भाषा

ENहिગુ
ग्रंथ पाठ

रघुवंश · अध्याय 7

7.1

अथोपयन्त्रा सदृशेन युक्तां स्कन्देन साक्षाद् इव देवसेनाम्
स्वसारम् आदाय विदर्भ नाथः पुरप्रवेशाभिमुखो बभूव ॥

7.2

सेनानिवेशान् पृथिवी क्षितो ऽपि जग्मुर् विभातग्रहमन्दभासः
भोज्यां प्रति व्यर्थमनोरथत्वाद् रूपेषु वेषेषु च साभ्यसूयाः ॥

7.3

सांनिध्ययोगात् किल तत्र शच्याः स्वयंवरक्षोभकृताम् अभावः
काकुत्स्थम् उद्दिश्य समत्सरो ऽपि शशाम तेन क्षितिपाललोकः ॥

7.4

तावत् प्रकीर्णाभिनवोपचारम् इन्द्रायुधद्योतिततोरणाङ्कम्
वरः स वध्वा सह राजमार्गं प्राप ध्वजच्छायनिवारितोष्णम् ॥

7.5

ततस् तदालोकन तत्पराणां सौधेषु चामीकरजालवत्सु
बभूवुर् इत्थं पुरसुन्दरीणां त्यक्तान्यकार्याणि विचेष्टितानि ॥

7.6

आलोकमार्गं सहसा व्रजन्त्या कयाचिद् उद्वेष्टनवान्तमाल्यः
बद्धुं न संभावित एव तावत् करेण रुद्धो ऽपि हि केश पाशः ॥

7.7

प्रसाधिकालम्बितम् अग्रपादम् आक्षिप्य काचिद् द्रवरागम् एव
उत्षृषृअलीलागतिर् आ गवाक्षाद् ययौ शलाकाम् अपरा वहन्ती ॥

7.8

विलोचनं दक्षिणम् अञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा
तथैव वातायनसंनिकर्षं ययौ शलाकाम् अपरा वहन्ती ॥

7.9

जालान्तरप्रेषितदृष्टिर् अन्या प्रस्थानभिन्नां न बबन्ध नीवीम्
नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाव् अवलम्ब्य वासः ॥

7.10

अर्ध् आचिता सत्वरम् उत्थितायाः पदे पदे दुर्निमिते गलन्ती
कस्याश्चिद् आसीद् रशना तदानीम् अङ्गुष्ठमाउलार्पितसूत्रशेषा ॥

7.10*

स्तनंधयन्तं तनयं विहाय विलोकनाय त्वरया व्रजन्ती
संप्रस्नुताभ्यां पदवीं स्तनाभ्यां सिषेच काचित् पयस्ऽऽ; आ गवाक्षात् ॥

7.11

तासां मुखैर् आसवगन्धगर्भैर् व्याप्तान्तराः सान्द्रकुतूहलानाम्
विलोलनेत्रभ्रमरैर् गवाक्षाः सहस्रपत्त्राभरणा इवासन् ॥

7.12

ता राघवं दृष्टिभिर् आपिबन्त्यो नार्यो न जग्मुर् विषयान्तराणि
तथा हि शेषेन्द्रियवृत्तिर् आसां सर्वात्मना चक्षुर् इव प्रविष्टा ॥

7.13

स्थाने वृता भूपतिभिः परोक्षैः स्वयंवरं साधुम् अमंस्त भोज्या
पद्मेव नारायणम् अन्यथासौ लभेत कान्तं कथम् आत्मतुल्यम् ॥

7.14

परस्परेण स्पृहणीयशोभं न चेद् इदं द्वन्द्वम् अयोजयिष्यत्
अस्मिन् द्वये रूपविधानयत्नः पत्युः प्रजानां वितथो ऽभविष्यत् ॥

7.15

रतिस्मरौ नूनम् इमाव् अभूतां राज्ञां सहरेषु तथा हि बाला
गत् एयम् आत्मप्रतिरूपम् एव मनो हि जन्मान्तरसंगतिज्ञम् ॥

7.16

इत्य् उद्गताः पौरवधूमुखेभ्यः शृण्वन् कथाः श्रोतसुखाः कुमारः
उद्भासितं मङ्गलसंविधाभिः संबन्धिनः सद्म समाससाद ॥

7.17

ततो ऽवतीर्याशु करेणुकायाः स कामरूपेश्वरदत्तहस्तः
वैदर्भनिर्दिष्टम् अथो विवेश नारीमनांसीव चतुष्कम् अन्तः ॥

7.18

महार्हसिंहासनसंस्थितो ऽसौ सरत्नम् अर्घ्यं मधु पर्कमिश्रम्
भोजोपनीतं च दुकूलयुग्मं जग्राह सार्धं वनिताकटाक्षैः ॥

7.19

दुकूलवासाः स वधूसमीपं निन्ये विनीतैर् अवरोधरक्षैः
वेलासाक्शं स्फुटपेहराजिर् नवैर् उदन्वान् इव चन्द्रपादैः ॥

7.20

तत्रार्चितो भोजपतेः पुरोधा हुत्वाग्निम् आज्यादिभिर् अग्निकल्पः
तम् एव चाधाय विवाहसाक्ष्ये वधूवर् औ संगमयां चकार ॥

7.21

हस्तेन हस्तं परिगृह्य वध्वाः स राजसूनुः सुतरां चकाशे
अनन्तराशोकलताप्रवालं प्राप्येव चूतः प्रतिपल्लवेन ॥

7.22

आसीद् वरः कण्टकितप्रकोष्टः स्विन्नाङ्गुलिः संववृते कुमारी
वृत्तिस् तयोः पाणिसमागमेन समं विभक्तेव मओभव् अस्य ॥

7.23

तयोर् अपाङ्ग - प्रतिसारितानि क्रियासमापत्त् इवर्तितानि
ह्रीयन्त्रणाम् आनशिरे मनोज्ञाम् अन्योन्यलोलानि विलोचनानि ॥

7.24

प्रदक्षिणप्रक्रमणात् कृषानोर् उदर्चिषस् तन् (?) मिथुनं चकाशे
मेरोर् उपान्तेष्व् इव वर्तमानम् अन्योन्यसंसक्तम् अहस्त्रियामम् ॥

7.25

नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर् विधातृप्रतिम् एन तेन
चकार सा मत्तचकोरनेत्रा लज्जावती लाज विसर्गम् अग्नौ ॥

7.26

हविःशमीपल्लवलाजगन्ध् इः पुण्यः कृशानोर् उदियाय धूमः
कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ॥

7.27

तद् अञ्जन क्लेद समाकुलाक्षं प्रम्लानभीजाङ्कुरकर्णपूरम्
वधूमुखं पाटल गण्ड लेखम् आचारधूमग्रहणाद् बभूव ॥

7.28

तौ स्नातकैर् बन्धुमता च राज्ञा पुरंध्रिभिश् च क्रमशः प्रयुक्तम्
कन्याकुमारौ कनकासनस्थाव् आर्द्राक्षतारोपणम् अन्वभूताम् ॥

7.29

इति स्वसुर् भोजकुलप्रदीपः संपाद्य पाणिग्रहणं स राजा
महीपतीनां पृथगर्हणार्थं समादिदेशाधिकृतान् अधिश्रीः ॥

7.30

लिङ्गैर् मुदः संवृतविक्रियास् ते ह्रदाः प्रसन्ना इव गूढनक्राः
वैदर्भम् आमन्त्र्य ययुस् तदीयां प्रत्यर्प्य पूजाम् औप्दाछलेन ॥

7.31

स राजलोकः कृतपूर्वसंविद् आरम्भसिद्धौ समय् ओपलभ्यम्)
आदास्यमानः प्रम्दामिषं तद् आवृत्य पन्थानम् अजस्य तस्थौ ॥

7.32

भर्तापि तावत् क्रथकैषिकानाम् अनुष्ठितानन्तरजाविवाहः
सत्त्व् आनुरूप् आहरणी कृतश्रीः प्रास्थापयद् राघवम् अन्वगाच् च ॥

7.33

तिस्रस् त्रिलोक् ई प्रथितेन सार्धम् अजेन मार्गे वसतीर् उषित्वा
तस्माद् अपावर्तत कुण्डिनेशः पर्वात्यये सोम इवोष्णरश्मेः ॥

7.34

प्रमन्यवः प्राग् अपि कोसलेन्द्रे प्रत्येकम् आत्तस्वतया बभूवुः
अतो नृपाश् चक्षमिरे समेताः स्त्रीरत्नलाभं न तदात्मजस्य ॥

7.35

तम् उद्वहन्तं पथि भोजकन्यां रुरोध राजन्यगणः स दृप्तः
बलि प्रदिष्टं श्रियम् आददानं त्रैविक्रमं पादम् इवेन्द्रशत्रुः ॥

7.36

तस्यः स रक्षार्थम् अनल्पयोधम् आदिष्य पित्र्यं सचिवं कुमारः
प्रत्यग्रहीत् पार्थिववाहिनीं तां ज्योतीरथां शोण इवोत्तरङ्गः ॥

7.37

पत्तिः पदातिं रथिनं रथेशस् तुरंगसादी तुरगाधिरूढम्
यन्ता गजस्याभ्यपतद् गजस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धम् ॥

7.38

नदत्सु तूर्येष्व् अविभाव्य वाचो नोदीरयन्ति स्म कुलोपदेशान्
बाणाक्षरैर् एव परस्पर् अस्य नामोर्जितं चापभृतः शशंसुः ॥

7.39

उत्थापितः संयति रेणुर् अश्वैः सान्द्रीकृतः स्यन्दन वंश चक्रैः
चिस्तारितः कुञ्जरकर्णतालैर् नेत्र क्रमेणोपरुरोध सूर्यम् ॥

7.40

मत्स्यध्वजा वायुवशाद् विदीर्णैर् मुखैः प्रवृद्धद्वजिनीरजांसि
बभुः पिबन्तः परमार्थमत्स्याः पर्याविलानीव नवोदकानि ॥

7.41

रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्वणितेन नागः
स्वभर्तृनामग्रहणाद् बभूव सान्द्रे रजस्य् आत्मपरावबोधः ॥

7.42

आवृण्वतो लोचनमार्गम् आजौ रजोऽन्धकारस्य विजृम्भितस्य
शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणो ऽभूद् रुधिरप्रवाहः ॥

7.43

स च्छिन्नमूलः क्षतजेन रेणुस् तस्योपरिष्टात् पवनावधूतः
अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे ॥

7.44

प्रहारमूर्छापगमे रथस्थ् आन् यन्त्ःन् उपालभ्य नि वर्तिताश्व् आः
यैः सादिता लक्षितपूर्वकेतूंस् तान् एव सामर्षतया निजघ्नुः ॥

7.45

अप्य् अर्धमार्गे परबाणलूना धनुर्भृतां हस्तवतां पृषत्काः
संप्रापुर् एवात्मजवानुवृत्त्या पूर्वार्धभागैः फलिभिः शरव्यम् ॥

7.46

आधोरणानां गजसंनिपाते शिरांसि चक्रैर् निशितैः क्षुराग्रैः
हतान्य् अपि आयेननखाग्रकोटि -व्यासक्तकेशानि चिरेण पेतुः ॥

7.47

पूर्वं प्रहर्ता न जघान भूयः प्रतिप्रहाराक्षमम् अश्वसादी
तुरंगमस्कन्धनिषण्णदेहं प्रत्याश्वसन्तं रिपुम् आचकाङ्क्ष ॥

7.48

तनुत्यजां वर्म भृतां विकोशैर् बृहत्सु दन्तेष्व् असिभिः पतद्भिः
रणक्षितिः शोणितमद्यकुल्या गजा विविग्नाः करशीकरेण ॥

7.49

शिलीमुखोत्कृत्तशिरःफलाढ्या च्युतैः शिरत्रैश् चषकोत्तरेव
रणक्षितिः शोणितमद्यकुल्या रराज मृत्योर् इव पानभूमिः ॥

7.50

उपान्तयोर् निष्कुषितं विहंगैर् आक्षिप्य तेभ्यः पिशितप्रियापि
केयूरकोटिक्षततालुदेशा शिवा भुजच्छेदम् अप् आचकार ॥

7.51

कश्चिद् द्विषत्खड्गहृतोत्तमाङ्गः सद्य् ओ विमानप्रभुताम् उपेत्य
वामाङ्गसंसक्तसुराङ्गनः स्वं नृत्य् अत् कबन्धं समरे ददर्श ॥

7.52

अन्योन्यसूतोन्मथनाद् अभूतां ताव् एव सूतौ रथिनौ च कौचित्
व्यश्वौ गदाव्यायतसंप्रहारौ बग्नायुधौ बाहु विमर्दनिष्ठौ ॥

7.53

परस्परेण क्षतयोः प्रहर्त्रोर् उत्क्रान्तवाय्वोः समकालम् एव
अमर्त्यभावे ऽपि कयोश्चिद् आसीद् एकासरःप्रार्थितयोर् विवादः ॥

7.54

व्यूहाव् उभौ ताव् इतरेतर् अस्माद् भङ्गं जयं चापतुर् अव्यवस्थम्
पश्चात्पुरोमारुतयोः प्रवृद्धौ पर्यायवृत्त्येव महार्णवोर्मी ॥

7.55

परेण भग्ने ऽपि बले महौजा ययाव् अजः प्रत्य् अरिसैन्यम् एव
धूमो निवर्त् एत समीरणेन यत् ओ हि कक्षस् तत एव वह्निः ॥

7.56

रथी निषङ्गी कवची धनुष्मान् दृप्त् अः स राजन्यकम् एकवीरः
निवारयाम् आस महावराहः कल्पक्षय् ओद्धूतम् इवार्णवाम्भः ॥

7.57

स दक्षिणं तूण-मुख् एन वामं व्यापारयन् हस्तम् अलक्ष्यताजौ
आकर्णकृष्टा सकृद् अस्य योद्धुर् मौर्वीव बाणान् सुषुवे रिगुफ्नान् ॥

7.58

स रोषदष्ट् आधिक लोहित् ओष्ठैर् व्यक्तोर्ध्वरेक् आ भृ कुटीर् वहद्भिः
तस्तार गां भल्लनिकृत्तकण्ठैर् हुं कारगर्भैर् द्विषतां शिरोभिः ॥

7.59

सर्वैर् बलाङ्गैर् द्विरदप्रधानैः सर्वायुधैः कङ्कटभेदिभिश् च
सर्वप्रयत्नेने च भूमिपालास् तस्मिन् प्रजह्रुर् युधि सर्व एव ॥

7.60

सो ऽस्त्रव्रजैश् छन्न रथः परेषां ध्वजाग्रमात्रेण बभूव लक्ष्यः
नीहारमग्नो दिनपूर्वभागः किंचित्प्रकाशेन विवस्वतेव ॥

7.61

प्रियंवदात् प्रापम् असौ कुमारः प्रायुङ्क्त राजस्व् अधिराजसूनुः
गान्धर्वम् अस्त्रं कुसुमास्त्रकान्त् अः प्रस्वापनं स्वपनिवृत्तलौल्यः ॥

7.62

ततो धनुष्कर्षणमूढहस्तम् एकांसपर्यस्तशिरस्त्र जालम्
तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम् ॥

7.63

ततः प्रियोपात्तरसे ऽधरोष्ठे निवेश्य दध्मौ जलं कुमारः
येन स्वहस्तार्जित् अम् एकवीरः पिबन् यशो मूर्तम् इवाभासे ॥

7.64

शङ्खस्वनाभिज्ञतया निवृत्तास् तं सन्नशत्रुं ददृशुः स्वयोधाः
निमीलितानाम् इव पङ्कजानां मध्ये स्फुरन्तं प्रतिमाशशाङ्कम् ॥

7.65

सशोणितैस् तेन शिलीमुखाग्रैर् निक्षेपिताः केतुषु पार्थिवानाम्
यशो हृतम् संप्रति राघवेण न जीवितं वः कृपयेति वर्णाः ॥

7.66

स चापकोटीनिहितैकबाहुः शिरस्तनिष्कर्षणभिन्नमुलिः
ललाटबद्धश्रमवारिबिन्दुर् भीतां प्रियाम् एत्य वचो बभाषे ॥

7.67

इतः परान् अर्भकहार्यशस्त्रान् वैदर्भि पश्यानुमता मयासि
एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममभिः ॥

7.68

तस्याः प्रतिद्वन्द्विभवाद् विषादात् सद्य् ओ विमुक्तं मुखम् आबभासे
नि श्वासबाष्पापगमात् प्रपन्नः प्रसादम् आत्मीयम् इवात्मदर्षाः ॥

7.69

हृष्टापि सा ह्रीविजिता न साक्षाद् वाग्भिः सखीनां प्रियम् अभ्यनन्दत्
स्थली नवाम्भःपृषताभि वृष्टा मयूरकेकाभिर् इवाभ्र वृन्दम् ॥

7.70

इति शिरसि स वामं पादम् आधाय राज्ञाम् उदवहद् अनवद्यां ताम् अवद्याद् अपेतह्
रथतुरगरजोभिस् तस्य रूक्षालक् आग्रा समरविजयलष्मीः सैव मूर्ता बभूव ॥

7.71

प्रथमपरिगतार्थस् तं रघुः संनिवृत्तं विजयिनम् अभिनन्द्य श्लाघ्यजायासमेतम्
तदुपहितकुटुम्बः शान्तिमार्गोतुस्को ऽभून् न हि सति कुलधुर्ये सूर्यवंश्या गृहाय ॥

7.38*

ललाटबद्धभृकुटीतरङ्गैस् तनुत्यजां दन्तनिपीडितोष्ठैः
आतस्तरे भल्लनिकृत्तकण्ठैर् हुंकारगर्भैर् द्विषतां शिरोभिः ॥

मूल पाठ: Raghuvaṃśa · Edition: A. Scharpé: Kalidasa Lexicon, Vol. 1, Brugge 1964 (Rijksuniversiteit te Gent, Werken uitgegeven door de Faculteit van de Letteren en Wijsbegeerte, 134) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc