भाषा

ENहिગુ
ग्रंथ पाठ

रघुवंश · अध्याय 18

18.1

स नैषधस्य् आर्थ पतेः सुतायाम् उत्पादयाम् आस निषिद्धशत्रुः
अनूनसारं निषधान् नग् एन्द्रात् पुत्रं यम् आहुर् निषधाख्यम् एव ॥

18.2

तेनोरु वीर्येण पिता प्रजायै कल्पिष्यमाणेन ननन्द यूना
सु वृष्तियोगाद् इव जीवलोकः सस्येन संपत्तिफल् आत्मकेन ॥

18.3

शब्दादि निर्विश्य सुखं चिराय तस्मिन् प्रतिष्ठापितराजशब्दः
कौमुद्वतेयः कुमुदावदातैर् द्याम् अर्जितां कर्मभिर् आरुरोह ॥

18.4

पौत्रः कुशस्यापि कुशेशय् आक्षः ससागरां सागरधीरचेताः
एकातपोअत्रां भुवम् एकवीरः पुरार्गलादीर्घभुजो बुभोज ॥

18.5

तस्यानलौजास् तनयस् तदन्ते वंशश्रियं प्राप नलाभिधानः
यो नड्वलानीव गजः परेषां बलान्य् अमृद्नान् नलिनाभवक्त्रः ॥

18.6

नभश्चरैर् गीतयश्यामतनुं तनूजम् नभस्तलश्यामतनुं तनूजम्
ख्यातं नभःशब्दमयेन नाम्ना कान्तं नभोमासम् इव प्रजानाम् ॥

18.7

तस्मै विष्र्ज्योत्तरकोसलानां धर्मोत्तरस् तत् प्रभवे प्रभुत्वम्
मृगैर् अजर्यं जरस्पोदैष्टम् अदेहबन्धाय पुनर् बबन्ध ॥

18.8

तेन द्विपानाम् इव पुण्डरीको राज्ञाम् अजय्यो ऽजनि पुण्डरीकः
शान्ते पितर्य् आहृतपुण्डरीक् आ यं पुण्डरीकाक्षम् इव् आश्रिता श्रीः ॥

18.9

स क्षेमधन्वानम् अमोघधन्वा पुत्रं प्रजाक्षेमविधानदक्षम्
क्ष्मां लम्भयित्वा क्षमयोपपन्नं वने तपः क्षान्ततरश् चचार ॥

18.10

अनीकिनीनां समरे ऽग्रयायी तस्यापि देवप्रतिमः सुतो ऽभूत्
व्यश्रूयतानीकपदावसानं देवादि नाम त्रिदिवे ऽपि यस्य ॥

18.11

पिता समाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन
पुत्रस् तथैव् आधिक वत्सलेन स तेन पित्रा पितृमान् बभूव ॥

18.12

पूर्वस् तयोर् आत्मसमे चिरोढाम् आत्मोद्भवे वर्णचतुष्टयस्य
धुरं निधायैकनिधिर् गुणानाम् जगाम यज्वा यजमानलोकम् ॥

18.13

वशी सुतस् तस्य वशंवदत्वात् स्वेषाम् इवासीद् द्विषताम् अपीष्टः
सकृद् (?) विविग्नान् अपि हि प्रयुक्तं माधुर्यम् ईष्टे हरिणान् ग्रहीतुम् ॥

18.14

अहीनगुर् नाम स गां समग्राम् अहीनबाहुद्रविणः शशास
यो हीन संसर्गपराङ्मुखत्वाद् माधुर्यम् ईष्टे हरिणान् ग्रहीतुम् ॥

18.15

गुरोः स चानन्तरम् अन्तर्ज्ञः पुंसां पुमान् आद्य इवावतीर्णः
उपक्रमैर् अस्खलितैश् चतुर्भिश् चतुर्दिगीशश् चतुरो बभूव ॥

18.16

तस्मिन् प्रयाते परलोकयात्रां जेतर्य् अरीणां तनयं तदीयम्
उच्चैःशिरस्त्वाज् जितपारियात्रं लक्ष्मीः सिषेवे किल पारियात्रम् ॥

18.17

तस्याभवत् सूनुर् उदारशीलः शिलः शिलापट्टविशालवक्षाः
जितारिपक्षो ऽपि शिलीमुखैर् यः शालीनताम् अव्रजद् ईड्यमानः ॥

18.18

तम् आत्मसंपन्नम् अनिन्दितात्मा कृत्वा युवानं युवराजम् एव
सुखानि सो ऽभुङ्क्त सुख् ओपरोधि वृत्तं हि राज्ञाम् उपरुद्धवृत्तम् ॥

18.19

तं रागबन्धिष्व् अवितृप्तम् एव भोगेषु सौभाग्यविशेषभोग्यम्
विलासिनीनाम् अरतिक्षमापि जरा वृथा मत्सरिणी जहार ॥

18.20

उन्नाभ इत्य् उदग्तस्नामधेयस् तस्यायथार्थोन्नतनाभ्हिरन्ध्रः
सुतो ऽभवत् पङ्कजनाभकल्पः कृत्स्नस्य नाभिर् नृपमण्डलस्य ॥

18.21

ततः परं वज्रधरप्रभावस् तदात्मजः संयति वज्रघोषः
बभूव वज्राकरभुषणायाः पतिः पृथिव्याः किल वज्रनाभः ॥

18.22

तस्मिन् गते द्यां सुकृतोपलब्धां तत्संभवं शङ्खणम् अर्णवान्ता
उत्खातशत्रुं वसुधोपतस्थे रत्नोपहारैर् उदितैः खनिभ्यः ॥

18.23

तस्यावसाने हरिदश्वधामा पित्र्यं प्रपेदे पदम् अश्विरूपः
वेलातटेषूषितसैनिकाश्वं पुराविदो यं ध्युषिताश्वम् आहुः ॥

18.24

आराध्य विश्वेश्वरम् ईश्वरेण तेन क्षितेर् विश्व सहो ऽधि जज्ञे
पातुं सहो विश्व सखः समग्रां विश्वंभराम् आत्मजमूर्तिर् आत्मा ॥

18.25

अंशे हिरण्याक्शरिपोः स जाते हिरण्यनाभे तनये नयज्ञः
द्विषाम् असह्यः सुतरां तरूणां हिरण्यरेता सानिलो ऽभूत् ॥

18.26

पिता पित्ःणाम् अनृणस् तम् अन्ते वयस्य् अनन्तानि सुखानि लिप्सुः
राजानम् आजानुविलम्बिबाहुं कृत्वा कृती वल्कलवान् बभूव ॥

18.27

कौसल्य इत्य् उत्तरकोसलानां पत्युः पतंगान्वयभूषणस्य
तस्यौरसः सोमसुतः सुतो ऽभून् नेत्रोत्सवः सोम इव द्वितीयः ॥

18.28

कौसल्य इत्य् उत्तरकोसलानां स ब्रह्मभूय् अं गतिम् आजगाम
ब्रह्मिष्ठम् आधाय निजे ऽधिकारे ब्रह्मिष्ठम् एव स्वतनुप्रसूतम् ॥

18.29

यशोभिर् आब्रह्म सभं प्रकाशः सम्यग् महीं शासति शासनाङ्काम्
प्रजाश् चिरं सुप्रजसि प्रजेशे ननन्दुर् आनन्दजलाविलाक्ष्यः ॥

18.30

पात्रीकृतात्मा गुरुसेवनेन स्पृष्ट् आकृतिः पत्त्ररथेन्द्रकेतोः
तं पुत्रिण् आं पुष्करपत्त्रनेत्रः पुत्रः समारोपयद् अग्रसंख्याम् ॥

18.31

वंशस्थितिं वंशकरेण तेन संभाव्य भावी स सखा मघोनः
उप स्पृषन् स्पर्शनिवृत्तलौल्यस् त्रिपुष्करेषु त्रिदशत्वम् आप ॥

18.32

तस्य प्रभानिर्जित पुष्प-रागं पौष्यं तिथौ पुष्यम् असूत पत्नी
यस्मिन्न् अपुष्यन्न् उदिते समग्रां पुष्टिं जनाः पुष्य इव द्वितीये ॥

18.33

महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनये ऽर्पितात्मा
तस्मात् सयोगाद् अधिगम्य योगम् अजन्मने ऽकल्पत जन्मभीरुः ॥

18.34

ततः परं तत्प्रभव् अः प्रपेदे ध्रुवोपमेय् ओ ध्रुवसंध् इर् उर्व् ईम्
यस्मिन्न् अभूज् ज्यायसि सत्यसंधे संधिर् ध्रुवः संनमताम् अरीणाम् ॥

18.35

सुते शिशाव् एव सुदर्शनाख्ये दर्शात्ययेन्दुप्रियदर्शने सः
मृगायताक्षो मृगयाविहारी सिंहाद् अवापद् विपदं नृसिंहः ॥

18.36

स्वर्गामिनस् तस्य तम् ऐकमत्याद् अमात्यवर्गः कुलतन्तुम् एकम्
अनाथदीनाः प्रकृतीर् अवेक्ष्य साकेतनाथं विधिवच् चकार ॥

18.37

ववेन्दुना तन् नभसोपमेयं शावैकसिंहेन च काननेन
रघोः कुलं कु ड् मल पङ्कजेन तोयेन चाप्रौष्हनरेन्द्रम् आसीत् ॥

18.38

लोकेन भावी पितुर् एव तुल्यः संभावितो मौलि परिग्रहात् सः
दृष्टो हि वृण्वन् कलभप्रमाणो ऽप्य् आशाः पुरोवातम् अवाप्य मेघः ॥

18.39

तं राजवीथ्याम् अधिहस्ति यान्तम् आधोरणालम्बित् अम् अग्र्यवेषम्
षड्वर्षदेशियम् अपि प्रभुत्वात् प्रैक्षन्त पौराः पितृगौरवेण ॥

18.40

कामं न सो ऽकल्पत पैतृकस्य सिंहासनस्य प्रतिपूरणाय
तेजोमहिम्ना पुनर् आवृतात्मा तद् व्याप चामीकरपिञ्जरेण ॥

18.41

तस्माद् अधः किंचिद् इवावतीर्णाव् असंस्पृशन्तौ तपनीयपीठम्
सालक्तकौ भूपतयः प्रसिद्धैर् ववन्दिरे मौलिभिर् अस्य पादौ ॥

18.42

मणौ महानील इति प्रभावाद् अल्पप्रमाणे ऽपि यथा न मिथ्या
शब्दो महाराज इति प्रतीतस् तथैव तस्मिन् युयुजे ऽर्भके ऽपि ॥

18.43

पर्यन्तसंचारितचामरस्य कपोललोलोभयकाकपक्षत्
तस्याननाद् उच्चरितो विवादश् चक्स्हाल वेलास्व् अपि नार्णवानाम् ॥

18.44

निर् वृत्तजाम्बूनदपट्ट शोभे न्यस्तं ललाटे तिलकं दधानः
तेनैव शून्यान्य् अरिसुन्दरीणां मुखानि स स्मेरमुखश् चकार ॥

18.45

शिरीषपुष्प् आधिक सौकुमार्यः खेदं स यायाद् अपि श्रुतवृद्धयोगात्
नितान्तगुर्वीम् अपि चानु भावाद् धुरं धरित्र्या बिभरां बभूव ॥

18.46

न्यस्ताक्षराम् अक्षरभूमिकायां कार्त्स्न्येन गृह्णाति लिपिं न यावत्
सर्वाणि तावच् छ् रुतवृद्धयोगात् फलान्य् उपायुङ्क्त स दण्डनीतेः ॥

18.47

उरस्य् अपर्याप्त भागा प्रौढीभविष्यन्तम् उदीक्षमाणा
संजातलज्जेव तम् आतपत्र -छ्हायाछलेनोपजुगूह लक्ष्मीः ॥

18.48

अनश्नुवानेन युगोपमानम् अबद्ध मौर्वीकिणलाञ्छनेन
अस्पृष्टखड्गत्सरुणापि चासीद् रक्षावती तस्य भुजेन भूमिः ॥

18.49

न केवलं गच्छति तस्य काले ययुः शरीरावयवा विवृद्धिम्
वंश्या गुणाः खल्व् अपि लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानम् आपुः ॥

18.50

स पूर्वजन्मान्तरदृष्टपाराः स्मरन्न् इवाक्लेशकरो गुरूणाम्
तिस्रस् त्रिवर्गाधिगमस्य मूलं जग्राह विद्याः प्रकृतीश् च पित्र्याः ॥

18.51

व्य् ऊह्य स्थितः किंचिद् इवोत्तरार्धम् उन्नद्धचूडो ऽञ्चितस्व्यजानुः
आकर्णम् आकृष्टसबानधन्वा व्यरोचत्ऽ; आस्त् ए स विनीयमानः ॥

18.52

अथ मधु वनितां नेत्र निर्वेशनीयं मनसिजतरुपुष्पम् राग बन्ध प्रवालम्
अकृतकविधि सर्वाङ्गीणम् आकल्पजातं विलसितपदम् आद्यं यौवनं स प्रपेदे ॥

18.53

प्रतिकृतिरचनाभयो दूति संदर्शिताभ्यः समधिकतररूपाः शुद्धसंतानकामैः
अधिविविदुर् अमात्यैर् आहृतास् तस्य यूनः प्रथमपरिगृहीते श्रीभुवौ राजकन्याः ॥

18.16*

तस्माद् बभूवाथ दलाभिधानो दल् आन्वितः पद्मदल् आभदृष्टिः
कुन्द् आग्र दन्तो रिपुदन्तिसिंहः पतिः पृथिव्याः कुलकैर् इवेन्दुः ॥

18.19*

हित्व् आथ भोगांस् तपसोत्तमेन त्रिविष्टपं प्राप्तवति क्षितीशे
तदात्मजः सागरधीरचेताः शशास पृथ्वीं सकलां नृसोमः ॥

मूल पाठ: Raghuvaṃśa · Edition: A. Scharpé: Kalidasa Lexicon, Vol. 1, Brugge 1964 (Rijksuniversiteit te Gent, Werken uitgegeven door de Faculteit van de Letteren en Wijsbegeerte, 134) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc