भाषा

ENहिગુ
ग्रंथ पाठ

राधाकृष्णाष्टकालीयलीलास्मरणक्रमपद्धति · श्लोक 61-80

61

पृथग् एकेन वपुषा कृष्णो ऽपि युगपद् विभुः ।
सर्वासां सन्निधिं गच्छेत् प्रियाणां परितो मुहुः

62

रमयित्वा च ताः सर्वाः करिणी-गजराड् इव ।
प्रियया च तथा ताभिः सरोवरम् अथाव्रजेत्

63

श्री-नारद उवाच--
वृन्दे श्री-नन्द-पुत्रस्य माधुर्य-क्रीडने कथम् ।
ऐश्वर्यस्य प्रकाशो ऽभूद् इति मे छिन्धि संशयम्

64

श्री-वृन्दोवाच--
मुने माधुर्य-मय्य् अस्ति लीला-शक्तिर् हरेर् दृशा ।
तया पृथक्-कृतः क्रीडेद् गोपिकाभिः समं हरिः

65

राधया सह रूपेण निजेन रमते स्वयम् ।
इति माधुर्य-लीलायाः शक्तिर् नेशताया हरेः

66

जल-सेकैर् मिथस् तत्र क्रीडित्वा स-गणौ ततः ।
वासः-स्रक्-चन्दनैर् दिव्य-भूषणैर् अपि भूषितौ

67

तत्रैव सरसस् तीरे दिव्य-रत्न-मये गृहे ।
अश्नीतः फल-मूलानि कल्पितानि मयैव हि

68

हरिस् तु प्रथमं भुक्त्वा कान्तया परिवेशितम् ।
द्वि-त्राभिः सेवितो गच्छेच् छय्यां पुष्प-विनिर्मिताम्

69

ताम्बूलैर् व्यजनैस् तत्र पाद-संवाहनादिभिः ।
सेव्यमानो भृशन्ताभिर् मोदितः प्रेयसीं स्मरन्

70

श्री-राधापि हरौ सुप्ते स-गणा मुदितान्तरा ।
कान्त-दत्तं प्रीत-मना उच्छिष्टं बुभुजे ततः

71

किञ्चिद् एवो ततो भुक्त्वा व्रजेच् छय्या-निकेतनम् ।
द्रष्टुं कान्त-मुखाम्भोजं चकोरीवन् निशा-करम्

72

ताम्बूल-चर्वितं तस्य तत्रत्याभिर् निवेदितम् ।
ताम्बूलान्य् अपि चाश्नाति विभजन्ति प्रियालिषु

73

कृष्णो ऽपि तासां शुश्रूषुः स्वच्छन्दं भाषितं मिथः ।
प्राप्त-निद्र इवाभाति विनिद्रो ऽपि पटावृतः

74

ताश् च क्ष्वेलीं क्षणं कृत्वा मिथः कान्त-कथाश्रयाः ।
व्याज-निद्रां हरेर् ज्ञात्वा कुतश्चिद् अनुमानतः

75

विमृश्य वदनं दृग्भिः पश्यन्त्यो ऽन्योन्य-माननम् ।
लीना इव लज्जया स्युः क्षणम् उचुर् न किञ्चनम्

76

क्षणाद् एव ततो वस्त्रं दूरी-कृत्य तद् अङ्गतः ।
साधु निद्रां गतो ऽसीति हासयन्त्यो हसन्ति तम्

77

एवं तौ विविधैर् हासै रममाणौ गणैः सह ।
अनुभूय क्षणं निद्रा-सुखं च मुनि-सत्तम

78

उपविश्यासने दिव्ये स-गणौ विस्तृते मुदा ।
पणी-कृत्य मिथो हार-चुम्बाश्लेष-परिच्छदान्

79

अक्षैर् विक्रीडितः प्रेम्णा नर्मालाप-पुरःसरम् ।
पराजितो ऽपि प्रियया जितम् इत्य् अवदन् मृषा

80

हारादि-ग्रहणे तस्याः प्रवृत्तस् ताड्यते तया ।
तयैवं ताडितः कृष्णः कर्णोत्पल-सरोरुहैः

मूल पाठ: Rādhākṛṣṇāṣṭakālīyalīlāsmaraṇakramapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc