भाषा

ENहिગુ
ग्रंथ पाठ

रघुवंश · अध्याय 9

9.1

पितुर् अनन्तरम् उत्तर्कोसल् आन् समधिगम्य समाधिजितेन्द्रियः
दशरथः प्रशशास महारथो यमवताम् अवतां च धुरि स्थितः ॥

9.2

अधिगतं विधिवद् यद् अपालयत् प्रकृतिमण्डलम् आत्मकुलोचितम्
अभवद् अस्य ततो गुण वत्तरं सनगरं नगरन्ध्रकरौजसः ॥

9.3

उभयम् एव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणाम्
वलनिषूदनम् अर्थ्पतिं च तं श्रमनुदं मनुदण्डहरान्वयम् ॥

9.4

जनपदे न गदः पदम् आदधाव् अभिभवः कुत एव सपत्नजः
क्षितिर् अभूत् फलवत्य् अजनन्दने शमरते ऽमरतेजसि पार्थिवे ॥

9.5

दशदिगन्तजिता रघुणा यथा श्रियम् अपुष्यद् अजेन ततः परम्
तम् अधिगम्य तथैव पुनर् बभौ न न मही ऽनम् अहीनपराक्रमम् ॥

9.6

समतया वसुवृटिविसर्जनैर् नियमनाद् असतां च नराधिपः
अनुययौ यमपुण्यजनेश्वरौ सवरुणाव् अरुणाग्रसरं रुचा ॥

9.7

न मृगयाभिरतिर् न दुरोदरं न च शशिप्रतिमाभरणं मधु
तम् उदयाय न वा नवयौवन् आ प्रियतम् आ यतमानम् अपाहर् आ ॥

9.8

न कृपणा प्रभवत्य् अपि वासवे न वितथा परिहासकथास्व् अपि
न च सपत्नजन् एष्व् अपि तेन वाग् अपरुषा परुषाक्षरम् ईरिता ॥

9.9

उदयम् अस्तमयं च रघूद्वहाद् उभयम् आनशिरे वसुधाधिपाः
स हि निदेशम् अलङ्घयताम् अभूत् सुहृद् अयोहृदयः प्रतिगर्जताम् ॥

9.10

अजयद् एकरथेन स मेदिनीम् उदधिनेमिम् अधिज्यशरासनः
जयम् अघोषयद् अस्य तु केवलं गजवती जवतीरहया चमूः ॥

9.10*

जघननिर्विषयीकृतमेखलान् अनुचिताश्रुविलुप्तविशेषकान्
स रिपुदारगणान् अकरोद् बलाद् अनलकान् अलकाधिपविक्रमः ॥

9.11

अवनिम् एकरथेन वरूथिना जितवतः किल तस्य धनुर्भृतः
विजयदुन्दुभितां ययुर् अर्णवा घनरवा नरवाहनसंपदः ॥

9.12

शमितपक्षबलः शित कोटिना शिखरिणां कुलिशेन पुरंदरः
स सारवृष्टिमुचा धनुषा द्विषां स्वनवता नवतामरसाननः ॥

9.12*

स्फुरितकोटिसहस्रमरीचिना समचिनोत् कुलिशेन हरिर् यशः
स धनुषा युधि सायकवर्षिणा स्वनवता नवतामरसाननः ॥

9.13

चरणयोर् नखरागसमृद्धिभिर् मुकुटरत्नमरीचिभिर् अस्पृशन्
स धनुषा युधि सायकवर्षिणा शतमखं तम् अखण्डितपौरुषम् ॥

9.14

निववृते स महार्णवरोधसः सचिवकारितबालसुताञ्जलीन्
समनुकम्प्य सपत्नपरिग्रहान् अनलकान् अलक् आनवमां पुरीम् ॥

9.15

उपगतो ऽपि च मण्डलनाभिताम् अनुदितान्यसितातप वारणः
अजितम् अस्ति नृपास्पदम् इत्य् अभूद् अनलसो ऽनलसोमसमद्युतिः ॥

9.16

क्रतुषु तेन विसर्जितमौलिना भुजसमाहृतदिग्वसुना कृताः
कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसारस्यूतटाः ॥

9.17

अजिनदण्डभृतं कुशमेखलां यत गिरं मृगशृङ्गपरिग्रहाम्
अधिवसंस् तनुम् अध्वरदीक्षिताम् असम्भासम् अभासयद् ईश्वरः ॥

9.18

अवभृतप्रयतो नियत् एन्द्रियः सुरसमाजसमाक्रमणोचितः
नमयति स्म स केवलम् उन्नतं वनमुचे नमुचेर् अरये शिरः ॥

9.19

तम् अपहाय ककुत्स्थकुल् ओद्भवं पुरुषम् आत्म भुवं च पतिव्रता
नृपतिम् अन्यम् असेवत देवता सकमला कम् अलाघवम् अर्थिषु ॥

9.20

स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महा रथः
स्वभुजवीर्यम् अगापयद् उच्छ्रितं सुरवधूर् अवधूतभयाः शरैः ॥

9.21

असकृद् एकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता
दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषाम् ॥

9.22

तम् अलभन्त पतिं पतिदेवताः शिखरिणां इव सागरम् आपगाः
मगध कोसलकेकयशसिनां दुहितरो ऽहितरोपितमार्गणम् ॥

9.23

प्रियतमाभिर् असौ तिऋभिर् बभौ तिसृभिर् एव भुवं सह शक्तिभिः
उपगतो विनिनीषुर् इव प्रजा हरिहयो ऽरिहयोगविचक्षणः ॥

9.24

अथ समाववृते कुसुमैर् नवैस् तम् इव सेवितुम् एकनराधिपम्
यमकुबेर्जलेश्वरवज्रिणां समधुरं मधुर् अञ्चितविक्रमम् ॥

9.25

जिगमिषुर् धनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः
दिनमुखानि रविर् हिम निर्ग्रहैर् विमलयन् मलयं नगम् अत्यजत् ॥

9.25*

हिमविवर्णितचन्दनपल्लवं विरहयन् मलयाद्रिम् उदङ्मुखः
विहगयोः कृपयेव शनैर् ययौ रविर् अहर्विरहध्रुवभेदयोः ॥

9.26

कुसुमजन्म ततो नवपल्लवास् तदन् उ षट्पदकोकिलकूजितम्
इति यथाक्रमम् आविरभून् मधुर् द्रुमवतीम् अवतीर्य वनस्थलीम् ॥

9.26*

सुरभिसंगमजं वनमालया नवपलाशम् अधार्यत भङ्गुरम्
रमणदत्तम् इवार्द्रनखक्षतं प्रमदया मदयापितलज्जया ॥

9.27

उपहितं शिशिरापगमश्रिया मुकुल जालम् अशोभत किंशुके
प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया ॥

9.27*

परभृता मदनक्षतचेतसां प्रियसखी लघुवाग् इव योषिताम्
प्रियतमान् अकरोत् कलहान्तरे मृदुरवा दुरवापसमागमान् ॥

9.28

व्रणगुरुप्रमदाधरदुःसहं जघननिर्विषयीकृतमेखलम्
न खलु तावद् अशेषम् अपोहितुं रविर् अलं विरलं कृतवान् हिमम् ॥

9.28*

विशदचन्द्रकरं सुखमारुतं कुसुमितद्रुमम् उन्मदकोकिलम्
तद् उपभोगरसं हिमवर्षिणः परम् ऋतोर् विरलं कृतवान् हिमम् ॥

9.29

अभिनयान् परिचेतुम् इवोद्यता मलयमारुतकम्पितपल्लवा
अमदयत् सहकारलता मनः सकलिका कलिकामजिताम् अपि ॥

9.30

नयगुणोपचिताम् इव भूपतेः सदुपकारफलां श्रियम् अर्थिनः
अभिययुः सरसो मधुसंभृतां कमलिनीम् अलिनीरपत्रिणः ॥

9.30*

दशनचन्द्रिकया व्यभासितं हसितम् आसवगन्धि मधोर् इव
बकुलपुष्पम् असेव्यत षट्पदैः शुचिरसं चिरसंचितम् ईप्सुभिः ॥

9.31

कुसुमम् एव न केवलम् आर्तवं नवम् अशोकतरोः स्मरदीपनम्
किसलयप्रसवो ऽपि विलासिनां मदयिता दयिताश्रवणार्पितः ॥

9.32

विरचिता मधुनोपवन्श्रियाम् अभिनवा इव पत्त्रविशेषकाः
मधुलिहां मधुदानविशारदाः कुरबका रवकारणतां ययुः ॥

9.33

सुवदनावदनासवसंभृतस् तदनुवादिगुणः कुसुमोद्गमः
मधुकरैर् अकरोन् मधुलोलुपैर् बकुलम् आकुलम् आयतपङ्क्तिभिः ॥

9.33*

सुवदनावदनासवसंभृतस् तदनुवादिगुणः कुसुमोद्गमः
इति दयात इवाभवद् आयता न रजनी रजनीशवती मधौ ॥

9.34

प्रथमम् अन्यभृताभिर् उदीरिताः प्रविरला इव मुग्धवधूकथाः
सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता वनराजिषु ॥

9.35

श्रुतिसुखभ्रमरस्वनगीतयः कुसुम कोमल दन्तरुचो बभुः
उपवनान्तलताः पवनाहतैः किसलयैः सलयैर् इव पाणिभिः ॥

9.36

ललितविभ्रमबन्ध विचक्षणं सुरभिगन्धपराजितकेसरम्
पतिषु निर्विविशुर् मधुम् अङ्गनाः स्मरसखं रसखण्डनवर्जितम् ॥

9.36*

तिलकमस्तकहर्म्यकृतास्पदैः कुसुममध्वनुषङ्गसुगन्धिभिः
कलम् अगीयत भृङ्गविलासिनां स्मरयुतैर् अयुतैर् अबलासखैः ॥

9.37

शुशुभिरे स्मितचारु तराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः
विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहंगमाः ॥

9.37*

लघयति स्म न पत्यपराधजं न सहकारतरुस् तरुणीधृतम्
कुसुमितो नमितो ऽलिभिर् उन्मदैः स्मरसमाधिसमाधिकरोषितम् ॥

9.38

उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः
सदृशम् इष्टसमागमनिर्वृतिं वनितया ऽनितया रजनीवधूः ॥

9.39

अपतुषारतया विशदप्रभैः सुरत राग परिश्रमनोदिभिः
कुसुमचापम् अतेजयद् अंशुभिर् हिमकरो मकरोजितकेतनम् ॥

9.40

हुतहुताशनदीप्ति वन्श्रियः प्रतिनिधिः कनकाभरणस्य यत्
युवतयः कुसुमं दधुर् आहितं तद् (?) अलके दलकेसरपेशलम् ॥

9.41

अलिभिर् अञ्जनबिन्दुमओहरैः कुसुमपङ्क्तिनिपातिभिर् अङ्कितः
न खलु शोबहयित् स्म वनस्थलीं न तिलकस् तिलकः प्रमदाम् इव ॥

9.42

अमदयन् मद्घुगन्धसनाथया किसलयाधर संगतया मनः
कुसुम संभ्ट्तया नवमल्लिका स्मितरुचा तरुचारुविलासिन् ई ॥

9.42*

अनलसान्यभृता ऽनलसान् मनः कमलधूलिभृता मरुतेरिता
कुसुमभारनताध्वगयोषिताम् असमशोकम् अशोकलता ऽकरोत् ॥

9.43

अरुणराग निषेधिभिर् अंशुकैः श्रवणलब्धपदैश् च यवाङ्कुरैः
परभृताविरुतैश् च विलासिनः स्मरबलैर् अबलैकरसाः कृताः ॥

9.44

उपचितावयवा शुचिभिः कणैर् अलिकदम्बकयोगम् उपेयुषी
सदृशकान्तिर् अलक्ष्यत मञ्जरी तिलकजा ऽलकजालकमौक्तिकैः ॥

9.45

ध्वजपटं मदनस्य धनुर्भृतश् छविकरं मुखचूर्णम् ऋतुश्रियः
कुसुमकेसररेणुम् अलिव्रजाः सपवनोपवनोत्थितम् अन्वयुः ॥

9.46

अनुभवन् नवदोल् अम् ऋतूत्सवं पटुर् पै प्रियकण्ठजिगृक्षया
अनयद् आसनरज्जुपरिग्रहे भुजलतां ज ड् अताम् अबलाजनः ॥

9.47

त्यजत मानम् अलं बत बिग्रहैर् न पुनर् एति गतं चतुरं वयः
परभृताभिर् इतीव निवेदिते स्मरमते रमते स्म वधूजनः ॥

9.48

अथ यथासुखम् आर्तवम् उत्सवं समनुभूय विलासवतीसखः
नरपतिश् चकमे मृगयारतिं स मधुमन्मधुमन्मथसंनिभः ॥

9.49

परिचयं चलक्ष्यनिपातने भयरुषोश् च तद् इङ्गित बोधनम्
श्रमजयात् प्रगुणां च करोत् य् असौ तनुम् अतो ऽनुमतः सचिवैर् ययौ ॥

9.50

मृगवनोपगमक्षमवेषभृद् विपुलकण्ठनिषक्तशरासनः
गगनम् अश्वखुर् ओद्धुत रेणुभिर् नृसविता सवितानम् इवाकरोत् ॥

9.51

ग्रथितमौलिर् असौ वनमालया तरु पलाशसवर्णतनुच्छदः
तुरगवल्गनचण्चलकुण्डलो विरुरुचे रुरुचेष्टितभूमिषु ॥

9.52

तनु लताविनिवेशितविग्रहा भ्रमरसंक्रमितेक्षणवृत्तयः
ददृषुर् अध्वनि तं वनदेवताः सुनयनं नयनन्दितकोसलम् ॥

9.53

श्व गण् वागुरिकैः प्रथम् आस्थितं व्यपगतानलदस्यु विवेश सः
स्थिरतुरंगमभूमि निपानवन् मृगवयोगवयोपचितं वनम् ॥

9.54

अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडिद्गुण संयुतम्
धनुर् रधिज्यम् अनाधिर् उपाददे नरवरो रवरोषितकेसरी ॥

9.55

तस्य स्तनप्रणयिभिर् मुहुर् एणशावैर् व्याहन्यमानहरिणीगमनं पुरस्तात्
आविर्बभूव कुशगर्भमुखं मृगाणां यूथं तदग्रसरगर्वितकृष्नसारम् ॥

9.56

तत् प्रार्थितं जवन्वाजिगतेन राज्ञा तूणीमुखोद्धृतशरेण विशीर्णपङ्क्ति
श्यामीचकार वनम् आकुलदृश्टिपातैर् वत् एरितोत्पलदलप्रकरैर् इव् आम्भः ॥

9.57

लक्ष्यी कृतस्य हरिणस्य हरिप्रभावः प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम्
आकर्णकृष्टम् अपि कामितया स धन्वी बाणं कृपामृधुमनाः प्रतिसंजहार ॥

9.58

तस्यापरेष्व् अपि मृगेषु शरान् मुमुक्षोः कर्णान्तम् एत्य बिभिदे निबिडो ऽपि मुष्टिः
त्रासातिमात्रचटुलैः स्मरयत्सु नेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि ॥

9.59

उत्तस्थुषः शिशिर पल्वलपङ्कमध्यान् मुस्ता प्ररोहकवलावयवानुकीर्णम्
जग्राह स द्रुतवराहकुलस्य मार्गं सुव्यक्तम् आर्द्रपदपङ्क्तिभिर् आयताभिः ॥

9.60

तं वाहनाद् अवनतोत्तरकायम् ईषद् विध्यन्तम् उद्धत सटाः प्रतिहन्तुम् ईषुः
नात्मानम् अस्य विविदुः सहसा वराहा वृकेषु विद्धम् इषुभिर् जघन् आश्रयेषु ॥

9.61

तेनाभिघातरभसस्य विकृष्य पत्त्री वन्यस्य नेत्रविवरे महिषस्य मुक्तः
निर्भिद्य विग्रहम् अशोणितलिप्त पुङ्खस् तं पातयां प्रथमम् आस पपात पश्चात् ॥

9.62

प्रायो विषाण परिमोष लघूत्तमाङ्गान् खड्गांश् चकार नृपतिर् निशितैः क्षुरप्रैः
शृण्गं स दृप्तविनयाधिकृतः परेषाम् अभ्य् उच्छ्रितं न ममृषे न तु दीर्घम् आयुः ॥

9.63

व्याघ्रान् अभीर् अभिमुखोपतितान् गुहाभ्यः फुल्लासनाग्रविटपान् इव वायुरुग्णान्
शिक्षाविशेषलघुहस्ततया निमेषात् तूणीचकार शरपूरितवक्त्ररन्ध्रान् ॥

9.64

निर्घातोग्रैः कुञ्जलीनाञ् जिघांसुर् ज्यानिर्घोषैः क्षोभयाम् आस सिंहान्
नूनं तेषाम् अभ्यसूयापरो ऽभूद् वीर्योदग्रे राजशब्दे मृग् एषु ॥

9.65

तान् हत्वा गजकुलबद्धतीव्रवैरान् काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान्
आत्मानं रणकृतकर्मणां गजानाम् आनृण्यं गतम् इव मार्गणैर् अमंस्त ॥

9.65

तान् हत्वा गजकुलबद्धतीव्रवैरान् काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान्
आत्मानं रणकृतकर्मणां गजानाम् आनृण्यं गतम् इव मार्गणैर् अमंस्त ॥

9.66

चमरान् परितः प्र वर्तिताश्वः क्वचिद् आकर्ण वि कृष्टभल्लवर्षी
नृपतीन् इव तान् वियोज्य सद्यः सितवालव्यजनैर् जगाम शान्तिम् ॥

9.67

अपि तुरगसमीपाद् उत्पतन्तं मयूरं न स रुचिरकलापं बाण लक्ष्यी चकार
सपदि गतमनस्कश् चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ॥

9.68

तस्य कर्कशविहार्संभवं स्वेदम् आननविलग्नजालकम्
आचचाम सतुषार शीकरो भिन्नपल्लवपुटो वनानिलः ॥

9.69

इति विस्मृतान्यकरणीयम् आत्मनः सचिवावलम्बितधुरं नर् आधिपम्
परिवृद्धरागम् अनुभन्ध सेवया मृगया जहार चतुरेव कामिनी ॥

9.70

स ललित कुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथाम्
नरपतिर् अतिवाहयां बभूव क्वचिद् असमेतपरिच्छदस् त्रियामाम् ॥

9.71

उषसि स गजयूथकर्णतालैः पटुपटधवनिभिर् विनीत निद्रः
अरमत मधुर् आणि तत्र शृण्वन् विहगविकूजितबन्दिमङ्गलानि ॥

9.72

अथ जातु रुरोर् गृहीतवर्त्मा विपिने पार्श्वचरैर् अलक्ष्यमाणः
श्रमफेनमुचा तपस्विगाढां तमसां प्राप नदीं तुरंगमेण ॥

9.73

कुम्भपूरणभवः पटुर् उच्चैर् उच्चचार नन्दो ऽम्भसि तस्याः
तत्र स द्विरदबृंहितशङ्की शब्दपातिनम् इषुं विससर्ज ॥

9.74

नृपतेः प्रतिषिद्धम् एव तत् कृतवान् पङ्क्तिरथो विलङ्घ्य यत्
अपथे पदम् अर्पयन्ति हि श्रुतवन्तो ऽपि रजोनिमीलिताः ॥

9.75

हा तातेति क्रन्दितम् आकर्ण्य विषण्णस् तस्यान्विष्यन् वेतसगूढ् अं प्रभवं सः
शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्रं तापाद् अन्तःशल्य इवासीत् क्शितिपो ऽपि ॥

9.76

तेनावतीर्य तुरगात् प्रथितान्ग्वयेन पृष्टान्वयः स जलकुम्भनिषण्णदेहः
तस्मै द्विजेतरतपस्विसुत् अं स्खलद्भिर् आत्मानम् अक्षरपदैः कथयां बभूव ॥

9.77

त च्चोदितः च तम् अनुद्ध्रृतशल्यम् एव पित्रोः सकाशम् अवसन्नदृशोर् निनाय
ताभ्यां तथागतम् उपेत्य तम् एकपुत्रम् अज्ञानतः स्वचरितं नृपतिः शशंस ॥

9.78

तौ दंपती बहु विलप्य शिशोः प्रहर्त्रा शल्यं निखातम् उदहारयताम् उरस्तः
सो ऽभूत् परासुर् अथ भूमिपतिं शशाप हस्तार्पितैर् नयन्वारिभिर् एव वृद्धः ॥

9.79

दिष्ट् आन्तम् आप्स्यति भवान् अपि पुत्रशोकाद् अन्ते वयस्य् अहम् इवेति तम् उक्तवन्तम्
आक्रान्तपूर्वम् इव मुक्तविषं भुजंगं प्रोवाच कोसलपतिः प्रथम् आपराद्धः ॥

9.80

शापो ऽप्य् अदृष्टतनयाननपद्मशोभे सानुग्रहो भगवता मयि पातितो ऽयम्
कृष्यां दहन्न् अपि खलु क्षितिम् इन्धनेद्धो बीजप्ररोहजननीं ज्वलनः करोति ॥

9.81

इत्थं गते गतघृणः किम् अयं विधत्तां वध्यस् तवेत्य् अभितित् ए वसुधाधिपेन
एधान् हुताशनवतः स मुनिर् ययाचे पुत्रं परासुम् अनुगन्तुमनाः सदारः ॥

9.82

प्रातानुगः सपदि शासनम् अस्य राजा संपाद्य पातकविलुप्तधृतिर् निवृत्तः
अन्तर्निविष्टपदम् आत्मविनाशहेतुं शापं दधज् ज्वलनम् और्वम् इवाम्बुराशिः ॥

9.82a

तदर्थम् अर्थज्ञगते गतत्रपः किम् एष ते वध्यजनो ऽनुसिष्ठतु
स वह्निसंस्कारम् अयाचतात्मनः सदारसूनोर् विदधे च तन् नृपः ॥

9.82b

समेयिवान् रघुवृषभः स्वसैनिकैः स्वमन्दिरं शिथिलधृतिर् निवर्तितः
मनोगतं गुरुं ऋषिशापम् उद्वहन् क्षयानलं जलधिर् इवान्तकास्पदम् ॥

मूल पाठ: Raghuvaṃśa · Edition: A. Scharpé: Kalidasa Lexicon, Vol. 1, Brugge 1964 (Rijksuniversiteit te Gent, Werken uitgegeven door de Faculteit van de Letteren en Wijsbegeerte, 134) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc