भाषा

ENहिગુ
ग्रंथ पाठ

राधाकृष्णाष्टकालीयलीलास्मरणक्रमपद्धति · श्लोक 81-100

81

विषण्ड-वदनो भूत्वा गत-स्व इव नारद ।
जितो ऽस्मि च त्वया देवि गृह्यतां यत् पणी-कृतम्

82

चुम्बनादि मया दत्तम् इत्य् उक्त्वा च तथाचरत् ।
कौटिल्यं तद्-भ्रुवोर् द्रष्टुं श्रोतुं तद्-भर्त्सनं वचः

83

ततः शारी-शुकानां च श्रुत्वा वागाहवं मिथः ।
निर्गच्छतस् ततः स्थानाद् गन्तुकामो गृहं प्रति

84

कृष्णः कान्ताम् अनुज्ञाप्य गवाम् अभिमुखं व्रजेत् ।
सा तु सूर्य-गृहं गच्छेत् सखी-मण्डल-संयुता

85

कियद्-दूरं ततो गत्वा परावृत्य हरिः पुनः ।
विप्र-वेशं समास्थाय याति सूर्य-गृहं प्रति

86

सूर्यं च पूजयेत् तत्र प्रार्थितस् तत्-सखी-जनैः ।
तद् एव कल्पितैर् वेदैः परिहास्यावगर्भितैः

87

ततस् ता अपि तं कान्तं परिज्ञाय विचक्षणाः ।
आनन्द-सागरे लीना न विदुः स्वं न चापरम्

88

विहारैर् विविधैर् एवं सार्ध-याम-द्वयं मुने ।
नीत्वा गृहं वजेषुस् ताः स च कृष्णो गवां व्रजेत्

89

इति मध्याह्न-सेवा
अथापराह्न-सेवा--
सङ्गम्य तु सखीन् कृष्णो गृहीत्वा गाः समन्ततः ।
आगच्छति व्रजं कर्षन्न् उत्तान-मुरली-रवैः

90

ततो नन्दादयः सर्वे श्रुत्वा वेणु-रवं हरेः ।
गो-धूलि-पटलैर् व्याप्तं दृष्ट्वा चापि नभः-स्थलम्

91

विसृज्य सर्व-कर्माणि स्त्रियो बालादयो ऽपि च ।
कृष्णस्याभिमुखं यान्ति तद्-दर्शन-समुत्सुकाः

92

राधिकापि समागत्य गृहं स्नात्वा विभूषिता ।
सम्पाच्य कान्त-भोगार्थं द्रव्याणि विविधानि च ।
सखी-संघ-युता यान्ति कान्तं द्रष्टुं समुत्सुकाः

93

राज-मार्गे व्रज-द्वारि यत्र सर्वे व्रजौकसः ।
कृष्णो ऽप्य् एतान् समागम्य यथावद् अनुपूर्वशः

94

दर्शनैः स्पर्शनैर् वापि स्मित-पुर्वावलोकनैः ।
गोप-वृद्धान् नमस्कारैः कायिकैर् वाचिकैर् अपि

95

साष्टाङ्ग-पातैः पितरौ रोहिणीम् अपि नारद ।
नेत्रान्त-सूचितेनैव विनयेन प्रियास् तथा

96

एवं तैश् च यथा-योग्यं व्रजौकोभिः प्रपूजितः ।
गवालयं तथा गाश् च सम्प्रवेश्य समन्ततः

97

पितृभ्याम् अर्थितो याति भ्रात्रा सह निजालयम् ।
स्नात्वा पित्वा तथा किञ्चिद् भुक्त्वा मात्रानुमोदितः ।
गवालयं पुनर् याति दोग्धु-कामो गवां पयः

98

इत्य् अपराह्न-सेवा
अथ सायं-सेवा--
ताश् च दुग्ध्वा दोहयित्वा पाययित्वा च काश्चन ।
पित्रा सार्धं गृहं याति पयो-भारि-शतानुगः

99

तत्रापि मातृ-वृन्दैश् च तत्-पुत्रैश् च बलेन च ।
संभुङ्क्ते विविधान्नानि चर्व्य-चूष्यादिकानि च

100

इति सायं-सेवा
अथ प्रदोष-सेवा--
तन्-मातुः प्रार्थनात् पूर्वं राधयापि तदैव हि ।
प्रस्थाप्यन्ते सखी-द्वारा पक्वान्नानि तद्-आलयम्

मूल पाठ: Rādhākṛṣṇāṣṭakālīyalīlāsmaraṇakramapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc