राधाकृष्णाष्टकालीयलीलास्मरणक्रमपद्धति · श्लोक 121-140
एकया कलया द्वाभ्यां मथुरा-द्वारकाधिपौ ।
वृन्दावन-पते रूपौ पूर्णौ स्वे स्वे पदे रसे
मथुरा-नाथो वृन्दावनाधिपापेक्षया स्वरूपेण लीलया च एकया कलया ऊनः ।
मथुरा-लीलायां मथुरायां च सम्पूर्ण-षोडश-कलः ।
तथा द्वारका-नाथो वृन्दावनाधिपापेक्षया स्वरूपेण लीलया च ।
द्वाभ्यां कलाभ्याम् ऊनः ।
द्वारकायां द्वारका-लीलायां च पूर्ण-षोडश-कलः ।
श्रीर् भू-लीला योगमाया चिन्त्याचिन्त्या तथैव च ।
मोहिनी कौशलीत्य् अष्टौ बहिरङ्गाश् च शक्तयः
लीला प्रेम-स्वरूपा चस्थापन्य् आकर्षणी तथा ।
संयोगिनी वियोगिन्या-ह्लादिनीत्य् अन्तरङ्गिका
व्रजे श्री-कृष्ण-चन्द्रस्य सन्ति षोडश-शक्तयः ।
पोषिका मधुरस्यैव तस्यैता वै सनातनाः
ह्लादिनी य महा-शक्तिः सर्व-शक्ति-वरीयसी ।
तत्-सार-भाव-रूपा श्री-राधिका परिकीर्तिता
तया श्री-कृष्ण-चन्द्रस्य क्रिडायाः समये मुने ।
तद्-आविष्टं वासुदेवं सह क्षीराब्धि-नायकम्
अन्तरीक्ष्य-गतं कुर्याच् छक्तिर् आकर्षणी हरेः ।
क्रीडान्ते स्थापयेत् तन्तु स्थापनी कृष्ण-देहतः
सम्पूर्ण-षोडश-कलः केवलो नन्द-नन्दनः ।
विक्रीडन् राधया सार्धं लभते परमं सुखम्
श्री-नारद उवाच--
गते मधु-पुरीं कृष्णे विप्रलम्भ-रसः कथम् ।
वासुदेवे राधिकायाः संशयं छिन्धि मे प्रभो
श्री-सदाशिव उवाच--
शक्तिः संयोगिनी कामा वामा शक्तिर् वियोगिनी ।
ह्लादिनी कीर्तिदा-पुत्री चैवं राधा-त्रयं व्रजे
मम प्राणेश्वरः कृष्णस् त्यक्त्वा वृन्दावनं क्वचित् ।
कदाचिन् नैव यातीति जानीते कीर्तिदा-सुता
कामा-वामे न जानीत इति च ब्रह्म-नन्दन ।
रासारम्भ इवान्तर्धिं गतवान् नन्द-नन्दनः
मथुरां मथुरा-नाथो वासुदेवो जगाम ह ।
अन्तर्-हिते नन्द-सुते श्रीमद्-वृन्दावने मुने
प्रवासाख्यं रसं लेभे राधा वै कीर्तिदा-सुता ।
ततो वदन्ति मुनयः प्रवासं सङ्ग-विच्युतिम्
मम जीवन-नेता च त्यक्त्वा मां मथुरां गतः ।
इति विह्वलिता वामा राधा या विरहाद् अभूत्
यमुनायां निमग्ना सा प्रकाशं गोकुलस्य च ।
गोलकं प्राप्य तत्राभूत् संयोग-रस-पेशला
कामा राधा च मथुरा-विरहेण निपीडिता ।
कुरुक्षेत्रं गता तीर्थ-यात्रा-परम-लालसा
नन्द-नन्दन-भाव-ज्ञ उद्धवो व्रजम् आगतः ।
सान्त्वयिष्यन् कीर्तिदायाः सुतां मास-द्वये गते
राधाम् आस्वादयामास श्रीमद्-भागवतार्थकं ।
कथायां भागवत्यान्तु जातायां मुनि-पुङ्गव
व्रजेन्द्र-नन्दनः श्रीमांस् तदा प्रत्यक्षतां गतः
मूल पाठ: Rādhākṛṣṇāṣṭakālīyalīlāsmaraṇakramapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0