भाषा

ENहिગુ
ग्रंथ पाठ

रघुवंश-कस्ह्म् · अध्याय 6

6.1

॥ इति रघुवंशे महाकाव्ये पञ्चमः सर्गः ॥
स तत्र मञ्चेषु विमानकल्पेष्वाकल्पसम्मूर्छितरूपशोभान् ।
सिंहासनस्थान्नृपतीनपश्यद्यूपान्प्रयस्तानिव हैमवेदीन्

6.2

रतेर्गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गमिवेश्वरेण ।
काकुत्स्थमालोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशम्

6.3

वैदर्भनिर्दिष्टमथो कुमारः क्लॄúप्तेन सोपानपथेन मञ्चम् ।
शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्गमिवारुरोह

6.4

परार्ध्यवर्णास्तरणोपपन्नमासेदिवान्रत्नवदासनं सः ।
भूयिष्ठमासीदुपमेयकान्तिर्मयूरपृष्ठाश्रयिणा गुहेन

6.5

तासु श्रिया राजपरम्परासु प्रभाविशेषोदयदुर्निरीक्ष्यः ।
सहस्रधात्मा व्यरुचद्विभक्तः पयोमुचां पङ्क्तिषु विद्युतेव

6.6

तेषां महार्हासनसंश्रयाणामुदात्तनेपथ्यभृतां स मध्ये ।
रराज धाम्ना रघुसूनुरेव कल्पद्रुमाणामिव पारिजातः

6.7

नेत्रव्रजाः पौरजनस्य तस्मिन्विहाय सर्वान्नृपतीन्निपेतुः ।
मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः

6.8

अथ स्तुते वन्दिभिरन्वयज्ञैः सोमार्कवंश्ये नरदेवलोके ।
सञ्चारिते चागुरुसारयोनौ धूपे शिखावासितकेतुमाले

6.9

पुरोपकण्ठोपवनाश्रयाणां शिखण्डिनामुद्धतनृत्तहेतौ ।
प्रध्मातशङ्खे परितो दिगन्तांस्तूर्यस्वने मूर्छति मङ्गलार्थे

6.10

मनुष्यवाह्यं चतुरन्तयानमास्थाय कन्यापरिवारशोभि ।
विवेश मञ्चान्तरराजमार्गं पतिंवरा कौतुकमिश्रवेशा

6.11

तस्मिन्विधानातिशये विधातुः कन्यामये नेत्रसहस्रलक्ष्ये ।
निपेतुरन्तःकरणैर्नरेन्द्रा देहैः स्थिताः केवलमासनेषु

6.12

तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः ।
प्रवातशोभा इव पादपानां शृङ्गारचेष्टा विविधा बभूवुः

6.13

कश्चित्कराभ्यामुपगूढनालमालोलपत्त्राभिहतद्विरेफम् ।
रजोभिरन्तःपरिवेशशोभि लीलारविन्दं भ्रमयाञ्चकार

6.14

विस्रस्तमंसादपरो विलासी केयूरकोटिक्षणजातसङ्गम् ।
प्रावारमुत्क्षिप्य यथाप्रदेशं निनाय साचीकृतचारुवक्त्रः

6.15

आकुञ्चिताग्राङ्गुलिना ततो ऽन्यः किञ्चित्समावर्जितनेत्रशोभः ।
रत्नांशुसम्पृक्तनखप्रभेण पादेन हैमं विलिलेख पीठम्

6.16

निवेश्य वामं भुजमासनान्ते गाढाङ्गदं पार्श्वनिपीडनेन ।
कश्चिद्विवृत्तत्रिकभिन्नहारः सुहृत्समाभाषणतत्परो ऽभूत्

6.17

विलासिनीविभ्रमदन्तपत्रमापाण्डुरं केतकबर्हमन्यः ।
प्रियानितम्बोचितसन्निपातैर्विपाटयामास युवा नखाग्रैः

6.18

कुशेशयाताम्रतलेन कश्चित्करेण रेखाध्वजलाञ्छनेन ।
दीप्राङ्गुलीयप्रभयानुविद्धानुदारयामास सलीलमक्षान्

6.19

कश्चिद्यथाभागमवस्थिते ऽपि स्वसन्निवेशव्यतिलङ्घिनीव ।
वज्रांशुगर्भाङ्गुलिरन्ध्रमेकं व्यापारयामास करं किरीटे

6.20

ततो नृपाणां श्रुतवृत्तवंशा पुंवत्प्रगल्भा प्रतिहाररक्षी ।
प्राक्सन्निकर्षं मगधेश्वरस्य नीत्वा कुमारीमवदत्सुनन्दा

6.21

असौ शरण्यः शरणोत्सुकानामगाधसत्त्वो मगधप्रतिष्ठः ।
राजा प्रजारञ्जनलब्धवर्णः परन्तपो नाम यथार्थनामा

6.22

कामं नृपाः सन्ति सहस्रसङ्ख्या राजन्वतीमाहुरनेन पृथ्वीम् ।
नक्षत्रताराग्रहसङ्कुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः

6.23

क्रियाप्रबन्धादयमध्वराणामजस्रमाहूतसहस्रनेत्रः ।
शच्याश्चिरं पाण्डुकपोललम्बान्मन्दारशून्यानलकांश्चकार

6.24

अनेन चेदिच्छसि गृह्यमाणं पाणिं वरेण्येन कुरु प्रवेशे ।
प्रासादवातायनसंश्रयाणां नेत्रोत्सवं पुष्पपुराङ्गनानाम्

6.25

एवं तयोक्ते तमवेक्ष्य किञ्चिद्विस्रंसिदूर्वाङ्कमधूकमाला ।
ऋजुप्रणामक्रिययैव तन्वी प्रत्यादिदेशैनमभाषमाणा

6.26

तां साथ वेत्रग्रहणे नियुक्ता राजान्तरं राजसुतां निनाय ।
समीरणोत्थेव तरङ्गलेखा पद्मान्तरं मानसराजहंसीम्

6.27

जगाद चैनामयमङ्गनाथः सुराङ्गनाप्रार्थितयौवनश्रीः ।
विनीतभागः किल सूत्रकारैरैन्द्रं पदं भूमिगतो ऽपि भुङ्क्ते

6.28

अनेन पर्यासयताश्रुबिन्दून्मुक्ताफलस्थूलतमान्स्तनेषु ।
प्रत्यर्पिताः शत्रुविलासिनीनामाक्षेपसूत्रेण विनैव हाराः

6.29

निसर्गभिन्नास्पदमेकसंस्थम् अस्मिन्द्वयं श्रीश्च सरस्वती च ।
कान्त्या गिरा सूनृतया च योग्या त्वमेव कल्याणि तयोस्तृतीया

6.30

अथाङ्गराजादवतार्य चक्षुर्यातेति जन्यानवदत्कुमारी ।
नासौ न काम्यो न च वेद सम्यग् द्रष्टुं न सा भिन्नरुचिर्हि लोकः

6.31

ततः परं दुष्प्रसहं परेषां नृपं नियुक्ता प्रतिहारभूमौ ।
निदर्शयामास विशेषकान्तमिन्दुं नवोत्थानमिवेन्दुमत्याः

6.32

अवन्तिनाथो ऽयमुदग्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः ।
आरोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यन्त्रोल्लिखितो विभाति

6.33

अस्य प्रयाणेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुद्धतानि ।
कुर्वन्ति सामन्तशिखामणीणां प्रभाप्ररोहास्तमयं रजांसि

6.34

असौ महाकालनिकेतनस्य चन्द्रार्धमौलेर्निवसन्नदूरे ।
दिवापि जालान्तरचन्द्रिकाणां नारीसखः स्पर्शसुखानि भुङ्क्ते

6.35

अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन्मनसो रुचिस्ते ।
सिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यानपरम्परासु

6.36

तस्मिन्नपि द्योतनरूपबिम्बे प्रतापसंशोषितशत्रुपङ्के ।
बबन्ध सा नोत्तमसौकुमार्या कुमुद्वती भानुमतीव भावम्

6.37

तामग्रतस्तामरसान्तराभाम् अनूपराजस्य गुणैरनूनाम् ।
विधाय सृष्टिं ललितां विधातुर् जगाद भूयः सुनसां सुनन्दा

6.38

सङ्ग्रामनिर्वृत्तसहस्रबाहुरष्टादशद्वीपनिखातयूपः ।
अनन्यसाधारणराजशब्दो बभूव योगी किल कार्तवीर्यः

6.39

अकार्यचिन्तासमकालमेव प्रादुर्भवंश्चापधरः पुरस्तात् ।
अन्तःशरीरेष्वपि यः प्रजानां प्रत्यादिदेशाविनयं विनेता

6.40

ज्याबन्धनिःस्पन्दभुजेन यस्य विनिःश्वसद्वक्त्रपरम्परेण ।
कारागृहे निर्जितवासवेन दशाननेनोषितमा प्रसादात्

6.41

तस्यान्वये भूपतिरेष जातः प्रदीप इत्यागमवृद्धसेवी ।
येन श्रियः संश्रयदोषरूढं स्वभावलोलेत्ययशः प्रमृष्टम्

6.42

आयोधने कृष्णगतिं सहायमवाप्य यः क्षत्रियकालरात्रिम् ।
धारां शितां रामपरश्वधस्य सम्भावयत्युत्पलपत्त्रसाराम्

6.43

अस्याङ्कलक्ष्मीर्भव दीर्घबाहोर्माहिष्मतीवप्रनितम्बकाञ्चीम् ।
प्रासादजालैर्जलवेणिरम्यां रेवां यदि प्रेक्षितुमस्ति कामः

6.44

तस्याः प्रकामप्रियदर्शनो ऽपि न स क्षितीशो रुचये बभूव ।
शरत्प्रमृष्टाम्बुधरोपरागः शशीव पर्याप्तकलो नलिन्याः

6.45

सा शूरसेनाधिपतिं सुषेणमुद्दिश्य देशान्तरगीतकीर्तिम् ।
आचारशुद्धोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी

6.46

नीपान्वयः पार्थिव एष यज्वा गुणैर्यमाश्रित्य परस्परेण ।
नैसर्गिको ऽप्युत्ससृजे विरोधः सिद्धाश्रमं शान्तमिवैत्य सत्त्वैः

6.47

यस्यात्मदेहे नयनाभिरामा कान्तिर्हिमांशोरिव सन्निविष्टा ।
हर्म्याग्रसंरूढतृणाङ्कुरेषु तेजो ऽविषह्यं रिपुमन्दिरेषु

6.48

यस्यावरोधस्तनचन्दनानां प्रक्षालनाद्वारिविहारकाले ।
कलिन्दकन्या मथुरागतापि गङ्गोर्मिसम्पृक्तजलेव भाति

6.49

त्रातेन तार्क्ष्यात्किल कालियेन मणिं विसृष्टं यमुनौकसा यः ।
वक्षःस्थलव्यापिरुचं दधानः सकौस्तुभं ह्रेपयतीव कृष्णम्

6.50

सम्भाव्य भर्तारममुं युवानं मृदुप्रवालोत्तरपुष्पशय्ये ।
वृन्दावने चैत्ररथादनूने निर्विश्यतां सुन्दरि यौवनश्रीः

6.51

अध्यास्य चाम्भःपृषतोक्षितानि शैलेयनद्धानि शिलातलानि ।
कलापिनां प्रावृषि पश्य नृत्तं कान्तासु गोवर्धनकन्दरासु

6.52

नृपं तमावर्तमनोज्ञनाभिः सा व्यत्यगादन्यवधूर्भवित्री ।
महीधरं मार्गवशादुपेतं स्रोतोवहा सागरगामिनीव

6.53

अथाङ्गदश्लिष्टभुजं भुजिष्या हेमाङ्गदं नाम कलिङ्गनाथम् ।
आसेदुषी सादितशत्रुपक्षं बालामबालेन्दुमुखीं बभाषे

6.54

असौ महेन्द्राद्रिसमानसारः पतिर्महेन्द्रस्य महोदधेश्च ।
यस्य क्षरत्सैन्यगजच्छलेन यात्रासु यातीव पुरो महेन्द्रः

6.55

ज्याघातलेखे सुभुजो भुजाभ्यां बिभर्ति यश्चापभृतां पुरोगः ।
रिपुश्रियः साञ्जनवाष्पसेके वन्दीकृताया इव पद्धती द्वे

6.56

यमात्मनः सद्मनि सौधजालैरालोक्यवेलातटपूगमालः ।
मन्द्रध्वनित्याजितयामतूर्यः प्रबोधयत्यर्णव एव सुप्तम्

6.57

अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु ।
अपाकृतस्वेदलवा मरुद्भिर्द्वीपान्तरानीतलवङ्गपुष्पैः

6.58

प्रबोधिताप्याकृतिलोभनीया विदर्भराजावरजा तयैवम् ।
तस्मादपावर्तत पौरुषेण नीतेव लक्ष्मीः प्रतिकूलदैवात्

6.59

अथोन्नसं नागपुरस्य नाथं दौवारिकी देवसरूपमेत्य ।
इतश्चकोराक्षि विलोकयेति नागाङ्गनाभां निजगाद भोज्याम्

6.60

पाण्ड्यो ऽयमंसार्पितलम्बहारः क्लॄúप्ताङ्गरागो हरिचन्दनेन ।
आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः

6.61

विन्ध्यस्य संस्तम्भयिता महाद्रेर्निःशेषपीतोज्झितसिन्धुनाथः ।
प्रीत्याश्वमेधावभृथार्द्रमूर्तेः सौस्नातिको यस्य भवत्यगस्त्यः

6.62

अस्त्रं हरादाप्तवता दुरापं येनेन्द्रलोकावजयाय दृप्तः ।
पुरा जनस्थानविमर्दशङ्की सन्धाय लङ्काधिपतिः प्रतस्थे

6.63

अनेन पाणौ विधिवद्गृहीते महाकुलीनेन महीव गुर्वी ।
रत्नानुविद्धार्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः

6.64

ताम्बूलवल्लीपरिणद्धपूगास्वैलालतालिङ्गितचन्दनासु ।
तमालपत्त्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु

6.65

इन्दीवरश्यामतनुर्नृपो ऽयं त्वं रोचनागौरशरीरयष्टिः ।
अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु

6.66

स्वसुर्विदर्भाधिपतेस्तदीयो लेभे ऽन्तरं चेतसि नोपदेशः ।
दिवाकरादर्शनबद्धकोशे तारापतेरंशुरिवारविन्दे

6.67

सञ्चारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा ।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः

6.68

तस्यां रघोः सूनुरुपस्थितायां वृणीत मां नेति समाकुलो ऽभूत् ।
वामेतरः संशयमस्य बाहुः केयूरबन्धोच्छ्वसितैर्नुनोद

6.69

तं प्राप्य सर्वावयवानवद्यं न्यवर्ततान्योपगमात्कुमारी ।
न हि प्रफुल्तं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्पदाली

6.70

तस्मिन्समावेशितचित्तवृत्तिमिन्दुप्रभामिन्दुमतीमवेत्य ।
प्रचक्रमे वक्तुमनुक्रमज्ञा सुविस्तरं वाक्यमिदं सुनन्दा

6.71

इक्ष्वाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणो ऽभूत् ।
काकुत्स्थशब्दं यत उन्नतेच्छाः श्लाघ्यं दधत्युत्तरकोसलेन्द्राः

6.72

महेन्द्रमास्थाय महोक्षरूपं यः संयति प्राप्तपिनाकिलीलः ।
चकार बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्त्रलेखाः

6.73

ऐरावणास्फालनविश्लथं यः सङ्घट्टयन्नङ्गदमङ्गदेन ।
उपेयुषः स्वामपि मूर्तिमग्र्यामर्धासनं गोत्रभिदो ऽधितस्थौ

6.74

जातः कुले तस्य किलेन्दुकीर्तेः कुलप्रदीपो नृपतिर्दिलीपः ।
अतिष्ठदेकोनशतक्रतुत्वे शक्राभ्यसूयाविनिवृत्तये यः

6.75

यस्मिन्महीं शासति मानिनीनां निद्रां विहारार्धपथे गतानाम् ।
वातो ऽपि नास्रंसयदंशुकानि को लम्बयेदाभरणाय हस्तम्

6.76

पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता ।
चतुर्दिगावर्जनसम्भृतां यो मृत्पात्रशेषामकरोद्विभूतिम्

6.77

आरूढमद्रीनुदधीन्प्रतीर्णं भुजङ्गमानां वसतिं प्रविष्टम् ।
ऊर्ध्वं गतं यस्य न चानुबन्धि यशः परिच्छेत्तुमियत्तयालम्

6.78

असौ कुमारस्तमजो ऽनुजातस्त्रिविष्टपस्येव पतिं जयन्तः ।
गुर्वीं धुरं यो भुवनस्य पित्र्यां धुर्येण दम्यः सदृशीं बिभर्ति

6.79

कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानैः ।
त्वमात्मनस्तुल्यमिमं वृणीष्व रत्नं समागच्छतु काञ्चनेन

6.80

ततः सुनन्दावचनावसाने लज्जां मृदूकृत्य नरेन्द्रकन्या ।
दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव

6.81

सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम् ।
रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रामदरालकेश्याः

6.82

तथागतायां परिहासपूर्वं सख्यां सखी वेत्रधरा बभाषे ।
आर्ये व्रजामो ऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श

6.83

सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरूः ।
आसञ्जयामास यथाप्रदेशं कण्ठे गुणं मूर्तमिवानुरागम्

6.84

तया स्रजा मङ्गलपुष्पमय्या विशालवक्षःस्थललम्बया सः ।
अमंस्त कण्ठार्पितबाहुपाशां विदर्भराजावरजां वरेण्यः

6.85

शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जह्नुकन्यावतीर्णा ।
इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विवव्रुः

6.86

प्रमुदितवरपक्षमेकतस्तत्क्षितिपतिमण्डलमन्यतो वितानम् ।
उषसि सर इव प्रफुल्तपद्मं कुमुदवनप्रतिपन्ननिद्रमासीत्

मूल पाठ: Raghuvaṃśa-kashm, 1-6 · Edition: of Dominic Goodall and Harunaga Isaacson: The Raghupañcikā of Vallabhadeva, being the earliest commentary on the Raghuvaṃśa of Kālidāsa, Critical Edition with Introduction and Notes, Volume 1. Groningen: Egbert Forsten 2003. · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc