भाषा

ENहिગુ
ग्रंथ पाठ

राधाकृष्णाष्टकालीयलीलास्मरणक्रमपद्धति · श्लोक 161-171

161

द्वात्रिंशद्-अक्षरादीनां मन्त्राणां क्रमेण फलं यथा पाद्मे--
द्वात्रिंशद्-अक्षरं मन्त्रं नाम-षोडशकान्वितम् ।
प्रजपन् वैष्णवो नित्यं राधा-कृष्ण-स्थलं लभेत्

162

गौतमीय-तन्त्रे च--
अहर्-निशं जपेन् मन्त्रं मन्त्री नियत-मानसः ।
स पश्यति न सन्देहो गोप-रूपिणम् ईश्वरम्

163

गौरी-तन्त्रे च--
श्रीमद्-अष्टाक्षरं मन्त्रं राधायाः प्रेम-सिद्धि-दम् ।
प्रजपेत् साधको यस् तु स राधान्तिकम् आप्नुयात्

164

सनत्-कुमार-संहितायाम्--
जपेद् यः काम-गायत्रीं काम-बीज-समन्विताम् ।
तस्य सिद्धिर् भवेत् प्रेम राधा-कृष्ण-स्थलं व्रजेत्

165

एतां पञ्च-पदीं जप्त्वा श्रद्धया ऽश्रद्धयासकृत् ।
वृन्दावने तयोर् दास्यं गच्छत्य् एव न संशयः

166

किशोरी-तन्त्रे च--
एतान् सखीनाम् अष्टानां मन्त्रान् यः साधको जपेत् ।
श्री-राधा-कृष्णयोः क्षिप्रं विहार-स्थलम् आप्नुयात्

167

तत्रैव--
मन्त्रान् एतान् मञ्जरीणाम् अष्टानां यो जपेत् सदा ।
प्रेम-सिद्धिर् भवेत् तस्य श्री-वृन्दावनम् आप्नुयात्

168

स्मरणानन्तरं सिद्ध-देहस्यैव च साधकः ।
अष्ट-कालोदितां लीलां संस्मरेत् साधकाङ्गकः

169

कालौ निशान्त-पूर्वाह्नाव् अपराह्न-प्रदोषकौ ।
विज्ञेयौ त्रि-त्रि-घटिकौ प्रातः सायं द्वयं द्वयम्

170

द्वि-द्वि-प्रघटिकौ ज्ञेयौ मध्याह्न-रात्रिकाव् इति

171

एतेषु समयेष्व् एवं या या लीला पुरोदिता ।
तां ताम् एव यथा-कालं संस्मरेत् साधको जनः

मूल पाठ: Rādhākṛṣṇāṣṭakālīyalīlāsmaraṇakramapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc