राधाकृष्णाष्टकालीयलीलास्मरणक्रमपद्धति · श्लोक 101-120
श्लाघयंश् च हरिस् तानि भुक्त्वा पित्रादिभिः सह
सभा-गृहं व्रजेत् तैश् च जुष्टं वन्दि-जनादिभिः
पक्वान्नानि गृहीत्वा याः सख्यस् तत्र समागताः ।
बहूनि च पुनस् तानि प्रदत्तानि यशोदया
सख्या तत्र तया दत्तं कृष्णोच्छिष्टं तथा रहः
सर्वं ताभिः समानीय राधिकायै निवेद्यते
सापि भुक्त्वा सखी-वर्ग-युता तद्-अनुपूर्वशः
सखीभिर् मण्डित तिष्ठेद् अभिसर्तुं मुदान्विता
प्रस्थाप्यते ऽनया काचिद् इत एव ततः सखी ।
तयाभिसारिता सा ऽथ यमुनायाः समीपतः
कल्प-वृक्स-निकुञ्जे ऽस्मिन् दिव्य-रत्न-मये गृहे ।
सित-कृष्ण-निशायोग्य-वेश याति सखी-युता
कृष्णो ऽपि विविधं तत्र दृष्ट्वा कौतुहलं ततः ।
कवित्वानि मनोज्ञानि श्रुत्वा च गीतकान्य् अपि
धन-धान्यादिभिस् तांश् च प्रीणयित्वा विधानतः ।
जनैर् आकारितो मात्रा याति शय्या-निकेतनम्
मातरि प्रस्थितायान्तु भोजयित्वा ततो गृहात् ।
सङ्केतकं कान्तयात्र समागच्छेद् अलक्षितः
इति प्रदोष-सेवा
अथ रात्रि-सेवा-
मिलित्वा ताव् उभाव् अत्र क्रीडतो वन-राजिषु ।
विहारैर् विविधैर् हास्य-लास्य-गीत-पुरःसरैः
सार्ध-याम-द्वयं नीत्वा रात्रेर् एवं विहारतः ।
सुषुप्सू विशतः कुञ्जं पञ्च-षाभिर् अलक्षितौ
निर्वृन्त-कुसुमैः क् प्ते केलि-तल्पे मनोरमे ।
सुप्तावतिष्ठतां तत्र सेव्यमानौ प्रियालिभिः
इति रात्रि-सेवा
श्री-नारद उवाच--
श्रोतुम् इच्छामि भो देव व्रज-राज-सुतस्य च ।
वृन्दावने रसं दिव्यं राधयैकान्तिकं सह
श्री-सदाशिव उवाच--
शृणु नारद वक्ष्यामि राधा-कृष्ण-रसं शुचिं ।
सु-गोप्यं परमोदारं न वक्तव्यं हि कस्यचित्
ऐकान्तिक-रसास्वादं कर्तुं वृन्दावने मुने ।
व्रज-राज-कुमारं च बहु-कालम् अभावयम्
मयि प्रसन्नः श्री-कृष्णो मन्त्र-युग्मम् अनुत्तमम् ।
युगलाख्यं ददौ मह्यं स्वीयोज्ज्वल-रसाप्लुतम्
समब्रवीत् तदा कृष्णः स्व-शिष्यं मां स्वकं रसम् ।
ब्रवीमि त्वां शृणुष्वाद्य ब्रह्मादीनाम् अगोचरम्
व्रज-राज-सुतो वृन्दा-वने पूर्णतमो वसन् ।
सम्पूर्ण-षोडश-कला विहारं कुरुते सदा
वासुदेवः पूर्णतरो मथुरायां वसन् पुरि ।
कलाभिः पञ्च-दशभिर् युतः क्रीडति सर्वदा
द्वारकाधिपतिर् द्वार-वत्यां पूर्णस् त्व् असौ वसन् ।
चतुर्-दश-कलायुक्तो विहरत्य् एव सर्वदा
मूल पाठ: Rādhākṛṣṇāṣṭakālīyalīlāsmaraṇakramapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0