भाषा

ENहिગુ
ग्रंथ पाठ

राधाकृष्णाष्टकालीयलीलास्मरणक्रमपद्धति · श्लोक 141-160

141

अतएव पाद्मोत्तर-खण्डोक्तं द्वारकाधिपतेर् वृन्दावनं प्रति-गमनं क्षीराब्धिशाय्य् आविष्टत्वात् क्षीराब्धिशायिनो द्रोणादीनां लब्ध-वर-त्वात्, तेषां पुनः स्व-स्थान-प्रापणार्थम् एवेत्य् अवगन्तव्यम् ।
श्रीमद्-भागवत-वाक्यानाम् एवं विचारो ऽवगन्तव्यः पद्मोत्तर-खण्डे तु ôकालिन्दि-पुलिने रम्येö इत्य् अत्र श्री-द्वारका-नाथस्य श्री-नन्द-नन्दन-मधुर-लीला-संदर्शने सोत्कण्ठत्वाद् व्योम-यानैर् एत्य श्री-वृन्दावने मास-द्वयम् उवासेत्य् अभिप्रायो ज्ञेयः ।
तद् यथा श्री-ललित-माधवे (8.34)--ôअपरिकलित-पूर्वःö इत्यादि ।
इति ते सर्वम् आख्यातं नैत्यिकं चरितं हरेः ।
पापिनो ऽपि विमुच्यन्ते स्मरणाद् यस्य नारद

142

अष्ट-कालोक्त-शुश्रूषा-नन्तरं साधकः क्रमात् ।
द्वात्रिंशद्-अक्षर-मुख्यान् जपेन् मन्त्रान् अतन्द्रितः

143

महा-मन्त्रं जपेद् आदौ दशार्णं तद्-अनन्तरम् ।
ततः श्री-राधिका-मन्त्रं गायत्रीं कामकीं तथा

144

ततो युगल-मन्त्रं च जपेद् रास-स्थली-प्रदम् ।
ततो ऽष्टानां सखीनां च जपेन् मन्त्रान् यथा-क्रमम् ।
ततः षण्-मञ्जरीणां च स्व-स्व-मन्त्रान् क्रमाज् जपेत्

145

यथा आदि-पुराणे--
गोपी-भावेन ये भक्ता माम् एव पर्युपासते ।
तेषु तास्व् इव तुष्टो ऽस्मि सत्यं सत्यं धनञ्जय

146

वेश-भूषा-वयो-रूपैर् गोपिका-भावम् आश्रिताः ।
भावुकीयाश् च तद्-भावं यान्ति पाद-रजो ऽर्चनात्

147

यथा एकाम्र-पुराणे--
अहो भजन-माहात्म्यं वृन्दावन-पतेर् हरेः ।
पुमान् योषिद् भवेद् यत्र योषिद्-आत्म-समानिका

148

पाद्मे च (उत्तर-खण्डे)--
पुरा महर्षयः सर्वे दण्डकारण्य-वासिनः ।
रामं दृष्ट्वा हरिं तत्र भोक्तुम् ऐच्छन् सु-विग्रहम्

149

ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूताश् च गोकुले ।
हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात्

150

बृहद्-वामन-सिद्धाश् च श्रुतयो ऽपि यथा पुरा ।
गोपी-भावेन संसेव्य समुद्भूता हि गोकुले

151

यद्-उक्तं श्री-रूप-गोस्वामि-चरणैः--
हरिं सु-राग-मार्गेण सेवते यो नरोत्तमः ।
केवलेनैव स तदा गोपिकात्वम् इयाद् व्रजे

152

भक्ति-तत्त्व-कौमुद्याम्--
एकस्मिन् वासना-देहे यदि चान्यस्य भावना ।
तर्हि तत् साम्यम् एव स्यात् यथा वै भरते नृपे

153

यथा सनत्-कुमार-संहितायाम्--
श्री-नारद उवाच--
धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि त्वया देवि न संशयः ।
हरेर् मे नैत्यिकी लीला यतो मे ऽद्य प्रकाशिता

154

श्री-सनत्-कुमार उवाच--
इत्य् उक्त्वा तां परिक्रम्य तया चापि प्रपूजितः ।
अन्तर्धानं गतो राजन् नारदो मुनि-सत्तमः

155

मयाप्य् एतद् आनुपूर्व्यं सर्वं तत् परिकीर्तितम् ।
जपन् नित्यं प्रयत्नेन मन्त्र-युग्मम् अनुत्तमम्

156

कृष्ण-वक्त्राद् इदं लब्धं पुरा रुद्रेण यत्नतः ।
तेनोक्तं नारदायाथ नारदेन मयोदितम्

157

संसाराग्नि-विनाशाय मयाप्य् एतत् तवोदितम् ।
त्वया चैतद् गोपनीयं रहस्यं परमाद्भुतम्

158

श्री-अम्बरीष उवाच--
कृत-कृत्यो ऽभवं साक्षात् त्वत् प्रसादाद् अहं गुरो ।
रहस्यातिरहस्यं यत् त्वया मह्यं प्रकाशितम्

159

श्री-सनत्-कुमार उवाच--
धर्मान् एतान् उपादिष्टो जपन् मन्त्रम् अहर् निशम् ।
अचिराद् एव तद्-दास्यम् अवाप्स्यसि न संशयः

160

ôएतान् धर्मान्--अष्ट-काल-सेवा-रूपान्; मन्त्रम्--युगल-मन्त्रम्; तद्-दास्यम्--तयोः श्री-राधा-कृष्णयोर् दास्यं दासी-भावम्ö इति ।
मयापि गम्यते राजन् गुरोर् आयतनं मम ।
वृन्दावने यत्र नित्यं गुरुर् मे ऽस्ति सदाशिवः

मूल पाठ: Rādhākṛṣṇāṣṭakālīyalīlāsmaraṇakramapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc