोचा पाटला व्रीहिर् व्रीहिको व्रीहिधान्यकः ।
व्रीहिसंधान्यम् उद्दिष्टः अर्धधान्यस् तु व्रीहिकः ॥ रज्नि_16.30
गर्भे पाकणिकः षष्टिः षष्टिको बलसम्भवः ।
सुधान्यं पथ्यकारी च मुपविः प्रज्ञविप्रियः ॥ रज्नि_16.31
शालिस्तु कलमाद्यस्तु कलमो नाकलायकः ।

कदम्बपुष्पगन्धश्च कलजातः कलोद्भवः ॥ रज्नि_16.32
पित्तश्लेष्मकरो वृष्यः कलमो मधुरस्तथा ॥ रज्नि_16.33
लोहितो रक्तशालिः स्यात् काष्ठलोहितशालयः ।
रुणाली रुणशालिस्तु रक्तशाल्यः सुशाल्यकः ॥ रज्नि_16.34
तृष्णाघ्नो मलकृच्छ्रघ्नो हृद्यस्तु मतिदाः परे ॥ रज्नि_16.35
महाशालिः सुगन्धा स्यात् सुगन्धा गन्धसम्भवा ।
गन्धाढ्या गन्धमाल्या च गन्धानी गन्धमालिनी ॥ रज्नि_16.36
सुगन्धा मधुरा हृद्या कफपित्तज्वरास्रजित् ॥ रज्नि_16.37
जलोद्भवा जलरुहा जलजाता सुजातका ।
रक्ताङ्गुलं सुकारं च कुङ्कुमं समवर्णजा ॥ रज्नि_16.38
कुङ्कुमा मधुरा शीता रक्तपित्तातिसारजित् ॥ रज्नि_16.39
तिलजा नीलनामा स्याद् दीर्घकृष्णा सुपूजका ।
मधुरा च सुगन्धा च तिलवासी निगद्यते ॥ रज्नि_16.40
राजादनी राजप्रिया राजभावा मुनिप्रिया ।
तिलनी तिलपर्णी च आमगन्धा प्रवासिनी ॥ रज्नि_16.41
कफपित्तहराः स्निग्धाः कासश्वासहराः पराः ।
शीघ्रपाककरा हृद्या लघवः शुक्रवर्धनाः ॥ रज्नि_16.42
कोमलाहारसम्भूतास् तिलवासीमहागुणाः ।
पाण्डुरोगेषु शूलेषु चामवाते प्रशस्यते ॥ रज्नि_16.43
वक्तको वक्तशालिः स्यात् दीर्घस्तु आशुकोपितः ।
राजप्रिया पथ्यकरा मध्यदेशसमुद्भवा ॥ रज्नि_16.44
वक्तिका लघवः प्रोक्ता मुखपाककरास्तथा ॥ रज्नि_16.45
कलाटकः कविलः स्याद् गुरुसो गरुडः स्मृतः ।
गुरुवको गुरडकः सुखभोजी सुभोजकः ॥ रज्नि_16.46
कविलो गन्धकारी च लघुपाककरोऽपि च ।
कफपित्तहरः स्वादुः शूलश्वासनिवारणः ।
ग्रहणीगुल्मकुष्ठघ्नो विकलो भोजने शुभः ॥ रज्नि_16.47
कुष्माण्डिका कुम्भडिका रक्ता सुमधुरा गुरुः ।
सुगन्धा दुर्जरा पीता स्थूलतण्डुलकोमला ॥ रज्नि_16.48
कुम्भिका मधुरा स्निग्धा वातपित्तनिबर्हिणी ॥ रज्नि_16.49
सौरभं शुण्डिकः शुण्डी कौसुम्भी कठिनो ऽफलः ॥ रज्नि_16.50
कौसुम्भी लघुपाका च वातपित्तनिबर्हिणी ॥ रज्नि_16.51
उम्पास उम्पिकाशालिर् मधुरा गुरुतण्डुला ।
बहुशूका सुगन्धाढ्या तारुण्यजनवल्लभा ॥ रज्नि_16.52
उम्पिका मधुरा स्निग्धा सुगन्धा च कषायका ।
पित्तश्लेष्महरा रूक्षा उम्पिकानिलनाशिनी ॥ रज्नि_16.53
पक्षिकः पक्षिलावण्यः पक्षिराजो मुनिप्रियः ।
स्थूलतण्डुलसम्भूतागन्धो बहलगन्धकृत् ॥ रज्नि_16.54
दग्धायामवनौ जाताः शालयो लघुपाकिनः ।
किंचित् सतिक्ता मधुराः पाचना बलवर्धनाः ॥ रज्नि_16.55

केदारा मधुरा वृष्या बल्याः पित्तविवर्धनाः ।
ईषत् कषायाल्पमला गुरवः कफनाशनाः ॥ रज्नि_16.56
शालयो ये छिन्नरुहा रूक्षास् ते बद्धवर्चसः ॥ रज्नि_16.57
रोप्यातिरोप्या लघवः शीघ्रपाका गुणोत्तराः ।
विदाहिनो दोषहरा बल्या मूत्रविवर्धनाः ॥ रज्नि_16.58
यावनालो यवनालः शिखरी वृत्ततण्डुलः ।
दीर्घनालो दीर्घशरः क्षेत्रेक्षुश् चेक्षुपत्त्रकः ॥ रज्नि_16.59
धवलो यावनालस्तु पाण्डुरस् तारतण्डुलः ।
नक्षत्राकृतिविस्तारो वृत्तो मौक्तिकतण्डुलः ॥ रज्नि_16.60
जूर्णाह्वयो देवधान्यं जूर्णलो बीजपुष्पकः ।
जूनलः पुष्पगन्धश्च सुगन्धः सेगुरुन्दकः ॥ रज्नि_16.61
धवलो यावनालस्तु गौल्यो बल्यस्त्रिदोषजित् ।
वृष्यो रुचिप्रदो ऽर्शोघ्नः पथ्यो गुल्मव्रणापहः ॥ रज्नि_16.62
अथ तुवरयावनालस्तुवरश्च कषाययावनालश्च ।
स रक्तयावनालो हितलोहितस् तुवरधान्यश् च ॥ रज्नि_16.63
तुवरो यावनालस्तु कषायोष्णो विशोफकृत् ।
संग्राही वातशमनो विदाही शोषकारकः ॥ रज्नि_16.64
शारदो यावनालस्तु श्लेष्मदः पिच्छिलो गुरुः ।
शिशिरो मधुरो वृष्यो दोषघ्नो बलपुष्टिदः ॥ रज्नि_16.65
गोधूमो बहुदुग्धः स्यादपूपो म्लेच्छभोजनः ।
यवनो निस्तुषः क्षीरी रसालः सुमनश्च सः ॥ रज्नि_16.66
गोधूमः स्निग्धमधुरो वातघ्नः पित्तदाहकृत् ।
गुरुः श्लेष्मामदो बल्यो रुचिरो वीर्यवर्धनः ॥ रज्नि_16.67
स्निग्धोऽन्यो लघुगोधूमो गुरुर् वृष्यः कफापहः ।
आमदोषकरो बल्यो मधुरो वीर्यपुष्टिदः ॥ रज्नि_16.68
यवस्तु मेध्यः सितशूकसंज्ञो दिव्यो ऽक्षतः कञ्चुकिधान्यराजौ ।
स्यात् तीक्ष्णशूकस् तुरगप्रियश् च सक्तुर् हयेष्टश् च पवित्रधान्यम् ॥ रज्नि_16.69
यवः कषायो मधुरः सुशीतलः प्रमेहजित् तिक्तकफापहारकः ।
अशूकमुण्डस् तु यवो बलप्रदो वृष्यश्च नॄणां बहुवीर्यपुष्टिदः ॥ रज्नि_16.70
वेणुजो वेणुबीजश् च वंशजो वंशतण्डुलः ।
वंशधान्यं च वंशाह्वो वेणुवंशद्विधायवः ॥ रज्नि_16.71
शीतः कषायो मधुरस् तु रूक्षो मेहक्रिमिश्लेष्मविषापहश् च ।
पुष्टिं च वीर्यं च बलं च दत्ते पित्तापहो वेणुयवः प्रशस्तः ॥ रज्नि_16.72
मुद्गस्तु सूपश्रेष्ठः स्याद्वर्णार्हश् च रसोत्तमः ।
भुक्तिप्रदो हयानन्दो भूबलो वाजिभोजनः ॥ रज्नि_16.73
कृष्णमुद्गस् तु वासन्तो माधवश् च सुराष्ट्रजः ॥ रज्नि_16.74
कृष्णमुद्गस् त्रिदोषघ्नो मधुरो वातनाशनः ।
लघुश् च दीपनः पथ्यो बलवीर्याङ्गपुष्टिदः ॥ रज्नि_16.75
शारदस् तु हरिन्मुद्गो धूसरो ऽन्यश्च शारदः ॥ रज्नि_16.76
हरिन्मुद्गः कषायश् च मधुरः कफपित्तहृत् ।

रक्तमूत्रामयघ्नश् च शीतलो लघुदीपनः ॥ रज्नि_16.77
तद्वच्च धूसरो मुद्गो रसवीर्यादिषु स्मृतः ।
कषायो मधुरो रुच्यः पित्तवातविबन्धकृत् ॥ रज्नि_16.78
पित्तज्वरार्तिशमनं लघु मुद्गयूषं संतापहारि तद् अरोचकनाशनं च ।
रक्तप्रसादनम् इदं यदि सैन्धवेन युक्तं तदा भवति सर्वरुजापहारि ॥ रज्नि_16.79
माषस्तु कुरुविन्दः स्याद्धान्यवीरो वृषाकरः ।
मांसलश् च बलाढ्यश् च पित्र्यश् च पितृजोत्तमः ॥ रज्नि_16.80
माषः स्निग्धो बहुमलकरः शोषणः श्लेष्मकारी वीर्येणोष्णो झटिति कुरुते रक्तपित्तप्रकोपम् ।
हन्याद्वातं गुरुबलकरो रोचनो भक्ष्यमाणः स्वादुर् नित्यं श्रमसुखवतां सेवनीयो नराणाम् ॥ रज्नि_16.81
राजमाषो नीलमाषो नृपमाषो नृपोचितः ॥ रज्नि_16.82
कफपित्तहरो रुच्यो वातकृद्बलदायकः ॥ रज्नि_16.83
चणस्तु हरिमन्थः स्यात्सुगन्धः कृष्णकञ्चुकः ।
बालभोज्यो वाजिभक्षश् चणकः कञ्चुकी च सः ॥ रज्नि_16.84
चणको मधुरो रूक्षो मेहजिद् वातपित्तकृत् ।
दीप्तिवर्णकरो बल्यो रुच्यश् चाध्मानकारकः ॥ रज्नि_16.85
आमश्चणः शीतलरुच्यकारी संतर्पणो दाहतृषापहारी ।
गौल्यो ऽश्मरीशोषविनाशकारी कषाय ईषत् कटुर् वीर्यकारी ॥ रज्नि_16.86
कृष्णस्तु चणकः शीतो मधुरः कासपित्तहृत् ।
पित्तातिसारकासघ्नो बल्यश् चैव रसायनः ॥ रज्नि_16.87
चणो गौरस्तु मधुरो बलकृद् रोचनः परः ।
श्वेतो वातकरो रुच्यः पित्तघ्नः शिशिरो गुरुः ॥ रज्नि_16.88
सुभृष्टचणको रुच्यो वातघ्नो रक्तदोषकृत् ।
वीर्येणोष्णो लघुश् चैव कफशैत्यापहारकः ॥ रज्नि_16.89
चणस्य यूषं मधुरं कषायं कफापहं वातविकारहेतुः ।
श्वासोर्ध्वकासक्लमपीनसानां करोति नाशं बलदीपनत्वम् ॥ रज्नि_16.90
चणोदकं चन्द्रमरीचिशीतं पीतं प्रगे पित्तरुजापहारि ।
पुष्टिप्रदं नैजगुणं च पाके संतर्पणं मञ्जुलमाधुरीकम् ॥ रज्नि_16.91
मकुष्टको मयष्टश् च वनमुद्गः कृमीलकः ।
अमृतो ऽरण्यमुद्गश् च वल्लीमुद्गश् च कीर्तितः ॥ रज्नि_16.92
मकुष्टकः कषायः स्यान्मधुरो रक्तपित्तजित् ।
ज्वरदाहहरः पथ्यो रुचिकृत्सर्वदोषहृत् ॥ रज्नि_16.93
मसूरो रागदालिस्तु मङ्गल्यः पृथुबीजकः ।
शूरः कल्याणबीजश् च गुरुबीजो मसूरकः ॥ रज्नि_16.94
मसूरो मधुरः शीतः संग्रही कफपित्तजित् ।
वातामयकरश् चैव मूत्रकृच्छ्रहरो लघुः ॥ रज्नि_16.95
कलायो मुण्डचणको हरेणुश् च सतीनकः ।
त्रासनो नालकः कण्ठी सतीनश् च हरेणुकः ॥ रज्नि_16.96
कलायः कुरुते वातं पित्तदाहकफापहः ।
रुचिपुष्टिप्रदः शीतः कषायश्चामदोषकृत् ॥ रज्नि_16.97
लङ्का कराला त्रिपुटा काण्डिका रूक्षणात्मिका ॥ रज्नि_16.98

लङ्का रुच्या हिमा गौल्या पित्तजिद् वातकृद्गुरुः ॥ रज्नि_16.99
आढकी तुवरी वर्या करवीरभुजा तथा ।
वृत्तबीजा पीतपुष्पा श्वेता रक्तासिता त्रिधा ॥ रज्नि_16.100
आढकी तु कषाया च मधुरा कफपित्तजित् ।
ईषद् वातकरा रुच्या विदला गुरुग्राहिका ॥ रज्नि_16.101
सा च श्वेता दोषदात्री तु रक्ता रुच्या बल्या पित्ततापादिहन्त्री ।
सा श्यामा चेद् दीपनी पित्तदाहध्वंसा बल्यं चाढकीयूषम् उक्तम् ॥ रज्नि_16.102
कुलित्थस् ताम्रबीजश् च श्वेतबीजः सितेतरः ॥ रज्नि_16.103
कुलित्थस्तु कषायोष्णो रूक्षो वातकफापहः ॥ रज्नि_16.104
क्षवः क्षुधाभिजननश् चपलो दीर्घशिम्बिकः ।
सुकुमारो वृत्तबीजो मधुरः क्षवकश्च सः ॥ रज्नि_16.105
क्षवः कषायमधुरः शीतलः कफपित्तहृत् ।
वृष्यः श्रमहरो रुच्यः पवनाध्मानकारकः ॥ रज्नि_16.106
मधुरः श्वेतनिष्पावो माध्वीका मधुशर्करा ।
पलंकषा स्थूलशिम्बी वृत्ता मधुसिता सिता ॥ रज्नि_16.107
मधुशर्करा सुरुच्या मधुराल्पकषायका ।
शिशिरा वातुला बल्याप्याध्मानगुरुपुष्टिदा ॥ रज्नि_16.108
सो ऽन्यश्च कटुनिष्पावः खर्वुरो नदीजस्तथा ॥ रज्नि_16.109
नदीनिष्पावकस्तिक्तः कटुकोऽस्रप्रदो गुरुः ।
वातलः कफदो रूक्षः कषायो विषदोषनुत् ॥ रज्नि_16.110
तिलस्तु होमधान्यं स्यात् पवित्रः पितृतर्पणः ।
पापघ्नः पूतधान्यं च जटिलस्तु वनोद्भवः ॥ रज्नि_16.111
स्निग्धो वर्णबलाग्निवृद्धिजननस्तन्यानिलघ्नो गुरुः सोष्णः पित्तकरोऽल्पमूत्रकरणः केश्यो ऽतिपथ्यो व्रणे ।
संग्राही मधुरः कषायसहितस्तिक्तो विपाके कटुः कृष्णः पथ्यतमः सितोऽल्पगुणदः क्षीणास् तथान्ये तिलाः ॥ रज्नि_16.112
पललं तिलकल्कं स्यात्तिलचूर्णं च पिष्टकम् ॥ रज्नि_16.113
पललं मधुरं रुच्यं पित्तास्रबलपुष्टिदम् ॥ रज्नि_16.114
तिलकिट्टं तु पिण्याकः खलः स्यात् तिलकल्कजः ॥ रज्नि_16.115
पिण्याकः कटुको गौल्यः कफवातप्रमेहनुत् ॥ रज्नि_16.116
अतसी पिच्छला देवी मदगन्धा मदोत्कटा ।
उमा क्षुमा हैमवती सुनीला नीलपुष्पिका ॥ रज्नि_16.117
अतसी मदगन्धा स्यान्मधुरा बलकारिका ।
कफवातकरी चेषत् पित्तहृत् कुष्ठवातनुत् ॥ रज्नि_16.118
आसुरी राजिका राजी रक्तिका रक्तसर्षपः ।
तीक्ष्णगन्धा मधुरिका क्षवकः क्षुवकः क्षवः ॥ रज्नि_16.119
आसुरी कटुतिक्तोष्णा वातप्लीहार्तिशूलनुत् ।
दाहपित्तप्रदा हन्ति कफगुल्मकृमिव्रणान् ॥ रज्नि_16.120
राजक्षवकः कृष्णस्तीक्ष्णफला राजराजिका राज्ञी ।
सा कृष्णसर्षपाख्या विज्ञेया राजसर्षपाख्या च ॥ रज्नि_16.121
राजसर्षपकस् तिक्तः कटूष्णो वातशूलनुत् ।
पित्तदाहप्रदो गुल्मकण्डूकुष्ठव्रणापहः ॥ रज्नि_16.122

तीक्ष्णकश्च दुराधर्षो रक्षोघ्नः कुष्ठनाशनः ।
सिद्धप्रयोजनः सिद्धसाधनः सितसर्षपः ॥ रज्नि_16.123
सिद्धार्थः कटुतिक्तोष्णो वातरक्तग्रहापहः ।
त्वग्दोषशमनो रुच्यो विषभूतव्रणापहः ॥ रज्नि_16.124
धान्यानां कञ्चुके शिम्बी बीजगुप्तिश् च शाम्भवी ।
तद्गुप्तानि च धान्यानि शिम्बीधान्यानि चक्षते ॥ रज्नि_16.125
श्यामाकः श्यामकः श्यामस् त्रिबीजः स्यादविप्रियः ।
सुकुमारी राजधान्यं तृणबीजोत्तमश् च सः ॥ रज्नि_16.126
श्यामाको मधुरः स्निग्धः कषायो लघुशीतलः ।
वातकृत् कफपित्तघ्नः संग्राही विषदोषनुत् ॥ रज्नि_16.127
कोद्रवः कोरदूषश् च कुद्दालो मदनाग्रजः ।
स च देशविशेषेण नानाभेदः प्रकीर्तितः ॥ रज्नि_16.128
कोद्रवो मधुरस् तिक्तो व्रणिनां पथ्यकारकः ।
कफपित्तहरो रूक्षो मोहकृद्वातलो गुरुः ॥ रज्नि_16.129
वरकः स्थूलकङ्गुश् च रूक्षः स्थूलप्रियङ्गुकः ॥ रज्नि_16.130
वरको मधुरो रूक्षः कषायो वातपित्तकृत् ॥ रज्नि_16.131
कङ्गुणी कङ्गुनी प्रोक्ता चीनकः पीततण्डुलः ।
वातलः सुकुमारश्च स च नानाविधाभिधः ॥ रज्नि_16.132
प्रियङ्गुर्मधुरो रुच्यः कषायः स्वादुशीतलः ।
वातकृत् पित्तदाहघ्नो रूक्षो भग्नास्थिबन्धकृत् ॥ रज्नि_16.133
नीवारोऽरण्यधान्यं स्यान्मुनिधान्यं तृणोद्भवम् ॥ रज्नि_16.134
नीवारो मधुरः स्निग्धः पवित्रः पथ्यदो लघुः ॥ रज्नि_16.135
रागी तु लाञ्छनः स्याद् बहुदलकणिशश् च गुच्छकणिशश् च ॥ रज्नि_16.136
तिक्तो मधुरकषायः शीतः पित्तास्रनाशनो बलदः ॥ रज्नि_16.137
कुरी तु तृणधान्यं स्यान्मधुरं तद्बलप्रदम् ।
हरितं वार्द्धकं पक्वं वाजिनां पुष्टिदायकम् ॥ रज्नि_16.138
ये के च व्रीहयो भृष्टास्ते लाजा इति कीर्तिताः ॥ रज्नि_16.139
यवादयश्च ये भृष्टा धानास्ते परिकीर्तिताः ॥ रज्नि_16.140
लाजा च यवधाना च तर्पणी पित्तनाशिनी ।
गोधूमयावनालोत्थाः किंचिद् उष्णाश्च दीपनाः ॥ रज्नि_16.141
तप्तैर् अपक्वगोधूमैर् आकुलाः परिकीर्तिताः ।
आकुला गुरवो वृष्या मधुराः बलकारिणः ॥ रज्नि_16.142
व्रीहयो ऽप्यर्धपक्वाश् च तप्तास् ते पृथुकाः स्मृताः ।
पृथुकाः स्वादवः स्निग्धा हृद्या मदनवर्धनाः ॥ रज्नि_16.143
पूपला मधुराः प्रोक्ता वृष्यास्ते बलदाः स्मृताः ।
पित्तहृत्तर्पणा हृद्याः स्निग्धास्ते बलवर्धनाः ॥ रज्नि_16.144
ये चान्ये यावनालाद्याश् चिपिटास् तप्ततण्डुलाः ॥ रज्नि_16.145
शालेययावनालीयचिपिटाः पुष्टिवर्धनाः ॥ रज्नि_16.146
अतप्ततण्डुलास्ते तु दुग्धबीजाः प्रकीर्तिताः ॥ रज्नि_16.147
दुग्धबीजा सुमधुरा दुर्जरा वीर्यपुष्टिदा ॥ रज्नि_16.148

तप्तास्तु मुद्गचणकाः सुमनादिलङ्का सद्यस् तृषार्तिरुचिपित्तकृतश् च जग्धाः ।
वाताल्पदाः सुखकरा ह्य् अबलाश्च रूक्षा हृद्या भवन्ति युवजर्जरबालकानाम् ॥ रज्नि_16.149
मुद्गगोधूमचणका यावनालादयः स्मृताः ।
यद् अर्धपक्वं तद्धान्यं विष्टम्भाध्मानदोषकृत् ॥ रज्नि_16.150
शुष्कगोधूमचूर्णं तु कर्णिका समुदाहृता ॥ रज्नि_16.151
स्फोटस् तु चणकादीनां दाल् इति परिकीर्तिताः ॥ रज्नि_16.152
पक्वं हरितलूनं च धान्यं सर्वगुणावहम् ॥ रज्नि_16.153
शुष्कलूनं तु निःसारं रूक्षं तत्सत्त्वनाशनम् ॥ रज्नि_16.154
कोषधान्यं नवं बल्यं मधुरं वत्सरोषितम् ॥ रज्नि_16.155
नवं धान्यम् अभिष्यन्दि लघु संवत्सरोषितम् ।
द्व्यब्दोषितं लघु पथ्यं त्रिवर्षादबलं भवेत् ॥ रज्नि_16.156
चणास् तु यवगोधूमतिलमाषा नवा हिताः ।
पुराणा विरसा रूक्षास्त्वहिता दुर्जराबलाः ॥ रज्नि_16.157
धान्यं वापितमुत्तमं तदखिलं छिन्नोद्भवं मध्यमं ज्ञेयं यद्यदवापितं तदधमं निःसारदोषप्रदम् ।
दग्धायां भुवि यत्नतोऽपि विपिने ये वापिताः शालयो ये च छिन्नभवा भवन्ति खलु ते विण्मूत्रबन्धप्रदाः ॥ रज्नि_16.158
क्षारोदकसमुत्पन्नं धान्यं श्लेष्मरुजापहम् ॥ रज्नि_16.159
सुस्निग्धमृत्तिकोद्भूतं धान्यम् ओजोबलावहम् ॥ रज्नि_16.160
बलपुष्टिप्रभावघ्नं वालुकामृत्तिकोद्भवम् ॥ रज्नि_16.161
धान्यं श्रेष्ठं षष्टिकं राजभोग्यं मांसं त्व् आजं तैत्तिरं लावकीयम् ।
पानीयं स्यात् कृष्णमृत्स्नासमुत्थं क्षीराज्यादौ गव्यमाजं प्रशस्तम् ॥ रज्नि_16.162
इत्थं प्रसिद्धतरधान्यगुणाभिधानवीर्याभिवर्णनविशृङ्खलवाग्विलासम् ।
आम्नाय वर्गम् इमम् आशु लभेत वैद्यो विद्यां विषण्णजनजीवनदानधन्याम् ॥ रज्नि_16.163
यानि सदा भुज्यन्ते भुञ्जानजनाश्च यानि भुञ्जन्ते ।
तेषां खलु धान्यानां वर्गो ऽयं भोज्यवर्ग इति कथितः ॥ रज्नि_16.164
येनाचारचणेन मुग्धमधुरश्रीशालिना सन्महामानार्हा बहुधान्यसम्पदुचिता संनीयते संततम् ।
तेन श्रीनृहरीश्वरेण रचिते नामोक्तिचूडामणौ वर्गो ऽयं स्थितम् एति नूतनरचनो धान्याह्वयः षोडशः ॥ रज्नि_16.165
राजनिघण्टु, मांसादिवर्ग
मांसं तु पिशितं क्रव्यं पलं तु रस्यमस्रजम् ।
पललं जाङ्गलं कीरम् आमिषं च तद् उच्यते ॥ रज्नि_17.1
सद्योहतस्य मांसं श्रेष्ठं हरिणादिकस्य यूनस् तु ।
ज्ञेयं सुगन्धि पथ्यं जाङ्गलदेशस्थितस्य पथ्यतमम् ॥ रज्नि_17.2
बालस्य वृद्धस्य कृशस्य रोगिणो विषाग्निदग्धस्य मृतस्य चाम्बुषु ।
त्याज्यं मृगादेः पिशितं तु तस्य विगन्धि शुष्कं च चिरस्थितं च ॥ रज्नि_17.3
सर्वं मांसं वातविध्वंसि वृष्यं बल्यं रुच्यं बृंहणं तच्च मांसम् ।
देशस्थानाच्चात्मसंस्थं स्वभावैर्भूयो नानारूपतां याति नूनम् ॥ रज्नि_17.4
तत्रानूपीयमांसं गवयरुरुमृगक्रोडगण्डादिकानां स्निग्धं पथ्यं च बल्यं लघु शशशिखराद्युद्भवं जाङ्गलीयम् ।
पुष्टिं दीप्तिं च दत्ते रुचिकृदथ लघु स्वादु साधारणीयं वृष्यं बल्यं च रुच्यं रुरुहरिणमृगक्रोडसारङ्गकाणाम् ॥ रज्नि_17.5
मांसं सारसहंसरात्रिविरहिक्रौञ्चादिजं शीतलं स्निग्धं वातकफापहं गुरु ततः स्वादु त्रिदोषापहम् ।
पथ्यं लावकतित्तिरादिजनितं वृष्यं लघु स्यात् परं चक्रक्रौञ्चमयूरतित्तिरभवं देशत्रयादीदृशम् ॥ रज्नि_17.6
द्रुतो विलम्बितश् चैव प्लवश् चेति गतैस् त्रयः ।

स्थानतो ऽपि त्रयस् ते तु बिलस्थलजलाश्रयाः ॥ रज्नि_17.7
पुनस्ते तु प्रसहनाः प्रतुदा विष्किरा इति ।
स्वभावतस्त्रयः प्रोक्ताः क्रमशो मृगपक्षिणः ॥ रज्नि_17.8
अथैषां क्रमशो लक्ष्मगुणान् वक्ष्यामि वर्गशः ।
एवं नवविधाः प्रोक्तास् त एव मृगपक्षिणः ॥ रज्नि_17.9
अजशशहरिणादयः स्वयं ये द्रुतगमना द्रुतसंज्ञकाः स्मृतास्ते ।
तदुदितपललं च पथ्यबल्यं रचयति वीर्यमदप्रदं लघु स्यात् ॥ रज्नि_17.10
गजखड्गमुखा महामृगा निजगत्यैव विलम्बिताः स्मृतास्ते ।
बलकृत्पिशितं च पिच्छलं कफकासानिलमान्द्यदं गुरु स्यात् ॥ रज्नि_17.11
सारसहंसबलाकाश् चक्रक्रौञ्चादयो जले प्लवनात् ।
प्लवसंज्ञाः कथितास्ते तन्मांसं गुरूष्णं च बलदायि ॥ रज्नि_17.12
अहिनकुलशल्यगोधामूषकमुख्या बिलेशयाः कथिताः ।
श्वासानिलकासहरं तन्मांसं पित्तदाहकरम् ॥ रज्नि_17.13
क्रोडरुरुकुरङ्गाद्या विविधा ये मृगादयः ।
स्थलेशयास्तु ते सर्वे मांसं सर्वगुणावहम् ॥ रज्नि_17.14
झषमकरनक्रकर्कटकूर्मप्रमुखा जलेशयाः कथिताः ।
मांसं तेषां तु सरं वृष्यं गुरु शिशिरबलसमीरकरम् ॥ रज्नि_17.15
शार्दूलसिंहशरभर्क्षतरक्षुमुख्या ये ऽन्ये प्रसह्य विनिहन्त्यभिवर्तयन्ति ।
ते कीर्तिताः प्रसहनाः पललं तदीयम् अर्शःप्रमेहजठरामयजाड्यहारि ॥ रज्नि_17.16
भोक्ता निष्कृष्यामिषं स प्रतुदः प्रोक्तो गृध्रश्येनकाकादिको यः ।
मांसं तस्य स्वादु संतर्पणं च स्निग्धं बल्यं पित्तदाहास्रदायि ॥ रज्नि_17.17
भक्ष्याश्च कुक्कुटकपोतकतित्तिराद्याः क्षौणीं विलिख्य नखरैः खलु वर्तयन्ति ।
ते विष्किराः प्रकथिताः पिशितं तदीयं वृष्यं कषायमधुरं शिशिरं च रुच्यम् ॥ रज्नि_17.18
अयमेव गुणो ज्ञेयः पक्षिणां च यथाक्रमम् ।
सर्वस्थानविशेषेण संख्या च गतिर् उच्यते ॥ रज्नि_17.19
यत्र स्थिता ये गतितो ऽपि देशादन्यत्र याता मृगपक्षिमुख्याः ।
स्वस्वोचितस्थाननिवर्तनेन मांसे ऽपि तेषां गुणपर्ययाः स्युः ॥ रज्नि_17.20
मांसं खड्गमृगोत्थं तु बलकृद् बृंहणं गुरु ॥ रज्नि_17.21
गवयस्यामिषं बल्यं रुच्यं वृष्यं च बृंहणम् ॥ रज्नि_17.22
रुरुक्रव्यं गुरु स्निग्धं मन्दवह्निबलप्रदम् ॥ रज्नि_17.23
अपूतं गोभवं क्रव्यं गुरु वातकफप्रदम् ॥ रज्नि_17.24
वनमहिषामिषं स्याद् ईषल्लघु दीपनं च बलदायि ॥ रज्नि_17.25
ग्रामीणमहिषमांसं स्निग्धं निद्राकरं च पित्तहरम् ॥ रज्नि_17.26
हस्तिक्रव्यं गुरु स्निग्धं वातलं श्लेष्मकारकम् ।
बहुपुष्टिप्रदं चैव दुर्जरं मन्दवह्निदम् ॥ रज्नि_17.27
अश्वमांसं भवेद् उष्णं वातघ्नं बलदं लघु ।
पित्तदाहप्रदं नृणां तद् एतच्चातिसेवनात् ॥ रज्नि_17.28
उष्ट्रमांसं तु शिशिरं त्रिदोषशमनं लघु ।
बलपुष्टिप्रदं रुच्यं मधुरं वीर्यवर्धनम् ॥ रज्नि_17.29
गर्दभप्रभवं मांसं किंचिद् गुरु बलप्रदम् ।

मूल पाठ: Rājanighaṇṭu [also called Nighaṇṭurāja, or Abhidhānacūḍāmaṇi] · Edition: Calcutta 1933 : Siddheshvarayantra · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc