भाषा

ENहिગુ
ग्रंथ पाठ

रघुवंश · अध्याय 10

10.1

पृथिवीं शासतस् तस्य पाकशासनतेजसः
किंचिदूनम् अनूनर्द्धेः शरदाम् अयुतं ययौ ॥

10.2

न चोपलेभे पूर्वेषाम् ऋणनिर्मोक्षसाधनम्
सुताभिधानं स ज्योतिः शरदाम् अयुतं ययौ ॥

10.2*

मनोर् वंशश् चिरं तस्मिन्न् अनभिव्यक्तसंततिः
निमज्ज्य पुनर् उत्थास्यन् नदः शोण इवाभवत् ॥

10.3

अतिष्ठत् प्रत्ययापेक्ष -संततिः स चिरं नृपः
प्राङ् मन्थाद् अनभिव्यक्त -रत्नोत्पत्तिर् इवार्णवः ॥

10.4

ऋष्यशृङ्गादयस् तस्य सन्तः संतानकाङ्क्षिणः
आरेभिरे जित् आत्मानः पुत्रीयाम् इष्टिम् ऋत्विजः ॥

10.5

तस्मिन्न् अवसरे देवाः पौलस्त्योपप्लुता हरिम्
अभिजग्मुर् निदाघार्ताश् छायावृक्षम् इवाध्वगाः ॥

10.6

ते च प्रापुर् उदन्वतं बुबुधे चादिपूरुषः
अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर् हि लक्षणम् ॥

10.7

भोगिभोगादनासीनं ददृशुस् तं दिवौकसः
तत्फणामण्डलोदर्चिर् -मणिद्योतितविग्रहम् ॥

10.8

श्रियः पद्मनिषण्णायाः क्षौमान्तरितमेखले
अङ्के निक्षिप्तचरणम् आस्तीर्णकरपल्लवे ॥

10.9

प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम्
दिवसं शारदम् इव प्रारम्भसुखदर्शनम् ॥

10.10

प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम्
कौत्सुभाख्यम् अपां सारं बिभ्राणं बृहतोरसा ॥

10.11

बाहुभिर् विटपाकारैर् दिव्याभरणभूषितैः
आविर्भूतम् अपां मध्य् ए पारिजातम् इवापरम् ॥

10.12

दैत्यस्त्री गण्ड लेखानां मद् अराग विलोपिभिः
हेतिभिश् चेतनावद्भिर् उदीरितजयस्वनम् ॥

10.13

मुक्तशेषविरोधेन कुलिशव्रणलक्ष्मणा
उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता ॥

10.14

योगनिद्रान्तविशदैः पावनैर् अवलोकनैः
भृग्वादीन् अनुगृह्णन्तं सौख शायनिकान् ऋषीन् ॥

10.15

प्रणिपत्य सुरास् तस्मै शमयित्रे सुरद्विषाम्
अथैनं तुष्टुवुः स्तुत्यम् अवाङ्मनसगोचरम् ॥

10.16

नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते
अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधास्थितात्मने ॥

10.17

रसान्तराण्य् एकरसं यथा दिव्यं पयो ऽश्नुते
देशे देशे गुणेष्व् एवम् अवस्थास् त्वम् अविक्रियः ॥

10.18

अमेयो मितलोकस् त्वम् अनर्थी प्रार्थनावहः
अजितो जिष्णुर् अत्यन्तम् अव्यक्तो व्यक्तकारणम् ॥

10.19

एकः कारणतस् तां ताम् अवस्थां प्रतिपद्यसे
नानात्वं रागसंयोगात् स्फ् अ टिकस्य्ऽएव ते स्मृतम् ॥

10.20

हृदयस्थम् अनासन्नम् अकामं त्वां तपस्विनम्
दयालुम् अनघ स्पृष्टं पुराणम् अजरं विदुः ॥

10.21

सर्वज्ञस् त्वम् अविज्ञातः सर्वयोनिस् त्वम् आत्मभूः
सर्वप्रभुर् अनीशस् त्वम् एकस् त्वं सर्वरूपभाक् ॥

10.22

सप्तसामोपगीतं त्वां सप्तार्णवजलेशयम्
सप्तार्चिर्मुखम् आ चख्युः सप्तलोकैकसंश्रयम् ॥

10.23

चतुर्वर्गफलं ज्ञानं कालावस्थ् आ चतुर्युग् आ
चतुर्वर्णमयो लोकस् त्वत्तः सर्वं चतुर्मुखात् ॥

10.24

अभ्यासनिगृहीतेन मनसा हृदयाश्रयम्
ज्योतिर्मयं विचिन्वन्ति योगिनस् त्वां विमुक्तये ॥

10.25

अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः
स्वपतो जागरूकस्य याथ् आत्म्यं वेद कस् तव ॥

10.26

शब्दादीन् विषयान् भोक्तुं चरितुं दुश्चरं तपः
पर्याप्तो ऽसि प्रजाः पातुम् औदासीन्येन वर्तितुम् ॥

10.27

बहुधाप्य् आगमैर् भिन्नाः पन्थानः सिद्धिहेतवः
त्वय्य् एव निपतन्त्य् ओघा जाह्नवीया इवार्णवे ॥

10.28

त्वय्य् आवेशितचित्तानां त्वत्समर्पितकर्मणाम्
गतिस् त्वं वीतरागाणाम् अभूयःसंनिवृत्तये ॥

10.29

प्रत्यक्षो ऽप्य् अपरिच्छेद्यो मह्यादिर् महिमा तव
आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा ॥

10.30

केवलं स्मरणेन् ऐव पुनासि पुरुषं यतः
अनेन वृत्तयः शेषा निवेदितफलास् त्वयि ॥

10.31

उदधेर् इव रत्नानि तेजांसीव विवस्वतः
स्तुतिभ्यो व्यतिरिच्यन्ते दूर् एण चरितानि ते ॥

10.32

अनवाप्तम् अवाप्तव्यं न ते किं चन विद्यते
लोकानुग्रह एवैको हेतुस् ते जन्मकरमणोः ॥

10.33

महिमानं यद् उत्कीर्त्य तव संह्रियते वचः
श्रमेण तद् अशक्त्या वा न गुणानाम् इयत्तया ॥

10.34

इति प्रसादयाम् आसुस् तव संह्रियते वचः
भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः ॥

10.35

तस्मै कुशलसंप्रश्न -व्यञ्जितप्रीतये सुराः
भयम् अप्रलयोद्वेलाद् आ चख्युर् नैरृतोदधेः ॥

10.36

अथ वेलासमासन्न -शैलरन्ध्रानु नादिना
स्वरेणोवाच भगवान् परिभूतार्णवध्वनिः ॥

10.37

पुराणस्य कवेस् तस्य वर्णस्थानसमीरिता
बभूव कृत संस्कारा चरितार्थैव भारती ॥

10.38

बभौ स दशनज्योत्स्ना सा विभोर् वदनोद्गता
निर्यातशेषा चरणाद् गङ्गेवोर्ध्वप्रवर्त् इनी ॥

10.39

जाने वो रक्षसाक्रान्ताव् अनुभावपराक्रमौ
अङ्गिनां तमसेवोभौ गुणौ प्रथ्ममध्यमौ ॥

10.40

विदितं तप्यमानं च तेन मे भुवन्त्रयम्
अकामोपनतेनेव साधोर् हृदयम् एनसा ॥

10.41

कार्येषु चैककार्यत्वाद् अभ्यर्थ्यो ऽस्मि न वज्रिणा
स्वयम् एव हि वातो ऽग्नेः सारथ्यं प्रतिपद्यते ॥

10.42

स्वासिधारापरिहृतः कामं चक्रस्य तेन मे
स्थापितो दशमो मूर्धा लव्य् आंश इव रक्षसा ॥

10.43

स्रष्टुर् वरातिसर्गात् तु मया तस्य दुरात्मनः
अत्यारूढं रिपोः सोढं चन्दनेव भोगिनः ॥

10.44

धातारं तपसा प्रीतं ययाचे स हि राक्षसः
दैवात् सर्गाद् अवध्यत्वं मर्त्येष्व् आस्थापराङ्मुखः ॥

10.45

सो ऽहं दाशरथिर् भूत्वा रणभूमेर् बलिक्षमम्
करिष्यामि शरैस् तीक्ष्णैस् तच्छिरःकमलोच्चयम् ॥

10.46

अचिराद् वज्वभिर् भागं कल्पितं विधिवत् पुनः
मायाविभिर् अनालीढम् आदास्यध्वे मिशाचरैः ॥

10.47

वैमानिकाः पुण्यकृतस् त्यजन्तु मरुतां पथि
पुष्पकालोकसंक्षोभं मेघावरणतत्पराः ॥

10.48

मोष्यध्वे स्वर्ग बन्दीनां वेणीबन्धान् अदूषितान्
शापयन्त्रितपौलस्त्य -बलात्कारकचग्रहैः ॥

10.49

रावणावग्रहक्लान्तम् इति वागमृतेन सः
अभिवृष्य मरुत्सस्यं कृष्णमेघस् तिरोदधे ॥

10.50

पुरुहूतप्रभृतयः सुरकार्योद्यतं सुराः
अंशैर् अनुययुर् विष्णुं पुष्पैर् वायुम् इव द्रुमाः ॥

10.51

अथ तस्य विशांपत्युर् अन्ते काम्यस्य कर्मणः
पुरुषः प्रबभूवाग्नेर् विस्मयेन सहर्त्विजाम् ॥

10.52

हेमपात्र् अगतं दोर्भ्याम् आदधानः पयश्चरुम्
अनुप्रवेशाद् आद्यस्य पुंसस् तेनापि दुर्वहम् ॥

10.53

प्राजापत्योपनीतं तद् (?) अन्नं प्रत्यग्रहीन् नृपः
वृषेव पयसां सारम् आविष्कृतम् उदन्वता ॥

10.54

अनेन कथिता राज्ञो गुणास् तस्यान्यदुर्लभाः
प्रसूतिं चकमे तस्मिंस् त्रैलोक्यप्रभवो ऽपि यत् ॥

10.55

स तेजो वैश्नवं पत्न्योर् विभेजे चरुसंज्ञितम्
द्यावापृथिव्योः प्रत्यग्रम् अहर्पतिर् इवातपम् ॥

10.56

अर्चिता तस्य कौसल्या प्रिया केकयवंशजा
अतः संभावितां ताभ्यां सुमित्राम् ऐच्छद् ईश्वरः ॥

10.57

ते बहुज्ञस्य चित्तज्ञे पत्न्यौ पत्युर् महीषित् अः
चरोर् अर्धार्धभागाभ्यां ताम् अयोजयताम् उभे ॥

10.58

सा पि प्रणयवत्य् आसीत् सपत्न्योर् उभयोर् अपि
भ्रमरी वारणस्येव मदनिस्यन्द लेखयोः ॥

10.59

ताभिर् गर्भः प्रजाभूत्यै दध्रे देवांशसम्भवः
सौरीभिर् इव नाडीभिर् अमृताख्याभिर् अम्मयः ॥

10.60

समम् आपन्नसत्त्वास् ता रेजुर् आपाण्डुरत्विषः
अन्तर्गतफलारम्भाः सस्यानाम् इव संपदः ॥

10.61

गुप्तं ददृशुर् आत्मानं सर्वाः स्वप्नेषु वामनैः
जलजासिगदाशार्ङ्ग -चक्रलाञ्छितमूर्तिभिः ॥

10.62

हेम पक्ष प्रभाजालं गगने च वितन्वता
उह्यन्ते स्म सुपर्णेन वेगाकृष्टपयोमुचा ॥

10.63

बिभ्रत्या कौस्तुभ् अं न्यासं स्तनान्तरविलम्ब् इनम्
पर्युपास्यन्त लक्ष्म्या च पद्मव्यजनहस्तया ॥

10.64

कृताभिषेकैर् दिव्यायां त्रिस्रोतसि च सप्तभिः
ब्रह्म र्षिभिः परं ब्रह्म गृणध्बिर् उपतस्थिरे ॥

10.65

ताभ्यस् तथाविधान् स्वप्नाञ् छ्रुत्वा प्रीतो हि पार्थिवः
मेने परार्ध्यम् आत्मानं गुरुत्वेन जग्द्गुरोः ॥

10.66

विभक्तात्मा विभुस् तासाम् एकः कुषिष्व् अनेकधा
उवास प्रतिमाचन्द्रः प्रसन्नानाम् अपाम् इव ॥

10.67

अथ् आग्र महिषी राज्ञः प्रसूतिसमये सती
पुत्रं तमोऽपहं लेभे नक्तं ज्योतिर् इवौषधिः ॥

10.68

राम इत्य् अभिरामेण तेन् आप्रतिम तेजसा
नामधेयं गुरुश् चक्रे जगत्प्रथममङ्गलम् ॥

10.69

रघुवंशप्रदीपेन तेन् आप्रतिम तेजसा
रक्षागृहगता दीपाः प्रत्यादिष्ट इवाभवन् ॥

10.70

शय्यागतेन रामेण माता शातोदरी बभौ
सैकताम्भोजबलिना जाह्नवीव शरत्कृशा ॥

10.71

कैकेय्यास् तनयो जज्ञे भरतो नाम शील वान्
जनयित्रीम् अलंचक्रे यः प्रश्रय इव श्रियम् ॥

10.72

सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ
सम्यग् आगमिता विद्या प्रबोधविनयाव् इव ॥

10.73

निर्दोषम् अभवत् सर्वम् आविष्कृतगुणं जगत्
अन्वगाद् इव हि स्वर्गो गां गतं पुरुषोत्तमम् ॥

10.74

तस्योदये चतुर्मूर्तेः पौलस्त्यचकितेश्वराः
विरजस्कैर् नभस्वद्भिर् दिश उच्छ्वसिता इव ॥

10.75

कृशानुर् अपधूमत्वात् प्रसन्नत्वात् प्रभा करः
रक्षिविप्रकृताव् आस्ताम् अपविद्धशुचाव् इव ॥

10.76

दशाननकिरीटेभ्यस् तत्क्षणं राक्षसश्रियः
मणिव्याजेन पर्यस्ताः पृथिव्याम् अश्रुबिन्दवः ॥

10.77

पुत्रजन्मप्रवेश् यानां तूर्याणाम् तस्य पुत्रिणः
आरम्भं प्रथमं चक्रुर् देवधुन्दुभयो दिवि ॥

10.78

संतानकमयी वृष्टिर् भवने चास्य पेतुषी
समङ्गलोपचाराणां सैवादिरचनाभवत् ॥

10.79

कुमाराः कृतसंस्कारास् ते धात्रि स्तन्य पायिनः
आनन्देनाग्रजेनेव समं ववृधिरे पितुः ॥

10.80

स्वाभाविकं विनीतत्वं तेषं विनयकर्मण् आ
मुमूर्छ सहजं तेजो हविषेव हविर्भुजाम् ॥

10.81

परस्पराविरुद्धास् ते तद् रघोर् अनघं कुलम्
अलम् उद्द्योतयाम् आसुर् देवारण्यम् इवर्तवः ॥

10.82

समाने ऽपि हि सौभ्रात्रे यथोभौ रामलक्ष्मणौ
तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतुः ॥

10.83

तेषां द्वयोर् द्वयोर् ऐक्यं बिभिदे न कदाचन
यथा वायुविभावस्वोर् यथा चन्द्रसमुद्रयोः ॥

10.84

ते प्रजानां प्रजानाथास् तेजसा प्रश्रयेण च
मनो जह्रुर् निदाघान्ते श्यामाभ्रा दिवसा इव ॥

10.85

स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः
धर्मार्थकाममोक्षाणाम् अवतार इवाङ्ग भाक् ॥

10.86

गुणैर् आराधयाम् आसुस् ते गुरुं गुरुवत्सलाः
तम् एव चतुर्नतेशं रत्नैर् इव महार्णवाः ॥

10.87

सुरगज इव दन्तैर् भग्नदैत्यासिधारैर् नय इव पणबन्धव्यक्तयोगैर् उपायैः
हरिर् इव युगदीर्घैर् दोर्भिर् अंषैस् तदीयैः पतिर् अवनिपतीनां तैश् चकाशे ॥

10.19*

नमस् त्रिमूर्तये तुभ्यं गुणत्रयविभागाय
प्राक् सृष्टे[ः] केवलात्मने पश्चाद् भद्[र्]अम् उपेयुषे ॥

मूल पाठ: Raghuvaṃśa · Edition: A. Scharpé: Kalidasa Lexicon, Vol. 1, Brugge 1964 (Rijksuniversiteit te Gent, Werken uitgegeven door de Faculteit van de Letteren en Wijsbegeerte, 134) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc