भाषा

ENहिગુ
ग्रंथ पाठ

प्रियदर्शिका · अध्याय 4

4.1

तद् यावद् इदानीं शयनीयं गत्वा देव्याः प्रसादनोपायं चिन्तयामि ।
(इति निष्क्रान्ताः सर्वे ।)
इति तृतियो ऽङ्कः ।
[प्. 45]
चथुर्थो ऽङ्कः
(ततः प्रविशति मनोरमा)
मनोरमा - (सोद्वेगम् ।) अहो दिग्घ-रोसदा देवीए । एत्तिअं कालं बद्धाए पिअ-सहीए आरण्णिआए उवरि अणुकम्पं ण गेण्है । सा तवस्सिणी अत्तणो बन्धणस्स किलेसेण तह ण संतप्पदि जह भट्टिणो दंसण-णिरासदाए । ईरिसं च से दुक्खं जेण अज्ज एव्व अत्ताणं वावादअन्ती मए कहं वि णिवारिदा । एदं उत्तन्तं भट्टिणो णिवेदेहि त्ति वसन्तअं भणिअ आअद म्हि । [ अहो दीर्घ-रोषता देव्याः । एतावन्तं कालं बद्धाया अपि प्रिय-सख्या आरण्यिकाया उपर्य् अनुकम्पां न गृह्णाति । सा तपस्विन्य् आत्मनो बन्धनस्य क्लेशेन तथा न संतप्यते यथा भर्तुर् दर्शन-निराशतया । ईदृशं चास्या दुःखं येनाद्यैवात्मानं व्यापादयन्ती मया कथम् अपि निवारिता । एतं वृत्तान्तं भर्त्रे निवेदयेति वसन्तकं भणित्वागतास्मि ।
(ततः प्रविशति काञ्चनमाला ।)
काञ्चनमाला - कहं अण्णेसन्तीए वि मए भअवई संकिच्चाअणी ण दिट्ठा । ता एदं वि दाव मणोरमं पुच्छिस्सम् । (उपसृत्य ।) मणोरमे अवि जाणासि कहिं भअवई संकिच्चाअणि त्ति । [ कथं अन्विष्यन्त्यापि मया भगवती साङ्कृत्यायनी न दृष्टा । (विलोक्य।) तद् एताम् अपि तावन् मनोरमां प्रक्ष्यामि । (उपसृत्य ।) मनोरमे अपि जानासि कुत्र भगवती साङ्कृत्यायनीति ।]
मनोरमा - (विलोक्याश्रूणि प्रमृज्य ।) हला कन्चणमाले दिट्ठा । किम् उण ताए पओअणम् । [ हला काञ्चनमाले दृष्टा । किं पुनस् तया प्रयोजनम् ।]
काञ्चनमाला - मणोरमे अज्ज देवीए अंगारवदीए लेहो पेसिदो । तस्सि वाचिदे बप्फ- पुण्ण-णअणा दिढं संतप्पिदुं आरद्धा देवी । ता विणोदण-णिमित्तं ताए भअवदिं अण्णेसामि । [ मनोरमे अद्य देव्याङ्गारवत्या लेखः प्रेषितः । तस्मिन् वाचिते बाष्प-पूर्ण-नयना दृढं संतप्तुम् आरब्धा देवी । तद् विनोदन-निमित्तं तस्या भगवतीं अन्विष्यामि ।]
[प्. 46]
मनोरमा - हला किं उण तस्सिं लेहे आलिहिदं । [ हला किं पुनस् तस्मिंल् लेख आलिखितम् ।]
काञ्चनमाला - जा मह भैणी सा तव जणणी एव्व । ताए भत्ता दिढवम्मा तादो दे । ता तव किं एदं आअक्खिदव्वं । तस्स समहिअं संवच्छरं कलिंग-हदएण बद्धस्स । ता ण जुत्तं एदं उत्तन्तं अण्-इट्ठं सुणिअ समीव-ट्ठिदस्स समत्थस्स भत्तुणो दे एव्वम् उदासीणत्तणं ओलम्बिदुं त्ति । [ या मम भगिनी सा तव जनन्य् एव । तस्या भर्ता दृढवर्मा तातस् ते । तत् तव किम् एतद् आख्यातव्यं । तस्य समधिकं संवत्सरं कलिङ्ग-हतकेन बद्धस्य । तन् न युक्तम् एतं वृत्तान्तम् अन्-इष्टं श्रुत्वा समीप स्थितस्य समर्थस्य भर्तुस् त एवम् उदासीनत्वम् अवलम्बितुम् इति ।]
मनोरमा - हला कन्चणमाले । जदा दाव अअं उत्तन्तो भट्टिणीए ण केण वि विण्णविइदव्वो त्ति भट्टिणा आणत्तं ता केण उण दाणिं सो लेहो सुणाविदो । [ हला काञ्चनमाले । यदा तावद् अयं वृत्तान्तो भट्टिन्यै न केनापि विज्ञापितव्य इति भर्त्राज्ञप्तं तत् केन पुनर् इदानीं स लेखः श्रावितः ।]
काञ्चनमाला - अणुवाइअ तुण्हीं (सिच्) भूदाए मह हत्थादो गेण्हिअ सअं एव्व भट्टिणीए वाइदो । [ अनुवाच्य तूष्णीं भूताया मम हस्ताद् गृहीत्वा स्वयम् एव भट्टिण्या वाचितः ।]
मनोरमा - तेण गच्छ तुमं । एसा क्खु देवी ताए एव्व सह दन्त-वलहीए चिट्ठै । तेण गच्छ त्वं । [ एषा खलु देवी तयैव सह दन्त-वलभ्यां तिष्ठति ।]
काञ्चनमाला - तेण हि भट्टिणी-सआसं गमिस्सं । [ तेन हि भट्टिनी-सकाशं गमिष्यामि ।]
(इति निष्क्रान्ता ।)
मनोरमा - चिरं खु मे आरण्णिआ-सआसादो आअदाए । दिढं च णिव्विण्णा सा तवस्सिणी अत्तणो जीविदेण । कदाइ अच्चाहिदं भवे । ता तहि एव्व गच्छामि (कले : -अह्मि) । [ चिरं खलु म आरण्यिका-सकाशाद् आगतायाः । दृढं च निर्विण्णा सा तपस्विन्य् आत्मनो जीवितेन । कदा चिद् अत्य्-आहितं भवेत् । तत् तत्रैव गच्छामि । (इति निष्क्रान्ता ।)
(इति प्रवेशकः ।)
[प्. 47]
(ततः प्रविशति सोद्वेगासन-स्था वासवदत्ता साङ्कृत्यायनी विभवतश् च परिवारः)
साङ्कृत्यायनी - राज-पुत्रि अलम् उद्वेगेन । नेदृशो वत्स-राजः । कथम् इत्थं गतम् अपि भवत्या मातृ-ष्वसृ-पतिं विज्ञाय वत्स-राजो निश्चिन्तं स्थास्यति ।
वासवदत्ता - (सास्रम्।) भअवदि अदि-उज्जुआ दाणिं तुमं । जस्स मए ण कज्जं तस्स मम-केरयेण किं कज्जं । अज्जुआए जुत्तं मम एदं आलिहिदुं । सा उण ण आणादि अज्ज वि तारिसी ण वासवदत्ते त्ति । तुह उण एदं आरण्णिआए उत्तन्तं पच्चक्खं । ता कहं एदं भणासि । [ भगवति अति(ऋजुकेदानीं त्वम् । यस्य मया न कार्यं तस्य मदीयेन किं कार्यम् । मातुर् युक्तं ममैतद् आलिखितुं । सा पुनर् न जानात्य् अद्यापि तादृशी न वासवदत्तेति । तव पुनर् एष आराण्यिका-वृत्तान्तः प्रत्यक्षः । तत् कथम् एतद् भणासि ।
साङ्कृत्यायनी - यत एव मे प्रत्यक्षं तत एव ब्रवीमि । तेन ननु कौमुदी-महोत्सवे त्वां हासयितुं तथा क्रीडितम् ।
वासवदत्ता - भअवदि एदं एत्थ सच्चं । तह हासिद म्हि जेण भअवदीए पुरदो लज्जाए कहं वि चिट्ठामि । ता किं त-क्केरकाए कहाए । णम् एदेण एव्व पक्ख-वादेण एत्तिअं भूमिं णीद म्हि । [ भगवति एतद् अत्र सत्यम् । तथा हासितास्मि येन भगवत्याः पुरतो लज्जया कथम् अपि तिष्ठामि । तत् किं तदीयया कथया । नन्व् एतेनैव पक्ष-पातेनैतावतीं भूमिं नीतास्मि । (इति रोदिति ।)
साङ्कृत्यायनी - अलं राज-पुत्रि रुदितेन । नेदृशो वत्स-राजः । (विलोक्य ।) अथवा प्राप्त एवायं यस् ते मन्यु-प्रमार्जनं करोति ।
वासवदत्ता - मणोरहा दाणिं एदे भअवदीए । [ मनोरथा इदानीम् एते भगवत्याः ।]
(ततः प्रविशति राजा विदूशकश् च ।)
राजा - वयस्य क इदानीम् अभ्युपायः प्रियां मोचयितुम् ।
विदूषकः - भो वअस्स मुन्च विसादं । अहं दे उवाअं कहैस्सं । [ भो वयस्य मुञ्च विषादम् । अहं त उपायं कथयिष्यामि ।]
[प्. 48]
राजा - (स-हर्षम्) वयस्य त्वरिततरम् अभिधीयताम् ।
विदूषकः - भो तुमं दाव अणेअ-समर संघट्ठ-प्पहाव-बाहु-साली । पुणो वि अणेअ-गअ-तुरअ-पआइ-दुव्विसह-बल-समुदिदो । ता सव्व-बल-संदोहेण अन्तेउरं सु-पीडिअं करिअ दाणिम् एव्व आरण्णिअं मुन्चावेहि । [ भो त्वं तावद् अनेक-समर-संघट्ट-प्रभाव-बाहु-शाली । पुनर् अप्य् अनेक-गज-तुरग-पदाति-दुर्विषह-बल-समुदितः । तत् सर्व-बल-संदोहेनान्तःपुरं सु-पीडितं कृत्वेदानीम् एवारण्यिकां मोचय ।]
राजा - वयस्य अ-शक्यम् उपदिष्टम् ।
विदूषकः - किम् एत्थ अ-सक्कं । जदो दाव कुज्ज-वामण-बुड्ढ-अञ्चुइ-वज्जिदो मणुस्सो अवरो णत्थि तर्हि । [ किम् अत्राशक्यम् । यतस् तावत् कुब्ज-वामन-वृद्ध-कञ्चुकि-वर्जितो मनुष्यो ऽपरो नास्ति तत्र ।]

राजा - (सावज्ञम्) मूर्ख किम् असंबद्धं प्रलपसि । देव्याः प्रसादं मुक्त्वा नान्यस् तस्या मोक्षणाभ्युपायः । तत् कथय कथं देवीं प्रसादयामि ।
विदूषकः - भो मासोववासं करिअ जीविदं धारेहि । एव्वं देवी चण्डी पसीदिस्सदि । [ भोः मासोपवासं कृत्वा जीवितं धारय । एवं देवी चण्डी प्रसत्स्यति ।]
राजा - (विहस्य) अलं परिहासेन । कथय कथं देवीं प्रसादयामि ।
धृष्टः किं पुरतो ऽवरुध्य विहसन् गृह्णामि कण्ठे प्रियां
किं वा चाटु-शत-प्रपञ्च-रचना-प्रीतां करिष्यामि ताम् ।
किं तिष्ठामि कृताञ्जलिर् निपतितो देव्याः पुरः पादयोः
सत्यं सत्यम् अहो न वेद्म्य् अनुनयो देव्याः कथं स्याद् इति

4.2

[प्. 49]
तद् एहि । देवी-सकाशम् एव गच्छावः ।
विदूषकः - भो गच्छ तुमं । अहं दाणिं एव्व बन्धणादो कहं वि परिब्भंसिअ आअदो म्हि । तो ण गमिस्सं । [ भोः गच्छ त्वम् । अहं पुनर् इदानीम् एव बन्धनात् कथम् अपि परिभ्रश्यागतो ऽस्मि । तन् न गमिष्यामि ।]
राजा - (विहस्य कण्ठे गृहीत्वा बलान् निवर्तयति ।) मूर्ख आगम्यताम् आगम्यताम् । (परिक्रम्यावलोक्य च) इयं देवी दन्त-बलभी-मध्यम् अध्यास्ते । यावद् उपसर्पामि । (स-लज्जम् उपसर्पति)
(वासवदत्ता स-खेदम् आसनाद् उत्तिष्ठति ।)
राजा -
किं मुक्तम् आसनम् अलं मयि सम्भ्रमेण
नोत्थातुम् इत्थम् उचितं मम तान्त-मध्ये ।
दृष्टि-प्रसाद-विधि-मात्र-हृतो जनो ऽयम्
अत्य्-आदरेण किम् इति क्रियते विलक्षः

4.3

वासवदत्ता - (मुखं निरूप्य) अज्ज-उत्त विलक्खो दाणिं तुमं होसि । [ आर्य-पुत्र विलक्ष इदानीं त्वं भवसि ।]
राजा - प्रिये सत्यम् अहं विलक्षः । यत् प्रत्यक्ष ऽदृष्टापराधो ऽपि भवतीं प्रसादयितुं व्यवसितो ऽस्मि ।
साङ्कृत्यायनी - (आसनं निर्दिश्य ।) महा-राज क्रियताम् आसन-परिग्रहः ।
राजा - (आसनं निर्दिश्य ।) इत इतो देव्य् उपविशतु ।
(वासवदत्ता भूमाव् उपविशति)
राजा - आः कथं भूमाव् उपविष्टा देवी । अहम् अप्य् अत्रैवोपविशामि । (इति भूमाव् उपविश्य कृताञ्जलिः ।) प्रिये प्रसीद प्रसीद । किम् एवं प्रणते ऽपि मयि गम्भीरतरं कोपम् उद्वहसि ।
[प्. 50]
भ्रू-भङ्गं न करोषि रोदिषि मुहुर् मुग्धेक्षणे केवलं
नातिप्रस्फुरिताधरानवरतं निःश्वासम् एवोज्झसि ।
वाचं नापि ददासि तिष्ठसि परं प्रध्यान-नम्रानना
कोपस् ते स्तिमितो निपीडयति मां गूढ-प्रहारोपमः

4.4

प्रिये प्रसीद प्रसीद । (इति पादयोः पतति ।)
वासवदत्ता - अदि-सुहिदो णं सि । किं दाणिं दुक्खिदं जणं विआरेसि । उट्ठेहि को एत्थ कुविदो । [ अति-सुखितो नन्व् असि । किम् इदानीं दुःखितं जनं विकारयसि । उत्तिष्ठ को ऽत्र कुपितः ।]
साङ्कृत्यायनी - उत्तिष्ठ महा-राज । किम् अनेन । अन्यद् एव तावद् उद्वेग-कारणम् अस्याः ।
राजा - (स-संभ्रमम् ।) भगवति किम् अन्यत् ।
(साङ्क्र्त्यायनी कर्णे कथयति ।)
राजा - (विहस्य) यद्य् एवम् अलम् उद्वेगेन मयापि ज्ञातम् । सिद्ध एवास्मिन् प्रयोजने देवीं तु दिष्ट्या वर्धयिष्यामीति नोक्तम् । अन्यथा कथम् अहं दृढवर्म-वृत्तान्ते विस्रब्धस् तिष्ठामि । तत् कतिपयान्य् अहानि तद् वार्ताया आगतायाः । इदं च तत्र वर्तते ।
अस्मद्-बलैर् विजयसेन-पुरःसरैस् तैर्
आक्रान्त-बाह्य-विषयो विहत-प्रतापः ।
दुर्गं कलिङ्ग-हतकः सहसा प्रविश्य
प्राकार-मात्र-शरणो ऽशरणः कृतो ऽसौ

4.5

[प्. 51]
तद् अवस्थं च तं
निर्दिष्टाक्रान्त-मन्दं प्रतिदिन-विरमद्-वीर-दासेर-वृत्तं
शश्वत्-संशीर्यमाण-द्विप-तुरग-नर-क्षीण-निःशेष-सैन्यम् ।
अद्य श्वो वा विभग्ने झटिति मम बलैः सर्वतस् तत्र दुर्गे
बद्धं युद्धे हतं वा भगवति न चिराच् छ्रोष्यसि त्वं कलिङ्गम्

4.6

साङ्कृत्यायनी - राज-पुत्रि प्रथमतरम् एव भवत्याः कथितं मया कथम् अप्रतिविधाय वत्स-राजः स्थास्यतीति ।
वासवदत्ता - जै एव्वं पिअं मे । [ यद्य् एवं प्रियं मे ।]
(प्रविश्य ।)
प्रतीहारी - जेदु जेदु भट्टा । एसो क्खु विअअसेणो दिढवम्म-कञ्चुई-सहिदो हरिस- समुप्फुल्ल-लोअणो पिअं णिवेदिदु-कामो दुवारे चिट्ठै । [ जयतु जयतु भर्ता । एष खलु विजयसेनो दृढवर्म-कञ्चुकि-सहितो हर्ष-समुत्फुल्ल-लोचनः प्रियं निवेदयितु-कामो द्वारे तिष्ठति ।]
वासवदत्ता - (स-स्मितम् ।) भअवदि जह तक्केमि परिदोसिद म्हि अज्ज-उत्तेणेत्ति [ भगवति यथा तर्कयामि परितोषितास्म्य् आर्य-पुत्रेणेति ।]
साङ्कृत्यायनी - वत्स-राज-पक्ष-पातिनी खल्व् अहं न किं चिद् अपि ब्रवीमि ।
राजा - शीघ्रं प्रवेशय तौ ।
प्रतीहारी - तह । [ तथा ।]
(इति निश्क्रान्ता)
(ततः प्रविशति विजयसेनः कञ्चुकी च ।)
विजयसेनः - भोः कञ्चुकिन् । अद्य स्वामि-पादा द्रष्टव्या इति यत् सत्यम् अन्-उपमं कम् अपि सुखातिशयम् अनुभवामि ।
[प्. 52]
कञ्चुकी - विजयसेन अ-वितथम् एतत् । पश्य ।
सुख-निर्भरो ऽन्यथापि स्वामिनम् अवलोक्य भवति भृत्य-जनः ।
किं पुनर् अरि-बल-विघटन-निर्व्यूढ-प्रभु-नियोग-भरः

4.7

उभौ - (उपसृत्य) जयतु जयतु स्वामी ।
(राजा उभाव् अपि परिष्वजते ।)
कञ्चुकी - देव दिष्ट्या वर्धसे ।
हत्वा कलिङ्ग-हतकं ह्य् अस्मत्-स्वामी निवेशितो राज्ये ।
देवस्य समादेशो निर्व्यूढो विजयसेनेन

4.8

वासवदत्ता - ऐ भअवै अहिजाणासि एदं कञ्चुइं । [ अयि भगवति अभिजानास्य् एतं कञ्चुकिनम् ।]
साङ्कृत्यायनी - कथं नाभिजानामि । ननु स एष यस्य हस्ते मातृ-ष्वसा ते पत्रिकाम् अनुप्रेषितवती ।
राजा - साधु विजयसेनेन महा-व्यापारो ऽनुष्ठितः ।
(विजयसेनः पादयोः पतति)
राजा - देवि दिष्ट्या वर्धसे । प्रतिष्ठितो राज्ये दृढवर्मा ।
वासवदत्ता - (सहर्षम्।) अणुग्गहिद म्हि । [ अनुगृहीतास्मि ।]
विदूषकः - ईरिसे अब्भुदए अस्सिं राअ-उले एदं करणिज्जं । (राजानं निर्दिश्य वीणा-वादनं नाटयन् ।) गुरु-पूआ । (आत्मनो यज्ञोपवीतं दर्शयन्।) बम्हणस्स सक्कारो । (आरण्यिकां सूचयन्।) सव्व-बन्धण-मोक्खो त्ति । [ ईदृशे ऽभ्युदये ऽस्मिन् राज-कुल एतत् करणीयम् । (राजानं निर्दिश्य वीणा-वादनं नाटयन् ।) गुरु-पूजा । (आत्मनो यज्ञोपवीतं दर्शयन्।) ब्राह्मणस्य सत्कारः । (आरण्यिकां सूचयन्।) सर्व-बन्धन-मोक्ष इति ।]
राजा - (वासवदत्ताम् अपवार्य छोटिकां ददत् ।) साधु वयस्य साधु ।
[प् . 53] विदूषकः - होदि कहं तुमं ण किं वि एत्थ समादिससि । [ भवति कथं त्वं न किम् अप्य् अत्र समादिशसि ।]
वासवदत्ता - (साङ्कृत्यायणीम् अवलोक्य स-स्मितम् ।) मोइदा क्खु हदासेण आरण्णिआ । [ मोचिता खलु हताशेनारण्यिका ।]
साङ्कृत्यायनी - किं वा तपस्विन्यानया बद्धया ।
वासवदत्ता - जह भअवदीए रोअदि । [ यथा भगवत्यै रोचते ।]
साङ्कृत्यायनी - यद्य् एवम् अहम् एव गत्वा तां मोचयिष्यामि ।
(इति निष्क्रान्ता)
कञ्चुकी - इदम् अपरं संदिष्टं महा-राजेन दृढवर्मणा । त्वत्-प्रसादात् सर्वम् एव यथाभिलषितं संपन्नं । तद् एते प्राणास् त्वदीयाः । यथेष्टम् इमान् विनियोक्तुं त्वम् एव प्रमाणम् इति ।
(राजा स-लज्जम् अधो-मुखस् तिष्ठति ।)
विजयसेनः - देव न शक्यम् एव देवं प्रति प्रीति-विशेषं दृढवर्मणः कथयितुम् ।
कञ्चुकी - यद्य् अपि तुभ्यं प्रतिपादितायाः प्रियदर्शिकाया अस्मद्-दुहितुः परिभ्रंशान् न मे संबन्धो जात इति दुःखम् आसीत् तथापि वासवदत्तायाः परिणेत्रापि त्वया तद् अपनीतम् एव ।
वासवदत्ता - (सास्रम् ।) अज्ज कञ्चुइ कहं मे भैणी परिब्भट्ठा । [ आर्य कञ्चुकिन् कथं मे भगिनी परिभ्रष्टा ।]
कञ्चुकी - राज-पुत्रि तस्मिन् कलिङ्ग-हतकावस्कन्दे विद्रुतेष्व् इतस् ततो ऽन्तःपुर-जनेषु दिष्ट्या दृष्टाम् इदानीं न युक्तम् अत्र स्थातुम् इति ताम् अहं गृहीत्वा वत्स-राजान्तिकं प्रस्थितः । ततः संचिन्त्य तां विन्ध्यकेतोर् हस्ते निक्षिप्य निर्गतो ऽस्मि । यावत् प्रतीपम् आगच्छामि तावत् कैर् अपि तत् स्थानं सह विन्ध्यकेतुना स्मर्तव्यतां नीतम् ।
[प्. 54]
राजा - (स-स्मितम्।) विजयसेन किं कथयसि ।
कञ्चुकी - तत्र चान्विष्यता मया न प्राप्ता । तदा-प्रभृति नाद्यापि विज्ञायते क्व वर्तत इति ।
(प्रविश्य मनोरमा ।)
मनोरमा - भट्टिणी पाण-संसए वट्टै सा तवस्सिणी । [ भट्टिनि प्राण-संशये वर्तते सा तपस्विनी ।]
वासवदत्ता - (सास्रम् ।) किम् उण तुमं पिअदंसणा-उत्तन्तं जाणासि । [ किं पुनस् त्वं प्रियदर्शना वृत्तान्तं जानासि ।]
मनोरमा - ण हु अहं पिअदंसणा-उत्तन्तं जाणामि । एसा क्खु आरण्णिआ कल्ल- व्ववदेसेण आणीदं विसं पाइअ पाण-संसए वट्टदि त्ति एव्वं मए णिवेदिदं । ता परित्ताअदु भट्टिणी । [ न खल्व् अहं प्रियदर्शना-वृत्तान्तं जानामि । एषा खल्व् आरण्यिका कल्य-व्यपदेशेनानीतं विषं पीत्वा प्राण-संशये वर्तत इति एवं मया निवेदितम् । तत् परित्रायताम् भट्टिनी ।]
(रुदती पादयोः पतति ।)
वासवदत्ता - (स्व-गतम्।) ह द्धि ह द्धि । पिअदंसणा-दुक्खं वि मे अन्तरिदं आरण्णिआ-उत्तन्तेण । अदि-दुज्जणो क्खु लोओ । कदाइ मं अण्णहा संभावैस्सदि । ता एदं एत्थ जुत्तं (प्रकाशम् स-संभ्रमम् ।)। मणोरमे लहु इह एव्व आणेहि तं । णाअ-लोआदो गहिद-विस-विज्जो अज्ज-उत्तो एत्थ कुसलो । [ हा धिक् हा धिक् । प्रियदर्शना-दुःखम् अपि मे ऽन्तरितम् आरण्यिका-वृत्तान्तेन । अति-दुर्जनः खलु लोकः । कदाचिन् माम् अन्यथा संभावयिष्यति । तद् एतद् अत्र युक्तम् । (प्रकाशम् स-संभ्रमम् ।) मनोरमे लघ्व् इहैवानय ताम् । नाग-लोकाद् गृहीत-विष-विद्य आर्य-पुत्रो ऽत्र कुशलः ।
(निष्क्रान्ता मनोरमा । ततः प्रविशति मनोरमया धृता-सविष-वेगम् आत्मानं नाटयन्त्य् आरण्यिका ।)
आरण्यिका - हला मणोरमे कीस दाणिं मं अन्धआरं पवेसेसि । हला मनोरमे कस्माद् इदानीं माम् अन्धकारं प्रवेशयसि ।
मनोरमा - (स-विषादम् ।) हद्धि हद्धि । दिट्ठि वि से संकन्ता विसेण्ऽ; एव्व । (वासवदत्तां दृष्ट्वा ।) भट्टिनि लहु परित्ताएहि लहु परित्ताएहि । गुरु-भूदं से विसं । [ हा धिक् हा धिक् । दृष्टिर् अपि अस्याः संक्रान्ता विषेणैव । (वासवदत्तां दृष्ट्वा ।) भट्टिनि लघु परित्रायस्व लघु [प्. 55] परित्रायस्व । गुरू भूतम् अस्या विषम् ।]
वासवदत्ता - (स-संभ्रमं राजानं हस्ते गृहीत्वा ।) अज्ज-उत्त उट्ठेहि उट्ठेहि । लहु विवजज्जै क्खु एसा तवस्सिणी । [ आर्य-पुत्र उत्तिष्ठोत्तिष्ठ । लघु विपद्यते खल्व् एषा तपस्विनी ।]
(सर्वे पश्यन्ति ।)
कञ्चुकी - (विलोक्य ।) सु-सदृशी खल्व् इयं मम राज-पुत्र्याः प्रियदर्शनायाः । (वासवदत्तां निर्दिश्य) राज-पुत्रि कुत इयं कन्यका ।
वासवदत्ता - अज्ज विन्झकेउणो दुहिदा । तं वावादिअ विजयसेणेण आणीदा । [ आर्य विन्ध्यकेतोर् दुहिता । तं व्यापाद्य विजयसेनेनानीता ।]
कञ्चुकी - कुतस् तस्य दुहिता । सैवेयं मम राज-पुत्री । हा हतो ऽस्मि मन्द-भाग्यः । (इति निपत्य भूमाव् उत्थाय ।) राज-पुत्रि इयं सा प्रियदर्शिका भगिनी ते ।
वासवदत्ता - अज्ज-उत्त परित्ताएहि परित्ताएहि । मम भैणी विवज्जै । [ आर्य-पुत्र परित्रायस्व परित्रायस्व । मम भगिनी विपद्यते ।]
राजा - समाश्वसिहि समाश्वसिहि । पश्यामस् तावत् । कष्टं भोः कष्टम् ।
संजात-सान्द्र-मकरन्द-रसां क्रमेण
पातुं गतश् च कलिकां कमलस्य भृङ्गः ।
दग्धा निपत्य सहसैव हिमेन चासौ
वामे विधौ न हि फलन्त्य् अभिवाञ्छितानि

4.9

मनोरमे पृच्छ्यतां तावत् किं ते बोध इति ।
मनोरमा - सहि किं दे बोधो । (सास्रं पुनश् चालयन्ती ) सहि णं भणामि किं दे बोधो त्ति । [ सखि किं ते बोधः । (सास्रं पुनश् चालयन्ती) सखि ननु भणामि किं ते बोध इति ।]
प्रियदर्शिका - (अ-विस्पष्टम् ।) जं एदं अवस्थानं (सिच्) गदाए वि मए ण महा-राओ दिट्ठो । [ यद् एतद् अवस्थायापि मया न महा-राजो दृष्टः ।]
(इत्य् अर्धोक्ते भूमौ पतति ।)
[प्. 56]
राजा - (सास्रम्।)
एषा मीलयतीदम् ईक्षण-युगं जाता ममान्धा दिशः
कण्ठो ऽस्याः प्रतिरुध्यते मम गिरो निर्यान्ति कृच्छ्राद् इमाः ।
एतस्याः श्वसितं हृतं मम तनुर् निश्चेष्टताम् आगता
मन्ये ऽस्या विष-वेग एव हि परं सर्वे तु दुःखं मम

4.10

वासवदत्ता - (सास्रम्) पिअदंसणे उट्ठेहि उट्ठेहि । पेक्ख एसो महा-राओ चिट्ठै । कहं वेअणा वि से णट्ठा । किं दाणिं मए अवरज्झं अआणन्तीए जेण कुविदा णालवसि । ता पसीद पसीद । उट्ठेहि उट्ठेहि । ण हु पुणो अवरज्झिस्सं । (ऊर्ध्वम् अवलोक्य) हा देव्व हदअ किं दाणिं मए अवकिदं जेण एदावत्थं गदा मे भैणी आदंसिदा । [ प्रियदर्शने उत्तिष्ठोत्तिष्ठ । पश्यैष महा-राजस् तिष्ठति । कथं वेदनाप्य् अस्या नष्टा । किम् इदानीं मयापराद्धं अजानत्या येन कुपिता नालपसि । तत् प्रसीद प्रसीद । उत्तिष्ठोत्तिष्ठ । न खलु पुनर् अपरात्स्यामि । (ऊर्ध्वम् अवलोक्य) हा दैव हतक । किम् इदानीं मयापकृतं येनैतद् अवस्थां गता मे भगिन्यादर्शिता ।]
(प्रियदर्शिकाया उपरि पतति ।)
विदूषकः - भो वअस्स कहं तुमं मूढो विअ चिट्ठसि । ण एसो विसादस्स कालो । विसमा क्खु गई विसस्स । ता दंसेहि अप्पणो विज्जा-पहावं । [ भो वयस्य कथं त्वं मूढ इव तिष्ठसि । नैष विषादस्य कालः । विषमा खलु गतिर् विषस्य । तद् दर्शय आत्मनो विद्या-प्रभावम् ।]
राजा - सत्यम् एवैतत् । (प्रियदर्शिकाम् आलोक्य) मूढ एवाहम् एतावतीं वेलाम् । तद् अहम् एनां जीवयामि । सलिलं सलिलम् ।
विदूषकः - (निष्क्रम्य पुनः प्रविश्य) भो । एदं सलिलं । [ भोः एतत् सलिलम् ।]
(राजोपसृत्य प्रियदर्शनाया उपरि हस्तं निधाय मन्त्र-स्मरणं नाटयति । प्रियदर्शिका शनैर् उत्तिष्ठति ।)
वासवदत्ता - अज्ज-उत्त दिट्ठिआ पच्चुज्जीविदा मे भैणी । [ आर्य-पुत्र दिष्ट्या प्रत्युज्जीविता मे भगिनी ।]
[प्. 57]
विजयसेनः - अहो देवस्य विद्या-प्रभावः ।
कञ्चुकी - अहो सर्वत्राप्रतिहता नरेन्द्रता देवस्य ।
प्रियदर्शिका - (शनैर् उत्थायोपविश्य च जृम्भिकां नाटयन्ती स-विषादम् अ-विस्पष्टम् ।) मणोरमे चिरं खु सुत्त म्हि । [ मनोरमे चिरं खलु सुप्तास्मि ।]
विदूषकः - भो वअस्स णिव्वूढं दे वेदित्तणं । [ भो वयस्य निर्व्यूढं ते वैद्यत्वम् ।]
(प्रियदर्शिका साभिलाषं राजानं निरूप्य स-लज्जं किंचिद् अधो-मुखी तिष्ठति ।)
वासवदत्ता - (स-हर्षम् ।) अज्ज-उत्त । किं दाणिं वि एसा अण्णह्ऽ; एव्व करेदि । [ आर्य-पुत्र किम् इदानीम् अप्य् एषान्यथैव करोति ।]
राजा - (स-स्मितम् ।)
स्वभाव-स्था दृष्टिर् न भवति गिरो नाति विशदास्
तनुः सीदत्य् एषा प्रकट-पुलक-स्वेद-कणिका ।
यथा चायं कम्पः स्तन-भर-परिक्लेश-जननस्
तथा नाद्याप्य् अस्या नियतम् अखिलं शाम्यति विषम्

4.11

कञ्चुकी - (प्रियदर्शिकां निर्दिश्य ।) राज-पुत्रि एष ते पितुर् आज्ञा-करः । (इति पादयोः पतति ।)
प्रियदर्शिका - (विलोक्य ।) कहं कञ्चुई अज्ज-विणअवसू । (सास्रम् ।) हा ताद । हा अज्जूए । [ कथं कञ्चुक्यार्य विनयवसुः । (सास्रम् ।) हा तात । हा मातः ।]
कञ्चुकी - राज-पुत्रि अलं रुदितेन । कुशलिनौ ते पितरौ । वत्स-राज-प्रभावात् पुनस् तद् अवस्थम् एव राज्यम् ।
वासवदत्ता - (सास्रम् ।) एहि अलिअ-सीले । दाणिं वि दाव भैणिआ सिणेहं दंसेहि । (कण्ठे गृहीत्वा ।) दाणिं समस्सत्थ म्हि । [ एह्य् अलीक-शीले । इदानीम् अपि तावद् भगिनी स्नेहं दर्शय । (कण्ठे गृहीत्वा ।) इदानीं समाश्वसितास्मि ।]
[प्. 58]
विदूषकः - होदि तुमं भैणिं गेण्हिअ कण्ठे एव्वं परितुट्ठा सि । वोदिअस्स पारिदोसिअं विसुमरिदं । [ भवति त्वं भगिनीं गृहीत्वा कण्ठ एवं परितुष्टासि । वैद्यस्य पारितोषिकं विस्मृतम् ।]
वासवदत्ता - वसन्तअ ण विसुमरिदं । [ वसन्तक न विस्मृतम् ।]
विदूषकः - (राजानं निर्दिश्य स-स्मितम् ।) वोदिअ पसारेहि हत्थं । भैणीए अग्ग-हत्थं दे पारिदोसिअं दाविस्सं । [ वैद्य प्रसारय हस्तम् । भगिन्या अग्र-हस्तं ते पारितोषिकं दापयिष्यामि ।]
(राजा हस्तं प्रसारयति ।)
(वासवदत्ता प्रियदर्शिका-हस्तम् अर्पयति ।)
राजा - (हस्तम् उपसंहृत्य ।) किम् अनया । सम्प्रत्य् एव कथम् अपि प्रसादितासि ।
वासवदत्ता - को तुमं अ-गण्हिदुं । पुढमं एव्व तादेण इअं दिण्णा । [ कस् त्वम् अ-ग्रहीतुम् । प्रथमम् एव तातेनेयं दत्ता ।]
विदूषकः - भो माणणीआ क्खु देवी । मा से पडिऊलं करेहि । [ भो माननीया खलु देवी । मास्याः प्रतिकूलं कुरु ।]
(वासवदत्ता राज्ञो हस्तं बलाद् आकृष्य प्रियदर्शिकाम् अर्पयति ।)
राजा - (स-स्मितम् ।) देवी प्रभवति । कुतो ऽस्माकम् अन्यथा कर्तुं विभवः ।
वासवदत्ता - अज्ज-उत्त अदो वि परं किं दे पिअं करीअदु । [ आर्य-पुत्र अतो ऽपि परं किं ते प्रियं क्रियताम् । ]
राजा - किम् अतः परं प्रियम् । पश्य ।
निःशेषं दृढवर्मणा पुनर् अपि स्वं राज्यम् अध्यासितं
त्वं कोपेन सु-दूरम् अप्य् अपहृता सद्यः प्रसन्ना मम ।
जीवन्ती प्रियदर्शना च भगिनी भूयस् त्वया सङ्गता
किं तत् स्याद् अपरं प्रियं प्रियतमे यत् साम्प्रतं प्रार्थ्यते

4.12

[प्. 59]
तथापीदम् अस्तु ।
(भरत-वाक्यम् ।)
उर्वीम् उद्दाम-सस्यां जनयतु विसृजन् वासवो वृष्टिम् इष्टाम्
इष्टैस् त्रैविष्टपानाम् विदधतु विधिवत् प्रीणनं विप्र-मुख्याः ।
आकल्पान्तं च भूयात् स्थिर-समुपचिता संगतिः सज्-जनानां
निःशेषं यान्तु शान्तिं पिशुन-जन-गिरो दुःसहा वज्र-लेपाः

मूल पाठ: Priyadarśikā · Edition: M.R. Kale's edition: Priyadarśikā of Śrī Harṣadeva, edited with an exhaustive introduction, a short Sanskrit commentary, various readings, a literal English translation, copious notes and useful appendices, Bombay : Gopal Narayana & Co 1928 (repr. Delhi et al. : Motilal Banarsidass 1977). · Data entry a Paris-3 Sorbonne-Nouvelle University group of Master students in Indology: Pilar Altinier Dominique Fradkine Clémentine Peroumal-Delavigne Carmen Sylvia Spiers · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc