प्रियदर्शिका · अध्याय 3
(इति निष्क्रान्ताः सर्वे ।)
(इति द्वितीयो ऽङ्कः) ॥
तृतीयो ऽङ्कः ।
(ततः प्रविशति मनोरमा ।)
मनोरमा - आणत्त म्हि देवीए वासवदत्ताए हन्जे मणोरमे जं तं संकिच्चायणीए अज्ज-उत्तस्स मम अ उत्तन्तं णाडओवणिबद्धं तस्स णच्चिदव्व-सेसं [प्. 24] अज्ज तुम्हेहिं कोमुदी-महूसवे णच्चिदव्वं ति । हिओ क्खु आरण्णिआए पिअ-सहीए सुण्ण-हिअआए अण्णहा एव्व णच्चिदं । अज्ज उण वासवदत्ता-भूमिआए ताए जै तह करीअदि तदो अवस्सं देवी कुप्पदि । ता कहिं दाव तां पेक्खिअ उवालम्भिस्सं । (विलोक्य ।)एसा आरण्णिआ अप्पणा एव्व किं वि किं वि मन्तअन्ती दिग्घिआ-तीले कदली-घरअं पविसदि । ता गुम्म्ऽ-अन्तरिआ भविअ सुणिस्सं दाव से वीसद्ध-जप्पिदाणिं । [ आज्ञप्तास्मि देव्या वासवदत्तया हञ्जे मनोरमे यः स साङ्कृत्यायन्य् आर्य-पुत्रस्य मम च वृत्तान्तो नाटकोपनिबद्धस् तस्य नर्तितव्य-शेषम् अद्य युष्माभिः कौमुदी-महोत्सवे नर्तितव्यम् इति । ह्यः खल्व् आरण्यिकया प्रिय-सख्या शून्य-हृदययान्यथैव नर्तितम् । अद्य पुनर् वासवदत्ता-भूमिकया तया यदि तथा क्रियते ततो ऽवश्यं देवी कुप्यति । तत् कुत्र तावत् तां प्रेक्ष्योपालप्स्ये । (विलोक्य ।) एषारण्यिकात्मनैव किम् अपि किम् अपि मन्त्रयमाणा दीर्घिका-तीरे कदली-गृहं प्रविशति । तद् गुल्मान्तरिता भूत्वा श्रोष्यामि तावद् अस्या विश्रब्ध-जल्पितानि । ]
(ततः प्रविशत्य् आसन-स्था कामावस्थां नाटयन्त्य् आरण्यिका ।)
आरण्यिका - (निःश्वस्य ।) हिअअ दुल्लह-जणं पत्थअन्तो तुमं कीस मं दुक्खिदं करेसि । [ हृदय दुर्लभ-जनं प्रार्थयमानं त्वं कस्मान् मां दुःखितां करोषि ।]
मनोरमा - तं एदं एदस्स सुण्ण-हिअअत्तणस्स कारणं । किं उण एसा पत्थेदि । अवहिदा दाव सुणिस्सं । [ तद् एतद् अस्याः शून्य-हृदयत्वस्य कारणम् । किं पुनर् एषा प्रार्थयते । अवहिता तावच् छ्रोष्यामि । ]
आरण्यिका - (सास्रम् ।) कहं तह णाम सोम्म-दंसणो भविअ महा-राओ एव्वं संदावेदि मं । अच्छरिअं अच्छरिअम् । अहवा मह एव्व एसा अ-भाअ-हेअदा । ण उण महा-राअस्स दोसो । [ कथं तथा नाम सौम्य-दर्शनो भूत्वा महा-राज एवं संतापयति माम् । आश्चर्यम् आश्चर्यम् । (निःश्वस्य ।) अथवा ममैवैषा ऽभागधेयता । न पुनर् महा-राजस्य दोषः । ]
मनोरमा - (स-बाष्पम् ।) कहम् महा-राओ एव्व से पत्थणिज्जो । साहु पिअ-सही साहु । अभिजाअ-सरिसो दे अहिलासो । [ कथं महा-राज एवास्याः प्रार्थनीयः । साधु प्रिय-सखि साधु । आभिजात्य-सदृशस् ते ऽभिलाषः । ]
आरण्यिका - कस्स दाव एदं उत्तन्तं णिवेदिअ सज्झ-वेअणं विअ दुक्खं कारैस्सं । (विचिन्त्य ।) अहवा अत्थि मे हिअअ-णिव्विसेस पिअ-सही मनोरमा । ताए वि एदं लज्जाए ण पारेमि कहिदुं । सव्वहा मरणं वज्जिअ कुदो मे हिअअस्स अण्ण णिव्वुदी । [ कस्मै तावद् एतं वृत्तान्तं निवेद्य सह्य-वेदनम् इव दुःखं करिष्यामि । (विचिन्त्य ।) अथवा अस्ति मे हृदय-निर्विशेषा प्रिय-सखी मनोरमा । तस्या अप्य् एतल् लज्जया न पारयामि कथयितुम् । सर्वथा मरणं वर्जयित्वा कुतो मे हृदयस्यान्या निर्वृतिः । ]
[प्. 25]
मनोरमा - (सास्रम् ।) हद्धि हद्धि । अदिभूमिं गदो से तवस्सिणीए अणुराओ । ता किं दाणिं एत्थ करिस्सं [ हा धिक् हा धिक् । अतिभूमिं गतो ऽस्यास् तपस्विन्या अनुरागः । तत् किम् इदानीम् अत्र करिष्यामि । ]
आरण्यिका - (साभिलाषम् ।) अअं सो उद्देसो जस्सिं महुअरेहिं आआसिज्जन्ती ओलम्बिअ महा-राएण समस्सासिद म्हि भीरु मा भआहि त्ति । [ अयं स उद्देशो यस्मिन् मधुकरैर् आयास्यमानावलम्ब्य महा-राजेन समाश्वासितास्मि भिरु मा बिभीहीति । ]
मनोरमा - (स-हर्षम् ।) कहं एसा वि दिट्ठा महा-राएण । सव्वहा अत्थि से जीविदस्स उवाओ । जाव उवसप्पिअ समस्सासेमि णं । (सहसोपसृत्य ।) जुत्तं णाम हिअअस्स वि लज्जिदुं । [ कथम् एषापि दृष्टा महा-राजेन । सर्वथास्त्य् अस्या जीवितस्योपायः । यावद् उपसृत्य समाश्वासयाम्य् एनाम् । (सहसोपसृत्य ।) युक्तं नाम हृदयस्यापि लज्जितुम् । ]
आरण्यिका - (स-लज्जम् आत्म-गतम् ।) हद्धि हद्धि । सव्वं सुदं एदाए । ता एत्थ जुत्तं एव्व पआसैदुं । (प्रकाशं हस्ते गृहीत्वा ।) पिअ-सहि मा कुप्प मा कुप्प । लज्जा एव्व एत्थ अवरज्झदि । [ हा धिक् हा धिक् । सर्वं श्रुतम् एतया । तद् अत्र युक्तम् एव प्रकाशयितुम् । (प्रकाशं हस्ते गृहीत्वा ।) प्रिय-सखि मा कुप्य मा कुप्य । लज्जैवात्रापराध्यति । ]
मनोरमा - (स-हर्षम् ।) सहि अलं संकाए । एदं मे आअक्ख । सच्चं एव्व तुमं महा-राएण दिट्ठा ण वेत्ति । [ सखि अलं शङ्कया । एतन् म आचक्ष्व । सत्यम् एव त्वं महा-राजेन दृष्टा न वेति । ]
आरण्यिका - (स-लज्जम् अधो-मुखी ।) सुदं एव्व पिअ-सहीए सव्वं । [ श्रुतम् एव प्रिय-सख्या सर्वम् । ]
मनोरमा - जै दिट्ठा महा-राएण तुमं ता अलं संतप्पिदेण । सो एव्व दाणिं दंसणोवाअ-पज्जाउलो भविस्सदि । [ यदि दृष्टा महा-राजेन त्वं तद् अलं संतापितेन । स एवेदानीं दर्शनोपाय-पर्याकुलो भविष्यति ।]
[प्. 26]
आरण्यिका - अहं सही-अणो पक्ख-वादेण मन्तेदि । ऐ सहि-पक्ख-वादिणि । देवी-गुण-णिअल-णिबद्धे क्खु तस्सिं जणे कुदो एदं । [ अयं सखी-जनः पक्ष-पातेन मन्त्रयते । अयि सखि-पक्ष-पातिनि । देवी-गुण-निगड-निबद्धे खलु तस्मिञ् जने कुत एतत् । ]
मनोरमा - (विहस्य ।) हला अ-पण्डिदे कमलिणी-बद्धाणुराओ वि महुअरो मालदीं पेक्खिअ अहिणव-रसास्साद-लम्पडो कुदो तं अण्-आसादिअ ट्ठिदिं करेदि । [ हला अ-पण्डिते कमलिनी-बद्धानुरागो ऽपि मधु-करो मालतीं प्रेक्ष्याभिनव-रसास्वाद-लम्पटः कुतस् ताम् अन्-आसाद्य स्थितिं करोति । ]
आरण्यिका - किं एदिण अ-संभाविदेण । ता एहि । अहिअं क्खु सरदादवेण संतप्पाइं अज्ज वि ण मे अङ्गाइं संदावं मुञ्चन्दि । [ किम् एतेनासंभावितेन । तद् एहि । अधिकं खलु शरदातपेन संतप्तान्य् अद्यापि न मे ऽङ्गानि संतापं मुञ्चन्ति । ]
मनोरमा - ऐ लज्जालुए ण जुत्तम् एदावत्थं गदाए वि दे अप्पा पच्छादिदुं । [ अयि लज्जालुके न युक्तम् एतद् अवस्थां गतयापि त आत्मा प्रच्छादयितुम् । ]
(आरण्यिका मुखम् अवनमयति ।)
मनोरमा - ऐ अ-विसम्भ-सीले किं दाणिं पच्छादेसि । णीसास-णिह-विणिग्गओ दिअहं रतिं वि तुज्झ अणुराओ अविरद-पडन्त-कुसुम-सर-सर-णिवह-पौत्त-हुंकार-सद्दो विअ ण भणै । (आत्म-गतम् ।)अहवा ण हु अअं कालो उवालम्भस्स । ता जाव णलिणी-पत्ताइं से हिअए दाइस्सं । (उत्थाय [प्. 27] दीर्घिकाय नलिनी-पत्त्राणि गृहीत्वारण्यिकाया हृदये ददती ।)समस्ससदु सही समस्ससदु सही । [ अयि अ-विश्रम्भ-शीले किम् इदानीं प्रच्छादयसि । निश्वासा-निभ-विनिर्गतो दिवसं रात्रिम् अपि तवानुरागो ऽविरत-पतत्-कुसुम-शर-शर-निवह-प्रवृत्त-हुङ्कार-शब्द इव न भणति । (आत्म-गतम् ।) अथवा न खल्व् अयं काल उपालम्भस्य । तद् यावन् नलिनी-पत्राण्य् अस्या हृदये दास्यामि । (उत्थाय दीर्घिकाय नलिनी-पत्त्राणि गृहीत्वारण्यिकाया हृदये ददती ।) समाश्वसितु सखी समाश्वसितु सखी । ]
(ततः प्रविशति विदूषकः)
विदूषकः - अदि-महण्तो क्खु पिअ-वअस्सस्स आरण्णिआए उवरि अणुराओ । जेण परिच्चत्त-राअ-कज्जो ताए एव्व दंसणोवाअं चिन्तअन्तो अप्पाणं विणोदेइ । (विचिन्त्य) कहिं दाणिं तं पेक्खे । अहवा तहिं एव्व दाव दिग्घिआए अण्णेसामि । [ अतिमहान् खलु प्रिय-वयस्यस्यारणियकाया उपर्य् अनुरागः । येन परित्यक्त-राज-कार्यस् तस्या एव दर्शनोपायं चिन्तयन्न् आत्मानं विनोदयति । (विचिन्त्य ।) कुत्रेदानीं तां प्रेक्षे । अथवा तत्रैव तावद् दीर्घिकायाम् अन्विष्यामि । (परिक्रामति ।) ]
मनोरमा - (आकर्ण्य ।) पद-सद्दो विअ सुणीअदि । ता कदली-गुम्म्ऽ-अन्तरिदा भविअ पेक्खम्ह दाव को एसो त्ति । [ पद-शब्द इव श्रूयते । तत् कदली-गुल्मान्तरिते भूत्वा प्रेक्षावहे तावत् क एष इति ।]
(उभे तथा कृत्वा पश्यतः ।)
आरण्यिका - कहं सो एव्व महा-राअस्स पस-परिवट्ट (सिच्) बम्हणो । [ कथं स एव महा-राजस्य पार्श्व-परिवर्ती ब्राह्मणः ।]
मनोरमा - कहं वसन्तओ एव्व । अवि णाम तह हवे । [ कथं वसन्तक एव । (सहर्षम् आत्म-गतम् ।) अपि नाम तथा भवेत् । ]
विदूषकः - (दिशो ऽवलोक्य ।) किं दाणिं आरण्णिआ सच्चं एव्व संवुत्ता । [ किम् इदानीम् आरण्यिका सत्यम् एव संवृत्ता ।]
मनोरमा - (स-स्मितम् ।) सहि राअ-वअस्सो क्खु बम्हणो तुमं उद्दिस्सिअ मन्तेदि । ता दाव अवहिदा सुणम्ह । [ सखि राज-वयस्यः खलु ब्राह्मणस् त्वाम् उद्दिश्य मन्त्रयते । तत् तावद् अवहिते शृणुवः ।]
(आरण्यिका स-स्पृहं स-लज्जं च शृणोति ।)
विदूषकः - (सोद्वेगम् ।) [प्. 28] जदा दाव मए गरु-मअण-संदाव-णीसह-सरीरस्स पिअ-वअस्सस्स वअणेण देवीणं वासवदत्ता-पदुमावदीणं अण्णणम् अ देवीणं भवणाइं अण्णेसन्तेण ण सा दिट्ठा तदा जहिं दिग्घिआए दिट्ठा इदं वि दाव पेक्खिस्सं ति आअदो म्हि । ता जाव इह वि णत्थि । किं दाणिं करिस्सं । [ यदा तावन् मया गुरु-मदन-संताप-निःसह-शरीरस्य प्रिय-वयस्यस्य वचनेन देव्योर् वासवदत्ता-पद्मावत्योर् अन्यासां च देवीनां भवनान्य् अन्विष्यता न सा दृष्टा तदा यत्र दीर्घिकायां दृष्टेदम् अपि तावत् प्रेक्षिष्य इत्य् आगतो ऽस्मि । तद् यावद् इहापि नास्ति । किम् इदानीं करिष्ये ।]
मनोरमा -सुदं पिअ-सहीए । [ श्रुतं प्रिय-सख्या ।]
विदूषकः - (विचिन्त्य ।) अहवा भणिदो एव्व अहं वअस्सेण । जै तं अण्णेसन्तो ण पेक्खसि ता तदो वि दाव दिग्घिआदो ताए करअल-प्परिस-दि-उणिअ-सुह-स्सीअलाइं णलिणी-पत्ताइं गेण्हिअ आअच्छ त्ति । ता कहं एदाइं जाणिदव्वाइं । [ अथवा भणित एवाहं वयस्येन । यदि ताम् अन्विष्यन् न प्रेक्षसे तत् ततो ऽपि तावद् दीर्घिकातस् तस्याः करतल-स्पर्श-द्विगुणित-सुख-शीतलानि नलिनी-पत्राणि गृहीत्वागच्छेति । तत् कथम् एतानि ज्ञातव्यानि । ]
मनोरमा - अअं मे अवसरो । वसन्तअ एहि । अहं दे जाणावेमि । [ अयं ममावसरः । (उपसृत्य विदूषकं हस्ते गृहीत्वा ।) वसन्तक एहि । अहं ते ज्ञापयामि । ]
विदूषकः - (स-भयम् ।) कस्स तुमं जाणावेसि । किं देवीए । ण हु मए किं वि मन्तिदं । [ कस्य त्वं ज्ञापयासि । किं देव्याः । न खलु मया किम् अपि मन्त्रितम् ।]
मनोरमा - वसन्तअ अलं संकाए । जादिसी आरण्णिआए किदे अत्तणो पिअ-वअस्सस्स अवत्था तुए वण्णिदा तदो दि-उणदरा भट्टिणो वि किदे मम पिअ-सहीए अवत्था । ता पेक्ख पेक्ख । (उपसृत्य आरण्यिकां दर्शयति ।) [ वसन्तक अलं शङ्कया । यादृश्य् आरन्यिकायाः कृत आत्मनः प्रिय-वयस्यस्यावस्था त्वया वर्णिता ततो द्वि-गुणतरा भर्तुर् अपि कृते मम प्रिय-सख्या अवस्था । तत् पश्य पश्य । (उपसृत्य आरण्यिकां दर्शयति ।) ]
[प्. 29]
विदूषकः - (दृष्ट्वा स-हर्षम् ।) स-फलो मे परिस्समो । सोत्थि होदीए । [ स-फलो मे परिश्रमः । स्वस्ति भवत्यै । ]
(आरण्यिका स-लज्जं कमलिनी-पत्त्राण्य् अपनीयोत्तिष्ठति ।)
मनोरमा - अज्ज वसन्तअ तुह दंसणेन एव्व अवगदो पिअ-सहीए संदावो जेण सअं एव्व णलिणी-पत्ताइं अवणेइ । ता अणुगण्हादु अज्जो इमाइं । [ आर्य वसन्तक । तव दर्शनेनैवापगतः प्रिय-सख्याः संतापो येन स्वयम् एव नलिनी-पत्राण्य् अपनयति । तद् अनुगृह्णात्व् आर्य इमानि ।]
आरण्यिका - (सावेगम् ।) ऐ परिहास-सीले । कीस मं लज्जावेसि । (किंचित् पराङ्-मुखीतिष्ठति ।) [ अयि परिहास-शीले । कस्मान् मां लज्जयसि । (किंचित् पराङ्-मुखी तिष्ठति ।) ]
विदूषकः - (स-विषादम् ।) चिट्ठंदु दाव णलिणी-पत्ताइं । अदि-लज्जालुआ दे पिअ-सही । ता कहं एदाणं समाअमो भविस्सदि । [ तिष्ठन्तु तावन् नलिनी-पत्त्राणि । अति(लज्जालुका ते प्रिय-सखी । तत् कथम् एतयोः समागमो भविष्यति । ]
मनोरमा - (क्षणं विचिन्त्य स-हर्षम् ।) वसन्तअ एव्वं विअ । (कर्णे कथयति ।) [ वसन्तक एवम् इव । ]
विदूषकः - साहु पिअ-सहि साहु । (अपवार्य ।) जाव एव्व तुम्हे णेवच्छ-ग्गहणं करेत्थ दाव एव्व अहं वि वअस्सं गेण्हिअ आअच्छामि । [ साधु प्रिय-सखि साधु । (अपवार्य ।) यावद् एव युवां नेपथ्य-ग्रहणं कुरुथस् तावद् एवाहम् अपि वयस्यं गृहीत्वागच्छामि । ]
(इति निष्क्रान्तः ।)
मनोरमा - अदि-कोवणे । उट्ठेहि उट्ठेहि । णच्चिदव्वं अम्हेहिं तस्स एव्व णाडअस्स णच्चिद-सेसं । ता एहि । पेक्खा-घरं एव्व गच्छम्ह । (परिक्रम्यावलोक्य ।) इदं पेक्खागारं । जाव एहि पविसम्ह । साहु साहु । सव्वं सज्जी-किदं । देवीए आअन्तव्वं । [ अति-कोपने उत्तिष्ठोत्तिष्ठ । नर्तितव्यम् अस्माभिस् तस्यैव नटकस्य नर्तित-शेषम् । तद् एहि । प्रेक्षा-गृहम् एव गच्छावः । (परिक्रम्यावलोक्य ।) इदं प्रेक्षागारम् । यावद् एहि प्रविशावः । (प्रविष्टकेनावलोक्य ।) साधु साधु सर्वं सज्जी-कृतम् । देव्यागन्तव्यम् ।
(ततः प्रविशति देवी साङ्कृत्यायनी विभवतश् च परिवारः ।)
[प्. 30]
वासवदत्ता - भवअदि अहो दे कवित्तणं । जेण एदं गूढ-उत्तन्तं णाडओवणिबद्धं साणुभवं वि अम्हाणं अज्ज-उत्त-चरिदं अ-दिट्ठ-पुव्वं विअ दिसन्तं अहिअअरं कोदूहलं वड्ढअदि । [ भगवति अहो ते कवित्वम् । येनैतद् गूढ-वृत्तान्तं नाटकोपनिबद्धं सानुभवम् अप्य् अस्माकम् आर्यपुत्र-चरितम् अ-दृष्ट-पूर्वम् इव दृश्यमानम् अधिकतरं कौतूहलं वर्धयति । ]
साङ्कृत्यायनी - आयुष्मति आश्रय-गुण एवायम् ईदृशो यद् अ-सारम् अपि काव्यम् अवश्यम् एव शृण्वतां श्रवण-सुखम् उत्पादयति । पश्य ।
प्रायो यत् किं चिद् अपि प्राप्नोत्य् उत्कर्षम् आश्रयान् महतः ।
मत्तेभ-कुम्भ-तट-गतम् एति हि शृङ्गारताम् भस्म
वासवदत्ता -(स-स्मितम्) भअवदि सव्वस्स वल्लहो जामादो होदि त्ति जाणिअदि एव्व एदं । ता किं एदिणा कहाणुबन्धेण । वरं तं एव्व णच्चिदव्वं दट्ठुं । [ भगवति सर्वस्य वल्लभो जामाता भक्तीति ज्ञायत एवैतत् । तत् किम् एतेन कथानुबन्धेन । वरं तद् एव नर्तितव्यं द्रष्टुम् । ]
साङ्कृत्यायनी - एवम् । इन्दीवरिके प्रेक्षा-गृहम् आदेशय ।
चेटी - एदु एदु भट्टिणी । [ एतु एतु भट्टिनी ।]
(सर्वाः परिक्रामन्ति ।)
साङ्कृत्यायनी - (विलोक्य ।) अहो प्रेक्षणीयता प्रेक्षा-गृहस्य ।
आभाति रत्न-शत-शोभित-शात-कुम्भ-
स्तम्भावसक्त-पृथु-मौक्तिक-दाम-रम्यम् ।
अध्यासितं युवतिभिर् विजिताप्सरोभिः
प्रेक्षा-गृहं सुर-विमान-समानम् एतत्
[प्. 31]
मनोरमारण्यके -(उपसृत्य ।) जेदु जेदु भट्टिणी । [ जयतु जयतु भट्टिनी ।]
वासवदत्ता -मणोरमे अदिक्कन्दा खु संज्झा । ता गच्छह । लहु गण्हह णेवच्छं । [ मनोरमे अतिक्रान्ता खलु संध्या । तद् गच्छतम् । लघु गृह्णीतं नेपथ्यम् । ]
उभे - जं देवी आणवेदि । [ यद् देव्य् आज्ञापयति ।]
(इति प्रस्थिते ।)
वासवदत्ता - आरण्णिए एदेहिं एव्व मद्-अन्ग-पिणद्धेहिं आभरणेहिं णेवच्छ-भूमिं गदुअ अप्पाणअं पसाहेहि । ( आभरणान्य् अङ्गाद् अवतार्य आरण्यिकायाः समर्पयति) मणोरमे तुमं वि णलगिरि-ग्गहण-परितुट्ठेण तादेण अज्ज-उत्तस्स दिण्णाइं आभरणाइं इन्दीवरिआ-सआसादो गेण्हिअ णेवच्छ-भूमिअं गदुअ अप्पाणं मण्डेहि जेण सु-सदिसी दीससि महा-राअस्स । [ आरण्यिके एतैर् एव मद्-अङ्ग-पिनद्धैर् आभरणैर् नेपथ्य-भूमिं गत्वात्मानं प्रसाध्य । (आभरणान्य् अङ्गाद् अवतार्य आरण्यिकायाः समर्पयति) मनोरमे त्वम् अपि नलगिरि-ग्रहण-परितुष्टेन तातेनार्यपुत्रस्य दत्तान्य् आभरणानीन्दीवरिका-सकाशाद् गृहीत्वा नेपथ्य-भूमिं गत्वात्मानं मण्डय येन सु-सदृशी दृश्यसे महा-राजस्य । ]
(मनोरमा इन्दीवरिका-सकाशाद् आभरणानि गृहीत्वा सहारण्यकया निष्क्रान्ता ।)
इन्दीवरिका - एदं आसणं । उवविसदु भट्टिणी । [ इदम् आसनम् । उपविशतु भट्टिणी । ]
वासवदत्ता -(आसनं निर्दिश्य ।) उवविसदु भअवदी । [ उपविशतु भगवती ।]
(उभे उपविशतः ।)
(ततः प्रविशति गृहीत-नेपथ्यः कञ्चुकी ।)
कञ्चुकी -
अन्तःपुराणां विहित-व्यवस्थः
पदे पदे ऽहं स्खलितानि रक्षन् ।
[प्. 32]
जरातुरः सम्प्रति दण्ड-नीत्या
सर्वं नृपस्यानुकरोमि वृत्तम्
भोः आज्ञापितो ऽस्मि विमानिताशेष-शत्रु-सैन्येन यथार्थ-नाम्ना महासेनेन समादिश्यताम् अन्तःपुरेषु यथा - श्वो वयम् उदयनोत्सवम् अनुभवामः । अतो युष्माभिर् उत्सवानुरूप-वेषोज्ज्वलेन परिजनेन सह मन्मथोद्यानं गन्तव्यम् इति ।
साङ्कृत्यायनी - (कञ्चुकिनं निर्दिश्य ।) राज-पुत्रि प्रवृत्ता प्रेक्षा । दृश्यताम् ।
कञ्चुकी - तद् एतद् आदेष्टव्यम् परिजनेन सह गन्तव्यम् इति । न गृहीत-नेपथ्येनेति । कुतः ।
पादैर् नूपुरिभिर् नितम्ब-फलकैः शिञ्जान-काञ्ची-गुणैर्
हारापादित-कान्तिभिः स्तन-तटैः केयूरिभिर् बाहुभिः ।
कर्णैः कुण्डलिभिः करैः स-वलयैः स-स्वस्तिकैर् मूर्ध-जैर्
देवीनां परिचारिका-परिजनो ऽप्य् एतेषु संदृश्यते
न खलु किंचिद् अत्रापूर्वम् अनुष्ठेयम् । केवलं स्वाम्य्-आदेश इति मत्वाहं समादिष्टस् तद् आज्ञा-शेषं राज-पुत्र्यै निवेदयामि । (परिक्रम्यावलोक्य च ।) इयं [प्. 33] सा वासवदत्ता वीणा-हस्तया काञ्चनमालयानुगम्यमाना गन्धर्व-शालाम् प्रविष्टा । यावद् अस्याः कथयामि । (परिक्रामति ।)
(ततः प्रविशति गृहीत-वासवदत्ता-नेपथ्यासनस्थारण्यिका
वीणा-हस्ता काञ्चनमाला च ।)
आरण्यिका - हला कन्चणमाले कीस उण चिराअदि अज्ज वि वीणाआरिओ । [ हला काञ्चनमाले कस्मात् पुनश् चिरयत्य् अद्यापि वीणाचार्यः । ]
काञ्चनमाला - भट्टि-दारिए दिट्ठो देण एक्को उम्मत्तो । तस्स वअणं सुणिअ चित्तेण भाविदो ओहसन्तो चिट्ठै । [ भर्तृ-दारिके दृष्टस् तेनैक उन्मत्तः । तस्य वचनं श्रुत्वा चित्रेण भवितो ऽपहसंस् तिष्ठति ।]
आरण्यिका - (स-हस्त-तालं विहस्य ।) हन्जे सुट्ठु एदं पुच्छदि । सरिसा सरिसे रन्जन्ति त्ति दुवे एत्थ उम्मत्ता । [ हञ्जे सुष्ठ्व् एतं पृच्छति । सदृशाः सदृशे रजन्त इति द्वाव् अत्रोन्मत्तौ । ]
साङ्कृत्यायनी - राज-पुत्र्याः सदृशम् आकारम् पश्याम्य् अस्यास् तादृशेनाकारेणावश्यं त्वदीयां भूमिकां संभावयिष्यति ।
कञ्चुकी - (उपसृत्य) राज-पुत्रि देवस् त्वाम् आज्ञापयति । श्वो ऽवश्यम् अस्माभिर् वीणां वादयन्ती श्रोतव्या । तत् त्वया नव-तन्त्री-सज्जया घोषवत्या स्थेयम् इति ।
आरण्यिका - अय्य जै एव्वं लहु वीणाआरिअं विसज्जेहि । [ आर्य यद्य् एवं लघु वीणाचार्यं विसर्जय ।]
कञ्चुकी - एष वत्स-राजं प्रेषयामि । (इति निष्क्रान्तः ।)
आरण्यिका - कन्चणमाले उवणेहि मे घोसवदीं जाव से तंतीओ परिक्खेमि । [ काञ्चनमाले उपनय मे घोषवतीं यावद् अस्यास् तन्त्रीः परीक्षे ।]
(काञ्चनमाला वीणाम् अर्पयति । आरण्यिकोत्सङ्गे वीणां कृत्वा सारयति ।)
(ततः प्रविशति गृहीत-वत्स-राज-नेपथ्या मनोरमा ।)
[प्. 34]
मनोरमा - (स्व-गतम् ।) चिरअदि क्खु महा-राओ किं ण कहिदं वसन्तएण । अहवा देवीए भाअदि । जै दाणिं आअच्छे तदो रमणिज्जं हवे । [ चिरयति खलु महा-राजः । किं न कथितं वसन्तकेन । अथवा देव्या बिभेति । यदीदानीम् आगच्छेत् ततो रमनीयं भवेत् ।]
(ततः प्रविशति राजावगुण्ठित-शरीरो विदूषकश् च ।)
राजा -
संतापम् प्रथमं तथा न कुरुते शीतांशुर् अद्यैव मे
निश्वासा ग्लपयन्त्य् अजस्रम् अधुनैवोष्णास् तथा नाधरम् ।
संप्रत्य् एव मनो न शून्यम् अलसान्य् अङ्गानि नो पूर्ववद्
दुःखं याति मनोरथेषु तनुतां संचिन्त्यमानेष्व् अपि
वयस्य सत्यम् एवोक्तम् मनोरमया । यथैषा मम प्रिय-सखी महा-राजस्य देव्या दर्शन-पथाद् अपि रक्ष्यते तद् अयं समागमोपायः । अद्य रात्राव् अस्माभिर् उदयन-चरितं नाम नाटकं देव्याः पुरतो नर्तितव्यम् । तत्र आरण्यिका वासवदत्ता भविष्यति । अहम् अपि वत्स-राजः । तच् चरितेनैव सर्वं शिक्षितव्यम् । तद् आगत्य स्वयम् एव स्वां भूमिकां कुर्वाणः समागमोत्सवम् अनुभवत्व् इति ।
विदूषकः - जै मं ण पत्तिआअसि एसा मणोरमा तुह वेसं धारअन्ती चिट्ठै । ता उवसप्पिअ सअं एव्व पुच्छ । [ यदि मां न प्रत्याययस्य् एषा मनोरमा तव वेषं धारयन्ती तिष्ठति । तद् उपसृत्य स्वयम् एव पृच्छ । ]
राजा - (मनोरमाम् उपसृत्य ।) मनोरमे सत्यम् इदं यद् वसन्तको ऽभिधत्ते ।
मनोरमा - भट्टा सच्चं एव्व । मण्डअ एदेहिं आभरणेहिं अप्पाणअं । [ भर्तः सत्यम् एव । मण्डयैतैर् आभरणैर् आत्मानम् । ]
(इत्य् आभरणान्य् अङ्गाद् अवतार्य राज्ञे समर्पयति ।)
(राजा परिदधाति ।)
[प्. 35]
विदूषकः - एदे क्खु राआणो दासीए वि एव्वं णच्चाविअन्ति । अहो कज्जस्स गरुअदा । [ एते खलु राजानो दास्यापि एवं नर्त्यन्ते । अहो कार्यस्य गुरुता । ]
राजा - (विहस्य ।) मूर्ख नैष कालः परिहासस्य । निभृतेन चित्र-शालाम् प्रविश्य मनोरमया सहास्मन्-नृत्तम् पश्यता स्थीयताम् ।
(उभौ तथा कुरुतः ।)
आरण्यिका - कन्चणमाले चिट्ठदु वीणा । पुच्च्छिस्सं दाव किं वि । [ काञ्चनमाले तिष्ठतु वीणा । प्रक्ष्यामि तावत् किम् अपि ।]
राजा - शृणोमि तावत् कतमो ऽयम् उद्देशो वर्तते ।
(इत्य् अवहितः शृणोति ।)
काञ्चनमाला - पुच्छदु भट्टि-दारिआ । [ पृच्छतु भर्तृ-दारिका ।]
आरण्यिका - सच्चं एव्व तादो मन्तेदि एव्वं जहा जै वीणं वादअन्तो अवहरेदि मं वच्छ-राओ अवस्सं बन्धणादो मुन्चेमि त्ति । [ सत्यम् एव तातो मन्त्रयते एवं यथा - यदि वीणां वादयन्न् अपहरति मां वत्स-राजो ऽवश्यं बन्धनान् मुञ्चामीति । ]
राजा -(प्रविश्य पटाक्षेपेण स-हर्षं वस्त्रान्ते ग्रथितम् बध्नाति ।) एवम् एतत् । कः संदेहः ।
स-परिजनं प्रद्योतं विस्मयम् उपनीय वादयन् वीणाम् ।
वासवदत्ताम् अपहरामि न चिराद् एवेति पश्याम्य्
यतः सु-संविहितं सर्वं यौगन्धरायणेन ।
वासवदत्ता -(सहसोत्थाय ।) जेदु जेदु अच्चौत्तो । [ जयतु जयत्व् आर्य-पुत्रः ।]
राजा - (स्व-गतम् ।) कथं प्रत्यभिज्ञातो ऽस्मि देव्या ।
साङ्कृत्यायनी - (स-स्मितम् ।) राज-पुत्रि अलम् अलं संभ्रमेण । प्रेक्षणीयकम् एतत् ।
[प्. 36]
राजा - (आत्म-गतं स-हर्षम्) इदानीम् उच्छ्वासितो ऽस्मि ।
वासवदत्ता -(स-विलक्ष-स्मितम् उपविश्य ।) कहं मणोरमा एसा । मए उण जाणिदं अज्ज-उत्तो एसो त्ति । साहु मणोरमे साहु । सोहणं णच्चिदं । [ कथं मनोरमैषा । मया पुनर् ज्ञातम् आर्य-पुत्र एष इति । साधु मनोरमे साधु । शोभनं नर्तितम् । ]
साङ्कृत्यायनी - राज-पुत्रि स्थान एव कृता भ्रान्तिस् ते मनोरमया । पश्य ।
रूपं तन् नयनोत्सवास्पदम् इदं वेषः स एवोज्ज्वलः
सा मत्त-द्विरदोचिता गतिर् इयं तत् सत्त्वम् अत्यूर्जितम् ।
लीला सैव स एव सान्द्र-जलद-ह्रादानुकारी स्वरः
साक्षाद् दर्शित एष नः कुशलया वत्सेश एवानया
वासवदत्ता -हन्जे इन्दीवरिए । बद्धेण अज्ज-उत्तेण अहं वीणं सिक्खाविदा । ता से करेहि णील्ऽ-उप्पल-दामएण णिअलणम् । [ हञ्जे इन्दीवरिके बद्धेनार्यपुत्रेणाहं वीणां शिक्षिता । तद् अस्य कुरु नीलोत्पलदामकेन निगडनम् । ]
(शिरसो ऽपनीय नीलोत्पल-दामार्पयति ।)
(इन्दीवरिका तथा कृत्वा पुनस् तत्रैवोपविशति ।)
आरण्यिका - कन्चणमाले कहेहि कहेहि । णं सच्चं एव्व मन्तेदि तादो जै वीणं वादअन्तो अवहरेदि मं वच्छ-राओ तदो अवस्सं बन्धणादो मुञ्चेमि त्ति । [ काञ्चनमाले कथय कथय । ननु सत्यम् एव मन्त्रयते तातो यदि वीणां वादयत् अपहरति मां वत्स-राजस् ततो ऽवश्यं बन्धनान् मुञ्चामीति । ]
काञ्चनमाला - भट्ठि-दारिए सच्चं । तह करेहि जह वच्छ-राअस्स अवस्सं बहु-मदा होसि । [ भर्तृ-दारिके सत्यम् । तथा कुरु यथा वत्स(राजस्यावश्यं बहु-मता भवसि ।]
[प्. 37]
राजा - निष्पादितम् एव काञ्चनमालया यत् तद् आस्माभिर् अभिलषितम् ।
आरण्यिका - जै एव्वं ता आदरेण वादैस्सं । [ यद्य् एवं तद् आदरेण वादयिष्यामि ।] (गायन्तीवादयति)
घण-बन्धण-संरुद्धं गअणं दट्ठूण माणसं एदुं ।
अहिलसै राअ-हंसो दैअं घेऊण अप्पणो वसैं
[
घन-बन्धन-संरुद्धं गगनं दृष्ट्वा मानसम् एतुम् ।
अभिलषति राज-हंसो दयितां गृहीत्वात्मनो वसतिम्
]
(विदूषको निद्रां नाटयति ।)
मनोरमा - (हस्तेन चालयन्ती ।) वसन्तअ पेक्ख पेक्ख पिअ-सही मे णच्चै । [ वसन्तक पश्य पश्य । प्रिय-सखी मे नृत्यति । ]
विदूषकः - (स-रोषम् ।) दासीए सुदे तुमं वि ण देसि सुविदुं । जद-प्पहुदि पिअ-वअस्सेण आरण्णिआ दिट्ठा तद-प्पहुदि तेण सह मए रत्तिं-दिवं णिद्दा ण दिट्ठा । ता अण्णदो णिक्कमिअ सुविस्सं । [ दास्याः सुते त्वम् अपि न ददासि स्वप्तुम् । यदा-प्रभृति प्रिय-वयस्येनारण्यिका दृष्टा तदा-प्रभृति तेन सह मया रात्रं-दिवं निद्रा न दृष्टा । तद् अन्यतो निष्क्रम्य स्वप्स्यामि । ]
(निष्क्रम्य शेते)
(आरण्यिका पुनर् गायति ।)
अहिणव-राअ-क्खित्ता महुअरिआ वामएण कामेण ।
उत्तमै पत्थन्तीदट्ठुं पिअ-दंसणं दैअं
[
अभिनव-राग-क्षिप्ता मधु-करिका वामकेन कामेन ।
उत्ताम्यति प्रार्थयमाना द्रष्टुं प्रिय-दर्शनं दयितम्
]
राजा - (तत्-क्षणं श्रुत्वा सहसोपसृत्य ।) साधु राज-पुत्रि साधु । अहो गीतम् अहो वादित्रम् । तथा हि ।
[प्. 38]
व्यक्तिर् व्यञ्जन-धातुना दशविधेनाप्य् अत्र लब्धाधुना
विस्पष्टो द्रुत-मध्य-लम्बित-परिच्छिन्नस् त्रिधायं लयः ।
गोपुच्छ-प्रमुखाः क्रमेण यतयस् तिस्रो ऽपि संपादितास्
तत्वौघानुगताश् च वाद्य-विधयः सम्यक् त्रयो दर्शिताः
आरण्यिका - (वीणां परिष्वज्यासनाद् उत्थाय राजानं साभिलाषं पश्यन्ती ।) उवाज्झाअ पणमामि । [ उपाध्याय प्रणमामि ।]
राजा - (स-स्मितम् ।) यद् अहम् इच्छामि तत् ते भूयात् ।
[प्. 39]
काञ्चनमाला - (आरण्यिकाया आसनं निर्दिश्य ।) इह एव्व उवविसदु उवज्झाओ । [ इहैवोपविशतु उपाध्यायः ।]
राजा - (उपविश्य ।) राज-पुत्री क्वेदानीम् उपविशतु ।
कञ्चनमाला -(स-स्मितम्) दाणिं एव्व भट्टि-दारिआ विज्जामाणेन परितोसिदा तुम्हेहिं । ता अरुहदि एव्व एसा उवज्झाअ-पीठिआए । [ इदानीम् एव भर्तृ-दारिका विद्यामानेन परितोषिता युष्माभिः । तद् अर्हत्य् एवैषोपाध्याय-पीठिकायाः । ]
राजा - उपविशत्व् अर्हेयम् अर्धासनस्य । राज-पुत्रि स्थीयताम् ।
(आरण्यिका काञ्चनमालां पश्यति ।)
काञ्चनमाला - (स-स्मितम् ।) भट्टि-दारिए उवविस । को एत्थ दोसो । सिस्स-विसेसा खु तुमं । [ भर्तृ-दारिके उपविश । को ऽत्र दोषः । शिष्य-विशेषा खलु त्वम् ।]
(आरण्यिका स-लज्जम् उपविशति ।)
वासवदत्ता -(स-लज्जम् ।) भअवदीए (कले -ईये) अहिअं कप्पिदं कव्वं । ण हु अहं तस्सिं काले एक्कासणे अज्ज-उत्तेण सह उवविट्ठा । [ भगवत्य् आधिकं कल्पितं काव्यम् । न खल्व् अहं तस्मिन् काल एकासने आर्य-पुत्रेण सहोपविष्टा ।]
राजा - राज-पुत्रि पुनः श्रोतुम् इच्छामि । वादय वीणाम् ।
आरण्यिका - (स-स्मितम् ।) कन्चणमाले चिरं खु मम वादअन्तीए परिस्समो जादो । दाणिं णिस्सहाइं अङ्गाइं । ता ण सक्कुणोमि वादैदुं । [ काञ्चनमाले चिरं खलु मम वादयन्त्याः परिश्रमो जातः । इदानीं निःसहान्य् अङ्गानि । तन् न शक्नोमि वादयितुम् ।]
काञ्चनमाला - उवज्झाअ सुट्ठु परिस्सन्ता भट्टि-दारिआ । कवोल-तल-बद्ध-सेअ-लवाए पेक्ख से वेवन्ति अग्ग-हत्था । ता समस्सत्ता होतु मुहुत्तअं । [ उपाध्याय सुष्ठु परिश्रान्ता भर्तृ-दारिका । कपोल-तल-बद्ध-स्वेद-लवायाः पश्यास्या वेपेते अग्र-हस्तौ । तत् समाश्वस्ता भवतु मुहूर्तम् ।]
राजा - काञ्चनमाले युक्तम् अभिहितम् । (हस्तेन ग्रहीतुम् इच्छति ।)
(आरण्यिका हस्तम् अपसारयति ।)
[प्. 40]
वासवदत्ता - (सासूयम् ।) भअवदि अहिअं एदं वि तुए किदं । ण हु अहं (कले अअं) कन्चणमाला-कव्वेण वन्चैदव्वा । [ भगवति अधिकम् एतद् अपि त्वया कृतम् । न खल्व् अहं काञ्चनमाला काव्येन वञ्चयितव्या ।]
साङ्कृत्यायनी - (विहस्य ।) आयुष्मति ईदृशम् एव काव्यं भविष्यति ।
आरण्यिका - (स-रोषम् इव ।) अवेहि कन्चणमाले अवेहि । ण मे बहु-मदासि । [ अपेहि काञ्चनमाले अपेहि । न मे बहुमतासि ।]
काञ्चनमाला - (स-स्मितम् ।) जै अहं चिट्ठन्ती णा बहु-मदा ता एसा गच्छम्हि । [ यद्य् अहं तिष्ठन्ती न बहु-मता तद् एषा गच्छामि ।]
(इति निष्क्रान्ता ।)
आरण्यिका - (स-सम्भ्रमन् ।) कन्चणमाले चिट्ठ चिट्ठ । अहं से अग्ग-हत्थो समप्पिदो । [ काञ्चनमाले तिष्ठ तिष्ठ । अयम् अस्याग्रहस्तः समर्पितः ।]
राजा - (आरण्यिकाया हस्तं गृहीत्वा ।)
सद्यो ऽवश्याय-बिन्दु-व्यतिकर-शिशिरः किं भवेत् पद्म-कोशो
ह्लादित्वं नास्य मन्ये सदृशम् इदम् उषस्य् एव वीतातपस्य ।
मुञ्चन्त्य् एते हिमौघं नख-रजनिकराः पञ्च किं सो ऽपि दाही
ज्ञातं स्वेदापदेशाद् अविरतम् अमृतं स्यन्दते व्यक्तम् एतत्
अपि च ।
एतेन बाल-विद्रुम-पल्लव-शोभापहार-दक्षेण ।
हृदये मम त्वयायं न्यस्तो रागः स्व-हस्तेन
[प्. 41]
आरण्यिका - (स्पर्श-विशेषं नाटयन्ती ।) ह द्धि ह द्धि । एदं मणोरमं परिसन्तीए अण्-अत्थं एव्व मे अङ्गाइं करेन्ति । [ हा धिक् हा धिक् । एतां मनोरमां स्पृशन्त्या अन्-अर्थम् एव मे ऽङ्गानि कुर्वन्ति ।]
वासवदत्ता -(सहसोत्थाय ।) भअवदि पेक्ख तुमं । अहं उण अलिअं ण पारेमि पेक्खिदुं । [ भगवति पश्य त्वम् । अहं पुनर् अलीकं न पारयामि प्रेक्षितुम् ।]
साङ्कृत्यायनी - राज-पुत्रि धर्मशास्त्र-विहित एष गान्धर्वो विवाहः । किम् अत्र लज्जा-स्थानम् । प्रेक्षणीयकम् इदम् । तन् न युक्तम् अ-स्थाने रस-भङ्गं कृत्वा गन्तुम् ।
(वासवदत्ता परिक्रामति ।)
इन्दीवरिका - (विलोक्य ।) भट्टिणि वसन्तओ चित्त-साला-दुवारे पसुत्तो चिट्ठै । [ भट्टिनि वसन्तकश् चित्र-शाला-द्वारे प्रसुप्तस् तिष्ठति ।]
वासवदत्ता -(निरूप्य ।) वसन्तओ एव्व एसो । (विचिन्त्य ।) रण्णा वि एत्थ होदव्वं । ता बोधिअ पुच्छिस्सं दाव णं । [ वसन्तक एवैषः । (विचिन्त्य ।) राज्ञाप्य् अत्र भवितव्यम् । तद् बोधयित्वा प्रक्ष्यामि तावद् एनम् ।]
(प्रबोधयति ।)
विदूषकः - (निद्रा-जडम् उत्थाय सहसा विलोक्य ।) मणोरमे किं णच्चिअ आअदो पिअ-वअस्सो । आदु णच्चदि एव्व । [ मनोरमे किं नर्तित्व् आगतः प्रिय-वयस्यः । अथवा नृत्यत्य् एव । ]
वासवदत्ता -(स-विषादम्) कहं अज्ज-उत्तो णच्चदि । मणोरमा दाणिं कहिं । [ कथम् आर्य-पुत्रो नृत्यति । मनोरमेदानीं कुत्र ।]
विदूषकः - एसा चित्त-सालाए चिट्ठै । [ एषा चित्र-शालायां तिष्ठति ।]
मनोरमा - (स-भयम् आत्म-गतम् ।) कहं अण्णहा एव्व हिअए करिअ देवीए मन्तिदं । एदेण वि मुक्ख-बडुएण अण्णहा एव्व बुद्धिअ सव्वं आउलीकिदं । [प्. 42] [ कथम् अन्यथैव हृदये कृत्वा देव्या मन्त्रितम् । एतेनापि मूर्ख-बटुकेनान्यथैव बुद्ध्वा सर्वम् आकुली-कृतम् ।]
वासवदत्ता -(स-रोषं हसन्ती ।) साहु मणोरमे साहु । सोहणं तुए णच्चिदं । [ साधु मनोरमे साधु । शोभनं त्वया नर्तितम् ।]
मनोरमा - (स-भयं कम्पमाना पादयोर् निपत्य ।) भट्टिणि ण हु अहं एत्थ अवरज्झामि । एदेण क्खु हदासेण बलादो अलंकरणाइं गेण्हिअ दुवार-ट्ठिदेण इह णिरुद्धा । ण उण मह अक्कन्दन्तीए सद्दो मुर-णिग्घोस्ऽ-अन्तरिदो केण वि सुदो । [ भट्टिनि न खल्व् अहम् अत्रापराध्यामि । एतेन खलु हताशेन बलाद् अलंकरणानि गृहीत्वा द्वार-स्थितेनेह निरुद्धा । न पुनर् ममाक्रन्दन्त्याः शब्दो मुरज-निर्घोषान्तरितः केनापि श्रुतः ।]
वासवदत्ता - हन्जे उट्ठेहि । जाणिदं सव्वं । वसन्तओ क्खु आरण्णिआ-वुत्तन्त-णाडए सुत्तधारो । [ हञ्जे उत्तिष्ठ । ज्ञातं सर्वम् । वसन्तकः खल्व् आरण्यिका-वृत्तान्त-नाटके सूत्रधारः ।]
विदूषकः - सअं एव्व चिन्तेहि । कहिं आरण्णिआ कहिं वसन्तओ त्ति । [ स्वयम् एव चिन्तय । कुत्रारण्यिका कुत्र वसन्तक इति ।]
वासवदत्ता - मणोरमे सु-ग्गहीदं करिअ णं आअच्छ दाव । पेक्खणीअं से पेक्खम्हि । [ मनोरमे सुगृहीतं कृत्वैनम् आगच्छ तावत् । प्रेक्षणीयम् अस्य पश्यामि ।]
मनोरमा - (स्व-गतम् ।) दाणिं समस्ससिद म्हि । (विदूषकं करे बध्नाति । प्रकाशम् ।) हदास दाणिं अणुभव अत्तणो दुण्णअस्स फलं । [ इदानीं समाश्वसितास्मि । (विदूषकं करे बध्नाति । प्रकाशम् ।) हताश इदानीम् अनुभवात्मनो दुर्नयस्य फलम् ।]
वासवदत्ता - (स-संभ्रमम् उपसृत्य ।) अज्ज-उत्त पडिहदं एदं अ-मङ्गलं । (इति पादयोर् नीलोत्पल-दामापनयन्ती सोत्प्रासम् ।) मरिसदु अज्ज-उत्तो जं मणोरमे त्ति करिअ णील्ऽ-उप्पल-दामएण बन्धाविदो सि । [ आर्य-पुत्र प्रतिहस्तम् एतद् अ(मङ्गलम् । (इति पादयोर् नीलोत्पल-दामापनयन्ती सोत्प्रासम् ।) मर्षत्व् आर्य-पुत्रो यन् मनोरमेति कृत्वा नीलोत्पल-दामकेन बन्धितो ऽसि ।]
(आरण्यिका स-भयम् अपसृत्य तिष्ठति ।)
[प्. 43]
राजा - (सहसोत्थाय विदूषकम् मनोरमां च दृष्ट्वात्म-गतम् ।) कथं विज्ञातो ऽस्मि देव्या । (वैलक्ष्यं नाटयति ।)
साङ्कृत्यायनी - (सर्वान् अवलोक्य स-स्मितम् ।) कथम् अन्यद् एवेदं प्रेक्षणीयकं संवृत्तम् । अ-भूमिर् इयम् अस्मद्-विधानाम् ।
(इति निष्क्रान्ता ।)
राजा - (स्व-गतम् ।) अ-पूर्वो ऽयं कोप-प्रकारः । दुर्लभम् अत्रानुनयं पश्यामि । (विचिन्त्य ।) एवं तावत् करिष्ये । (प्रकाशम् ।) देवि त्यज्यतां कोपः ।
वासवदत्ता -अज्ज-उत्त को एत्थ कुविदो [ आर्यपुत्र को ऽत्र कुपितः ।]
राजा - कथं न कुपितासि ।
स्निग्धं यद्य् अपि वीक्षितं नयनयोस् ताम्रा तथापि द्युतिर्
माधुर्ये ऽपि सति स्खलत्य् अनुपदं ते गद्गदा वाग् इयम् ।
निश्वासा नियता अपि स्तन-भरोत्कम्पेन संलक्षिताः
कोपस् ते प्रकट-प्रयत्न-विधृतो ऽप्य् एष स्फुटं लक्ष्यते
(पादयोर् निपत्य) प्रसीद प्रिये प्रसीद ।
वासवदत्ता - आरण्णिए तुमं कुविद त्ति संभावअन्तो अज्ज-उत्तो पिए पसीद त्ति पसादअदि । ता उवसप्प । [ आरण्यिके त्वं कुपितेति संभावयन्न् आर्य-पुत्रः प्रिये प्रसीदेति प्रसादयति । तद् उपसर्प ।]
(इति हस्तेनाकर्षति ।)
आरण्यिका - (स-भयम् ।) भट्टिणि ण हु अहं किं वि जाणामि । [ भट्टिनि न खल्व् अहं किमपि जानामि ।]
वासवदत्ता - आरण्णिए तुमं कहं ण आणासि । दाणिं दे सिक्खावेमि । इन्दीवरिए गेण्ह एदं । [ आरण्यिके त्वं कथं न जानासि । इदानीं ते शिक्षयामि । इन्दीवरिके गृहाणैनाम् ।]
विदूषकः - होदि अज्ज कोमुदी-महूसवे तुह चित्तं अवहरिदुं वअस्सेण पेक्खणीअं अणुचिट्ठिदं । [ भवति अद्य कौमुदी-महोत्सवे तव चित्तम् अपहर्तुं वयस्येन प्रेक्षणीयम् अनुष्ठितम् ।]
[प्. 44]
वासवदत्ता - एदं तुंहाणं दुण्णअं पेक्खिअ हासो मे जाअदि । [ एतं युष्माकं दुर्नयं प्रेक्ष्य हासो मे जायते ।]
राजा - देवि अलम् अन्यथा विकल्पितेन । पश्य ।
भ्रू-भङ्गैः क्रियते ललाट-शशिनः कस्मात् कलङ्को मुधा
वाताकम्पित-बन्धुजीव-समतां नीतो ऽधरः किं स्फुरन् ।
मध्यश् चाधिक-कम्पित-स्तन-भरेणायम् पुनः खिद्यते
कोपम् मुञ्च तवैव चित्त-हरणायैतन् मया क्रीडितम्
देवि प्रसीद प्रसीद । (इति पादयोः पतति ।)
वासवदत्ता - हन्जे णिवुत्तं पेक्खणअं । ता एहि । अब्भन्तरं एव्व पविसम्ह । [ हञ्जे निवृत्तं प्रेक्षणकम् । तद् एहि । अभ्यन्तरम् एव प्रविशावः ।]
(इति निष्क्रान्ता ।)
इति गर्भ-नाटकम् ।
राजा - (विलोक्य ।) कथम् अकृत्वैव प्रसादं गता देवी ।
स्वेदाम्भः-कण-भिन्न-भीषणतर-भ्रूभङ्गम् एकं रुषा
त्रासेनापरम् उत्प्लुतोत्प्लुत-मृग-व्यालोल-नेत्रोत्पलम् ।
उत्पश्यन्न् अहम् अग्रतो मुखम् इदं देव्याः प्रियायास् तथा
भीतश् चोत्सुक-मानसश् च महति क्षिप्तो ऽस्म्य् अहं संकटे
मूल पाठ: Priyadarśikā · Edition: M.R. Kale's edition: Priyadarśikā of Śrī Harṣadeva, edited with an exhaustive introduction, a short Sanskrit commentary, various readings, a literal English translation, copious notes and useful appendices, Bombay : Gopal Narayana & Co 1928 (repr. Delhi et al. : Motilal Banarsidass 1977). · Data entry a Paris-3 Sorbonne-Nouvelle University group of Master students in Indology: Pilar Altinier Dominique Fradkine Clémentine Peroumal-Delavigne Carmen Sylvia Spiers · GRETIL (Göttingen) · CC BY-NC-SA 4.0