भाषा

ENहिગુ
ग्रंथ पाठ

रघुवंश · अध्याय 11

11.1

कौशिकेन स किल क्षितीश्वरो रामम् अध्वरविघातशान्तये
काकपक्षधरम् एत्य याचितस् तेजसां हि न वयः समीक्ष्यते ॥

11.2

कृच्छ्रलब्धम् अपि लब्धवर्णभाक् तं दिदेश मुनये सलक्ष्मणम्
अप्य् असुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिद् अर्थिता ॥

11.3

यावद् आदिशति पार्थिवस् तयोर् निर्गमाय पुरमार्ग सत्क्रियाम्
तावद् आशु विदधे मरुत्सखैः सा स पुष्पजलवर्षिभिर् घनैः ॥

11.4

तौ निदेशकरणोद्यतौ पितुर् धन्विनौ चरणयोर् निपेततुः
भूपतेर् अपि तयोः प्रवत्स्यतोर् नम्रयोर् उपरि बाष्पबिन्दवः ॥

11.5

तौ पितुर् नयनजेन वारिणा किंचिदुक्षितशिखण्ड् अकाव् उभौ
धन्विनौ तम् ऋषिम् अन्वगच्छतां पौरदृष्टिकृतमार्गतोरणौ ॥

11.6

लक्ष्मणानुचरम् एव राघवं नेतुम् ऐच्छद् ऋषिर् इत्य् असौ नृपः
आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयोः क्षमा ॥

11.6*

रेजतुश् च सुतरां महौजसः कौशिकस्य पदवीम् अनुद्रुतौ
उत्तरां प्रति दिशं विवस्वतः प्रस्थितस्य मधुमाधवाव् इव ॥

11.7

मातृवर्गचरणस्पृषौ मुनेस् तौ प्रपद्य पदवीं महौजसः
रेजतुर् गतिवशात् प्रवर्तिनौ भास्करस्य मधुमाधवाव् इव ॥

11.8

वीचिलोलभुजयोस् तयोर् गतं शैशवाच् चपलम् अप्य् अशोभत
तोयदागम इवोद्ध्यभिद्ययोर् नामधेयसदृशं विचेष्टितम् ॥

11.9

तौ बलातिबलयोः प्रभावतो विद्ययोः पथि मुनिप्रदिष्टयोः
मम्लतुर् न मणिकुट्टिमोचितौ मातृपार्श्वपरिवर्त् इनाव् इव ॥

11.10

पूर्ववृत्तकथितैः पुराविदः सानुजः पितृसखस्य राघवः
उ ह्यमान इव वाहनोचितः पादचारम् अपि न व्यभावयत् ॥

11.11

तौ सरांसि रसवद्भिर् अम्बुभिः कूजितैः श्रुतिसुखैः पतत्रिणः
वायवः सुरभिपुष्परेणुभिश् छायया च जलदाः सिषेविरे ॥

11.12

नाम्भसां कमल शोभिनां तथा शाखिनां न च परिश्रमच्छिदाम्
दर्शनेन लघुना यथा तयोः प्रीतिम् आपुर् उभयोस् तपस्विनः ॥

11.13

स्थाणुदग्धवपुषस् तपोवनं प्राप्य दाशरथिर् आत्तकार्मुकः
विग्रहेण मदनस्य चारुणा सो ऽभवत् प्रतिनिधिर् न कर्मणा ॥

11.14

तौ सुकेतुसुतया खिलीकृते कौशिकाद् विदितशापया पथि
निन्यतुः स्थलनिवेशितातटनी लीलयैव धनुषी अधिज्यताम् ॥

11.15

ज्यानिनिआदम् अथ गृह्णती तयोः प्रादुरास बहूल क्षपा छविः
ताडका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी ॥

11.16

तीव्रवेगधुत मार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया
अभ्यभावि भरताग्रजस् तया वात्ययेव पितृकाननोत्थया ॥

11.17

उद्यतैकभुजयष्टिम् आयतीं श्रोणिलम्बिपुरुषान्त्रमेखलाम्
तां विलोक्य वनितावधे घृणां पत्त्रिणा सह मुमोच राघवः ॥

11.18

यच् चकार विवरं शिलाघने ताडकोरसि स रामसायकः
अप्रविष्टविषयस्य रक्षसां द्वारताम् अगमद् अन्तकस्य तत् ॥

11.19

बाणभिन्नहृदया निपेतुषी सा स्वकानभुवं न केवल् आम्
विष्टपत्रयपराजयस्थिरां रावणश्रियम् अपि व्यकम्पयत् ॥

11.20

राममन्मथशरेण ताडिता दुःसहेन दृदये निशाचरी
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥

11.21

नैरृतघ्नम् अथ मन्त्रवन् मुनेः प्रापद् अस्त्रम् अवदानतोषितात्
ज्योतिर् इन्धनैपाति भास्करात् सूर्यकान्त इव ताडकान्तकः ॥

11.22

वामनाश्रमपदं ततः परं पावनं श्रुअम् ऋषेर् उपेयिवान्
उन्मनाः प्रथमजन्मचेष्टितान्य् अस्मरन्न् अपि बभूव राघवः ॥

11.23

आससाद मुनिर् आत्मनस् ततः शिष्यवर्गपरिकल्पितार्हणम्
बद्धपल्लवपुटाञ्जलिद्रुमं दर्शन् ओन्मुख मृगं तपोवनम् ॥

11.24

तत्र दीक्षितम् ऋषिं रकषतुर् विघ्नतो दशरथात्मजौ शरैः
लोकम् अन्धतमसात् क्रम् ओदितौ रशामिभिः शशिदिवाकराव् इव ॥

11.25

वीक्ष्य वेदिम् अथ रक्तबिन्दुभिर् बन्धुजीवपृथुभिः प्रदूषिताम्
संभ्रमो ऽभवद् अप् ओढकर्मणाम् ऋत्विजां च्युतविकङ्कतस्रुचाम् ॥

11.26

उन्मुखः सपदि लक्ष्मणाग्रजो बाणम् आश्रयमुखात् समुद्धरन्
रक्षसां बलम् अपश्यद् अम्बरे गृध्रपक्षपवनेरितध्वजम् ॥

11.27

तत्र याव् अधिपती मखद्विषां तौ शरव्यम् अकरोत् स नेतरान्
किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते ॥

11.28

सो ऽस्त्रम् उग्रजवम् अस्त्रकोविदः संदधे धनुषि वायुदैवतम्
तेन शैलगुरुम् अप्य् अपातयत् पाण्डुपत्त्रम् इव ताडकासुतम् ॥

11.29

यः सुबाहुर् इति राक्षसो ऽपरस् तत्र तत्र विससर्प मायया
तं क्षुरप्रशकलीकृताम् कृती पत्त्रिणां व्यभजद् आश्रमाद् बहिः ॥

11.30

इत्य् अपास्तमखविघ्नयोस् तयोः सांयुगीनम् अभिनन्द्य विक्रमम्
ऋत्विजः कुलपतेर् यथाक्रमं वाग् यतस्य निरवर्तयन् क्रियाः ॥

11.31

तौ प्रणामचलकाकपक्षकौ भ्रातराव् अभृथ् आप्लुतो मुनिः
आशिषाम् अनुपदं समस्पृशद् दर्भपाटिततलेन पाणिना ॥

11.32

तं न्यमन्त्रयत संभृतक्रतुर् मैथिलः स मिघिलां व्रजन् वशी
राघवाव् अपि निनाय बिभ्रतौ तद्धनुःश्रवणजं कुतूहलम् ॥

11.33

तैः शिवेषु वसतिर् गताध्वभिः सायम् आश्रमतरुष्व् अगृह्यत
येषु दीर्घतपसः परिग्रहो वासवक्षणकलत्रतां ययौ ॥

11.34

प्रत्यपद्यत चिर् आय यत् पुनश् चारु गौतमवधूः शिलामयी
स्वं वपुः स किल किलिबिष च्छिदां रामपादरजसाम् अनुग्रहः ॥

11.35

राघवान्वितम् उपस्थितं मुनिं तं निशम्य जनको जनेश्वरः
अर्थकामसहितं सपर्यया देह बद्धम् इव धर्मम् अभ्यगात् ॥

11.36

तौ विदेहनगरीनिवासिनां गां गताव् इव दिवः पुनर्वसू
मन्यते स्म पिबतां विलोचनैः पक्ष्मपातम् अपि वञ्चनां मनः ॥

11.37

यूपवत्य् अवसिते किर्याविधौ कालवित् कुशिकवंशवर्धनः
रामम् इष्वसनदर्शनोत्सुकं मैथिलाय कथयां ब्वभूव सः ॥

11.38

तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः
स्वं विचिन्त्य च धनुर् दुरानमं पीडितो दुहिट्शुल्कसंस्थया ॥

11.39

अब्रवीच् च भगवन् मतङ्गजैर् यद् बृहद्भिर् अपि कर्म दुष्करम्
तत्र नाहम् अनुमन्तुम् उत्सहे मोघवृत्ति कलभस्य चेष्टितम् ॥

11.40

ह्रेपिता हि बहवो नरेश्वरास् तेन तात धनुषा धनुर्भृतः
ज्या निघात कठिनत्वचो भुजान् स्वान् विधूय धिग् इति प्रतस्थिरे ॥

11.41

प्रत्युवाच तम् ऋषिर् निशम्यतां सारतो ऽयम् अथ वा कृतं गिरा
चाप एव भवतो भविष्यति व्यक्तशक्तिर् अशनिर् गिराव् इव ॥

11.42

एवम् आप्तवचनात् स पौरुषं काकपक्षकधरे ऽपि राघवे
श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिम् इव कृष्णवर्त्मनि ॥

11.43

व्या दिदेश गण् अः स पार्श्वगान् कर्मुकाभरणाय मैथिलः
तैजसय धनुषः प्रवृत्तये तोयदान् इव सहस्रलोचनः ॥

11.44

तत् प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य दाशरथिर् आददे धनुः
विद्रुतक्रतुमृगानौसारिणं येन बाणम् असृजद् वृषध्वजः ॥

11.45

आततज्यम् अकरोत् स संसदा विस्मयस्तिमितनेत्रम् ईक्षितः
शैलसारम् अपि नातियत्नतः पुष्पचापम् इव पेशलं स्मरः ॥

11.46

भज्यमानम् अतिमात्रकर्षणात् तेन वज्रपरुषस्वनं धनुः
भार्गवाय दृढमन्यवे पुनः क्षत्रम् उद्यतम् इति न्यवेदयत् ॥

11.47

दृष्टसारम् अथ रुद्रकार्मुके वीर्यशुल्कम् अभिनन्द्य मैथिलः
राघवाय तनयाम् अयोनिजां रूपिणीं श्रियम् इव् अ न्यवेदयत् ॥

11.48

मैथिलः सपदि सत्यसंगरो राघवाय तनयाम् अयोनिजां
संनिधौ द्युतिमतस् तपोनिधेर् अग्निसाक्षिक् अ इवातिसृष्टवान् ॥

11.49

प्राहिणोच् च महितं महाद्युतिः कोसलाधिपतये पुरोधसम्
भृत्यभावि दुहितुः परिग्रहाद् दिश्यतां कुलम् इदं निमेर् इति ॥

11.49*

उत्सुकश् च सुतदारकर्मणा सो ऽभवद् गुरुर् उपागतश् च तम्
गौतमस्य तनयो ऽनुकूलवाक् प्रार्थितं हि सुकृताम् अकालहृत् ॥

11.50

अन्वियेष सदृशीं स च स्नुषां प्राप चैनम् अनुकूलवाग् द्विजः
सद्य एव सुकृतां हि पच्यते कल्पवृक्ष फल धर्मि काङ्क्षितम् ॥

11.51

तस्य कल्पितपुरस्क्रियाविधेः शुश्रुवान् वचनम् अग्रजन्मनः
उच्चचाल वलभितसखो वशी सैन्यरेणुमुषितार्कदीधितिः ॥

11.52

आससाद मिथिलां स वेष्टयन् पिडितोपवनपादप् आं बलैः
प्रीतिरोधम् असहिष्ट सा पुरी स्त्रीव कान्तपरिभोगम् आयतम् ॥

11.53

तौ समेत्य समय् अ स्थिताव् उभौ भूपती वरुणवासवोपमौ
कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः ॥

11.54

पार्थिवीम् उदवहद् रघूद्वहो लक्ष्मणस् तदनुजाम् अथोर्मिलाम्
यौ तयोर् अवरजौ वरौजसौ तौ कुशध्वजसुते सुमध्यमे ॥

11.55

ते चतुर्थसहितास् त्रयो बभुः सूनवो नववधू परिग्रहाः
सामदानविधिभेद विग्रहाः सिद्धिमन्त इव तस्य भूपतेः ॥

11.56

ता नराधिपसुता नृपात्मजैस् ते च ताभिर् अगमन् कृतार्थताम्
सो ऽभवद् वरवधूसमागमः प्रत्ययप्रकृतियोग्संनिभः ॥

11.57

एवम् आत्तरतिर् आत्मसंभवांस् तान् निवेश्य चतुरो ऽपि तत्र सः
अध्वसु त्रिषु विसृष्टमैथिलः स्वां पुरीं दशरथो न्यवर्तत ॥

11.58

तस्य जातु मरुतः प्रतीपगा वर्त्म सु धव्जतरुप्रमाथिनः
चिक्लिशुर् भृशतया वरूथिनीम् उत्तटा इव नदीरयाः स्थलीम् ॥

11.59

लक्ष्यते स्म तदनन्तरं रविर् बद्धभीमपैर्वेषमण्डलः
वैनतेयशमितस्य भोगिनो भोगवेष्टित इव च्युतो मणिः ॥

11.60

श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरार्द्रवाससः
अङ्गना इव रजस्वला दिशो नो बभूवुर् अवलोकनक्षमाः ॥

11.61

भास्करश् च दिशम् अध्युवास यां तां श्रिताः प्रतिभयं ववाशिरे
क्षत्रशोणितपितृक्रियोचितं चोदयन्त्य इव भार्गवं शिवाः ॥

11.62

तत् प्रतीपपवनाद् इ वैकृतं प्रेक्ष्य शान्तिम् अधिकृत्य कृत्यवित्
अन्वयुङ्क्त गुरुम् ईश्वरः क्षितेः स्वन्तम् इत्य् अलघयत् स तद्व्यथाम् ॥

11.63

तेजसः सपदि राशिर् उत्थितः प्रादुरास किल वाहिनीमुखे
यः प्रमृज्य नयनानि सैनिकैर् लक्षणीयपुरुषाकृतिश् चिरात् ॥

11.64

पित्र्यम् अंशम् उपवीतलक्षणं मातृकं च धनुर् ऊर्जितं दधत्
यः ससोम इव घर्मदीधितिः सद्विजिह्व इव चन्दनद्रुमः ॥

11.65

येन रोषपरुषात्मनः पितुः शासने स्थिभिदो ऽपि तस्थुषा
वेपमानजननीशिरश्छिदा प्राग् अजीयत घृणा ततो मही ॥

11.66

अक्षभीजवलयेन निबभौ दक्षिणश्रवण संस्थितेन यः
क्षत्रियान्तकरणैकविंशतेर् व्याजपूर्वगणनाम् इवोद्वहन् ॥

11.67

तं पितुर् वधभवेन मन्युना राजवंशनिधनाय दीक्षितम्
बालसूनुर् अवलोक्य भार्गवं स्वां दशां च विषसाद पार्थिवः ॥

11.68

रामनाम इति तुल्यम् आत्मजे वर्तमानम् अहिते च दारुणे
हृद्यम् अस्य भयदायि चाभवद् रत्नजातम् इव हारसर्पयोः ॥

11.69

अर्घ्यम् अर्घ्यम् इति वादिनं नृपं सो ऽन् अवेक्ष्य भरताग्रजो यतः
क्षत्रकोपदहनार्चिषं ततः संदधे दृशम् उदग्रतारक् आम् ॥

11.70

तेन कार्मुक निषक्त मुष्टिना राघवो विगतभीः पुरोगतः
अङ्गुलीविवरचारिणं शरं कुर्वता निजगदे युयुत्सुना ॥

11.71

क्षत्रजातम् अपकार् इ वैरि मे तन् निहत्य बहुशः शमं गतः
सुप्तसर्प इव दण्डघट्टनाद् रोषितो ऽस्मि तव विक्रमश्रवात् ॥

11.72

मैथिलस्य धनुर् अन्यपार्थिवैस् त्वं किलानमितपूर्वम् अक्षणोः
तन् निशम्य बहवता समर्थये वीर्यशृङ्गम् इव भग्नम् आत्मनः ॥

11.73

अन्यदा जगति राम इत्य् अयं शब्द उच्चरित एव माम् अगात्
व्रीडम् आवहति मे स संप्रति व्यस्तवृत्तिर् उदयोन्मुखे त्वयि ॥

11.74

बिभ्रतो ऽस्त्रम् अचले ऽप्य् अकुण्ठितं द्वौ मतौ मम रिपू समागसौ
होम - धेनु -हरणाच् च हैहयस् त्वं च इर्तिम् अपहर्तुम् उद्यतः ॥

11.75

क्षत्रियान्तकरणो ऽपि विक्रमस् तेन माम् अवति नाजिते त्वयि
पावकस्य महिमा स गण्यते कक्षवज् ज्वलति सागरे ऽपि यः ॥

11.76

विद्धि चात्त बलम् ओजसा हरेर् ऐश्वरं धनुर् अभाजि यत् त्वया
खातमूलम् अनिलो नदीरयैः पातयत्य् अपि मृदुस् तटद्रुमम् ॥

11.77

तन् मदीयम् इदम् आयुधं ज्यया संगमय्य सशरं विकृष्यताम्
तिष्ठतु प्रधनम् एवम् अप्य् अहं तुल्यबाहुतरसा जितस् त्वया ॥

11.78

कातरो ऽसि यदि व् ओद्गतार्चिषा तर्जितः परशुधारया मम
ज्या निघात कठिनाङ्गुलिर् वृथा बध्यताम् अभययाचनाञ्जलिः ॥

11.79

एवम् उक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताधरः
तद्धनुर्ग्रहणम् एव राघवः प्रत्यपद्यत समर्थम् उत्तरम् ॥

11.80

पूर्वजन्मधनुषा समागतः सो ऽतिमात्र लघु दर्शनो ऽभवत्
केवलो ऽपि सुभगो नवाम्बुदः किं पुनस् त्रिदशचापलाञ्छितः ॥

11.81

तेन भूमिनिहितैककोट् इ तत् कार्मुकं च बलिनाधिरोपितम्
निष्प्रभश् च रिपुर् आस भूभृतां धूमशेष इव धूमकेतनः ॥

11.82

ताव् उभाव् अपि परस्पर् अ -स्थितौ वर्धमानपरिहीनतेजसौ
पश्यति स्म जनता दिनात्यये पार्वणौ शशिदिवाकराव् इव ॥

11.83

तं कृपामृदुर् अवेक्ष्य भार्गवं राघवः स्खलितवीर्यम् आत्मनि
स्वं च संहितम् अमोघ् अम् आशुगं व्याजहार हरसूनसंनिभः ॥

11.84

न प्रहर्तुम् अलम् अस्मि निदयं विप्र इत्य् अभिभवत्य् अपि त्वयि
शंष किं गतिम् अनेन पत्त्रिणा हन्मि लोकम् उत ते मखार्जितम् ॥

11.85

प्रत्युवाच तम् ऋषिर् न तत्त्वतस् त्वां न वेद्मि पुरुषं पुरातनम्
गां गतस्य तव धाम वैष्णवं कोपितो ह्य् असि मया दिदृक्षुणा ॥

11.86

भस्मसात् कृतवतः पितृद्विषः पात्र साच् च वसुधां ससागराम्
आहितो जयविपर्ययो ऽपि मे श्लाघ्य एव परमेष्ठिना त्वया ॥

11.87

तद् गतिं मतिमतां वरेप्सितां पुण्यतीर्थगमनाय रक्ष मे
पीडयिष्यति न मां खिलीकृता स्वर्गपद्धतिर् अभोगलोलुपम् ॥

11.88

प्रत्यपद्यत तथेति राघवः प्राङ्मुख् अश् च विससर्ज सायकम्
भार्गवस्य सुकृतो ऽपि सो ऽभवत् स्वर्गमार्गपरिघो दुरत्ययः ॥

11.89

राघवो ऽपि चरणौ तपोनिधेः क्षम्यताम् इति वदन् समस्पृषत्
निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिर् एव कीर्तये ॥

11.90

राजसत्वम् अवधूय मातृकं पित्र्यम् अस्मि गमितः शमं यदा
नन्व् अनिन्दितफलो मम त्वया निग्रहो ऽप्य् अयम् अनुग्रहीकृतः ॥

11.91

साधु याम्य् अहम् अविघ्नम् अस्तु ते देवकार्यम् उपपादयिष्यतः
ऊचिवान् इति वचः सलक्ष्मणं लक्ष्मणाग्रजम् ऋषिस् तिरोदधे ॥

11.91*

स्वं निवेश्य किल धाम राघवे वैष्णवं विदितविष्णुतेजसि
स्वस्तिदानम् अधिकृत्य चाक्षयं भार्गवो ऽथ निजम् आश्रमं ययौ ॥

11.92

तस्मिन् गते विजयिनं परिरभ्य रामं स्नेहाद् अमन्यत पिता पुनर् एव जातम्
तस्याभवत् क्षणशुचः परितोषलाभः कक्षाग्निलङ्घिततरोर् इव वृष्टिपातः ॥

11.93

अथ पथि गमयित्वा कॢपरम्य् ओपकार्ये कतिचिद् अवनिपालः शर्वरीः शर्वकल्पह्
पुरम् अविशद् अयोध्यां मैथिलीदर्श् अनीनां कुवलयितगवाक्षां लोचनैर् अङ्गनानाम् ॥

11.43*

ते ऽपि तूर्णम् अवगम्य शाम्भवम् आसमाहरणकर्मतत्पराः
स्वां सक्षिप्ततिकर्कशं हि तच् चिक्षिपुर् दशाअरथात्मजाग्रतः ॥

मूल पाठ: Raghuvaṃśa · Edition: A. Scharpé: Kalidasa Lexicon, Vol. 1, Brugge 1964 (Rijksuniversiteit te Gent, Werken uitgegeven door de Faculteit van de Letteren en Wijsbegeerte, 134) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc