भाषा

ENहिગુ
ग्रंथ पाठ

रघुवंश · अध्याय 5

5.1

तम् अध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम्
उपात्तविद्यो गुरुदक्षिनार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः ॥

5.2

स मृन्मये वीतहिरण्मयत्वात् पात्रे निधायार्गह्यम् अनर्घ्य शीलः
श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिम् आतिथेयः ॥

5.3

तम् अर्चयित्वा विधिवद् विधिज्ञस् तपोधनं मानधनाग्रयायी
विशांपतिर् विष्टरभाजम् आरात् कृताञ्जलिः कृत्यविद् इत उवाच ॥

5.4

अप्य् अग्रणीर् मन्त्रकृताम् ऋषीणां कुशाग्रबुद्धे कुशली गुरुस् ते
यतस् त्वया ज्ञानम् अशेषम् आप्तम् लोकेन चैतन्यम् इव् ओष्णरश्मेः ॥

5.5

कायेन वाचा मनसा पि शश्वद् यत् संभृतं वासवधैर्यलोपि
आपाद्यते न व्ययम् अन्तरायैः कच्चिन् महर्षेस् त्रिविधं तपस् तत् ॥

5.6

आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषम्
कच्चिन् न वाय्वादिर् उपप्लवो वः श्रमच्छिदं आश्रमपादपानाम् ॥

5.7

क्रियानिमित्तेष्व् अपि वत्सलत्वाद् अभग्नकामा मुनिभिः कुशेषु
तदङ्कशय्याच्युतनाभिनाला कच्चिन् मृगीणाम् अनघा प्रसूतिः ॥

5.8

निर्वर्त्यते यैर् नियमाभिषेको येभ्यो निवापाञ्जलयः पित्ःणाम्
तान्य् उञ्छषष्ठाङ्कितसैकतानि शिवानि वस् तीर्थजलानि कच्चित् ॥

5.9

नीवारपाकादि कडम् ग् अरीयैर् आमृश्यते जानपदैर् न कच्चित्
कालोपपन्नातिथि कल्प भागं वन्यं शरीरस्थितिसाधनं वः ॥

5.10

अपि प्रसन्नेन महर्षिणा त्वं सम्यग् विनीयानुमतो गृहाय
कालो ह्य् अयं संक्रमितुं द्वितीयं सर्वोपकारक्षमम् आश्रमं ते ॥

5.11

तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे
अप्य् आज्ञया शासितुर् आत्मना वा प्राप्तो ऽसि संभावयितुं वनान् माम् ॥

5.12

इत्य् अर्घ्य पात्रानुमितव्ययस्य रघोर् उदाराम् अपि गां निशम्य
स्वार्थोपपत्तिं प्रति दुर्बलाशस् तम् इत्य् अवोचद् वरतन्तुशिष्यः ॥

5.13

सर्वत्र नो वार्त्तम् अवेहि राजन् नाथे कुतस् त्वव्य् अशुभं प्रजानाम्
सूर्ये तपत्य् आवरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्र् आ ॥

5.14

भक्तिः प्रतीक्ष्येषु कुलोचिता ते पूर्वान् महा भाग तया ऽतिशेषे
व्यतीतकाल् अस् त्व् अहम् अभ्युपेतस् त्वाम् अर्थिभावाद् इति मे विषादः ॥

5.15

शरीरमात्रेण नरेन्द्र तिष्ठन्न् आभासि तीर्थप्रतिपादितर्द्धिः
आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः ॥

5.16

स्थाने भवान् एकनराधिपः सन्न् अकिंचनत्वं मखजं व्यनक्ति
पर्यायपीतस्य सुरैर् हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः ॥

5.17

तद् अन्यतस् तावद् अनन्यकार्यो गुर्वर्थम् आहर्तुम् अहं यतिष्ये
स्वस्त्य् अस्तु ते निर्गलिताम्बुगर्भं शरद्घनं नार्दति चातको ऽपि ॥

5.18

एतावद् उक्त्वा प्रतियातुकामं शिष्यं महर्षेर् नृपतिर् निषिध्य
कि ं वस्तु विद्वन् गुरवे प्रदेयं त्वया कियद् वेति तम् अन्वयुङ्क्त ॥

5.19

ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय
वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतम् आचचक्षे ॥

5.20

सम् आप्तविद्येन मया महर्षिर् विज्ञापितो ऽभूद् गुरुदक्षिणायै
स मे चिरायास्खलितोपचारां तां भक्तिम् एवागणयत् पुरस्तात् ॥

5.21

निर्बन्धसंजातरुषार्थकार्श्यम् अचिन्तयित्वा गुरुणाहम् उक्तः
वित्तस्य विद्यापरिसंख्यया मे कोटीष् चतस्रो दश चाहरेति ॥

5.22

सो ऽहं सपर्याविधिभाजनेन मत्वा बह्वन्तं प्रभुशब्दशेषम्
अभ्युत्सहे संप्रति नोपरोद्धुम् अल्पेतरत्वाच् छ्रुतनिष्क्रयस्य ॥

5.23

इत्थं द्विजेन द्विजराकान्तिर् आवेदितो वेदविदां वरेण
एनोनिवृत्तेन्द्रियवृत्तिर् एनं जगाद भूयो जगदेकनाथः ॥

5.24

गुर्वर्थम् अर्थी श्रुतपारदृश्वा रघोः सकाशाद् अनवाप्य कामम्
गतो वदायान्तरम् इत्य् अयं मे मा भूत् परीवादनवावतारः ॥

5.25

स त्वं प्रशस्ते महित् ए मदीये वसंश् चतुर्थो ऽग्निर् इवाग्न्यगारे
द्वित्राण्य् अहान्य् अर्हसि सोढुम् अर्हन् यावद् यते साधयितुं त्वदर्थम् ॥

5.26

तथेति तस्य्ऽ; आवितथ् अं प्रतीतः प्रत्यग्रहीत् संगरम् अग्रजन्मा
गाम् आत्तसारां रघुर् अप्य् अवेक्ष्य निष्कष्टुम् अर्थं चकमे कुबेरात् ॥

5.27

वसिष्ठमन्त्रोक्षणजात् प्रभावाद् उदन्वदाकाशमहीधरेषु
मरुत्सखस्येव बलाहकस्य गतिर् विजघ्ने न हि तद्रथस्य ॥

5.28

अथाधिशिश्ये प्रयथः प्रदोषे रथं रघुः कल्पितशस्त्रगर्भम्
सामन्तसंभावनयैव धीरः कैलासनाथं तरसा जिगीषुः ॥

5.29

प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयाः कोशगृहे नियुक्ताः
हिरण्मयीं कोशगृहस्य मध्ये वृष्टिं शशंसुः पतितां नभस्तः ॥

5.30

तं भूपतिर् भासुरहेमराशिं लब्धं कुबेराद् अभियास्यमानात्
दिदेश कौत् अस्य समस्तम् एव पादं सुमेरोर् इव वज्रभिन्नम् ॥

5.31

जनस्य साकेतनिवासिनस् तौ द्वाव् अप्य् अभूताम् अभिनन्द्यसत्त्वौ
गुरुप्रदेयाधिकनीःस्पृहो ऽर्थी नृपो ऽर्थिकामाद् अधिकप्रदश् च ॥

5.32

अथोष्ट्रवामीशत वाहित् आर्थं प्रजेष्वरं प्रीतमना महर्षिः
स्पृषन् करेणानतपूर्वकायं संप्रस्थितो वाचम् उवाच कौत्सः ॥

5.33

किम् अत्र चित्रं यदि कामसूर् भूर् वृत्ते स्थितस्याधिपतेः प्रजानाम्
अचिन्तनीयस् तु तव प्रभावो मनीषितं द्यौर् अपि येन दुग्धा ॥

5.34

आशास्यम् अन्यत् पुनरुक्तभूतं श्रेयांसि सर्वाण्य् अधिजग्मुषस् ते
पुत्रं लभस्वात्मगुणानुरूपं भवन्तम् ईड् अं भवतः पितेव ॥

5.35

इत्थं प्रयुज्याशिषम् अग्रजन्मा राज्ञे प्रतीयाय गुरोः सकाशम्
राजापि लेभे सुतम् आशु तस्माद् आलोकम् अर्काद् इव जीवलोकः ॥

5.36

ब्राह्मे मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारम्
अतः पिता ब्रह्मण एव नाम्ना तम् आत्म जन्मानम् अजं चकार ॥

5.37

रूपं तद् ओजस्वि तद् एव वीर्यं तद् ऐव नैसर्गिकम् उन्नतत्वम्
न कारणात् स्वाद् बिभिदे कुमारः प्रवर्तितो दीप इव प्रदीपात् ॥

5.38

उपात्तविद्यं विधिवद् गुरुभ्यस् तं यौवनोद्भेदविशेषकान्तम्
श्री र् गन्तुकामा पि गुरोर् अनुज्ञां धीरेव कन्या पितुर् आचकाङ्क्ष ॥

5.39

अथेश्वरेण क्रथकैश् इ कानां स्वयंवरार्थं स्वसुर् इन्दुमत्याः
आप्तः कुमारानयनोत्सुकेन भोजेन दूतो रघवे विसृष्टः ॥

5.40

तं श्लाघ्यसंबन्धम् असौ विचिन्त्य दारक्रियायोग्यदशं च पुत्रम्
प्रस्थापयाम् आस ससैन्यम् एनम् ऋद्धां विदर्भाधिपराजधानीम् ॥

5.41

तस्योपकार्यारचित् ओपकारा वन्येतरा जानपदोपदाभिः
मार्गे निवासा मनुजेन्द्रसूनोर् बभूवुर् उद्यानविहारकल्पाः ॥

5.42

स नर्मदारोधसि शीकरार्द्रैर् मरुद्भिर् आनर्तितनक्तमाले
निवेशयाम् आस विलङ्घिताध्वा क्लान्तं रजोधूसरकेत् उ सैन्यम् ॥

5.43

अथोपरिष्टाद् भ्रमरैर् भ्रमद्भिः प्रा क् सूचितान्तःसलिलप्रवेशः
निर्धौत दानामल गण्ड भित्तिर् यन्यः सरित्तो गज उन्ममज्ज ॥

5.44

निःशेषविक्षालितधातुनापि वप्रक्रियाम् ऋक्षवतस् तटेषु
नीलोर्ध्वरेखाशबलेन शंसन् दन्तद्वयेनाश्मविकुण्ठितेन ॥

5.45

संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दम्
बभौ स भिन्दन् बृहतस् तरङ्गान् वार्यर्गलाभङ्ग इव प्रवृत्तः ॥

5.45*

स भोगिभोगाधिकपीवरेण हस्तेन तीराभिमुखः सशब्दम्
संवर्धितार्त्धप्रहितेन दीर्घान् चिक्षेप वारीपरिघान् इवोर्मीन् ॥

5.46

शैलोपमः श् ऐ वल मञ्जरीणां जालानि कर्षन्न् उरसा स पश्चात्
पूर्वं तदुत्पीडितवारिराशिः सरित्प्रवाहस् तटम् उत्ससर्प ॥

5.46*

कारण्डवोत्सृष्टमृदुप्रत्नानाः पुलिन्दयोषाम्बुविहारकाञ्चीः
कर्षन् स शैवाललता नदीषः स्कन्धावलग्नास् तटम् उत्ससर्प ॥

5.47

तस्यैकनागस्य कपोलभित्त्योर् जल् आवगाहक्षणमात्रशान्ता
वन्येतरानेकपदर्शनेन पुनर् दिदीपे मददुर्दिनश्रीः ॥

5.48

सप्तच्छदक्षीरकटुप्रवाहम् असह्यम् आघ्राय मदं तदीयम्
विलङ्घिताधोरणतीव्रयत्नाः सेनागजेन्द्रा विमुख् आ बभूवुः ॥

5.49

स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन
रामापरिताणविहस्तयोधं सेनानिवेशं तुम् उ लं चकार ॥

5.50

तम् आपतन्तं नृपतेर् अवध्यो वन्यः करीति श्रुतवान् कुमारः
निवर्तयिष्यन् विशिखेन कुम्भे जघान नात्यायतकृष्ट शार्ङ्गः ॥

5.51

स विद्धमात्रः किल नागरूपम् उत्सृज्य तद्विस्मितसैन्यदृष्टः
स्फुरत्प्रभामण्डलमध्यवर्ति कान्तं वपुर् व्योमचरं प्रपेदे ॥

5.52

अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैर् अवकीर्य पुष्पैः
उवाच वाग्मी दशनप्रभाभिः संवर्धितोरःस्थलतारहारः ॥

5.53

मतङ्गशापाद् अवलेपमूलाद् अवाप्तवान् अस्मि मतङ्गजत्वम्
अवेहि गन्धर्वपतेस् तनूजं प्रियंवदं मां प्रियदर्शनस्य ॥

5.54

स चानुनीतः प्रणतेन पश्चान् मया महर्षिर् मृदुताम् अगच्छत्
उष्णत्वम् अग्न्यातपसंप्रयोगाच् छैत्यं हि यत् सा प्रकृतिर् जलस्य ॥

5.55

इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्य् अजः कुम्भम् अयोमुखेन
संयोक्ष्यसे स्वेन वपुर्महिम्ना तदेत्य् अवोचत् स तपोनिधिर् माम् ॥

5.56

सं मोचितः सत्त्ववता त्वयाहं शापाच् चिरप्रार्थितदर्शनेन
प्रति प्रियं चेद् भवतो न कुर्यां वृथा हि मे स्यात् स्वपदोपलब्धिः ॥

5.57

संमोहनं नाम सखे ममास्त्रं प्रयोगसंहारविभक्तमन्त्रम्
गान्धर्वम् आधत्स्व यतः प्रयोक्तुर् न चारिहिंसा विजयश् च हस्ते ॥

5.58

अलं ह्रिया मां प्रति यन् मुहूर्तं दयापरो ऽभुः प्रहरन्न् अपि त्वम्
तस्माद् उपच्छन्दयति प्रयोजं मयि त्वया न प्रतिशेध रौक्ष्यम् ॥

5.59

तथेत्य् उपस्पृश्य पयः पवित्रं सोमोध्बवायाः सरितो नृसोमः
उदङ्मुखः सो ऽस्त्रविद् अस्त्रमन्त्रं जग्राह तस्मान् निगृहीतशापात् ॥

5.60

एवं तयोर् अध्वनि दैवयोगाद् आसेदुषोः सख्यम् अचिन्त्यहेत् उ
एको ययौ चैत्ररथपदेशान् सौराज्यरम्यान् अपरो विदर्भान् ॥

5.61

तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्षः
प्रत्युज्जगाम क्रथकैश् इ केन्द्रश् चन्द्रं प्रवृद्धोर्मिर् इवोर्मिमाली ॥

5.62

प्रवेश्य चैनं पुरम् अग्रयायी नीचैस् तथोपाचरद् अर्पितश्रीः
मेने यथा तत्र जनः समेतो वैदर्भम् आगन्तुम् अजं गृहेशम् ॥

5.63

तस्य्ऽ; आधिकार् अ पुरुषैः प्रणतैः प्रदिष्टां प्राग्द्वारवेदिविनिवेशित पूर्ण कुम्भाम्
मेने यथा तत्र जनः समेतो बाल्यात् पराम् इव दशां मदनो ऽध्युवास ॥

5.64

तत्र स्वयंवरसमाहृतराजलोकं कन्याललाम कमनीयम् अजस्य लिप्सोः
भावावबोधकलुषा दयितेव रात्रौ निद्रा चिरेण नयनाभिमुख् ई बभूव ॥

5.65

तं कर्णभूषणनिपीडितपीवरांसं शय्योत्तरच्छदविमर्दकृशाङ्गरागम्
सूतात्मजाः सवयसः प्रथितप्रबोधं) प्राबोधयन्न् उषसि वाग्भिर् उदारवाचः ॥

5.66

रात्रिर् गता मतिमतां वर मुञ्च शय्यां धात्रा द्विधैव ननु धूर् जगतो विभक्ता
ताम् एकतस् तव बिभर्ति गुरुर् विनिद्रस् तस्या भवान् अपरधुर्यपदावलम्बी ॥

5.67

निद्रावशेन भवता प्य् अनपेक्षमाणा पर्युत्सुकत्वम् अबला निशि खण्डितेव
लक्ष्मीर् विनोदयति येन दिगन्तलम्बी सो ऽपि त्वदाननरुचिं विजहाति चन्द्रः ॥

5.68

तद् वल्गुना युगपदुन्मिषितेन तावत् सद्यः परपरतुलाम् अधिरोहतां द्वे
प्रस्पन्दमानपरुषेतरतारम् अन्तश् चक्षुस् तव प्रचलितभ्रमरं च पद्मम् ॥

5.69

वृन्त् आच् छ्ल् अथं हरति पुष्पम् अनोकहानां संसृज्यते सरसिजैर् अरुणाम्शुभिन्नैः
स्वाभाविकं परगुणेन विभातवायुः सौरभ्यम् ईप्सुर् इव ते मुखमारुतस्य ॥

5.70

ताम्रोदरेषु पैतं तरु पल्लवेषु निर्धौत हारगु ल् इकाविशदं हिमाम्भः
आभाति लब्धपरभागतयाधरोष्ठे लीलास्मितं सदशनार्चिर् इव त्वदीयम् ॥

5.71

यावत् प्रतापनिधिर् आक्रमते न भानुर् अह्नाय तावद् अरुणेन तमो निरस्तम्
आयोधनाग्रसरतां त्वयि वीर याते किं वा रिपूंस् तव गुरुः स्वयम् उच्छिनत्ति ॥

5.72

शय्यां जहत्य् उभयपक्षविनीतनिद्राः स्तम्बेरमा मुखरशृङ्खलकर्षिणस् ते
येषां विभान्ति तरुणारुणरागयोगाद् भिन्नाद्रिगैरिकतटा इव दन्तकोषाः ॥

5.73

दीर्घेष्व् अमी नियमिताः पटमण्डपेषु निद्रां विहाय वनजाक्ष वनाय् उदेश्याः
वक्त्रोष्मणा मलिनयन्ति पुरोगतानि लेह्यानि सैन्धवशिलाशकलानि वाहाः ॥

5.74

भवति विरलभक्तिर् म्लानपुष्पोपहारः स्वकिरण्परिवेषोध्बेदशून्याः प्रदीपाः
अयम् अपि च गिरं नस् त्वत्प्रबोधप्रयुक्ताम् अनुवदति शुकस् ते मञ्जुवाक् पञ्जरस्थः ॥

5.75

इति विरचितवाग्भिर् बन्दिपुत्रैः कुमारः सपदि विगत निद्रस् तल्पम् उज्झां चकार
मदपट् उ निनदद्भिर् बोधितो राजहंसैः सुरगज इव गाङ्गं सैकतं सुप्रतीकः ॥

5.76

अथ विधिम् अव साय्य शास्त्रदृष्टं दिवसमुखोचितम् अञ्चित् आक्षिपक्ष्मा
कुशलविरचित् आनुकूल वेषः क्षितिपसमाजम् अगात् स्वयंवरस्थम् ॥

5.57*

गान्धर्वम् अस्त्रं तद् इतः प्रतीच्छ प्रयोगसंहारविभक्तमन्त्रम्
संध्या प्रातिपदेनेव न चारिहिंसा विजयः स्वहस्ते ॥

5.67*

निद्रावशं त्वयि गते शशिना कथंचिद् आत्मानम् आनन रुचा भवतो वि युज्य
लक्ष्मीर् विभातसमये ऽपि हि दर्शनेन पर्युत्सुका प्रणय् इनी निशि खण्डितेव ॥

5.69*

मन्दं विवाति हिमसंभृतशीतभावः संसृज्यते सरसिजैर् अरुणांशुभिन्नैः
सौरभ्यम् ईप्सुर् इव ते मुखमारुतस्य यन् नो गुणान् प्रति निशापरिणामवायुः ॥

5.75*

इति स विहत निद्रस् तल्पम् अल्पेतर् आंशः सुरगज इव गङ्गासैकतं सुप्रतीकः
परिजनवनितानां पादयोर् व्यापृतानां वलयमणिविदिष्टं प्रच्छदान्तं मुमोच ॥

मूल पाठ: Raghuvaṃśa · Edition: A. Scharpé: Kalidasa Lexicon, Vol. 1, Brugge 1964 (Rijksuniversiteit te Gent, Werken uitgegeven door de Faculteit van de Letteren en Wijsbegeerte, 134) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc