भाषा

ENहिગુ
ग्रंथ पाठ

रघुवंश · अध्याय 19

19.1

अग्निवर्णम् अभिषिच्य राघवः स्वे पदे तनयम् अग्नितेजसम्
शिश्रिये श्रुतवताम् अपश्चिमः पश्चिमे वयसि नैमिषं वशी ॥

19.2

तत्र तीर्थसलिलेन दीर्घिकास् तल्पम् अन्तरितभूमिभिः कुशैः
सौधवासम् उटज् एन वि स्मृतः संचिकाय फलनिःस्पृहस् तपः ॥

19.3

लब्धपालनविधौ न तत्सुतः खेदम् आप गुरुणा हि मेदिनी
भोक्तुम् एव भुजनिर्जितद्विषा न प्रसाधयितुम् अस्य कल्पिता ॥

19.4

सो ऽधिकारम् अभिकः कुलोचितं काश्चन स्वयम् अवर्तयत् समाः
तं निवेश्य सचिवेष्व् अतः परं स्त्रीविधेयनवयौवनो ऽभवत् ॥

19.5

कामिनीसहचरस्य कामिनस् तस्य वेश्मसु मृदङ्गनादिषु
ऋद्धिमन्तम् अधिकर्द्धिर् उत्तरः पूर्वम् उत्सवम् अपोहद् उत्सवः ॥

19.6

इन्द्रियार्थपरिशून्यम् अक्षर्मः सोढुम् एकम् अपि स क्षणातरम्
अन्तरे च विहरन् दिवानिशं न व्यपैक्षत समुत्सुकाः प्रजाः ॥

19.7

गौरवाद् यद् अपि जातु मन्त्रिणां दर्शनं प्रकृतिकाङ्क्षितं ददौ
तद् गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितम् ॥

19.8

तं कृतप्रणतयो ऽनुजीविनः कोमल् आत्म नखराग रूषितम्
भेजिरे नवदिवाकरातप -स्पृष्टपङ्कजतुलाधिरोहणम् ॥

19.9

युवनोन्नतविलासिनीस्तन -क्षोभलोलकमलाश् च दीर्घिकाः
गूढमोहनगृहास् तदम्बुभिः स व्यगाहत विगाढमन्मथः ॥

19.10

तत्र सेकहृतलोचनाञ्जनैर् धौतरागपरिपाटलाधरैः
अङ्गनास् तम् अधिकं व्यलोभयन्न् अर्पित प्रकृति कान्तिभिर् मुखैः ॥

19.11

घ्राणकान्तमधुगन्धकर्षिणीः पानभूमिरचनाः प्रिया सखः
अभ्य् अपद्यत स वासितासखः पुष्पिताः कमलिनीर् इव द्विपः ॥

19.12

सातिरेकमद कारणं रहस् तेन दत्तम् अभिलेषुर् अङ्गनाः
ताभिर् अप्य् उपहृतं मुखासवं सो ऽपिबद् बकुलतुल्यदोहदः ॥

19.13

अङ्कम् अङ्कपरिवर्तनोचिते तस्य निन्यतुर् अशून्यताम् उभे
वल्लकी च हृदयंगमस्वना वल्गु वाग् अपि च वामलोचना ॥

19.14

स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो हरन् मनः
नर्तकीर् अभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुष्व् अलज्जवत् ॥

19.15

चार् उ नृत्यविगमे च तन्मुखं स्वेदभिन्नतिलकं परिश्रमात्
प्रेमदत्तवदनानि अः मनः सो ऽन्व् अजीवद् अमरालकेश्वरौ ॥

19.16

तस्य सावरण दृष्ट संधयः काम्यवस्तुषु नवेषु सङ्गिनः
वल्लभाभिर् उपसृत्य चक्रिरे सामि भुक्त विषयाः समागमाः ॥

19.17

अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितम्
मेखलाभिर् असकृच् च बन्धनं वञ्चयन् प्रणयिनीर् अवाप सः ॥

19.18

तेन दूति विदितं निषेदुषा पृष्ठतः सुरतवाररात्रिषु
शुश्रुवे प्रियजनस्य कातरं विप्रलम्भपरिशङ्किनो वचः ॥

19.19

लौल्यम् एत्य गृहिणीपरिग्रहान् नर्तकीष्व् असुलभासु तद्वपुः
वर्तते स्म स कथंचिद् आलिखन्न् अङ्गुलीक्षरणसन्नवर्तिकः ॥

19.20

प्रेमगर्वितविपक्षमत्सराद् आयताच् च मदनान् महीक्षितम्
निन्युर् उत्सवविधिच्छलेन तं देव्य उज्जितरुषः कृतार्थताम् ॥

19.21

प्रातर् एत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथाः
प्राञ्जलिः प्रणयिनीः प्रसादयन् सो ऽदुनोत् प्रणय मन्थरः पुनः ॥

19.22

स्वप्नकीर्तितविपक्षम् अङ्गनाः दर्शनेन कृतखण्डनव्यथाः
प्रच्छदान्तगलिताश्रुबिन्दुभिः क्रोधभिन्नवलयैर् विवर्तनैः ॥

19.23

कॢप्तपुष्पशयनांल् लतागृहान् एत्य दूतिकृतमार्गदर्शनः
अन्वभूत् परिजनाङ्गनारतं सो ऽवरोधभयवेपथूत्तरम् ॥

19.24

नाम वल्लभजनस्य ते मया प्राप्य भाग्यम् अपि तस्य काङ्क्ष् यते
लोलुपं बत मनो ममेति तं गोत्रविस्खलितम् ऊचुर् अङ्गनाः ॥

19.25

चूर्णबभ्रु लुलितस्रगाकुलं छिन्नमेखलम् अलक्तकाङ्कितम्
उत्थितस्य शयनं विलासिनस् तस्य विभ्रमर्ततान्य् अपावृणोत् ॥

19.26

स स्वयं चरणरागम् आदधे योषितं न च तथा समाहितः
लोभ्यमाननयनः श्लथांशुकैर् मेखलागुणपदैर् नितम्बिभिः ॥

19.27

चुम्बन् ए विपरि वर्तिताधरं हस्तरोधि रशनाविघट्टने
विघ्नितेच्छम् अपि तस्य सर्वतो मन्मथेन्धनम् अभूद् वधूरतम् ॥

19.28

दर्पणेषु परिभोगदर्शिनीर् नर्मपूर्वम् अनुपृष्ठ संस्थितः
छायया स्मितमनोज्ञया वधूर् ह्रीनिमीलित मुखीश् चकार सः ॥

19.29

कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलम् अग्रपादयोः
प्रार्थयन्त् अ शयनोत्थितं प्रियास् तं निशात्ययविसर्गचुम्बनम् ॥

19.30

प्रेक्ष्य दर्पणतल्स्थम् आत्मनो राजवेषम् अति शक्र शोभिनम्
पिप्रिये स न तथा यथा युवा व्यक्तलक्ष्म् अ परिभोग मण्डनम् ॥

19.31

मित्रकृत्यम् अप दिश्य पार्श्वतः प्रस्थितं तम् अनवस्थितं प्रियाः
विद्म हे शठ पलायनच्छलान्य् अञ्जसेति रुरुधुः कचग्रहैः ॥

19.32

तस्य निर्दयरतिश्रमालसाः कण्ठसूत्रम् अप दिश्य योषितः
अध्यशेरत बृहद् (?) भुजान्तरं पीवरस्तनविलुप्त चन्दनम् ॥

19.33

संगमाय निशि गूढचारिणं चारदूतिकथितं पुर् ओ गताः
वञ्चयिष्यसि कुतस् तमोवृत् अः कामुकेति चकृषुस् तम् अङ्गनाः ॥

19.34

योषिताम् उडुपतेर् इवाचिषां स्पर्शनिर्वृतिम् असाव् अन् आप्नुवन्
आरुरोह कुमुदाकरोपमां रात्रिजागरपरो दिवाशयः ॥

19.35

वेणुना दशनपीडिताधरा वीणया नखपदाङ्कित् ओरवः
शिलपकार्य उभयेन वेजितास् तं विजिह्मनयना व्य् अलोभयन् ॥

19.36

अङ्गसत्त्ववचनाश्रयं मिथः स्त्रीषु नृत्यम् उपधाय दर्शयन्
स प्रयोगनिपुणैः प्रयोक्तृभिः सं जघर्ष सह मित्रसंनिधौ ॥

19.37

अंसलम्बिकुटजार्जुनस्रजस् तस्य नीपरजसाङ्गरागिणः
प्रावृषि प्रमदबर्हिणेष्व् अभूत् कृतिमाद्रिषु विहारविभ्रमः ॥

19.38

विग्रहाच् च शयने पराङ्मुखीर् नानुनेतुम् अबलाः स तत्वरे
आचकाङ्क्ष घनशब्दविक्लवास् ता विवृत्य विशतीर् भुजान्तरम् ॥

19.39

कार्त्तिकीषु सवितानहर्म्यभाग् यामिनीषु ललिताङ्गनासखः
अन्वभुङ्क्त सुरत श्रम् आपह् आं मेघमुक्तविशद् आं स चन्द्रिक् आम् ॥

19.40

सैकतं च सरयूं विवृण्वतीं श्रोणिबिम्बम् इव हंसमेखल् अम्
स्वप्रियाविलसितानुकारिणीं सौधजाल्विवरैर् व्यलोकयत् ॥

19.41

मर्मरैर् अगुरु धूपगन्धिभिर् व्यक्तहेमर्शनैस् तम् एकतः
जह्रुर् आ ग्रथनमोक्षलोलुपं हैमनैर् निव्सनैः सुमध्यमाः ॥

19.42

अर्पितस्तिमितदीपदृष्टयो गर्भवेश्मसु निवातकुक्षिषु
तस्य सर्वसुरतान्तरक्षमाः साक्षितां शिशिररात्रयो ययुः ॥

19.43

दक्षिणेन पवनेन संभृतं प्रेक्ष्य चूतकुसुमं सपल्लवम्
अन्वनैषुर् अव धूत विग्रहास् तं दुरुत्सहवियोगम् अङ्गनाः ॥

19.44

ताः स्वम् अङ्कम् अधिरोप्य दोलया प्रेङ्खयन् परिजन् आपविद्धया
मुक्तरज्जु निबिडं भयच्छलात् कण्ठबन्धनम् अवाप बाहुभिः ॥

19.45

तं पयोधर निषक्त चन्दनैर् मौक्तिकग्रथितचारुभूषणैः
ग्रीष्मवेषविधिभिः सिषेविरे श्रोणिलम्बिमणिमेखल् आः प्रियाः ॥

19.46

यत् स भग्न सहकारम् आसवं रक्तपाटलसमागमं पपौ
तेन तस्य मधुनिर्गमात् कृशश् चित्तयोनिर् अभवत् पुनर्नवः ॥

19.47

एवम् इन्द्रियसुखानि निर्विशन्न् अन्यकार्यविमुखः स पार्थिवः
आत्मलक्षणनिवेदितान् ऋतून् अत्यवाहयद् अनङ्ग वाहितः ॥

19.48

तं प्रमत्तम् अपि न प्रभावतः शेकुर् आक्रमितुम् अन्यपार्थिवाः
आमयस् तु रतिरागसंभवो दक्षशाप इव चन्द्रम् अक्षिणोत् ॥

19.49

दृष्टदोषम् अपि तन् न सो ऽत्यजत् सङ्गवस्तु भिषजाम् अनाश्रवः
स्वादुभिस् तु विषयैर् हृतस् ततो दुःखम् इन्द्रियगणो निवार्यते ॥

19.50

तस्य पाण्डुवदनाल्पभूषणा सावलम्बगमना मृदुस्वना
यक्ष्मणापि परिहानिर् आययौ कामयानसमवस्थया तुलाम् ॥

19.51

व्योम पश्चिमकलास्थितेन्दु वा पङ्कशेषम् इव घर्मपल्वलम्
राज्ञि तत्कुलम् अभूत् क्षयातुरे वामनार्चिर् इव दीपभाजनम् ॥

19.52

बाढम् एषु दिवसेषु कर्म साधयति पुत्रजन्मने
इत्य् अदर्शितरुजो ऽस्य मन्त्रिणः शश्वद् ऊचुर् अघशङ्किनीः प्रजाः ॥

19.53

स त्व् अनेकवनितासखो ऽपि सन् पावनीम् अनवलोक्य संततिम्
वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुम् अत्यगात् ॥

19.54

तं गृहोपवन एव संगताः पश्चिमक्रतुविदा पुरोधसा
रोगशान्तिम् अप दिश्य मन्त्रिणः संभृते शिखिनि गूढम् आदधुः ॥

19.55

तैः कृतप्रकृतिमुख्यसंग्रहैर् आशु तस्य सहधर्मचारिणी
साध् उ दृष्टशुभगर्भलक्षणा प्रत्यपद्यत नराधिपश्रियम् ॥

19.56

तस्यास् तथाविधनरेन्द्रविपत्तिशोकाद् उष्णैर् विलोचनजलैः प्रथमाभितप्तः
निर्वापितः कनककुम्भमुख् ओज्झितेन वंशाभिषेक विधिना शिशिरेण गर्भः ॥

19.57

तं भावाय प्रसवसमयाकाङ्क्षिणीनां प्रजानाम् अन्तर्गूढं क्षितिर् इव बभौ बीजमुष्टिं दधाना
मौलैः सार्धं स्थविरसचिवैर् हेम सिंहासनस्था राज्ञी राज्यं विधिवद् अशिषद् भर्तुर् अव्याहताज्ञा ॥

मूल पाठ: Raghuvaṃśa · Edition: A. Scharpé: Kalidasa Lexicon, Vol. 1, Brugge 1964 (Rijksuniversiteit te Gent, Werken uitgegeven door de Faculteit van de Letteren en Wijsbegeerte, 134) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc