भाषा

ENहिગુ
ग्रंथ पाठ

रघुवंश · अध्याय 17

17.1

ऐथिं नाम काकुत्स्थात् पुत्रं आप कुमुद्वती
पश्चिमाद् यामिनीयामात् प्रसादम् इव चेतना ॥

17.2

स पितुः पितृमान् वंशं पुत्रं आप कुमुद्वती
अपुनात् सवितेवोभौ मार्गाव् उत्तरदक्षिणौ ॥

17.3

तम् आदौ कुलविद्यानाम् अर्थम् अर्थविदां वरः
पश्चात् पार्थिवकन्यानां पाणिम् अग्राहयत् पिता ॥

17.4

जात्यस् तेनाभिजातेन शूरः शौर्यवता कुशः
अमन्यतैकम् आत्मानम् अनेकं वशिना वशी ॥

17.5

स कुलोचितम् इन्द्रस्य साहायकम् उपेयिवान्
जघान समरे दैत्यं दुर्जयं तेन सो ऽवधि ॥

17.6

तं स्वसा नागराजस्य कुमुदस्य कुमुद्वती
अन्वगात् कुमुदानन्दं शशाङ्कम् इव कौमुदी ॥

17.7

तयोर् दिवस्पतेर् आसीद् एकः सिंहासनार्धबाक्
द्वितीयापि सखी शच्याः पारिजातांश भागिनी ॥

17.8

तदात्मसंभवं राज्ये मन्त्रिवृद्दाः समादधुः
स्मरन्तः पश्चिमाम् आज्ञां भर्तुः संग्रामयायिनः ॥

17.9

ते तस्य कल्पयाम् आसुर् अभिषेकाय शिल्पिभिः
विमानं नवम् उद्वेदि चतुःस्तम्भप्रतिष्टम् ॥

17.10

तत्रैनं हेमकुम्भेषु संभृतैस् तीर्थवारिभिः
उपतस्थुः प्रकृतयो भद्रपीठ् ओपवेशितम् ॥

17.11

नदध्बिः स्निग्धगम्भीरं तूर्यैर् आहतपुष्करैः
अन्वमीयत कल्याणं तस्याविच्छिन्नसंतत् इ ॥

17.12

दूर्वायवाङ्कुरप्लक्ष -त्वगभिन्नपुटोत्तरान्
ज्ञातिवृद्ध् ऐः प्रयुक्तान् स भेजे नीराजनाविधीन् ॥

17.13

पुरोहितपुरोगास् तं जिष्णुं जैत्रैर् अथर्वभिः
उपचक्रमिरे पूर्वम् अभिषेक्तुं द्विजातयः ॥

17.14

तस्यौघमहती मूर्ध्नि निपतन्ती व्यरोचत
सशब्दम् अभिषेकश्रीर् गङ्गेव त्रिपुरद्विषः ॥

17.15

स्तूयमानः क्षणे तस्मिन्न् अलक्ष्यत स बन्दिभिः
प्र वृद्ध इव प्रजन्यः चातकैर् अभिनन्दितः ॥

17.16

तस्य सन् मन्त्रपूताभिः स्नानम् अद्भिः प्रतीच्छतः
ववृधे वैद्युतस्याग्नेर् वृष्टिसेकाद् इव द्युतिः ॥

17.17

स तावद् अभिषेकान्ते स्नातकेभ्यो ददौ वसु
याव् अत् तेषां समाप्येरन् यज्ञाः पर्याप्तदक्षिणाः ॥

17.18

ते प्रीतमनसस् तस्मै याम् आशिषम् उद् ईरयन्
सा तस्य कर्मनिर्वृत्तैर् दूरं पश्चात्कृता फलैः ॥

17.19

बन्धच्छेदं स बद्धानां वधार्हाणाम् अवध्यताम्
धुर्याणां च धुरो मोक्षम् अदोहं चादिषद् गवाम् ॥

17.20

क्रीडापतत्रिणो ऽप्य् अस्य पञ्जरस्थाः शुकादयः
लब्धमोक्षास् तदादेशाद् यथेष्टगतयो ऽभवन् ॥

17.21

ततः कक्षा न्तरन्यस्तं गजदन्तासनं शुच् इ
सोत्तरच्छदम् अध्यास्त नेपथ्यग्रहणाय सः ॥

17.22

तं धूपाश्यानकेशान्तं तोयनिर्णिक्तपाणयः
आकल्पसाधनैस् तैस् तैर् उपसेदुः प्रसाध् अकाः ॥

17.23

तेऽ; स्य मुक्तागुण् ओन्नद्धं मौलिम् अन्तर्गत स्रजम्
प्रत्यूपुः पद्मरागेण प्रभामण्डलशोभिना ॥

17.24

चन्दनेनाङ्गरागं च मृगनाभिसुगन्धिना
समापय्य ततश् चक्रुः पत्त्रं विन्यस्तरोचनम् ॥

17.25

आमुक्ताभरणः स्रग्वी हंस चिह्न दुकूलवान्
आसीद् अतिशयप्रेक्ष्यः स राज्यश्रीवधूवरः ॥

17.26

नेपथ्यदर्शिनश् छाया तस्यादर्शे हिरण्मये
विरराज् ओदिते सूर्ये मेरौ कल्पतरोर् इव ॥

17.27

स राजककुदव्यग्र -पाणिभिः पार्श्ववरिभिः
ययाव् उदीरितालोकः सुधर्मानवमां सभाम् ॥

17.28

वितानसहितं तत्र भेजे पैतृकम् आसनम्
चूडामणिभिर् उद्घृष्ट -पादपीठं मही क्षिताम् ॥

17.29

शुशुभे तेन चाक्रान्तं मङ्गलायतनं महत्
श्रीवत्सलक्षणं वक्षः कौस्तुभेनेव क् ऐ शवम् ॥

17.30

बभौ भूयः कुमारत्वाद् आधिराज्यम् अवाप्य सः
रेखा भावाद् उपारूढः सामग्र्यम् इव चन्द्रमाः ॥

17.31

प्रसन्नमुखरागं तं स्मितपूर्वाभिभाष् इणम्
मूर्तिमन्तम् अमन्यन्त विश्वासम् अनुजीविनः ॥

17.32

स पुरं पुरुहूतश्रीः कल्पद्रुमनिभध्वज् आम्
क्रममाणश् चकार द्यां नागेनैरावतौजसा ॥

17.33

तस्यैकस्योच्छ्रितं छत्त्रं मूर्ध्नि तेनामलत्विषा
पूर्वराजवियोग् औष्म्यं कृत्स्नस्य जगतो हृतम् ॥

17.34

धूमाद् अग्नेः शिख् आः पश्चाद् उदयाद् अंशवो रवेः
सो ऽतीत्य तेजस् आं वृत्तिं समम् एवोत्थितो गुणैः ॥

17.35

तं प्रीतिविशदैर् नेत्रैर् अन्वयुः पौरयोषितः
शरत्प्रसन्नैर् ज्योतिर्भिर् विभावर्य इव् अ ध्रुवम् ॥

17.36

अयोध्यादेवताश् चैनं प्रशस्तायतनार्चिताः
अनुदध्युर् अनुध्येयं सांनिध्यैः प्रतिमागतैः ॥

17.37

यावन् नाश्यायते वेदिर् अभिषेकजल् आ प्लुता
तावद् एवास्य वेलान्तं प्रतापः प्राप दुःसहः ॥

17.38

वसिष्ठस्य गुरोर् मन्त्राः सायकास् तस्य धन्विनः
किं तत् साध्यं यद् उभये साधयेयुर् न संगताः ॥

17.39

स धर्मस्थसखः शश्वद् अर्थिप्रत्यर्थिनां स्वयम्
ददर्श संशय च्छेद्यान् व्यवहारान् अतन्द्रितः ॥

17.40

ततः परम् अभिव्यक्ता -सौमनस्यनिवेदितैः
युयोज पाकाभिमुखैर् भृत्यान् विज्ञापनाफलैः ॥

17.41

प्रजास् तद्गुरुणा नद्यो नभसेव विवर्धिताः
तस्मिंस् तु भूयसीं वृद्धिं नभस्ये ता इवाययुः ॥

17.42

यद् उवाच न तन् मिथ्या यद् ददौ न जहार तत्
सो ऽभूद् भग्नव्रतः शत्रून् उद्धृत्य प्रतिरोपयन् ॥

17.43

वयोरूपविभूतीनाम् एकैकं मदकारणम्
तानि तस्मिन् समस्तानि न तस्य् ओत्सिषिच् ए मनः ॥

17.44

इत्थं जनितरागासु प्रकृतिष्व् अनुवासरम्
अक्षोभ्यः स नवो ऽप्य् आसीद् दृढमूल इव द्रुमः ॥

17.45

अनित्याः शत्रवो बाह्या विप्रकृष्टाश् च ते यतः
अतः सो ऽभ्यन्तरान् नित्यान् षट् पूर्वम् अजयद् रिपून् ॥

17.46

प्रसाद् आभिमुखे तस्मिंश् चपलापि स्वभावतः
निकषे हेम रेख् एव श्रीर् आसीद् अनपायिनी ॥

17.47

कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम्
अतः सिद्धिं समेताभ्याम् उभाभ्याम् अन्वियेष सः ॥

17.48

न तस्य मण्डले राज्ञ् ओ न्यस्तप्रणिधिदीधितेः
अदृष्टम् अभवत् किंचिद् व्यभ्रस्येव विवस्वतः ॥

17.49

रात्रिंदिवविभाग् एषु यद् आदिष्टं महीक्षिताम्
तत् सिषेवे नियोगेन स विकल्पपराङ्मुखः ॥

17.50

मन्त्रः प्रतिदिनं तस्य बभूव सह मन्त्रिभिः
स जातु सेव्यमानो ऽपि गुप्तद्वारो न सूच्यते ॥

17.51

परेषु स्वेषु च क्षिप्तैर् अविज्ञातपरस्परैः
सो ऽपसर्पैर् जजागार यथाकालं स्वपन्न् अपि ॥

17.52

दुर्गाणि दुर्ग्र्हाण्य् आसंस् तस्य रोद्धुर् अपि द्विषाम्
न हि सिंहो गजास्कन्दी भयाद् गिरिगुहाशयः ॥

17.53

बह्व्यमुख्याः समारम्भाः प्रत्यवेक्ष्या निरत्ययाः
गर्भशालिसधर्माणस् तस्य गूढं वि पेचिरे ॥

17.54

अपथेन प्रववृते न जातूपचितो ऽपि सः
वृद्धौ नदीमुखेन् ऐव प्रस्थानं लवणाम्भसः ॥

17.55

कामं प्रत्कृतिवैराग्यं सद्यः शमयितुं क्षमः
यस्य कार्यः प्रतीकारः स तन् नैव् ओदपादयत् ॥

17.56

शकेष्व् एवाभवद् यात्रा तस्य शक्तिमतः सतः
समीरणसहायो ऽपि नाम्भःप्रार्थी दवानलः ॥

17.57

न धर्मम् अर्थकामाभ्यां बबाधे न च तेन तौ
नार्थं कामेन कामं वा सो ऽर्थेन सदृशस् त्रिषु ॥

17.58

हीनान्य् अनुपकर्त्ःणि प्रवृद्धानि विकुर्वते
तेन मध्यमशक्तीनि मित्राणि स्ह्तापितान्य् अतः ॥

17.59

परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलम्
ययाव् एभिर् बलिष्ठश् चेत् परस्माद् आस्त सो ऽन्यथा ॥

17.60

कोश् एन् आश्रयणीयत्वम् इति तस्यार्थसंग्रहः
अम्बुगर्भो हि जीमूतश् चातकैर् अभि नन्द्यते ॥

17.61

परकर्मापहः सो ऽभूद् उद्यतः स्वेषु कर्मसु
आवृणोद् आत्मनो रन्ध्रं रन्ध्र् एषु प्रहरन् रिपून् ॥

17.62

पित्रा संवर्धितो नित्यं कृतास्त्रः सांपरायिकः
तस्य दण्डवतो दण्डः स्वदेहान् न व्यशिष्यत ॥

17.63

सर्पस्येव शिरोरत्नं नास्य शक्तित्रयं परः
स चकर्ष पर स्मात् तद् अयस्कान्त इवायसम् ॥

17.64

वापीष्व् इव स्रवन्तीषु वनेषूपवनेष्व् इव
सार्थाः स्वैरं स्वकीयेषु चेरुर् वेश्मस्व् इवाद्रिषु ॥

17.65

तपो रक्षन् स विघ्नेभ्यस् तस्करेभ्यश् च संपदः
यथास्वम् आश्रमैश् चक्रे वर्णैर् अपि षड्संशभाक् ॥

17.66

खनिभिः सुषुवे रत्नं क्षेत्रैः सस्यं वनैर् गजान्
दिदेश वेतनं तस्मै रक्षासदृशम् एव भूः ॥

17.67

स गुणानां बलानां च षण्णां षण्मुखविक्रमः
बभूव विनियोगज्ञः साधनीयेषु वस्तुषु ॥

17.68

इति क्रमात् प्रयुञ्जानो राज नीतिं चतुर्विधाम्
आ तीर्थाद् अप्रतीघातं स तस्याः फलम् आनशे ॥

17.69

कूटयुद्धविधिज्ञे ऽपि तस्मिन् सन्मार्गयोधिनि
भेजे ऽभिसारिकावृत्तिं जयश्रीर् वीर गामिनी ॥

17.70

प्रायः प्रतापभग्नत्वाद् अरीणां तस्य दुर्लभः
रणो गन्धविपस्येव गन्ध भिन्न् आन्यदन्तिनः ॥

17.71

प्रवृद्ध् औ हीयते चन्द्रः समुद्रो ऽपि तथाविधः
स तु तसम वृद्धिश् च न चाभूत् ताव् इव क्षय् ई ॥

17.72

सन्तस् तस्याभिगमनाद् अत्यर्थं महतः कृषाः
उदधेर् इव जीमूताः प्रापुर् दातृत्वम् अर्थिन् अः ॥

17.73

स्तूयमानः स जिह्राय स्तुत्यम् एव समाचरन्
तथापि ववृधे तस्य तत्कारिद्वेषिनो यशः ॥

17.74

दुरितं दर्शन् एन घ्नंस् तत्त्वार्थेन नुदंस् तमः
प्रजाः स्वतन्त्रयां चक्रे शश्वत् सूर्य इवोदितः ॥

17.75

इन्दोर् अगतयः पद्मे सूर्यस्य कुमुदे ऽंशवः
गुणास् तस्य विपक्षे ऽपि गुणिनो लेभिरे ऽन्तरम् ॥

17.76

पराभिसंधानपरं यद्य् अप्य् अस्य विचेष्टितम्
जिगीषोर् अश्वमेधाय धर्म्यम् एव बभूव तत् ॥

17.77

एवम् उद्यन् प्रभावेण शास्त्ग्रनिर्दिष्टवर्त्मना
वृषेव देवो देवानां राज्ञां राजा बभूव सः ॥

17.78

पञ्चमं लोकपालानां तम् ऊचुः साम्य योगतः
भूतानां महताम् षष्ठम् अष्टमं कुलभूभृताम् ॥

17.79

दूरापवर्जितच्छत्त्रैस् तस्याज्ञां शासनार्पिताम्
दधुः शिरोभिर् भूपाला देवः पौरंदरीम् इव ॥

17.80

ऋत्विजः स तथानर्च दक्षिणाभिर् महाक्रतौ
यथा साधारणीभूतं नामास्य धनदस्य च ॥

17.81

इन्द्राद् वृष्टिर् नियमितगदोद्रेकवृत्तिर् यमो ऽभूद् यादोनाथः शिवजलपथः कर्मणे नौचराणाम्
पूर्वापेक्षी तदनु विदधे कोशवृद्धिं कुबेरस् तस्मिन् दण्डोपनतचरितं भेजिरे लोकपालाः ॥

मूल पाठ: Raghuvaṃśa · Edition: A. Scharpé: Kalidasa Lexicon, Vol. 1, Brugge 1964 (Rijksuniversiteit te Gent, Werken uitgegeven door de Faculteit van de Letteren en Wijsbegeerte, 134) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc