राधाकृष्णाष्टकालीयलीलास्मरणक्रमपद्धति · श्लोक 41-60
कङ्कणाङ्गद-केयूर-रत्न-मुद्रालसत्-करः ।
मुक्ताहार-स्फुरद्-वक्षा मकराकृति-कुण्डलः
मुहुर् आकारितो मात्रा प्रविशेद् भोजनालये ।
अवलम्ब्य करं मातुर् बलदेवम् अनुव्रतः
भुक्त्वा च विविधान्नानि मात्रा च सखिभिर् वृतः ।
हासयन् विविधैर् वाक्यैः सखींस् तैर् हासितः स्वयम्
इत्थं भुक्त्वा तथाचम्य दिव्य-खट्टोपरि क्षणात् ।
विश्रमेत् सेवकैर् दत्तं ताम्बूलं विभजन्न् अदन्
राधापि भोजनानन्दं दृष्ट्वा यशोदयाहूत ।
ललितादि-सखी-वृता भुङ्क्ते ऽन्नं लज्जयान्विता
इति प्रातः-सेवा
अथ पूर्वाह्न-सेवा--
गोप-वेश-धरः कृष्णो धेनु-वृन्द-पुरः-सरः ।
व्रज-वासि-जनैः प्रीत्या सर्वैर् अनुगतः पथि
पितरं मातरं नत्वा नेत्रान्तेन प्रिया-गणान् ।
यथायोग्यं तथा चान्यान् सन्निवर्त्य वनं व्रजेत्
वनं प्रविश्य सखिभिः क्रीडित्वा च क्षणं ततः ।
वञ्चयित्वा च तान् सर्वान् द्वि-त्रैः प्रिय-सखैर् युतः
सङ्केतकं व्रजेद् धर्षात् प्रिया-सन्दर्शनोत्सुकः ।
सापि कृष्णे वनं याते दृष्ट्वा तं गृहम् आगता
सूर्यादि-पूजा-व्याजेन कुसुमाद्य्-आहृति-च्छलात् ।
वञ्चयित्वा गुरून् याति प्रिय-सङ्गेच्छया वनं
इति पूर्वाह्न-सेवा
अथ मध्याह्न-सेवा--
इत्थं तौ बहु-यत्नेन मिलित्वा स्व-गणैर् वृतौ ।
विहारैर् विविधैस् तत्र वने विक्रीडतो मुदा
स्यन्दोलिका-समारूढौ सखीभिर् दोलितौ क्वचित् ।
क्वचिद् वेणुं कर-स्रस्तं प्रियया चोरितं हरिः
अन्वेषयन्न् उपालब्धो विप्रलब्धः प्रिया-गणैः ।
हासितो बहुधा ताभिर् हृत-स्व इव तिष्ठति
वसन्त-ऋतुना जुष्टं वन-खण्डं क्वचिन् मुदा ।
प्रविश्य चन्दनाम्भोभिः कुङ्कुमादि-जलैर् अपि
विषिञ्चतो यन्त्र-मुक्तैस् तत्-पङ्केनापि तौ मिथः ।
सख्यो ऽप्य् एवं विषिञ्चन्ति ताश् च तौ सिञ्चतः पुनः
तथान्यर्तुसु जुष्टासु क्रीडतो वन-राजिषु ।
तत्-तत्-कालोचितैर् नाना-विहारैः स-गणौ द्विज
श्रान्तौ क्वचिद् वृक्ष-मूलम् आसाद्य मुनि-सत्तम ।
उपविश्यासने दिव्ये मधु-पानं प्रचक्रतुः
ततो मधु-मदोन्मत्तौ निद्रया मीलितेक्षणौ ।
मिथः पाणिं समालम्ब्य काम-बाण-वशङ्गतौ
रिरंसु विशतः कुञ्जं स्खलत्-पादाब्जकौ पथि ।
ततो विक्रीडतस् तत्र करिणी-यूथपौ यथा
सख्यो ऽपि मधुभिर् मत्ता निद्रया पिहितेक्षणाः ।
अभितः कुञ्ज-पुञ्जेषु सार्वा एव विलिल्यिरे
मूल पाठ: Rādhākṛṣṇāṣṭakālīyalīlāsmaraṇakramapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0