रघुवंश-कस्ह्म् · अध्याय 4
॥ इति रघुवंशे महाकाव्ये तृतीयः सर्गः ॥
स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ ।
दिनान्ते निहितं तेजः सवित्रेव हुताशनः
न्यस्तशस्त्रं दिलीपं च तं च शुश्रुवुषां प्रभुम् ।
राज्ञामुद्धृतनाराचे हृदि शूलमिवार्पितम्
पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः ।
नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः
सममेव समाक्रान्तं द्वयं द्विरदगामिना ।
तेन सिंहासनं पित्र्यमखिलं चारिमण्डलम्
छायामण्डललक्ष्येण तमदृश्या किल स्वयम् ।
पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम्
परिकल्पितसान्निध्या काले काले च वन्दिषु ।
स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती
मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः ।
तथाप्यनन्यपूर्वेव तस्मिन्नासीद्वसुन्धरा
स हि सर्वस्य लोकस्य युक्तदण्डतया मनः ।
आददे नातिशीतोष्णो नभस्वानिव दक्षिणः
कामं कमलपत्त्राणां नेत्रे तस्यानुकारिणी ।
चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थदर्शिना
यथा प्रह्लादनाच्चन्द्रः प्रतापात्तपनो यथा ।
तथैव सो ऽभूदन्वर्थो राजा प्रकृतिरञ्जनात्
नयविद्भिर्नवे राज्ञि सदसच्चोपदर्शितम् ।
पूर्व एवाभवत्पक्षस्तस्मिन्नाभवदुत्तरः
मन्दोत्कण्ठाः कृतास्तेन गुणाधिकतया गुरौ ।
फलेन सहकारस्य पुष्पोद्गम इव प्रजाः
पञ्चानामपि भूतानामुत्कर्षं पुपुषुर्गुणाः ।
नवे तस्मिन्महीपाले सर्वं नवमिवाभवत्
लब्धप्रशमनस्वस्थमथैनं समुपस्थिता ।
पार्थिवश्रीर्द्वितीयेव शरत्पङ्कजलक्षणा
निर्वृष्टलघुभिर्मेघैः सवितुस्तस्य चोभयोः ।
वर्धिष्णवो दिशां भागाः प्रतापायेव रेचिताः
अधिज्यमायुधं कर्तुं समयो ऽयं रघोरिति ।
स्वं धनुः शङ्कितेनेव संजह्रे शतमन्युना
पुण्डरीकातपत्रस्तं विकसत्काशचामरः ।
ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम्
प्रसादसुमुखे तस्मिंश्चन्द्रे च विषदप्रभे ।
तदा चक्षुष्मतां प्रीतिरासीत्समरसा द्वयोः
हंसश्रेणिषु तारासु कुमुद्वत्सु च वारिषु ।
विभूतयस्तदीयानां पर्यस्ता यशसामिव
इक्षुच्छायानिषादिन्यस्तस्य गोप्तुर्गुणोदयम् ।
आकुमारकथोद्घातं शालिगोप्यो जगुर्यशः
प्रससादोदयादम्भः कुम्भयोनेर्महौजसः ।
रघोस्त्वभिभवाशङ्कि चुक्षुभे द्विषतां मनः
मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः ।
लीलाखेलमनुप्रापुर्महोक्षास्तस्य विक्रमम्
प्रसवैः सप्तपर्णानां मदगन्धिभिराहताः ।
असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः
सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान् ।
यात्रायै चोदयामास तं शक्तेः प्रथमं शरत्
तस्मै सम्यग्घुतो वह्निर्वाजिनीराजनाविधौ ।
प्रदक्षिणार्चिर्व्याजेन हस्तेनेव जयं ददौ
स गुप्तमूलप्रत्यन्तः शुद्धपार्ष्णिरयान्वितः ।
षड्विधं बलमादाय प्रतस्थे दिग्जिगीषया
अवाकिरन्वयोवृद्धास्तं लाजैः पौरयोषितः ।
पृषतैर्मन्दरोद्धूतैः क्षीरोर्मय इवाच्युतम्
स ययौ प्रथमं प्राचीं तुल्यः प्राचीनबर्हिषा ।
अहिताननिलोद्धूतैस्तर्जयन्निव केतुभिः
रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसन्निभैः ।
भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम्
प्रतापो ऽग्रे ततः शब्दः पुरोगास्तदनन्तरम् ।
ययौ पश्चाद्गजानीकं चतुःस्कन्धेव सा चमूः
पुरोगैः कलुषास्तस्य सहप्रस्थायिभिः कृशाः ।
पश्चात्प्रयायिभिः पङ्कं चक्रिरे मार्गनिम्नगाः
मरुपृष्ठान्युदम्भांसि नाव्याः सुप्रतरा नदीः ।
विपिनानि प्रकाशानि शक्तिमत्त्वाच्चकार सः
स सेनां महतीं कर्षन्पूर्वसागरगामिनीम् ।
बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः
त्याजितैः फलमुत्खातैर्भग्नैश्च बहुधा नृपैः ।
तस्यासीदुल्बणो मार्गः पादपैरिव दन्तिनः
पौरस्त्यानेवमाक्रामंस्तांस्ताञ्जनपदाञ्जिती ।
प्राप तालीवनश्याममुपकण्ठं महोदधेः
अनम्राणां समुद्धर्तुस्तस्मात्सिन्धुरयादिव ।
आत्मा संरक्षितः सुह्मैर्वृत्तिमाश्रित्य वैतसीम्
वङ्गानुत्खाय तरसा नेता नौसाधनोद्धतान् ।
निचखान जयस्तम्भान्गङ्गास्रोतोन्तरेषु सः
आपादपद्मप्रणताः कलमा इव ते रघुम् ।
फलैः संवर्धयामासुरुत्खातप्रतिरोपिताः
स तीर्त्वा कयिमां सैन्यैर्बद्धद्विरदसेतुभिः ।
उत्कलादेशितपथः कलिङ्गाभिमुखो ययौ
स प्रतापं महेन्द्रस्य मूर्ध्नि तीक्ष्णं न्यवेशयत् ।
अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिनः
प्रतिजग्राह कालिङ्गस्तमस्त्रैर्गजसाधनः ।
पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वतः
द्विषां विषह्य काकुत्स्थस्तत्र नाराचदुर्दिनम् ।
सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियम्
वायव्यास्त्रविनिर्धूतात्पक्षाविद्धादिवोदधेः ।
गजानीकात्स कालिङ्गं तार्क्ष्यः सर्पमिवाददे
ताम्बूलीनां दलैस्तस्य रचितापानभूमयः ।
नारिकेलासवं योधाः शात्रवं च यशः पपुः
गृहीतप्रतिमुक्तस्य स धर्मविजयी नृपः ।
ह्रियं महेन्द्रनाथस्य जहार न तु मेदिनीम्
ततो वेलातटेनैव फलवत्पूगमालिना ।
अगस्त्यचरितामाशामनाशास्यजयो ययौ
स सैन्यपरिभोगेन गजदानसुगन्धिना ।
कावेरीं सरितां पत्युः शङ्कनीयामिवाकरोत्
भयोत्सृष्टविभूषाणां तेन केरलयोषिताम् ।
अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः
बलैरध्युषितास्तस्य विजिगीषोर्गताध्वनः ।
हारीतोच्छिष्टमरिचा मलयाद्रेरुपत्यकाः
आजानेयखुरक्षुण्णपक्वैलाक्षेत्रसम्भवम् ।
व्यानशे सपदि व्योम कीटकोशाबिलं रजः
भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् ।
नास्रंसत्करिणां ग्रैवं त्रिपदीछेदिनामपि
दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि ।
तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे
ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः ।
ते निपत्य ददुस्तस्मै यशः स्वमिव सञ्चितम्
स निर्विश्य यथाकामं तटस्वाधीनचन्दनौ ।
स्तनाविव दिशस्तस्याः शैलौ मलयदुर्दुरौ
असह्यविक्रमः सह्यं दूरमुक्तमुदन्वता ।
नितम्बमिव मेदिन्याः स्रस्तांशुकमलङ्घयत्
तस्यानीकैर्विसर्पद्भिरपरान्तजयोद्यतैः ।
रामेषूत्सारितो ऽप्यासीत्सह्यलग्न इवार्णवः
पुरो यन्मारुतोद्धूतमगमत्कैतकं रजः ।
तद्योधवारवाणानामयत्नपटवासताम्
अभ्यभूयत वाहानां रथानां चास्य शिञ्जितैः ।
मर्मरः पवनोद्धूतराजतालीवनध्वनिः
खर्जूरीस्कन्धनद्धानां मदोद्गारसुगन्धिषु ।
कटेषु करिणां पेतुः पुन्नागेभ्यः शिलीमुखाः
अवकाशं किलोदन्वान्रामायाभ्यर्थितो ददौ ।
अपरान्तमहीपालव्याजेन रघवे करम्
महेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम् ।
त्रिकूटमेव तत्रोच्चैर्जयस्तम्भं चकार सः
पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मना ।
इन्द्रियाख्यानिव रिपूंस्तत्त्वज्ञानेन संयमी
यवनीमुखपद्मानां सेहे मधुमदं न सः ।
बालातपमिवाब्जानामकालजलदोदयः
सङ्ग्रामस्तुमुलस्तस्य पारसीकाश्वसाधनैः ।
शार्ङ्गकूजितविज्ञेयप्रतियोधो रजस्यभूत्
भल्लापवर्जितैस्तेषां शिरोभिः श्मश्रुलैर्महीम् ।
तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव
अपनीतशिरस्त्राणाः शेषास्तं शरणं ययुः ।
प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम्
विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमम् ।
आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु
ततः प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशम् ।
शरैरुस्रैरिवोदीच्यानुद्धरिष्यन्रसानिव
जितानजय्यस्तानेव कृत्वा रथपुरःसरान् ।
महार्णवमिवौर्वाग्निः प्रविवेशोत्तरापथम्
विनीताध्वश्रमास्तस्य वङ्क्षुतीरविवेष्टनैः ।
दुधुवुर्वाजिनः स्कन्धांल्लग्नकुङ्कुमकेसरान्
तत्र हूनावरोधानां भर्तृषु व्यक्तविक्रमम् ।
कपोलपाटनादेशि बभूव रघुचेष्टितम्
काम्बोजाः समरे वीर्यं तस्य सोढुमनीश्वराः ।
गजालानपरिक्लिष्टैरक्षोटैः सार्धमानताः
तेषां सदश्वभूयिष्ठास्तुङ्गा द्रविणराशयः ।
विविशुस्तं विशां नाथमुदन्वन्तमिवापगाः
ततो गौरीगुरुं शैलमारुरोह ससाधनः ।
वर्धयन्निव तत्कूटानुद्धतैर्धातुरेणुभिः
प्रशंसंस्तुल्यसत्त्वानां सैन्यघोषे ऽप्यसम्भ्रमम् ।
गुहागतानां सिंहानां परिवृत्त्यावलोकितम्
भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः ।
गङ्गाशीकरिणो मार्गे मरुतस्तं सिषेविरे
विशश्रमुर्नमेरूणां छायास्वध्यास्य सैनिकाः ।
दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः
सरलासक्तमातङ्गग्रैवेयोपचितत्विषः ।
आसन्नोषधयो नेतुर्नक्तमस्नेहदीपिकाः
तस्यावासेषु दानार्द्रैर्गण्डभित्तिविघट्टनैः ।
गजवर्ष्म किरातेभ्यः शशंसुर्देवदारवः
विमर्दः सह तैस्तत्र पार्वतीयैरभूद्रघोः ।
नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलः
शरैरुत्सवसङ्केतान्स कृत्वा करदान्कृती ।
जयोदाहरणं बाह्वोर्गापयामास किन्नरान्
परस्परस्य विज्ञातस्तेषूपायनपाणिषु ।
राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा
तत्राक्षोभ्यं यशोराशिं निवेश्यावरुरोह सः ।
पौलस्त्यतुलितस्याद्रेराददान इव ह्रियम्
चकम्पे तीर्णलौहित्ये तस्मिन्प्राग्ज्योतिषेश्वरः ।
तद्गजालानतां प्राप्तैः सह कालागुरुद्रुमैः
न प्रसेहे स रुद्धार्कमनभ्रमयदुर्दिनम् ।
रथवंशरजो ऽप्यस्य कुत एव पताकिनीम्
तमीशः कामरूपाणामत्याखण्डलविक्रमम् ।
भेजे भिन्नकटैर्नागैरन्यानुपरुरोध यैः
कामरूपेश्वरस्तस्य हेमपीठाधिदेवताम् ।
रत्नपुष्पोपहारेण च्छायामानर्च पादयोः
इति जित्वा दिशो जिष्णुर्न्यवर्तत रथोद्धतम् ।
रजो विश्रमयन्राज्ञां छत्त्रशून्येषु मौलिषु
स विश्वजितमाजह्रे क्रतुं सर्वस्वदक्षिणम् ।
आदानं हि विसर्गाय सतां वारिमुचामिव
सत्त्रान्ते सचिवसखः पुरस्क्रियाभिर्गुर्वीभिः शमितपराजयव्यलीकान् ।
काकुत्स्थश्चिरविरहोत्सुकावरोधान् राजन्यान्स्वपुरनिवृत्तये ऽनुमेने
ते रेखाध्वजकलशातपत्रचिह्नं सम्राजश्चरणयुगं प्रसादलभ्यम् ।
प्रस्थानप्रणतिभिरङ्गुलीषु चक्रुर्मौलिस्रक्च्युतमकरन्दरेणुगौरम्
मूल पाठ: Raghuvaṃśa-kashm, 1-6 · Edition: of Dominic Goodall and Harunaga Isaacson: The Raghupañcikā of Vallabhadeva, being the earliest commentary on the Raghuvaṃśa of Kālidāsa, Critical Edition with Introduction and Notes, Volume 1. Groningen: Egbert Forsten 2003. · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0