भाषा

ENहिગુ
ग्रंथ पाठ

रघुवंश · अध्याय 12

12.1

निर्विष्टविषयस्नेहः स दशान्तम् उपेयिवान्
आसीद् आसन्ननिर्वाणः प्रदीपार्चिर् इवोषसि ॥

12.2

तं कर्णमूलम् आगत्य रामे श्रीर् नस्यताम् इति
कैकेयीशङ्कयेवाह पलितच्छद्मना जरा ॥

12.3

सा पौरान् पौरकान्तस्य रामस्याभ्युदयश्रुतिः
प्रत्येकं ह्लादयां चक्रे कुल्येवोद्यानपादपान् ॥

12.4

तस्याभिषेकसंभारं कल्पितं क्रूरनिश्चया
दूषयाम् आस कैकेयी शोकोष्णैः पार्थिव् आश्रुभिः ॥

12.5

सा किलाश्वासिता चण्डी भर्त्रा तत् संश्रुतौ वरौ
उद्ववामेन्द्रसिक्ता भूर् बिलमग्नाव् इवोरगौ ॥

12.6

तयोश् चतुर्दशैकेन रामं प्राव्राजयत् समाः
द्वितीयेन सुतस्यैच्छद् वैधव्यैकफलां श्रियम् ॥

12.7

पित्रा दत्तां रुदन् रामः प्राङ् महीं प्रत्यपद्यत
पश्चाद् वनाय गच्छेति तदाज्ञां मुदितो ऽग्रहीत् ॥

12.8

दधतो मङ्गलक्षौमे वसानस्य च वल्कले
ददृशुर् विस्मितास् तस्य मुखरागं समं जनाः ॥

12.9

स सीतालक्ष्मणसखः सत्याद् गुरुम् अलोपयन्
विवेश दण्डकारण्यं प्रत्येकं च सतां मनः ॥

12.10

राजापि तद्वियोगार्तः स्मृत्वा शापं स्वकर्मजम्
शरीरत्यागमात्रेण शुद्धिलाभम् अमन्यत ॥

12.11

विप्रोषितकुमारं तद् (?) राज्यम् अस्तमितेश्वरम्
रन्ध्रान्वेषणदक्षाणां द्विषाम् आमिषतां ययौ ॥

12.12

अथानाथाः प्रकृतयो मातृबन्धुनिवासिनम्
मौलैर् आनाययाम् आसुर् भर्तं स्तम्भिताश्रुभिः ॥

12.13

श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः
मातुर् न केवलं स्वस्याः श्रियो ऽप्य् आसीत् पराङ्मुखः ॥

12.14

ससैन्यश् चान्वगाद् रामं दर्शितान् आश्रमालयैः
तस्य पश्यन् ससौमित्रेर् उदश्रुर् वसतिद्रुमान् ॥

12.15

चित्रकूटवनस्थं च कथित स्वर्गतिर् गुरोः
लक्ष्म्या निमन्त्रयां चक्रे तम् अनुच्छिष्टसंपदा ॥

12.16

स हि प्रथमजे तस्मिन्न् अकृतश्रीपरिग्रहे
परिवेत्तारम् आत्मानं मेने स्वीकरणाद् भुवः ॥

12.17

तम् अशक्यम् अपाक्रष्टुं निर्देशात् स्वर्गिणः पितुः
ययाचे पादुके पश्चात् कर्तुं राज्याधिदेवते ॥

12.18

स विसृष्टस् तथेत्य् उक्त्वा भ्रात्रा नैवाविशत् पुरीम्
नन्दिग्रामगतस् तस्य राज्यं न्यासम् इवाभुनक् ॥

12.19

दृढभक्तिर् इति ज्येष्ठे राज्यतृष्णापराङ्मुखः
मातुः पापस्य शुद्ध्यर्थं प्रायश्चित्तम् इवाकरोत् ॥

12.20

रामो ऽपि सह वैदेह्या वने वन्येन वर्तयन्
चचार सानुजः शान्तो वृद्धेक्ष्वाकुव्रतं युवा ॥

12.21

प्रभावस्तम्भितच्छायम् आश्रितः स वनस्पतिम्
कदाचिद् अङ्के सीतायाः शिश्ये किंचिद् इव श्रमात् ॥

12.22

ऐन्द्रिः किल नखैस् तस्या विददार स्तनौ द्विजः
प्रियोपभोगचिह्नेषु पौरोभाग्यम् इवाचरन् ॥

12.22*

मृगमांसं ततः सीतां रक्षन्तीम् आतपे धृतम्
पक्षतुण्डनखाघातैर् बबाधे वायसो बलात् ॥

12.23

तस्मिन्न् आस्थद् इषीकास्त्रं रामो रामावभोधितः
आत्मानं मुमुचे तस्माद् एकनेत्रव्ययेन सः ॥

12.24

रामस् त्व् आसन्नदेशत्वाद् भरतागमनं पुनः
आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलीं जहौ ॥

12.25

प्रययाव् आतिथेयेषु वसन्न् ऋषिकुलेषु सः
दक्षिणां दिशम् ऋक्षेषु वार्षिकेष्व् इव भास्करः ॥

12.26

बभौ तम् अनुगच्छन्ती विदेहाधिपतेः सुता
प्रतिषिद्धापि कैकेय्या लक्ष्मीर् इव गुणोन्मुखी ॥

12.27

अन् उ सूया ति सृष्टेन पुण्यगन्धेन काननम्
सा चकाराङ्गरागेण पुष्प् ओच्चलित षट्पदम् ॥

12.28

संध्याभ्रकपिषस् तत्र विराधो नाम राक्षसः
अतिष्ठन् मार्गम् आवृत्य रामस्येन्दोर् इव ग्रहः ॥

12.29

स जहरा तयोर् मध्य् ए मैथिलीं लोकशोषणः
नभोनभस्ययोर् वृष्टिम् अवग्रह इवान्तरे ॥

12.30

तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति स्ह्तलीम्
गन्धेनाशुचिना चेति वसुधायां निचख्नतुः ॥

12.31

पञ्चवट्यां ततो रामः शासनात् कुम्भजन्मनः
अनपोष्हस्थितिस् तस्थौ व् इ न्ध्याद्रिः प्रकृताव् इव ॥

12.32

रावणावरजा तत्र राघवं मदनातुरा
अभि पेदे निदाघार्ता व्यालीव मलयद्रुमम् ॥

12.33

सा सीतासंनिधाव् एव तं वव्रे कथितान्वया
अत्यारूढो हि नारीणाम् अकालज्ञो मओभवः ॥

12.34

कलत्रवान् अहं बाले कनीयांसं भजस्व मे
इति रामो वृषस्यन्तीं वृषस्कन्धः शशास ताम् ॥

12.35

ज्येष्ठाभिगमनात् पूर्वं तेनाप्य् अनभिनन्दिता
साभूद् रामाश्रया भूयो नदीवोभयकूलभाक् ॥

12.36

संरम्भं मैथिलीहासः क्षण् अं सौम्यां निनाय ताम्
निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः ॥

12.37

फलम् अस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम्
मृग् यः परिभवो व्याघ्र्याम् इत्य् अवेहि त्वया कृत् अम् ॥

12.38

इत्य् उक्त्वा मैथिलीं भर्तुर् अङ्क् ए निर् विशतीं भयात्
रूपं शूर्पणख् आ- नाम्नः सदृशं प्रत्यपद्यत ॥

12.39

लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जु भाषिणीम्
शिवाघोर स्वनां पश्चाद् बुबुधे विकृतेति ताम् ॥

12.40

पर्णशालाम् अथ क्षिप्रं विधृत् आसिः प्रविश्य सः
वैरूप्य पौनरुक्त्येन भीषणां ताम् अयोजयत् ॥

12.41

सा वक्र नखधारिण्या वेणुकर्कशपर्वया
अङ्कुशाकारयाङ्गुल्या ताव् अतर्जयद् अम्बरे ॥

12.42

प्राप्य चाशु जन्स्थानं खरादिभ्यस् तथाविध् अम्
रामोपक्रमम् आचख्यौ रक्षःपरिभव् अं नवम् ॥

12.43

मुखावयवलूणां तां नैरृता यत् पुरोदधुः
रामाभि यायिनां तेषां तद् एवाभूद् अमङ्गलम् ॥

12.44

उदायुधान् आपततस् तान् दृप्तान् प्रेक्ष्य राघवः
नि दधे विजयाशंसां चापे सीतां च लक्ष्मणे ॥

12.45

एको दाशरथ् ई रामो यातुधानाः सहस्रशः
ते तु यावन्त एवाजौ तावांश् च ददृशे स तैः ॥

12.46

असज्जनेन काकुत्स्थः प्रयुक्तम् अथ दूषणम्
न चक्षमे शुभाचारः स दूषणम् इवात्मनः ॥

12.47

तं शरैः प्रतिजग्राह खरतिशिरसौ च सः
ख्रमशस् ते पुनस् तस्य चापात् समम् इवोद्ययुः ॥

12.48

तैस् त्रयाणां शितैर् बाणैर् यथापूर्व् अ विशुद्धिभिः
आयुर् देहातिगैः पीतं रुधिरं तु पतत्रिभिः ॥

12.49

तस्मिन् रामशरोत्कृत्ते बले महति रक्षसाम्
उत्थितं ददृशे ऽन्यच् च कबन्धेभ्यो न किंचन ॥

12.50

सा बाणवर्षिणं रामं योधयित्वा सुरद्विषाम्
अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी ॥

12.51

राघवास्त्रविदीर्णानां रावणं प्रति रक्षसाम्
तेषां शूर्पणखैवैका दुष्प्रत्वृत्तिहराभवत् ॥

12.52

निग्रहात् स्वसुर् आप्तानां वधाच् च धनदानुजः
रामेण नि हतं मेने पदं दशसु मूर्धसु ॥

12.53

रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ
जहरा सीतां पक्षीन्द्र -प्रयासक्षणविघ्नितः ॥

12.54

तौ सीतान्वेषिणौ गृध्रं लूनपक्षम् अपश्यताम्
प्राणैर् दशरथप्रीतेर् अनृणं कण्ठवर्तिभिः ॥

12.55

स रावणहृतां ताभ्यां वचस् आचष्ट मैथिलीम्
आत्मनः सु महत् कर्म व्रणैर् आवेद्य संस्थितः ॥

12.56

तयोस् रावणहृतां ताभ्यां पितृव्यापत्ति शोकयोः
पितरीवाग्निसंस्कारात् परा ववृतिरे क्रियाः ॥

12.57

वधनिर्धूतशापस्य कबन्धस्योपदेशतः
मुमूर्छ सख्यं रामस्य समानव्यसने हरौ ॥

12.58

स हत्वा वालिनं वीर् अस् तत्पदे चिरकाङ्क्षिते
धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत् ॥

12.59

इतस् तत् अश् च वैदेहीम् अन्वेष्टुं भर्तृ चोदिताः
कपयश् चेरुर् आर्तस्य रामस्येव मनोरथाः ॥

12.60

प्रवृत्ताव् उपलब्धायां तस्याः संपातिदर्शनात्
मारुतिः सागरं तीर्णः संसारम् इव निर्ममः ॥

12.61

दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता
जानकी विषवल्लीभिः परीतेव महौषधिः ॥

12.62

तस्यै भर्तुर् अभिज्ञामम् अङ्गुलीयं ददौ कपिः
प्रत्युद्गतम् इवानुष्णैस् तदानन्दाश्रुभिन्दुभिः ॥

12.63

निर्वाप्य प्रियसंदेशैः सीताम् अक्ष वध् ओद्धतः
स ददाह पुरीं लङ्कां क्षणसोढारिनिग्रहः ॥

12.64

प्रत्यभिज्ञानरत्नं च रामायादर्शयत् कृती
हृदयं स्वयम् आयातं वैदेह्या इव मूर्तिमत् ॥

12.65

स प्राप हृदयन्यस्त -मणिपर्शनिमीलितः
अपयोधरसंसर्ग् अं प्रियालिङ्गननिर्वृतिम् ॥

12.66

श्रुत्वा रामः प्रियोदन्तं मेने तत्संगमोत्सुकः
महार्णवपरिक्षेपं लङ्कायाः परिखालघुम् ॥

12.67

स प्रतस्थे ऽरिनाशाय हरिसैन्य् ऐर् अनुद्रुतः
न केवलं धरा- पृष्ठे व्योम्नि संबाध वर्तिभिः ॥

12.68

निर् विष्टम् उदधेः कूले तं प्रपेदे विभीषणः
स्नेहाद् राक्षसलक्ष्म्येव बुद्धिम् आदिश्य चोदितः ॥

12.69

तस्मै निशाचरैश्वर्यं प्रति शुश्राव राघवः
काले खलु समारब्धाः फलं बध्नन्ति नीतयः ॥

12.70

स सेतुं बन्धयाम् आस प्लव् अ गैर् लवण् आम्भसि
रसातलाद् इव् ओन्मग्नं शेष् अं स्वप्नाय शार्ङ्गिणः ॥

12.71

तेनोत्तीर्य पथा लङ्कां रोधयाम् आस पिङ्गलैः
द्वितीयं हेमप्राकारं कुर्वद्भिर् इव वानरैः ॥

12.72

रणः प्रववृते तत्र भीमः प्लवगरक्षसाम्
दिग्विजृम्भितकाकुत्स्थ -पौलस्त्यजयघोष् अणः ॥

12.73

पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः
अतिशस्त्रनखन्यासः शैल रुग्ण मतङ्गजः ॥

12.74

अथ रामशिरश्छेद -दर्शनोद्भ्रान्त चेतनाम्
सीतां मायेति शंसन्ती त्रिजटा समजीवयत् ॥

12.75

कामं जीवति मे नाथ इति सा विजहौ शुचम्
प्राङ् मत्वा सत्यम् अस्यान्तं जीवितास्मीति लज्जिता ॥

12.76

गरुडापात विश्लिष्ट- -मेघनादास्त्रबन्धन् अः
दाशरथ्योः क्षणक्लेश् अः स्वप्नवृत्त् अ इवाभवत् ॥

12.77

ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम्
रामस् त्व् अनाहतो ऽप्य् आसीद् विदीर्णहृदयः शुचा ॥

12.78

स मारुतिसमानीत -महौषधि हत व्यथः
लङ्कास्त्रीणां पुनश् चक्रे विलापाचार्यकं शरैः ॥

12.79

स नादं मेघनादस्य धनुश् चेन्द्रायुधप्रभम्
मेघस्येव शरत्कालो न किंचित् पर्यशेषयत् ॥

12.79a

क्लेशेन महता निद्रां त्याजितं रणदुर्जयम्
रावणः प्रेषयाम् आस युद्धायानुजम् आत्मनः ॥

12.79b

जघान स तदादेशात् कपीन् उग्रान् अनेकशः
विवेश च पुरीं लङ्कां समादाय हरीश्वरम् ॥

12.80

कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः
रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनःशिलः ॥

12.81

अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान्
रामेषुभिर् इतीवासौ दीर्घनिद्रां प्रवेशितः ॥

12.82

इतराण्य् अपि रक्षांसि पेतुर् वानरकोटिषु
रजांसि समरोत्थानि रच्छोणितनन्दीष्व् इव ॥

12.83

निर्ययाव् अथ पौलस्थ्यः पुनर् युद्धाय मन्दिरात्
अरावणम् अरामं वा जगद् अद्येति निश्चितः ॥

12.84

रामं पदातिम् आलोक्य लङ्केषं च वरूथिनम्
हरियुग्यं रथं तस्मै पर्जिघाय पुरंदरः ॥

12.85

तम् आधूतद्वजपटं व्योमगङ्गोर्मिवायुभिः
देवसूतभुजालम्बी जैत्रम् अध्यास्त राघवः ॥

12.86

मातलिस् तस्य माहेन्द्रम् आमुमोच तनुच्छदम्
यत्रोत्पलददलक्लैब्यम् अस्त्राण्य् आपुः सुरद्विषाम् ॥

12.87

अन्योन्यदर्शनप्राप्त -विक्रमावसरं चिरात्
रामरावणयोर् युद्धं चरितार्थम् इवाभवत् ॥

12.88

भुज् अमूर्धोरु बाहुल्याद् एको ऽपि धन्दानुजः
ददृशे सो ऽयथापूर्वो मातृवंश इव स्थितः ॥

12.89

जेतारं लोकपालानां स्वमुखैर् अर्चित् एश्वरम्
रामस् तुलितकैलासम् अरातिं बह्व् अमन्यत ॥

12.90

तस्य स्फुरति पौलस्त्यह् सीतासंगमशंसिनि
निचखानाधिकक्रोधः शरं सव्येतरे भुजे ॥

12.91

रावणस्यापि रामास्तो भित्त्वा हृदयम् आशुगः
विवेश भुवम् आख्यातुम् उरगेभ्य इव प्रियम् ॥

12.92

वचस् ऐव तयोर् वाक्यम् अस्त्रम् अस्त्रेण निघ्नतोः
अन्योन्यजयसंरम्भ् ओ ववृधे वादिनोर् इव ॥

12.93

विक्रमव्यतिहारेण अस्त्रम् अस्त्रेण निघ्नतोः
जयश्रीर् अन्तर् आ वेदिर् मत्तवारणयोर् इव ॥

12.94

कृतप्रतिकृतप्रीतैस् तयोर् मुक्तां सुरासुरैः
परस्पर् अं शरव्राताः पुष्पवृष्टिं न सेहिरे ॥

12.95

अयःशङ्कुचितां रक्षः शतघ्नीम् अथ शत्रवे
हृतां वैवस्वतस्येव कूटशाल्मलिम् अक्षिपत् ॥

12.96

राघवो रथम् अप्राप्तां ताम् आशां च सुरद्विष् आम्
अर्धचन्द्रमुखैर् बाणैश् चिच्छेद कदल् ईसुखम् ॥

12.97

अमोघं संदधे चास्मै धनुष्य् अकेअध्नुर्धरः
ब्राह्मम् अस्त्रं प्रियाशोक -शल्यनिष्कर्षणौषधम् ॥

12.98

तद् व्योम्नि दशधा भिन्नं ददृशे दीप्तिमन्मुखम्
वपुर् महोरगस्येव करालफणमण्डलम् ॥

12.99

तेन मन्त्रप्रयुक्तेन निमेषार्धाद् अपातयत्
स रावणशिरःपङ्क्तिम् अज्ञात व्रणवेदनाम् ॥

12.100

बालार्कप्रतिमेवाप्सु वीचिभिन्ना पतिष्यतः
रराज रक्षःकायस्य कण्ठच्छेदप्रंपरा ॥

12.101

मरुतां पश्यतां तस्य शिरांसि पतितान्य् अपि
मनो नातिविशश्वास पुन ः संधानशङ्किनाम् ॥

12.102

अथ मदगुरुपक्षैर् लोकपालद्विपानाम् अनुगतम् अलिवृन्दैर् गण्ड भित्तीर् विहाय
उपनतमणिबन्धे मूर्ध्नि पौलस्त्यशत्रोः सुरभि सुरविमुक्तं पुष्पवर्षं पपात ॥

12.103

यन्ता हरेः सपदि संहृतकार्मुकज्यम् आपृच्छ्य राघवम् अनुष्ठितदेवकार्यम्
नामाङ्करावणशर् आङ्कित केतुयष्टिम् ऊर्ध्व् अं रथं हरिसहस्र युजं निनाय ॥

12.104

रघुपतिर् अपि जातवेदोविशुद्धां प्रगृह्य प्रियां प्रियसुहृदि विभीषणे सं गमय्य श्रियं वैरिणः
रविसुतसहितेन तेनानुयातः ससौमित्रिणा भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम् ॥

मूल पाठ: Raghuvaṃśa · Edition: A. Scharpé: Kalidasa Lexicon, Vol. 1, Brugge 1964 (Rijksuniversiteit te Gent, Werken uitgegeven door de Faculteit van de Letteren en Wijsbegeerte, 134) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc