भाषा

ENहिગુ
ग्रंथ पाठ

रघुवंश · अध्याय 4

4.1

स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ
दिनान्ते निहितं तेजः सवित्रेव हुताशनः ॥

4.1*

न्यस्तशस्त्रं दिलीपं च तं च शुश्रुवुषां पतिम्
राज्ञाम् उद्धृतनाराचे हृदि शल्यम् इवार्पितम् ॥

4.2

दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम्
पूर्वं प्रदूमित् ओ राज्ञां हृदये ऽग्निर् इवोत्थितः ॥

4.3

पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः
नवाभ्युत्थानदर्शिन्यो ननन्दुः स प्रजाः प्रजाः ॥

4.4

समम् एव समाक्रान्तं तस्योन्नयनपङ्क्तयः
तेन सिंहासनं पित्र्यम् अखिलं चारिमण्डलं ॥

4.5

छायामण्डललक्ष्येन तम् अदृश्या किल स्वयम्
पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् ॥

4.6

परिकल्पितसांनिध्या काले काले च बन्दिषु
स्तुत्यं स्तुतिभिर् अर्थ्याभिर् उपतस्थे सरस्वती ॥

4.7

मनुप्रभृतिभिर् मान्यैर् भुक्ता यद्य् अपि राजभिः
तथाप्य् अनन्यपूर्वेव तस्मिन्न् आसीद् वसुंधरा ॥

4.8

स हि सर्वस्य लोकस्य युक्तदण्डतया मनः
आददे नातिशीतोष्णो नभस्वान् इव दक्षिणः ॥

4.9

मन्दोत्कण्टः कृतास् तेन गुणाधिकतया गुरौ
फलेन सहकारस्य फुष्पोद्गम इव प्रजाः ॥

4.10

नय विद्भिर् नवे राज्ञि सद् असच् चोपदर्शितम्
पूर्व एवाभवत् पक्षस् तस्मिन् नाभवद् उत्तरः ॥

4.11

पञ्चानाम् अपि भूतानाम् उत्कर्षं पुपुषुर् गुणाः
नवे तस्मिन् महीपाले सर्वं नवम् इवाभवत् ॥

4.12

यथा प्रह्लादनाच् चन्द्रः प्रतापात् तपनो यथा
तथैव सो ऽभूद् अन्वर्थो राजा प्रकृतिरञ्जनात् ॥

4.13

कामं कर्णान्तविष्रान्ते विशाले तस्य लोचने
चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थदर्शिन् आ ॥

4.14

लब्धप्रशमन् अ स्व स्थम् अथैनं समुपस्थिता
पार्थिवश्रीर् द्वितीयेव शरत् पङ्कजलक्षणा ॥

4.15

निर्वृष्टलघुभिर् मेघैर् मुक्तवर्त्मा सुदुःसहः
स्वं धनुः शङ्कितेनेव युगपद् व्यानशे दिशः ॥

4.15*

अधिज्यम् आयुधं कर्तुं मुक्तवर्त्मा सुदुःसहः
स्वं धनुः शङ्कितेनेव संजह्रे शतमन्युना ॥

4.16

वार्षिकं संजहारेन्द्रो धनुर् जैत्रं रघुर् दधौ
प्रजार्थसाधने तौ हि पर्याय् ओद्यतकार्मुकौ ॥

4.17

पुण्डरीकातपत्रस् तं विकसत् काशचामरः
ऋतुर् विडम्बयाम् आस आसीत् समरसा द्वयोः ॥

4.18

प्रसादरीकातपत्रस् तं चन्द्रे च विशदप्रभे
तदा चक्षुष्मतां प्रीतिर् आसीत् समरसा द्वयोः ॥

4.19

हंसश्रेण् ईषु तारासु कुमुद्वत्सु च वारिषु
विभूतयय्स् तदीयानां पर्यस्ता यशसाम् इव ॥

4.20

इक्षुच्छा य निषादिन्यस् तस्य गोप्तुर् गुणोदयम्
आकुमारकथ् ओद्घातं शालिगोप्यो जगुर् यशः ॥

4.21

प्रससादोदयाद् अम्भः कुम्भयोनेर् महौजसः
रघ् ओर् अभिभव् आशङ्कि चुक्षुभे द्विषतां मनः ॥

4.22

मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः
लीलाखेलम् अनुप्रापुर् मोहक्षास् तस्य विक्रमम् ॥

4.23

प्रसवैः सप्तपर्णानां मदगन्धिभिर् आहताः
असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः ॥

4.24

सरितः कुर्वती गाधाः पथश् चाश्यानकर्दमान्
यात्रायै चोदयाम् आस तं शक्तेः प्रथमं शरत् ॥

4.25

सम्यक् तस्मै घुतो वह्निर् वाजिनीराजनाविधौ
प्रदक्षिणार्चिर् व्याजेन हस्तेनेव जयं ददौ ॥

4.26

स गुप्तमूल प्रत्यन्तः शुद्धपार्ष्णिर् अयान्वितः
षड्विधं बलम् आदाय प्रतस्थे दिग्जिगीषया ॥

4.27

अवाकिरन् वयोवृद्धास् तं लाजैः पौरयोषितः
पृषतैर् मन्दरोद्धूतैः क्षीरोर्मय इवाच्युतम् ॥

4.28

स ययौ प्रथमं प्राचीं तुल्यः प्राचीनबर्हिषा
अहितान् अनिलोद्धूतैस् तर्जयन्न् इव केतुभिः ॥

4.29

रजोभिः स्यन्दनोद्धूतैर् गजैश् च घनसंनिभैः
भुवस् तलम् इव व्योम कुर्वन् व्योमेव भूतलम् ॥

4.30

प्रतापो ऽग्रे ततः शब्दः परागस् तदन्तरम्
ययौ पश्चाद् रथ् आदीति चतुःस्कन्धेव सा चमूः ॥

4.31

मरु पृष्ठान्य् उदम्भांसि नाव्याः सुप्रतरा नदीः
विपिनानि प्रकाशानि शक्तिमत्त्वाच् चकार सः ॥

4.31*

पुरोगैः कलुषास् तस्य सहप्रस्थायिभिः कृशाः
पश्चात्प्रयायिभिः पङ्काश् चक्रिरे मार्गनिम्नगाः ॥

4.32

स सेनां महतीं कर्षन् पूर्वसागरगामिनीम्
बभौ हरजटाभ्रष्टां गङ्गाम् इव भगीरथः ॥

4.33

त्याजितैः फलम् उत्खातैर् भग्नैश् च बहुधा नृपैः
तस्यासीद् उल्बणो मार्गः पादपैर् इव दन्तिनः ॥

4.34

पौरस्त्यान् एवम् आक्रामंस् तांस् ताञ् जनपदाञ् जयी
प्राप तालीवन्श्यामम् उपकञ्ठं महोदधेः ॥

4.35

अनम्राणां समुद्धर्तुस् तस्मात् सिन्धुरयाद् इव
आत्मा संरक्षितः सुह्मैर् वृत्तिम् आश्रित्य वैतसीम् ॥

4.36

वङ्गान् उत्खाय तरसा नेता नौसाधन् ओद्धतान्
निचखान जयस्तम्भान् गङ्गास्रोतोऽन्तरेषु सः ॥

4.37

आपादपद्म प्रणताः कलमा इव ते रघुम्
फलैः संवर्धयाम् आसुर् उत्खातप्रतिर्पिताः ॥

4.38

स तीर्त्वा कपिषां सैन्यैर् बद्धद्विरदसेतुभिः
उत्कलादर्शित पथः कलिङ्गाभिमुख् ओ ययौ ॥

4.39

स प्रतापं महेन्द्रस्य मूर्ध्नि तीक्ष्णं न्यवेशयत्
अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिनः ॥

4.40

प्रतिजग्राह कालिङ्गस् तम् अस्त्रैर् गजसाधनः
पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वतः ॥

4.41

द्विषां विषह्य काकुत्स्थस् तत्र नाराचदुर्दिनम्
सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियम् ॥

4.41*

वायव्यास्त्रविनिर्धूतात् पक्षाविद्धान् महोदधेः
गजानीकात् स कालिङ्गं तार्क्ष्यः सर्पम् इवाददे ॥

4.42

ताम्बूलीनां दलैस् तत्र रचितापानभूमयः
नलिकेर् आसवं योधाः शात्रवं च पपुर् यशः ॥

4.43

गृहीतप्रतिमुक्तस्य स धर्मविजयी नृपः
श्रियं महेन्द्रनाथस्य जहार न तु मेदिनीम् ॥

4.44

ततो वेलातटेनैव फलवत्पूगमालिना
अगस्त्याचरिताम् आशाम् अनाशास्यजयो ययौ ॥

4.45

स सैन्यपरिभोगेण गजदानसुगन्धिना
कावेरीं सरितां पत्युः शङ्कनीयाम् इवाकरोत् ॥

4.46

बलैर् अधुषितास् तस्य विजिगीषोर् गताध्वनः
मरिचोद्भ्रान्त हारीता मलयाद्रेर् उपत्यकाः ॥

4.47

सस ञ्ज् उर् अश्वक्षुण्णानाम् एलानाम् उत्पतिष्णवः
तुल्यगन्धिषु मत्तेभ -कटेषु फलरेणवः ॥

4.47*

आजानेयखुरक्षुण्ण -पक्वैलाक्षेत्रसंभवम्
व्यानशे सपदि व्योम त्रिपदीछेदिनाम् अपि ॥

4.48

भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम्
न्ऽआस्र् अ सत् करिणां ग्रैवं त्रिपदीछेदिनाम् अपि ॥

4.49

दिशि मन्दायते तेजो दक्षिणस्यां रवेर् अपि
तस्याम् एव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥

4.50

ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः
ते निपत्य ददुस् तस्मै यशः स्वम् इव संचितम् ॥

4.51

स निर्विश्य यथाकामं तटेष्व् आलीन चन्दनौ
स्तनाव् इव दिशस् तस्याः शैलौ मलय दर्दुरौ ॥

4.53

तस्यानीकैर् विसर्पद्भिर् अपरान्तजयोद्यतैः
राम् आस्त्र् ओत्सारितो ऽप्य् आसीत् सह्यलग्न इवार्णवः ॥

4.54

भयोत्सृष्टविभूषाणां तेन केरलयोषिताम्
अलकेषु चमूरेणुश् चूर्णप्रतिनिधीकृतः ॥

4.55

मुरला मारुतोद्धूतम् अगमत् कैतकं रजः
तद्योधवारबाणानाम् अयत्नपटवासताम् ॥

4.56

अभ्यभूयत वाहानां चरतां गात्र शिञ्जितैः
वर्मभिः पवनोद्धूत -राजतालीवनद्व्ह्वनैः ॥

4.57

खर्जूरीस्कन्धनद्धानां मदोद्गार्तसुगन्धिषु
कटेषु करिणां पेतुः पुंनागेभ्यः शिलीमुखाः ॥

4.58

अवकाशं किलोदन्वान् रामायाभ्यर्थितो ददौ
अपरान्तमहीपाल -व्याजेन रघवे करम् ॥

4.59

मत्तेभरदनोत्कीर्ण -व्यक्तविक्रमलक्षणम्
त्रिकूटम् एव तत्रोच्चैर् जयस्तम्भं चकार सः ॥

4.60

पारसीकांस् ततो जेतुं प्रतस्थे स्थलवर्त्मना
इन्द्रियाख्यान् इव रिपूंस् तत्त्वज्ञानेन संयमी ॥

4.61

यवनीमुखपद्मानां सेहे मधुमदं न सः
बालातपम् इवाब्जानाम् अकालजलदोदयः ॥

4.62

संग्रामस् तुम् उ लस् तस्य पाश्चात्यैर् अश्व साधनैः
शार्ङ्गकूजितविज्ञेय -प्रतियोध् ए रजस्य् अभूत् ॥

4.63

भल्लापवर्जितैस् तेषां शिरोभिः श्मश्रुलैर् महीम्
तस्तार सरघाव्याप्तैः स क्षौद्रपटलैर् इव ॥

4.64

अपनीतशिरस्त्राणाः शेषास् तं शरणं ययुः
प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् ॥

4.65

विनयन्ते स्म तद्योधा मधुभिर् विजय श्रमम्
आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु ॥

4.66

ततः प्रतस्थे कौबेरीं भास्वान् इव रघुर् दिशम्
शरैर् उस्रैर् इवोदीच्यान् उद्धरिष्यम् रसान् इव ॥

4.66*

जितान् अजय्यस् तान् एव कृत्वा रथपुरःसरान्
महार्णवम् इवौराग्निः प्रविवेशोत्तरापथम् ॥

4.67

विनीताध्वश्रमास् तस्य सिन्धु तीरवेचेष्ट् अनैः
दुधुवुर् वाजिनः स्कन्धांल् लग्नकुङ्कुमकेसरान् ॥

4.68

तत्र हूणावरोधानां भर्तृशु व्यक्तविक्रमम्
कपोल पाटल् आदेशि बभूव रघुचेष्टितम् ॥

4.69

काम्बोजाः समरे सोढुं तस्य वीर्यम् अनीश्वराः
गजालानपरिक्लिष्टैर् अक्षोटैः सार्धम् आनताः ॥

4.70

तेषां सदश्वभूयिष्ठास् तुङ्ग् आ द्रविणराशयः
उपदा विविशुः शश्वन् नोत्सेक् आः कोसलेश्वरम् ॥

4.71

ततो गौरीगुरुं शैलम् आरुरोहाश्वसाधनः
वर्धयन्न् इव तत्कूटान् उद् धूतैर् धातुरेणुभिः ॥

4.72

शशंस तुल्यसत्त्वानां सैन्यघोषे ऽप्य् असंभ्रमम्
गुहा शयानां सिंहानां परिवृत्यावलोकितम् ॥

4.73

भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः
गङ्गाशीकरिणो मार्गे मरुतस् तं सिषेविरे ॥

4.74

विशश्रमुर् नमेरूणां छाय् आस्व् अध्यास्य सैनिकाः
दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः ॥

4.75

सरलासक्तमातङ्ग -ग्रैवेय स्फुरित त्विषः
आसन्न् ओ षधयो नेतुर् नक्तम् अस्नेहदीपिकाः ॥

4.76

तस्योत्सृष्टनिवासेषु कण्ठरज्जु क्षत त्वचः
गजवर्ष्म किरातेभ्यः शशंसुर् देवदारवः ॥

4.77

तत्र जन्यं रघोर् घोरं प् आ र्वतीयैर् गणैर् अभूत्
नाराचक्षेपणीयाश्म -निष्पेषोत्पतितानल् अम् ॥

4.78

शरैर् उत्सवसंकेतान् स कृत्वा विरतोत्सवान्
जयोदाहरणं बाह्वोर् गा प् अयाम् आस किंनर् आन् ॥

4.79

परस्पर् एण विज्ञातस् तेषूपायनपाणिषु
राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा ॥

4.80

तत्राक्षोभ्यं यशोराशिं निवेश्यावरुरोभ सः
पौलस्त्यतुलितस्याद्रेर् आदधान इव ह्रियम् ॥

4.81

चकम्पे तीर्णल् औ हित्ये तस्मिन् प्राग्ज्योतिषेश्वरः
तद्गालानतां प्राप्तैः सह कालागुरुद्रुअमैः ॥

4.82

न प्रसेहे स रुद्धार्कम् अधारावर्ष दुर्दिनम्
रथ वर्त्म रजो ऽप्य् अस्य कुत एव पताकिनीम् ॥

4.83

तम् ईशः कामरूपाणाम् अत्याखण्डलविक्रमम्
भेजे भिन्नकटैर् नागैर् अन्यान् उपरुरोध यैः ॥

4.84

कामरूपेश्वरस् तस्य हेम पीठाधिदेवताम्
रत्नपुष्पोपहारेण च्छायाम् आनर्च पादयोः ॥

4.85

इति जित्वा दिषो जिष्णुर् न्यवर्तत रथोद्धतम्
रजो विश्र् आ मयन् राज्ञां छत्त्रशून्येषु मौलिषु ॥

4.86

स विश्वजितम् आ जह्रे यज्ञं सर्वस्वदक्षिणम्
आदानं हि विसर्गाय सतं वारिमुचाम् इव ॥

4.87

सत्त्रान्ते सचिवसखः पुरस्क्रियाभिर् गुर्वीभिः शमितपराजयव्यलीकान्
काकुत्स्थश् चिरविरहोत्सुकावरोधान् राजन्यान् स्वपुरनिवृत्तये ऽनुमेने ॥

4.87*

यज्ञान्ते तम् अवभृथाबिषेकपूतं सत्कारैः शमितपराजयव्यलीकान्
आमन्त्र्योत्सुकवनितात्पतद्विसृष्टाः स्वानि स्वान्य् अवनिभुजः पुराणि जग्मुः ॥

4.88

ते रेकाध्वजकुलिशातपत्रैचिह्नं सम्राजश् चरणयुगं प्रसादलभ्यम्
प्रस्थानप्रणतिभिर् अङ्गुलीषु चक्रुर् मौलिस्रक्च्युतमकरन्दरेणुगौरम् ॥

मूल पाठ: Raghuvaṃśa · Edition: A. Scharpé: Kalidasa Lexicon, Vol. 1, Brugge 1964 (Rijksuniversiteit te Gent, Werken uitgegeven door de Faculteit van de Letteren en Wijsbegeerte, 134) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc