भाषा

ENहिગુ
ग्रंथ पाठ

राधाकृष्णाष्टकालीयलीलास्मरणक्रमपद्धति · श्लोक 21-40

21

श्री-वृन्दा-देव्य् उवाच--
रहस्यं त्वां प्रवक्ष्यामि कृष्ण-भक्तो ऽसि नारद ।
न प्रकाश्यं त्वया ह्य् एतद् गुह्याद् गुह्यतरं महत्

22

अथ निशान्त-सेवा--
मध्ये वृन्दावने रम्ये पञ्चाशत्-कुञ्ज-मण्डिते ।
कल्प-वृक्ष-निकुञ्जे तु दिव्य-रत्न-मये गृहे

23

निद्रितौ तिष्ठतस् तल्पे निविडालिङ्गितौ मिथः ।
मद्-आज्ञा-कारिभिः पश्चात् पक्षिभिर् बोधिताव् अपि

24

गाढालिङ्गन-निर्भेदम् आप्तौ तद्-भङ्ग-कातरौ ।
न मनस् कुरुतस् तल्पात् समुत्थातुं मनाग् अपि

25

ततश् च शारिका-संघैः शुकाद्यैर् अपि तौ मुहुः ।
बोधितौ विविधैः पद्यैः स्व-तल्पाद् उदतिष्ठताम्

26

उपविष्टौ ततो दृष्ट्वा सख्यस् तल्पे मुदान्वितौ ।
प्रविश्य चक्रिरे सेवां तत्-कालस्योचितां तयोः

27

पुनश् च शारिका-वाक्यैर् उत्थाय तौ स्व-तल्पतः ।
गच्छतः स्व-स्व-भवनं भीत्य्-उत्कण्ठाकुलौ मिथः

28

इति निशान्त-सेवा
अथ प्रातः-सेवा--
प्रातश् च बोधितो मात्रा तल्पाद् उत्थाय सत्वरम् ।
कृत्वा कृष्णो दन्त-काष्ठं बलदेव-समन्वितः

29

मात्रानुमोदितो याति गोशालां दोहनोत्सुकः ।
राधापि बोधिता वृद्ध-वयस्याभिः स्व-तल्पतः

30

उत्थाय दन्त-काष्ठादि कृत्वाभ्यङ्ग समाचरेत् ।
स्नान-वेदीं ततो गत्वा स्नापिता ललितादिभिः

31

भूषा-गृहं व्रजेत् तत्र वयस्या भूषयन्त्य् अपि ।
भूषणैर् विविधैर् दिव्यैर् गन्ध-माल्यानुलेपनैः

32

ततश् च स्व-जनैस् तस्याः श्वश्रूं सम्प्रार्थ्य यत्नतः ।
पक्तुम् आहूयते तूर्णं स-सखी सा यशोदया

33

श्री-नारद उवाच--
कथम् आहूयते देवि पाकार्थं सा यशोदया ।
सतीषु पाक-कर्त्रीषु रोहिणी-प्रमुखाष्व् अपि

34

श्री-वृन्दोवाच--
दुर्वाससा स्वयं दत्तो वरस् तस्यै महर्षिणा ।
इति कात्यायनी-वक्त्राच् छ्रुतम् आसीन् मया पुरा

35

त्वया यत् पच्यते देवि तद्-अन्नं मद्-अनुग्रहात् ।
मिष्टं स्वाद्व्-अमृत-स्पर्द्धि भोक्तुर् आयुष्करं तथा

36

इत्य् आह्वयति तां नित्यं यशोदा पुत्र-वत्सला ।
आयुष्मान् मे भवेत् पुत्रः स्वादु-लोभात् तथा सती

37

श्वश्र्वानुमोदिता सापि हृष्टा नन्दालयं व्रजेत् ।
स-सखी-प्रकरा तत्र गत्वा पाकं करोति च

38

कृष्णो ऽपि दुग्ध्वा गाः काश्चिद् दोहयित्वा जनैः पराः ।
आगच्छति पितुर् वाक्यात् स्व-गृहं सखिभिर् वृतः

39

अभ्यङ्ग-मर्दनं कृत्वा दासैः संस्नापितो मुदा ।
धौत-वस्त्र-धरः स्रग्वी चन्दनाक्त-कलेवरः

40

द्वि-फाल-बद्ध-केशैश् च ग्रीवा-भालोपरि स्फुरन् ।
चन्द्राकार-स्फुरद्-भाल-तिलकालक-रञ्जितः

मूल पाठ: Rādhākṛṣṇāṣṭakālīyalīlāsmaraṇakramapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc