रघुवंश-कस्ह्म् · अध्याय 5
॥ इति रघुवंशे महाकाव्ये चतुर्थः सर्गः ॥
तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम् ।
उपात्तविद्यो गुरुदक्षिणार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः
स मृण्मये वीतहिरण्मयत्वात्पात्रे निधायार्घ्यमनर्घशीलः ।
श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिमातिथेयः
तमर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी ।
कृताञ्जलिः कृत्यविचारदक्षो विशाम्पतिर्विष्टरभाजमाह
अप्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते ।
यतस्त्वया ज्ञानमशेषमाप्तं चैतन्यमुग्रादिव दीक्षितेन
कायेन वाचा मनसा च तप्तं यद्वज्रिणो धैर्यविपर्ययाय ।
आपाद्यते न व्ययमन्तरायैः कच्चिन्महर्षेस्त्रिविधं तपस्तत्
आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषम् ।
कच्चिन्न वाय्वादिरुपप्लवो वः श्रमच्छिदामाश्रमपादपानाम्
क्रियानिमित्तेष्वपि वत्सलत्वादभग्नकामा मुनिभिः कुशेषु ।
तदङ्कशय्याच्युतनाभिनाला कच्चिन्मृगीणामनघा प्रसूतिः
निर्वर्त्यते यैर्नियमाभिषेको यतो निवापाञ्जलयः पितृणाम् ।
तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कच्चित्
नीवारपाकादि कडङ्गरीयैरामृष्यते जानपदैर्न कच्चित् ।
कालोपपन्नातिथिभागधेयं वन्यं शरीरस्थितिसाधनं वः
अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय ।
कालो ह्ययं सङ्क्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते
तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे ।
अप्याज्ञया शासितुरात्मना वा प्राप्तो ऽसि सम्भावयितुं वनान्माम्
इत्यर्घ्यपात्रानुमितव्ययस्य रघोरुदारामपि गां निशम्य ।
स्वार्थोपपत्तिं प्रति दुर्बलाशः प्रत्याह कौत्सस्तमपेतकुत्सम्
सर्वत्र नो वार्त्तमवैहि राजन्नाथे कुतस्त्वय्यशुभं प्रजानाम् ।
सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा
भक्तिः प्रतीक्ष्येषु कुलोचिता ते पूर्वान्महाभागतयातिशेषे ।
व्यपेतकालस्त्वहमभ्युपेतस्त्वामर्थिभावादिति मे विषादः
शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितर्द्धिः ।
आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः
स्थाने भवानेकनराधिपः सन् अकिञ्चनत्वं मखजं व्यनक्ति ।
पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः
तदन्यतस्तावदनन्यकार्यो गुर्वर्थमाहर्तुमहं यतिष्ये ।
स्वस्त्यस्तु ते निर्गलिताम्बुगर्भं शरद्घनं नार्दति चातको ऽपि
एतावदुक्त्वा प्रतियातुकामं शिष्यं महर्षेर्नृपतिर्निषिध्य ।
किं वस्तु विद्वन्गुरवे प्रदेयं त्वया कियद्वेति तमन्वयुङ्क्त
ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय ।
वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतमाचचक्षे
अवाप्तविद्येन मया महर्षिर्विज्ञापितो ऽभूद्गुरुदक्षिणायै ।
स मे चिरादस्खलितोपचारां तां भक्तिमेवागणयत्पुरस्तात्
निर्बन्धसञ्जातरुषाथ कार्श्यमचिन्तयित्वा गुरुणाहमुक्तः ।
वित्तस्य विद्यापरिसङ्ख्यया मे कोटीश्चतस्रो दश चाहरेति
सो ऽहं सपर्याविधिभाजनेन मत्वा भवन्तं प्रभुशब्दशेषम् ।
अभ्युत्सहे सम्प्रति नोपरोद्धुमल्पेतरत्वाच्छ्रुतनिष्क्रयस्य
इत्थं द्विजेन द्विजराजकान्तिरावेदितो वेदविदां वरेण ।
एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथः
गुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्तकामः ।
गतो वदन्यान्तरमित्ययं मे मा भूत्परीवादनवावतारः
स त्वं प्रयस्ते महितो मदीये वसंश्चतुर्थो ऽग्निरिवाग्न्यगारे ।
द्वित्राण्यहान्यर्हसि सोढुमर्हन्यावद्यते साधयितुं त्वदर्थम्
तथेति तस्यावितथं प्रतीतः प्रत्यग्रहीत्सङ्गरमग्र्यजन्मा ।
गामात्तसारां रघुरप्यवेक्ष्य निष्क्रष्टुमर्थं चकमे कुवेरात्
वसिष्ठमन्त्रोक्षणजात्प्रभावादुदन्वदाकाशमहीधरेषु ।
मरुत्सखस्येव बलाहकस्य गतिर्विजघ्ने न हि तद्रथस्य
अथाधिशिश्ये प्रयतः प्रदोषे रथं रघुः कल्पितमस्त्रगर्भम् ।
सामन्तसम्भावनयैव धीरः कैलासनाथं तरसा जिगीषुः
प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयागन्तुमुदो नियुक्ताः ।
हिरण्मयीं कोशगृहस्य मध्ये वृष्टिं शशंसुः पतितां नभस्तः
तं भूपतिर्भास्वरहेमराशिं लब्धं कुवेरादभियास्यमानात् ।
दिदेश कौत्साय समग्रमेव पादं सुमेरोरिव वज्रभिन्नम्
जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभिनन्द्यसत्त्वौ ।
गुरुप्रदेयाधिकनिःस्पृहो ऽर्थी नृपो ऽर्थिकामादधिकप्रदश्च
अथोष्ट्रवामीशतहारितार्थं प्रजेश्वरं प्रीतमना मनीषी ।
स्पृशन्करेणानतपूर्वकायं सम्प्रस्थितो वाक्यमुवाच कौत्सः
किमत्र चित्रं यदि कामसूर्भूर्वृत्तस्थितस्याधिपतेः प्रजानाम् ।
अचिन्तनीयस्तव तु प्रभावो मनीषितं द्यौरपि येन दुग्धा
आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते ।
पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यो भवतः पितेव
इत्थं प्रयुज्याशिषमग्र्यजन्मा राज्ञे प्रतीयाय गुरोः सकाशम् ।
राजापि लेभे सुतमाशु तस्माद् आलोकमर्कादिव जीवलोकः
ब्राह्मे मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारम् ।
अतः पिता ब्रह्मण एव नाम्ना तमग्र्यजन्मानमजं चकार
रूपं तदोजस्वि तदेव वीर्यं तदेव नैसर्गिकमुन्नतत्वम् ।
न कारणात्स्वाद्बिभिदे कुमारः प्रवर्तितो दीप इव प्रदीपात्
उपात्तविद्यं विधिवद्गुरुभ्यस्तं यौवनोद्भेदविशेषकान्तम् ।
श्रीः कामयानापि गुरोरनुज्ञां धीरेव कन्या पितुराचकाङ्क्ष
अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थं स्वसुरिन्दुमत्याः ।
आप्तः कुमारानयनोत्सुकेन भोजेन दूतो रघवे विसृष्टः
तं श्लाघ्यसम्बन्धमसौ विचिन्त्य दारक्रियायोग्यदशं च पुत्रम् ।
प्रस्थापयामास ससैन्यमेनमृद्धां विदर्भाधिपराजधानीम्
तस्योपकार्यारचितोपकारा वन्ध्येतरा जानपदोपधाभिः ।
मार्गे निवासा मनुजेन्द्रसूनोर्बभूवुरुद्यानविहारकल्पाः
स नर्मदारोधसि शीकरार्द्रैर्मरुद्भिरानर्तितकेतुमाले ।
निवेशयामास विलङ्घिताध्वा सेनां श्रमोत्फेनवनायुजाश्वाम्
अथोपरिष्टाद्भ्रमरैर्भ्रमद्भिः प्राक्सूचितान्तःसलिलप्रवेशः ।
निर्धौतदानामलगण्डभित्तिर्वन्यः सरित्तो गज उन्ममज्ज
अप्यौघविक्षालितगैरिकेण वप्रक्रियामृक्षवतस्तटेषु ।
नीलोर्ध्वलेखाशवलेन शंसन्दन्तद्वयेनाश्मविकुण्ठितेन
संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दम् ।
बभौ स भिन्दन्सहसा तरङ्गान्वार्यर्गलाभङ्ग इव प्रवृत्तः
कारण्डवोच्छिष्टमृदुप्रतानाः पुलिन्दयोषाम्बुविहारकाञ्चीः ।
कर्षन्स शेवाललता नदीष्णः प्रोहावलग्नास्तटमुत्ससर्प
तस्यैकनागस्य कपोलभित्त्योर्ह्रदावगाहक्षणमात्रशान्ता ।
वन्येतरानेकपदर्शनेन पुनर्दिदीपे मददुर्दिनश्रीः
सप्तच्छदक्षीरकटुप्रवाहमसह्यमाघ्राय मदं तदीयम् ।
विलङ्घिताधोरणतीव्रयत्नाः सेनागजेन्द्रा विमुखा बभूवुः
स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन ।
रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार
तमापतन्तं नृपतेरवध्यो वन्यः करीति श्रुतवान्कुमारः ।
निवर्तयिष्यन्विशिखेन कुम्भे जघान नात्यायतकृष्टशार्ङ्गः
स विद्धमात्रः किल नागरूपमुत्सृज्य तद्विस्मितसैन्यदृष्टः ।
स्फुरत्प्रभामण्डलमध्यवर्ति कान्तं वपुर्व्योमचरं प्रपेदे
अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैरवकीर्य पुष्पैः ।
उवाच वाग्मी दशनप्रभाभिः संवर्धितोरःस्थलतारहारः
मतङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वम् ।
अवैहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य
स चानुनीतः प्रणतेन पश्चान्मया महर्षिर्मृदुतामगच्छत् ।
उष्णत्वमग्न्यातपसम्प्रयोगाच्छैत्यं हि यत्सा प्रकृतिर्जलस्य
इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्यजः कुम्भमयोमुखेन ।
संयोक्ष्यसे स्वेन पुनर्महिम्ना तदेत्यवोचत्स तपोनिधिर्माम्
स मोचितः शापकलेस्त्वयाहं गतिं प्रपन्नो विहितां विधात्रा ।
प्रतिक्रियां चेद्भवतो न कुर्यां व्यर्था हि मे स्यात्स्वपदोपलब्धिः
गान्धर्वमस्त्रं तदितः प्रतीच्छ प्रयोगसंहारविभक्तमन्त्रम् ।
प्रस्वापनं नाम यतः प्रहर्तुर्न चारिहिंसा विजयश्च हस्ते
अलं ह्रिया मां प्रति यन्मुहूर्तं दयापरो ऽभूः प्रहरन्नपि त्वम् ।
तस्मादुपच्छन्दयति प्रयोज्यं मयि त्वया न प्रतिषेधरौक्ष्यम्
तथेत्युपस्पृश्य पयः पवित्रं सोमोद्भवायाः सरितो नृसोमः ।
उदङ्मुखः सो ऽस्त्रविदस्त्रमन्त्रं जग्राह तस्माद्विगृहीतशासी
एवं तयोरध्वनि दैवयोगादासेदुषोः सख्यमचिन्त्यहेतु ।
एको ययौ चैत्ररथप्रदेशान्सौराज्यरम्यानपरो विदर्भान्
तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्षः ।
प्रत्युज्जगाम क्रथकैशिकेन्द्रश्चन्द्रं प्रवृद्धोर्मिरिवोर्मिमाली
प्रवेश्य चैनं पुरमग्रयायी नीचैस्तथोपाचरदर्पितश्रीः ।
मेने यथा तत्र जनः समेतो वैदर्भमागन्तुमजं गृहेशम्
तस्याधिकारिपुरुषैः प्रणतैः प्रदिष्टां प्राग्द्वारवेदिविनिवेशितहेमकुम्भाम् ।
रम्यां रघुप्रतिनिधिः स नवोपकार्यां बाल्यात्परामिव दशां मदनो ऽधितस्थौ
तत्र स्वयंवरसमाहृतराजलोकं कन्याललाम कमनीयमजस्य लिप्सोः ।
भावावबोधकलुषा दयितेव रात्रौ निद्रा चिरेण नयनाभिमुखी बभूव
तं कर्णभूषणनिपीडितपीवरांसं शय्योत्तरच्छदविमर्दकृशाङ्गरागम् ।
वैतालिका ललितबन्धमनोहराभिः प्राबोधयन्नुषसि वाग्भिरुषर्बुधाभम्
रात्रिर्गता मतिमतां वर मुञ्च शय्यां धात्रा द्विधैव जगतो ननु धूर्विभक्ता ।
यामेकतस्तव बिभर्ति गुरुर्वितन्द्रीर्यस्या भवानपरधुर्यपदावलम्बी
निद्रावशेन भवता ह्यनवेक्ष्यमाणा पर्युत्सुकत्वमबला निशि खण्डितेव ।
लक्ष्मीर्विनोदयति येन दिगन्तलम्बी सो ऽपि त्वदाननरुचं विजहाति चन्द्रः
तद्वल्गुना युगपदुन्मिषितेन तावत् सद्यः परस्परतुलामधिरोहतां द्वे ।
प्रस्पन्दमानपरुषेतरतारमन्तश्चक्षुस्तव प्रचलितभ्रमरं च पद्मम्
वृन्तश्लथं हरति पुष्पमनोकहानां संसृज्यते सरसिजैररुणांशुभिन्नैः ।
स्वाभाविकं परगुणेन विभातवातः सौगन्ध्यमीप्सुरिव ते मुखमारुतस्य
ताम्रोदरेषु पतितं द्रुमपल्लवेषु निर्धौतहारगुलिकाविषदं हिमाम्भः ।
संलक्ष्यते दशनचन्द्रिकयानुविद्धं बिम्बोष्ठलब्धपरभागमिव स्मितं ते
यावत्प्रतापनिधिराक्रमते न भानुरह्नाय तावदरुणेन तमो निरस्तम् ।
आयोधनाग्रसरतां त्वयि वीर याते किं वा रिपूंस्तव गुरुः स्वयमुच्छिनत्ति
शय्यां जहत्युभयपक्षविनीतनिद्राः सेनागजा मुखरशृङ्खलकर्षिणस्ते ।
येषां विभान्ति तरुणारुणरागयोगाद्भिन्नाद्रिगैरिकतटा इव दन्तकोशाः
दीर्घेष्वमी नियमिताः पटमण्डपेषु निद्रां विधूय वनजाक्ष वनायुजास्ते ।
वक्त्रोष्मणा मलिनयन्ति पुरोगतानि लेह्यानि सैन्धवशिलाशकलानि वाहाः
भवति विरलभक्तिर्म्लानपुष्पोपकारः स्वकिरणपरिवेशोद्भेदशून्याः प्रदीपाः ।
अयमपि च गिरं नस्त्वत्प्रबोधप्रयुक्तामनुवदति शुकस्ते मञ्जुवाक्पञ्जरस्थः
इति स विहृतनिद्रस्तल्पमल्पेतरांसः सुरगज इव गाङ्गं सैकतं सुप्रतीकः ।
परिजनवनितानां पादयोर्व्यापृतानां वलयमणिविदष्टप्रच्छदान्तं मुमोच
अथ विधिमवसाय्य शास्त्रदृष्टं दिवसमुखोचितमञ्चिताक्षिपक्ष्मा ।
कुशलविरचितानुरूपवेशः क्षितिपसमाजमगात्स्वयंवरस्थम्
मूल पाठ: Raghuvaṃśa-kashm, 1-6 · Edition: of Dominic Goodall and Harunaga Isaacson: The Raghupañcikā of Vallabhadeva, being the earliest commentary on the Raghuvaṃśa of Kālidāsa, Critical Edition with Introduction and Notes, Volume 1. Groningen: Egbert Forsten 2003. · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0