भाषा

ENहिગુ
ग्रंथ पाठ

रघुवंश-कस्ह्म् · अध्याय 3

3.1

॥ इति रघुवंशे महाकाव्ये द्वितीयः सर्गः ॥
अथेप्सितं भर्तुरुपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखम् ।
निदानमिक्ष्वाकुकुलस्य सन्ततेः सुदक्षिणा दौहदलक्षणं दधौ

3.2

मुखेन सा केतकपत्त्रपाण्डुना कृशाङ्गयष्टिः परिमेयभूषणा ।
स्थिताल्पतारां करुणेन्दुमण्डलां विभातकल्पां रजनीं व्यडम्बयत्

3.3

तदाननं सेवितमृत्तिकालवं नृपः समाघ्राय न तृप्तिमाययौ ।
करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम्

3.4

दिवं मरुत्वानिव भोक्ष्यते महीं दिगन्तविश्रान्तरथो हि मत्सुतः ।
अतो ऽभिलाषे प्रथमं तथाविधे मनो बबन्धान्यरसान्विलङ्घ्य सा

3.5

न मे ह्रिया शंसति किञ्चिदीप्सितं स्पृहावती वस्तुषु केषु मागधी ।
इति स्म पृच्छत्यतिवेलमादृतः प्रियासखीरुत्तरकोसलेश्वरः

3.6

उपेत्य सा दोहददुःखशीलतां यदेव वव्रे तदपश्यदाहृतम् ।
न हीष्टमस्यास्त्रिदिवे ऽपि भूपतेर्बभूव दुष्प्रापमधिज्यधन्वनः

3.7

दिनेषु गच्छत्सु मधूकपाण्डुरं तदीयमाश्याममुखं स्तनद्वयम् ।
समुद्गयोर्वारणदन्तकोशयोर्बभार कान्तिं गवलापिधानयोः

3.8

क्रमेण निस्तीर्य च दोहदव्यथामुपोढगात्रोपचया रराज सा ।
पुराणपत्त्रापगमादनन्तरं लतेव सन्नद्धमनोज्ञपल्लवा

3.9

निधानगर्भामिव सागराम्बरां शमीमिवाभ्यन्तरलीनपावकाम् ।
नदीमिवान्तःसलिलां सरस्वतीं नृपः सगर्भां महिषीममन्यत

3.10

प्रियानुरागस्य मनःसमुन्नतेर्भुजार्जितानां च दिगन्तसम्पदाम् ।
यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीर्व्यधत्त सः

3.11

सुरेन्द्रमात्राश्रितगर्भगौरवात् प्रयत्नमुक्तासनया गृहागतः ।
तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः

3.12

कुमारभृत्यैः कुशलैरधिष्ठिते भिषग्भिराप्तैरथ गर्भवेश्मनि ।
निरत्ययाय प्रसवाय तस्थुषी बभौ समासन्नफला क्रियेव सा

3.13

ग्रहैस्ततः पञ्चभिरुच्चसंश्रयैरसूर्यगैः सूचितभाग्यसम्पदम् ।
असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिरिवार्थमक्षतम्

3.14

दिशः प्रसेदुर्मरुतो ववुः शिवाः प्रदक्षिणार्चिर्हुतमग्निराददे ।
बभूव सर्वं शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशाम्

3.15

अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा ।
निशीथदीपाः सहसा हतत्विषो बभूवुरालेख्यसमर्पिता इव

3.16

जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसम्मिताक्षरम् ।
अदेयमासीत्त्रयमेव भूपतेः शशिप्रभं छत्त्रमुभे च चामरे

3.17

स वीक्ष्य पुत्रस्य चिरात्पिता मुखं निधानकुम्भस्य युवेव दुर्गतः ।
मुदा शरीरे प्रबभूव नात्मनः पयोधिरिन्दूदयमूर्छितो यथा

3.18

स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते ।
दिलीपसूनुर्मणिराकरोद्गतः प्रयुक्तसंस्कार इवाधिकं बभौ

3.19

सुखश्रवा मङ्गलतूर्यनिःस्वनाः प्रमोदनृत्तैः सह वारयोषिताम् ।
न केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसामपि

3.20

न संयतस्तस्य बभूव रक्षितुर्विमोचयेद्यं सुतजन्महर्षितः ।
ऋणाभिधानात्स्वयमेव केवलं तदा पितृणां मुमुचे स बन्धनात्

3.21

श्रुतस्य यायादयमन्तमर्भकस्तथा परेषां युधि चेति पार्थिवः ।
अवेक्ष्य धातोर्गमनार्थमर्थविच्चकार नाम्ना रघुमात्मसम्भवम्

3.22

पितुः प्रयत्नात्स समग्रसम्पदः शुभैः शरीरावयवैर्दिने दिने ।
पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः

3.23

उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरन्दरौ ।
तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ

3.24

रथाङ्गनाम्नोरिव भावबन्धनं बभूव यत्प्रेम परस्परं प्रति ।
विभक्तमप्येकसुते न तत्तयोः परस्परस्योपरि पर्यहीयत

3.25

यदाह धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गुलिम् ।
अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सो ऽर्भकः

3.26

तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि ।
त्रिभागसम्मीलितलोचनो नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ

3.27

अमंस्त चानेन परार्ध्यजन्मना स्थितेरभेत्ता स्थितिमन्तमन्वयम् ।
स्वमूर्तिभेदेन गुणाग्र्यवृत्तिना पतिः प्रजानामिव सर्गमात्मनः

3.28

स वृत्तचूलश्चलकाकपक्षकैरमात्यपुत्रैः सवयोभिरन्वितः ।
लिपेर्यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रमाविशत्

3.29

अथोपनीतं विधिवद्विपश्चितो विनिन्युरेनं गुरवो गुरुप्रियम् ।
अवन्ध्ययत्नाश्च बभूवुरत्र ते क्रिया हि वस्तूपहिता प्रसीदति

3.30

धियः समग्रैः स गुणैरुदारधीः क्रमाच्चतस्रश्चतुरर्णवोपमाः ।
ततार विद्याः पवनातिपातिभिर्दिशो हरिद्भिर्हरितामिवेश्वरः

3.31

त्वचं स मेध्यां परिधाय रौरवीमशिक्षतास्त्रं पितुरेव मन्त्रवत् ।
प्रयोगसंहाररहस्यवित्तमो बभूव चास्त्रेषु यथा पुरन्दरः

3.32

महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रभावं कलभः श्रयन्निव ।
रघुः क्रमाद्यौवनभिन्नशैशवः पुपोष गम्भीरमनोहरं वपुः

3.33

अथास्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयत्प्रभुः ।
नरेन्द्रकन्यास्तमवाप्य सत्पतिं तमोपहं दक्षसुता इवाबभुः

3.34

युवा युगव्यायतबाहुरंसलः कवाटवक्षाः परिणद्धकन्धरः ।
वपुष्प्रकर्षादजयद्गुरुं रघुस्तथापि नीचैर्विनयाददृश्यत

3.35

अथ प्रजानां चिरमात्मना धृतां नितान्तगुर्वीं लघयिष्यता धुरम् ।
वशीति मत्वा मतिचक्षुषा सुतो नृपेण चक्रे युवराजशब्दभाक्

3.36

नरेन्द्रमूलायतनादनन्तरं तदास्पदं श्रीर्युवराजसंज्ञितम् ।
अगच्छदंशेन गुणाभिलाषिणी नवावतारं कमलादिवोत्पलम्

3.37

उषर्बुधः सारथिनेव वायुना घनव्यपायेन गभस्तिमानिव ।
बभूव तेनातितरां दुरुत्सहः कटप्रभेदेन करीव पार्थिवः

3.38

नियुज्य तं मेध्यतुरङ्गरक्षणे धनुर्धरै राजसुतैरनुद्रुतम् ।
अपूर्णमेकेन शतक्रतूपमः शतं क्रतूनामपविघ्नमाप सः

3.39

अतः परं तेन मखाय यज्वना तुरङ्गमुत्सृष्टमनर्गलं पुनः ।
धनुर्भृतामग्रत एव रक्षिणां जहार शक्रः किल गूढविग्रहः

3.40

विषादलुप्तप्रतिपत्ति विस्मितं कुमारसैन्यं सपदि स्थितं च तत् ।
वसिष्ठधेनुश्च यदृच्छयागता श्रुतप्रभावा ददृशे ऽथ नन्दिनी

3.41

तदङ्गनिःष्यन्दलवेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सताम् ।
अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः

3.42

स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसम्भवः ।
पुनः पुनः सूतनिषिद्धचापलं हरन्तमश्वं रथरश्मिसंयुतम्

3.43

शतैस्तमक्ष्णामनिमेषवृत्तिभिर्हरिं विदित्वा हरिभिश्च वाजिभिः ।
अवोचदेनं गगनस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव

3.44

मखांशभाजां प्रथमो मनीषिभिस्त्वमेव देवेन्द्र यदा निगद्यसे ।
अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्तसे

3.45

त्रिलोकनाथेन सता मखद्विषस्त्वया नियाम्या ननु दिव्यचक्षुषा ।
स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायीभवसि च्युतो विधिः

3.46

तदङ्गमग्र्यं मघवन्महाक्रतोरमुं तुरङ्गं प्रतिमोक्तुमर्हसि ।
पथः शुचेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम्

3.47

इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर्दिवौकसाम् ।
निवर्तयामास रथं सविस्मयः प्रचक्रमे च प्रतिवक्तुमुत्तरम्

3.48

यथात्थ राजन्यकुमार तत्तथा यशस्तु रक्ष्यं परितो यशोधनैः ।
जगत्प्रकाशं तदशेषमिज्यया भवद्गुरुर्लङ्घयितुं ममोद्यतः

3.49

हरिर्यथैकः पुरुषोत्तमः स्मृतो महेश्वरस्त्र्यम्बक एव नापरः ।
तथा विदुर्मां मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः

3.50

अतो ऽयमश्वः कपिलानुकारिणा पितुस्त्वदीयस्य मयापहारितः ।
अलं प्रयत्नेन तवात्र मा निधाः पदं पदव्यां सगरस्य सन्ततेः

3.51

ततः प्रहस्याह पुनः पुरन्दरं व्यपेतभीर्भूमिपुरन्दरात्मजः ।
गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान्

3.52

स एवमुक्त्वा मघवन्तमुन्मुखः करिष्यमाणः सशरं शरासनम् ।
अतिष्ठदालीढविशेषशोभिना वपुष्प्रकर्षेण विडम्बितेश्वरः

3.53

रघोरवष्टम्भमयेन पत्त्रिणा हृदि क्षतो गोत्रभिदप्यमर्षणः ।
नवाम्बुदानीकमुहूर्तलाञ्छने धनुष्यमोघं समधत्त मार्गणम्

3.54

नरेन्द्रसूनोः स बृहद्भुजान्तरं प्रविश्य भीमासुरशोणितोचितः ।
पपावनास्वादितपूर्वमाशुगः कुतूहलेनेव मनुष्यशोणितम्

3.55

हरेः कुमारो ऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ ।
भुजे शचीपत्त्रविशेषकाङ्किते स्वनामचिह्नं निचखान सायकम्

3.56

जहार चान्येन मयूरलाञ्छनं शरेण शक्रस्य महाशनिध्वजम् ।
चुकोप तस्मै स भृशं सुरश्रियः प्रसह्य केशव्यपरोपणादिव

3.57

तयोरुपान्तस्थितसिद्धसैनिकं गरुत्मदाशीविषभीमदर्शनैः ।
बभूव युद्धं तुमुलं जयैषिणोरधोमुखैरूर्ध्वमुखैश्च पत्त्रिभिः

3.58

अतिप्रबन्धप्रहितास्त्रवृष्टिभिस्तमाश्रयं दुष्प्रसहस्य तेजसः ।
शशाक निर्वापयितुं न वासवः स्वतश्च्युतं वह्निमिवाद्भिरम्बुदः

3.59

ततः प्रकोष्ठाद्धरिचन्दनाङ्कितात् प्रमथ्यमानार्णवधीरनादिनीम् ।
रघुः शशाङ्कार्धमुखेन पत्त्रिणा शरासनज्यामलुनाद्बिडौजसः

3.60

स चापमुत्सृज्य विवृद्धमत्सरः प्रवासनाय प्रबलस्य विद्विषः ।
महीध्रपक्षव्यपरोपणोद्धतं स्फुरत्प्रभामण्डलमस्त्रमाददे

3.61

रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकास्रुभिः ।
निमेषमात्रादवधूय च व्यथां सहोत्थितः सैनिकहर्षनिःस्वनैः

3.62

तथापि शस्त्रव्यवहारनिष्ठुरे विपक्षभावे स्थिरमस्य तस्थुषः ।
तुतोष वीर्यातिशयेन वृत्रहा पदं हि सर्वत्र गुणैर्विधीयते

3.63

असङ्गमद्रिष्वपि सारवत्तया न मे त्वदन्येन विसोढमायुधम् ।
अवैहि मां प्रीतमृते तुरङ्गमाद्वरं वृणीष्वेति तमाह वृत्रहा

3.64

ततो निषङ्गादसमग्रमुद्धृतं सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिम् ।
दिलीपसूनुः प्रतिसंहरन्निषुं प्रियं वदः प्रत्यवदत्सुरेश्वरम्

3.65

अमोच्यमश्वं यदि मन्यते प्रभुस्ततः समाप्ते विधिनेव कर्मणि ।
अजस्रदीक्षातनुरद्य मे गुरुः क्रतोरशेषेण फलेन युज्यताम्

3.66

यथा च वृत्तान्तमिमं सदोगतस्त्रिलोचनैकांशतया दुरासदः ।
तवैव सन्देशहराद्विशांपतिः शृणोति नाकेश तथा विधीयताम्

3.67

तथेति कामं प्रतिशुश्रुवान्रघोर्यथागतं मातलिसारथिर्ययौ ।
नृपस्य नातिप्रमनाः सदोगृहं सुदक्षिणासूनुरपि न्यवर्तत

3.68

तमभ्यनन्दत्प्रथमप्रबोधितः प्रजेश्वरः शासनहारिणा हरेः ।
परामृशन्हर्षचलेन पाणिना तदीयमङ्गं कुलिशव्रणाङ्कितम्

3.69

इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः ।
समारुरुक्षुर्दिवमायुषः क्षये ततान सोपानपरम्परामिव

3.70

अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणम् ।
मुनिवनतरुच्छायां देव्या तया सह शिश्रिये गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम्

मूल पाठ: Raghuvaṃśa-kashm, 1-6 · Edition: of Dominic Goodall and Harunaga Isaacson: The Raghupañcikā of Vallabhadeva, being the earliest commentary on the Raghuvaṃśa of Kālidāsa, Critical Edition with Introduction and Notes, Volume 1. Groningen: Egbert Forsten 2003. · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc