भाषा

ENहिગુ
ग्रंथ पाठ

रघुवंश · अध्याय 6

6.1

स तत्र मञ्चेषु मनोज्ञवेषान् सिंहासनस्थान् उपचारवस्तु
वैमानिकानां मरुताम् अपश्यद् आकृष्टलीलान् नरलोकपालान् ॥

6.2

रतेर् गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गम् इवेश्वरेण
काकुत्स्थम् आलोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशम् ॥

6.3

वैदर्भनिर्दिष्टम् असौ कुमारः कॢप्तेन सोपानपथेन मञ्चम्
शिलाविभङ्गैर् मृगराजशावस् तुङ्गं नगोत्सङ्गम् इवारुरोह ॥

6.4

परार्ध्यवर्णास्तरणोपपन्नम् आसेदिवान् रत्नवद् (?) आसनं सः
भूयिष्ठम् आसीद् उपमेयकान्तिर् मयूरपृष्ठाश्रयिणा गुहेन ॥

6.5

तासु श्रिया राजपरंपरासु प्रभाविशेषोदयदुर्निरीक्ष्यः
सहस्रधात्मा व्यरुचद् विभक्तः पयोमुचां पङ्क्तिषु विद्युतेव ॥

6.6

तेषां महार्हासनसंस्थितानाम् उदारनेपथ्यभृतां स मध्ये
रराज धाम्ना रघुसूनुर् एव कल्पद्रुमाणाम् इव पारिजातः ॥

6.7

नेत्रव्रजाः पौरजनस्य तस्मिन् विहाय सर्वान् नृपतीन् निपेतुः
मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः ॥

6.8

अथ स्तुते बन्दिभिर् अन्वयज्ञैः सोमार्कवंश्ये नरदेवलोके
संचारिते च्ऽ; आग् आ रुसारयोनौ धूपे समुत्सर्पति वैजयन्तीः ॥

6.9

पुरोपकण्ठोपवनाश्रयाणां कलापिनाम् उद्धतनृत्यहेतौ
प्रध्मातशङ्खे परितो दिगन्तांस् तूर्यस्वने मूर्छति मङ्गलार्थे ॥

6.10

मनुष्यवाह्यं चतुर् अश्र यानम् अध्यास्य कन्या परिवारशोभि
विवेश मञ्चान्तरराजमार्गं पतिंवरा कॢप्तविवाहवेषा ॥

6.11

तस्मिन् विधानातिशये विधातुः कन्यामये नेत्रशतैकलक्ष्ये
निपेतुर् अन्तःकरणैर् नरेन्द्रा देहैः स्थिताः केवलम् आसनेषु ॥

6.12

तां प्रत्य् अभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः
प्रवालोशोभा इव पादपानां शृङ्गारचेष्ट विविधा बभूवुः ॥

6.13

कश्चित् कराभ्याम् उपगूढनालम् आलोलपत्त्राभिहतद्विरेफम्
रजोभिर् अन्त् अः परिवेषबन्धि लीलारविन्दं भ्रमयां चकार ॥

6.14

विस्रस्तम् अंसाद् अपरो विलासी रत्नानुविद्धाङ्गदकोटिलग्नम्
प्रालम्बम् उत् कृष्य यथा वकशं निनाय साचीकृतचारुवक्त्रः ॥

6.15

आकुञ्चिताग्राङ्गुलिना ततो ऽन्यः किंचित्समावर्जितनेत्रशोभ् अः
तिर्यग्विसंसर्पिनखप्रभेण पादेन हैमं विलिलेख पीठम् ॥

6.16

निवेश्य वामं भुजम् आसनार्धे ततसंनिवेशाद् अधिकोन्नतांसः
कश्चिद् विवृत्तत्रिकभिन्नहारः सुहृत्समाभाषणतत्परो ऽभूत् ॥

6.17

विलासिनीविभ्रमदन्तपत्त्रम् आपाण्ड् उ रं केतक बर्हम् अन्यः
प्रियाइतम्बोचितसंनिवेशैर् विपाटयाम् आस युवा नखाग्रैः ॥

6.18

कुशेशयाताम्रतलेन कश्चित् करेण रेखाध्वजलाञ्छनेन
रत्नाङ्गुलीयप्रभयानुविद्धान् उदीरयाम् आस सलीलम् अक्षान् ॥

6.19

कश्चिद् यथाभागम् अवस्थिते ऽपि स्वसंनिवेश् आद् व्यतिलङ्घिनीव
वज्रांशु गर्भ् आङ्गुलिरन्ध्रम् एकं व्यापारयाम् आस करं किरीटे ॥

6.20

ततो नृपाणां श्रुतवृत्तवंशा पुंव त् प्रगल्भा प्रतिहाररक्ष् ई
प्राक् संनिकर्षं मगधेश्वरस्य नीत्वा कुमारीम् अवदत् सुनन्दा ॥

6.21

असौ शरण्यः शरणोन्मुखानाम् अगाधसत्त्वो मगधप्रतिष्ठः
राजा प्रजारञ्जनलब्धवर्णः परंतपो नाम यथार्थनामा ॥

6.22

कामं ण्र्पाः सन्त् उ सहरशो ऽन्ये राजन्वतीम् आहुर् अनेन भूमिम्
नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥

6.23

क्रियाप्रबन्धाद् अयम् अध्वराणाम् अजस्रम् आहूतसहस्रनेत्रः
शच्याश् चिरं पाण्दुकपोललम्बान् मन्दारशून्यान् अलकांश् चकार ॥

6.24

अनेन चेद् इच्छसि गृह्यमाणं पाणिं वरेण्येन कुरु प्रवेशे
प्रासादवातायन संश्रितानां नेत्रोत्सत्वं पुष्पपुराङ्गनानाम् ॥

6.25

एवं तयोक्ते तम् अवेक्ष्य किंचिद् (?) विस्रंसिदूर्वाङ्कमधूकमाला
ऋजुप्रणामक्रिययैव तन्वी प्रत्यादिदेशैनम् अभाषमाणा ॥

6.26

तां सैव वेत्रग्रहणे नियुक्ता राजान्तरं राजसुतां निनाय
समीरणोत्थेव तरङ्गलेखा पद्मान्तरं मानसराजहंसीम् ॥

6.27

जगाद चैनाम् अयम् अङ्ग नाथः सुराङ्गनाप्रार्थितयौवनश्रीः
विनीत नागः किल सूत्र कारैर् ऐन्द्रं पदं भूमिगतो ऽपि भुङ्क्ते ॥

6.28

अनेन पर्य् आसयतास्र बिन्दून् मुक्ताफल्स्थूलतमान् स्तनेषु
प्रत्यर्पिताः शत्रुविलासिनीनाम् उन्मुच्य सूत्रेण विनैव हाराः ॥

6.29

निसर्गभिन्नास्पदम् एकसंस्थम् अस्मिन् द्वयं श्रीश् च सरस्वती च
कान्त्या गिरा सूनृतया च योग्या त्वम् एव कल्याणि तयोस् तृतीया ॥

6.30

अथाङ्गराजाद् अवतार्य चक्षुर् याह् जन्याम् अवदत् कुमारी
नासौ न काम्यो न च वेद सम्यग् द्रष्टुं न सा भिन्नरुचिर् हि लोकः ॥

6.31

ततः परं दुष्प्रसहं द्विषद्भिर् नृपं नियुक्ता प्रतिहारभूमौ
निदर्शयाम् आस विशेष दृश्यम् इन्दुं नवोत्थानम् इवेन्दुमत्य् ऐ ॥

6.32

अवन्तिनाथो ऽयम् उदग्रबाहुर् विशालवक्षास् तनुवृत्तमध्यः
आरोप्य चक्र भ्रह्मम् उष्ण तेजास् त्वष्ट्रेव यत्न् ओल्लिखितो विभाति ॥

6.33

अस्य प्रयाणेषु समग्रशक्तेर् अग्रेसरैर् वाजिभिर् उत्थितानि
कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि ॥

6.34

असौ महाकालनिकेतनस्य वसन्न् अदूरे किल चन्द्रमौल् एः
तमिस्रपक्षे ऽपि सह प्रियाभिर् ज्योत्स्नावतो निर्विशति प्रदोषान् ॥

6.35

अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन् मनसो रुचिस् ते
सिप्रातरङ्गानिलकम्पितासु विहर्तुम् उद्यानपरंपरासु ॥

6.36

तस्मिन्न् अभिद्योतितबन्धुपद्मे प्रतापसंशोषितशत्रुपङ्के
बबन्ध सा नोत्तमसौकुमार्या कुमुद्वती भानुमतीव भावम् ॥

6.37

ताम् अग्रतस् तामरसान्तराभाम् अनूपराजस्य गुणैर् अनूनाम्
विधाय सृष्टिं ललिताम् विधातुर् जगाद भूयः सुदतीं सुनन्दा ॥

6.38

संग्रामनिर्विष्टसहस्रबाहुर् अष्टदासद्वीपनिखातयूपः
अनन्यसाधारणराजशब्दो बभूव योगी किल कार्तवीर्यः ॥

6.39

अकार्यचिन्तासमकालम् एव प्रादुर्भवंश् चापधरः पुरस्तात्
अन्तःशरीरेष्व् अपि यः प्रजानां प्रत्यादिदेशाविनयं विनेता ॥

6.40

ज्याबन्धनिष्पन्दभुजेन यस्य विनि श्वसद्वक्त्रपरंपरेण
कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितम् आ प्रसादात् ॥

6.41

तस्यान्वये भूपतिर् एष जातः प्रतीप इत्य् आगमवृद्धसेवी
येन श्रियः संश्रयदोषरूढं स्वभावलोलेत्य् अयशः प्रमृश्टम् ॥

6.42

आयोधने कृष्णगतिं सहायम् अवाप्य यः क्षत्रियकालरात्र् इम्
धारां शितां रामपरश्वधस्य संभावयत्य् उत्पलपत्त्रसाराम् ॥

6.43

अस्याङ्कलक्ष्मीर् भव दीर्घबाहोर् माहिष्मतीवप्रनितम्बकाञ्चीम्
प्रासादजालैर् जल्वेणिरम्यां रेवां यदि प्रेक्षितुम् अस्ति कामः ॥

6.44

तस्याः प्रकामं प्रियदर्शनो ऽपि न स क्षितीशो रुचये बभूव
शरत्प्रमृष्टाम्बुधरोपरोधः शशीव पर्याप्तकलो नलिन्याः ॥

6.45

सा शूरसेन्दाधिपतिं सुषेणम् उद्दिश्य लोक् आन्तरगीतकीर्तिम्
आचारशुद्धोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमार् ई ॥

6.46

नीपान्वयः पार्थिव एष वज्वा गुणैर् यम् आश्रित्य परस्परेण
सिद्धाश्रमं शान्तम् इवैत्य सत्त्वैर् नैसर्गिको ऽप्य् उत्ससृजे विरोधः ॥

6.47

यस्य्ऽ; आत्म गेहे नयनाभिरामा कान्तिर् हिमांशोर् इव संनिविष्ट
हर्म्याग्रसंरूढतृणाङ्कुरेषु तेजो ऽविशह्यं रिपुमन्दिरेषु ॥

6.48

यस्यावरोधस्तनचन्दनानां प्रक्षालनाद् वारिविहारकाले
कलिन्दकन्या मथुर् आं गता ऽपि गङ्गोर्मिसं सक्त जलेव भाति ॥

6.49

त्रस्तेन ताक्र्ष्यात् किल कालियेन मणिं विसृष्टं यमुनौकसा यः
वक्षःस्थलव्यापि रुचं दधानः सकौस्तुभं ह्रेपयतीव कृष्नम् ॥

6.50

संभाव्य भर्तारम् अमुं युवानं मृदुप्रवालोत्तरपुष्पशय्ये
वृन्दावने चैत्ररथाद् अनूने निर्विश्यतां सुन्दरि युवनश्रीः ॥

6.51

अध्यास्य चाम्भःपृषतोक्षितानि शैलेय गन्धीनि शिलातलानि
कलापिनां प्रावृषि पश्य नृत्यं कान्तासु गोवर्धनकन्दरासु ॥

6.52

नृपं तम् आवर्तमनोज्ञनाभिः सा व्यत्यगाद् अन्यवधूर् भवित्री
महीधरं मार्गवशाद् उपेतं स्रोतोवहा सागरगामिनीव ॥

6.53

अथाङ्गदाश्लिष्टभुजं भुजिष्या हेमाङ्गदं नाम कलिङ्गनाथम्
आसेदुषीं सादितशत्रुपक्षं बालाम् अबालेन्दुमुखीं बभाषे ॥

6.54

असौ महेन्द्राद्रिसमानसारः पतिर् महेन्द्रस्य महोदधेश् च
यस्य क्षरत्सैन्यगजच्छलेन यात्रासु यातीव पुरो महेन्द्रः ॥

6.55

ज्याघात रेखे सुभुजो भुजाभ्यां बिभर्ति यश् चापभृतां पुरोगः
रिपुश्रिय् आं साञ्जनभाष्प सेके बन्दीकृट् आनाम् इव पद्धती द्वे ॥

6.55*

रणे ऽमितत्रीणतया प्रकाशः शरासनज्यानिकषौ भुजाभ्याम्
विशिष्टरेखौ रिपुविक्रमाग्नेर् निर्वाणमार्गाव् इव यो बिभर्ति ॥

6.56

यम् आत्मनः सद्मनि संनि कृष्टो मन्द्रध्वनित्याजितयामतूर्यः
प्रासादवातायनदृष्यवीचिः प्रबोधयत्य् अर्णव एव सुप्तम् ॥

6.57

अनेन सार्धं विहराम्बुराशेस् तीरेषु तालीवनमर्मरेषु
द्वीपानतरानीतलवङ्गपुष्पैर् अपाकृतस्वेदलवा मरुद्भिः ॥

6.58

प्रलोभिताप्य् आकृतिलोभनीया पतिं पुरस्योरुगपूर्वनाम्नः
तस्माद् अप् आवर्तत दूरकृष्टा नीत्येव लक्ष्मीः प्रतिकूलदैवात् ॥

6.58*

अथाधिगम्याभुवराजकल्पं पतिं पुरस्योरुगपूर्वनाम्नः
आचारपूतोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी ॥

6.59

अथोर् आख्यस्य पुरस्य नाथं दौवारिकी देव सरूपम्
इतश् चकोराक्षि विलोकयेति पूर्वानुशिष्टां निजगाद भोज्याम् ॥

6.60

पाण्ड्यो ऽयम् अंसार्पितलम्ब् अ हारः कॢप्ताङ्गरागो हरि चन्दनेन
आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ॥

6.61

व् इ न्ध्यस्य संस्तम्भयिता महाद्रेर् निःशेषपीतोज्झितसिन्धु राजः
प्रीत्याश्वमेधावभृथार्द्रमूर्तेः सौस्नातिको यस्य भवत्य् अगस्त्यः ॥

6.62

अस्त्रं हराद् आप्तवता दुरापं येनेन्द्रलोक् आव जयाय दृप्तः
पुरा जनस्थानविमर्दशङ्की संधाय लःकाधिपतिः प्रतस्थे ॥

6.63

अनेन पाणौ विधिवद् (?) गृहीते महाकुलीनेन महीव गुर्वी
रत्नानुविद्धार्णवमेखलाया दिशः सपत्नी भव दक्षिण् अस्याः ॥

6.64

ताम्बूलवल्लीपरिणद्धपूगास्व् एलालतालिङ्गितचन्दनासु
तमालपत्त्रास्तरणासु रन्तुं प्रसीद शश्वन् मलयस्थलीषु ॥

6.65

इन्दीवरश्यामतनौर् नृपो ऽसौ त्वं रोचनागौरशरीरयष्टिः
अन्योन्यशोभापरिवृद्धये वां योगस् तडित्तोयदयोर् इवास्तु ॥

6.66

स्वसुर् विदर्भाधिपतेस् तदीयो लेभे ऽन्तरं चेतसि नोपदेशः
दिवाकरादर्शनबद्धकोशे नक्शत्रनाथांशुर् इवारविन्दे ॥

6.67

संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥

6.68

तस्यां रघोः सूनुर् उपस्थितायां वृणीत मां नेति समाकुलो ऽभूत्
वामेतरः संशयम् अस्य बाहुः केयूरबन्धोच्छवसितैर् नुनोद ॥

6.69

तं प्राप्य सर्वावयवानवद्यं व्यावर्ततान्योपगमात् कुमारी
न हि प्रफुल्लं सहकारम् एत्य वृक्सान्तरं काङ्क्षति षट्पदाली ॥

6.70

तस्मिन् समावेशितचित्तवृत्तिम् इन्दुप्रभाम् इन्दुमतीम् अवेक्ष्य
प्रचक्रमे वक्तुम् अनुक्रमज्ञा सविस्तरं वाक्यम् इदं सुनन्दा ॥

6.71

इक्ष्वाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्य् आहितलक्षणो ऽभूत्
काकुत्स्थशब्दं यत उन्नतेच्छाः श्लाघ्यं दधत्य् उत्तरकोसलेन्द्राः ॥

6.72

महेन्द्रम् आस्थाय महोक्षरूपं यः संयति प्राप्तपिनाक् इ लीलः
चकार बाणैर् असुराङ्गनानां गण्ड स्थलीः प्रोषितपत्त्रलेखाः ॥

6.73

ऐरावतास्फालनविश्लथं यः संघट्टयन्न् अङ्गदम् अङ्गदेन
उपेयुशः स्वाम् अपि मूर्तिम् अग्र्याम् अर्धासनं गोत्रभिदो ऽधित ष्ठ् औ ॥

6.74

जातः कुले तस्य किलोरुकीर्तिः कुलप्रदीपो नृपतिर् दिलीपः
अतिष्ठद् एकोनशतक्रतुत्वे शक्राभ्यसूयाविनिवृत्तये यः ॥

6.75

यस्मिन् महीं शासति वाणिनीनां निद्रां विहारार्धपथे गतानाम्
वातो ऽपि नासरंसयद् अंशुकानि को लम्बयेद् आहरणाय हस्तम् ॥

6.76

पुत्रो रघुस् तस्य पदं प्रशास्ति महाक्रतोर् विश्वजितः प्रयोक्ता
चतुर्दिग् आवर्जित संभृत् आं यो मृत्पात्रशेषाम् अकरोद् विभूतिम् ॥

6.77

आरूढम् अद्रीन् उदधीन् वि तीर्णं भुजंगमानां वसतिं प्रविष्टम्
ऊर्ध्वं गतं यस्य न चानुबन्धि यशः परिच्छेत्तुम् इयत्तयालम् ॥

6.78

असौ कुमारस् तम् अजो ऽनुजातस् त्रिविष्टपस्येव पतिं जयन्तः
गुर्वीं धुरं यो भुवनस्य पित्रा धुर्येण दम्यः सदृश् अं बिभर्ति ॥

6.79

कुलेन कान्त्या वयसा नवेन गुणैश् च तैस् तैर् विनयप्रधानैः
त्वम् आत्मनस् तुल्यम् अमुं वृणीष्व रत्नं समागच्छतु काञ्चनेन ॥

6.80

ततः सुनन्दावचनावसाने लज्जां तनू कृत्य नरेन्द्रकन्या
दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत् संवरणस्रजेव ॥

6.81

सा यूनि तस्मिन्न् अभिलाषबन्धं शशाक शालीनतया न वक्तुम्
रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रामद् अरालकेश्याः ॥

6.82

तथागतायां परिहासपूर्वं सख्यां सखी वेत्र धरा बभाषे
आर्ये व्रजामो ऽन्यत इत्य् अथैनां वधूर् असूयाकुटिलं ददर्श ॥

6.83

सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरूः
आसञ्जयाम् आस यथाप्रदेशं कण्ठे गुणं मूर्तम् इवानुरागम् ॥

6.84

तया स्रजा मङ्गलपुष्पमय्या विशालवक्षःस्थललम्बया सः
अमंस्त कण्ठार्पितबाहुपाशां विदर्भराजावरजां वरेण्यः ॥

6.85

शशिनम् उपगतेयं कौमुदी मेघमुक्तं जलनिधिम् अनुरूप् अं
इति समगुणयोगप्रीतयस् तत्र पौराः श्रवणकटु नृपाणाम् एकवाक्यं विवव्रुः ॥

6.86

प्रमुदितवरपक्षम् एकतस् तत् (?) क्षितिपतिमण्डलम् अन्यतो वितानम्
उषसि सर इव प्रफुल्लपद्मं कुमुदवनप्रतिपन्ननिद्रम् आसीत् ॥

6.1*

स तत्र मञ्चेषु विमानकल्पेष्व् आकल्पसंमूर्छितरूपशोभान्
सिंहासनस्थान् नृपतीन् अपश्यत् यूपान् प्रशस्तान् इव हैमवेद् ईन् ॥

6.67*

यदा यदा राजकुमारिकासौ न पूर्वपूर्वं गनयां चकार
तदा तदा नामितरेफरेखाम् आशालता पल्लविनी बभूव ॥

मूल पाठ: Raghuvaṃśa · Edition: A. Scharpé: Kalidasa Lexicon, Vol. 1, Brugge 1964 (Rijksuniversiteit te Gent, Werken uitgegeven door de Faculteit van de Letteren en Wijsbegeerte, 134) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc