भाषा

ENहिગુ
ग्रंथ पाठ

प्रियदर्शिका · अध्याय 2

2.1

रुमण्वन् । उत्तिष्ठोत्तिष्ठ । प्रविश्याभ्यन्तरम् एव कृत-यथोचित-क्रियाः सत्-कृत्य विजयसेनं कलिङ्गोच्छित्तये प्रेषयामः ।
(इति निष्क्रान्ताः सर्वे) ।
(इति प्रथमो ऽङ्कः) ॥
विदूषकः - णं भणिदो म्हि इन्दीवरिआए जह अज्ज उववास-णिअम-ट्ठिआ देवी वासवदत्ता सोत्थि-वाअण-णिमित्तं सद्दावेदि त्ति । ता जाव धारा-घर्ऽ-उज्जाण-दिग्घिआए ण्हाइअ देवी-पासं गदुअ कुक्कुट-वादं करिस्सं । अण्णहा कहं अम्हाणं सरिसा ब्रह्मणा (सिच्) राअ-कुले पडिग्गहं करेन्ति । (नेपथ्याभिमुखम् अवलोक्य) कहं एसो पिअ-वअस्सो अज्ज देवीए विरह्ऽ-उक्कण्ठ-विणोदणा-णिमित्तं धारा-घर्ऽ-उज्जाणे एव्व पत्थिदो । ता जाव वअस्सेण सह एव्व गदुअ जहोदिदं अणुचिट्ठिस्सं । [ ननु भणितो ऽस्मीन्दिवरिकया यथा उपवास-नियम-स्थिता देवी वासवदत्ता स्वस्ति-वाचन-निमित्तं शब्दायतेति । तद् यावद् धारा-गृहोद्यान-दीर्घिकायां स्नात्वा देवी-पार्श्वं गत्वा कुक्कुट-वादं करिष्यामि । अन्यथा कथम् अस्माभिः सदृशा ब्राह्मणा राज-कुले प्रतिग्रहं कुर्वन्ति (नेपथ्याभिमुखम् अवलोक्य) कथम् एष प्रिय-वयस्यो ऽद्य देव्या विरहोत्कण्ठा-विनोदना-निमित्तं धारा-गृहोद्यानम् एव प्रस्थितः । तद् यावद् वयस्येन सहैव गत्वा यथोदितम् अनुष्ठास्यामि ।]
[प्. 12]
(ततः प्रविशति सोत्कन्ण्ठो राजा)
राजा -
क्षामां मङ्गल-मात्र-मण्डन-भृतं मन्दोद्यमालापिनीम्
आपाण्दु-च्छविना मुखेन विजित-प्रातस्-तनेन्दु-द्युतिम् ।
सोत्कण्थां नियमोपवास-विधिना चेतो ममोत्कण्ठते
तां द्रष्टुं प्रथमानुराग-जनितावस्थाम् इवाद्य प्रियाम्

2.2

विदूषकः- (उपसृत्य) सोत्थि होदे । वड्ढदु भवं । [ स्वस्ति भवते । वर्धतां भगवान् ।]
राजा -(विलोक्य) वसन्तक । कस्मात् प्रहृष्ट इव लक्ष्यसे ।
विदूषकः - अच्चदि क्खु देवी बम्हणं । [ अर्चति खलु देवी ब्राह्मणम् ।]
राजा - यद्य् एवं ततः किम् ।
विदूषकः - (स-गर्वम्) भो । ईरिसो क्खु बम्हणो जो चौ-व्वेद-पञ्च-वेद-छट्ठ-वेद-बम्हण-सहस्स-पज्जाउले राऔले पढमं (कले : पु-) अहं एव्व देवी-सआसदो सोत्थिआ-वाआणं लहेमि । [ भोः । ईदृशः खलु ब्राह्मणः । यश् चतुर्वेद-पञ्च-वेद-षड्-वेद-ब्राह्मण-सहस्र-पर्याकुले र्ज-कुले प्रथमम् अहम् एव देवी-सकाशात् स्वस्ति-वाचनं लभे ।]
राजा - (विहस्य) वेद-संख्ययैवावेदितं ब्राह्मण्यम् । तद् आगच्छ महा-ब्राह्मण । धारा-गृहोद्यानम् एव गच्छावः ।
विदूषकः - जं देवो आणवेदि । [ यद् देव आज्ञापयति ।]
राजा - गच्छाग्रतः ।
[प्. 13]
विदूषकः - भो एहि गच्छम्ह । (परिक्रम्यावलोक्य च) भो वअस्स पेक्ख पेक्ख । अविरद-पडन्त-विविह-कुसुम-सुउमाल-सिला-अल्ऽ-उच्छन्गस्स परिमल-णिलीण-महुअर-भर-भग्ग-बौल-मालदी-लदा-जालअस्स कमल-गन्ध-गहण्ऽ-उद्दाम-मारुद-पज्जव (कले : पर्जव-)बुद्ध-बन्धूअ-बन्धणस्स अविरल-तमाल-तरु-पिहिदा-तप-पआसस्स अस्स धारा-घर्ऽ-उज्जाणस्स स-स्सरीअअं । [ भो एहि गच्छावः । (परिक्रम्यावलोक्य च) भो वयस्य पश्य पश्य । अविरत-पतद्-विविध-कुसुम-
सुकुमार-शिला-तलोत्सङ्गस्य परिमल-निलीन-मधुकर-भर-भग्न-बकुल-मालती-लता-जालकस्य कमल-गन्ध-ग्रहणोद्दाम-मारुत-पर्यवबुद्ध-बन्धूक-बन्धनस्याविरल-तमाल-तरु-पिहितातप-प्रकाशस्यास्य धारा-गृहोद्यानस्य स-श्रीकताम् ।]
राजा - वयस्य साध्व् अभिहितम् । अत्र हि ।
वृन्तैः क्षुद्र-प्रवाल-स्थगितम् इव तलं भाति शेफालिकानां
गन्धः सप्त-च्छदानां सपदि गज-मदामोद-मोहं करोति ।
एते चोन्निद्र-पद्म-च्युत-बहल-रजः-पुञ्ज-पिङ्गाङ्गरागा
गायन्त्य् अव्यक्त-वाचः किम् अपि मधु-लिहो वारुणी-पान-मत्ताः

2.3

विदूषकः - भो वअस्स । एदं पि दाव पेक्ख पेक्ख । जो एसो अविरल-पडन्त-कुसुम-णिअरो अज्ज वि पत्त्ऽ-अन्तर-गळन्त-वरिसावसाण-सलिल-बिन्दू विअ लक्खीअदि [प्. 14] सत्तवण्ण-पाआवो । [ भो वयस्य एतद् अपि तावत् पश्य पश्य । य एषो ऽविरल-पतद्-कुसुम-निकरो ऽद्यापि पत्रान्तर-गलद्-वर्षावसान-सलिल-बिन्दुर् इव लक्ष्यते सप्तपर्ण-पादपः ।]
राजा - वयस्य सम्यग् उत्प्रेक्षितम् । बह्व् एव सदृशं जलद-समयस्य । तथा हि ।
बिभ्राणा मृदुतां शिरीष-कुसुम-श्री-हारिभिः शाद्वलैः
सद्यः कल्पित-कुट्टिमा मरकत-क्षोदैर् इव क्षालितैः ।
एषा संप्रति बन्धनाद् विगलितैर् बन्धूक-पुष्पोत्करैः
अद्यापि क्षितिर् इन्द्र-गोपक-शतैश् च्छन्नेव संलक्ष्यते

2.4

(ततः प्रविशति चेटी)
चेटी - आणत्त म्हि देवीए वासवदत्ताए । हन्जे इन्दीवरिए अज्ज मए अगत्थि-महेसिणो अग्घो दादव्वो । ता गच्छ तुमं । सेहालिआ-कुसुम-मालं लहु गेण्हिअ आअच्छेत्ति । एसा वि आरण्णिआ धारा-घर्ऽ-उज्जाण-दीहिआए जाव एव्व विआसिआइं कमलाइं ण अत्थाहिलासिणा [प्. 15] सुज्जेण मौलाविज्जन्ति ताव एव्व लहुअं अवचिणुअ आअच्छदु त्ति । एसा तवस्सिणी तं दीहिअं ण जाणादि । ता गेण्हिअ तं गमिस्सं । (नेपथ्याभिमुखम् अवलोक्य) इदो इदो आरण्णिए एहि । [ आज्ञाप्तास्मि देव्या वासवदत्तया । हञ्जे इन्दीवरिके अद्य मयागस्त्य-महर्षये ऽर्घो दातव्यः । तद् गच्छ त्वम् । शेफलिका-कुसुम-मालां लघु गृहीत्वागच्छेति । एषाप्य् आरण्यिका धारा-गृहोद्यान-दीर्घिकाया यावद् एव विकसितानि कमलानि नास्ताभिलाषिणा सूर्येण मुकुलाय्यन्ते तावद् एव लघ्व् अवचिन्त्यागच्छत्व् इति । एषा तपस्विनी तां दीर्घिकां न जानाति । तद् गृहीत्वा तां गमिष्यामि (नेपथ्याभिमुखम् अवलोक्य) ]
(ततः प्रविशत्य् आरण्यिका)
आरण्यिका - (स-बाष्पोद्वेगम् आत्म-गतम्) तह णाम तारिसे वंसे उप्पण्णाए अण्ण-जणं आण्णाविअ ट्ठियाए संपदं परस्स मए आणत्ती कादव्वेत्ति णत्थि क्खु दुक्खरं देव्वस्स । अहवा मह एव्व एसो दोसो जेण जाणन्तीए वि ण वावादिओ अप्पा । ता किं संपदं करिस्सं । अहवा दुक्खरं दाणिं मए चिन्तिदं । वरं एव्व एदं वि ण उण अप्पणो मह्ऽ-अग्घं वंसं पआसअन्तीए लहू-किदो अप्पा । ता का गई । जह-भणिदं अणुचिट्ठिस्सं । [ (स-बाष्पोद्वेगम् आत्म-गतम्) तथा नाम तादृशे वंश उत्पन्नयान्य-जनम् आज्ञाप्य स्थितया सांप्रतं परस्य मयाज्ञप्तिः कर्तव्येति नास्ति खलु दुष्करं दैवस्य । अथवा ममैवैष दोषो येन जानत्यापि न व्यापादित आत्मा । तत् किं सांप्रतं करिष्यामि । अथवा दुष्करम् इदानीं मया चिन्तितम् । वरम् एवैतद् अपि । न पुनर् आत्मनो महार्घं वंशं प्रकाशयन्त्या मया लघू-कृत आत्मा । तत् का गतिः । यथाभणितम् अनुष्ठास्यामि ।]
चेटी - इदो एहि आरण्णिए । इत एहि आरण्यिके ।
आरण्यिका - इअं आअच्छामि । (श्रमं नाटयन्ती) हन्जे दूरे किं अज्ज वि दिग्घिआ । [ इयम् आगच्छामि । (श्रमं नाटयन्ती) हञ्जे दूरे किम् अद्यापि दीर्घिका ।]
चेटी - एसा सेहालिआ-गुम्म्ऽ-अन्तरिआ । ता एहि ओदरम्ह । (अवतरणं नाटयतः) [ एषा शेफलिका-गुल्मान्तरिता । तद् एहि अवतरावः । ( अवतरणं नाटयतः )]
राजा - वयस्य किम् अन्यद् इव चिन्तयसि । ननु ब्रवीमि बह्व् एव सदृशं जलद-समयस्येति ।
(बिभ्राणा मृदुताम् इत्यादि पुनः पठति)
विदूषकः - (स-क्रोधम्) भो तुमं दाव एदं अण्णं अ पेक्खन्तो उक्कण्ठ-णिब्भरं विणोदेसि अप्पाणं । मम उण बम्हणस्स सोत्थि-वाअण-वेला अदिक्कमदि । ता जाव अहं तुवरिअं दीहिआए ण्हाइअ देवीए सआसं गमिस्सं । [ (स-क्रोधम्) भोः त्वं तावद् एतद् अन्यच् च पश्यन्न् उत्कण्ठा-निर्भरं विनोदयस्यात्मानम् । मम पुनर् ब्राह्मणस्य स्वस्ति-वाचन-वेलातिक्रमति । तद् यावद् अहं त्वरितं दीर्घिकायां स्नात्वा देव्याः सकाशं गमिष्यामि ।]
[प्. 16]
राजा -ननु मूर्ख पारंगता एव वयं दीर्घिकायाः । एवम् अनेकेन्द्रिय-सुखातिशयम् अनुभवन्न् अपि नोपलक्षयसि । पश्य ।
श्रोत्रं हंस-स्वनो ऽयं सुखयति दयिता-नूपुर-ह्राद-कारी
दृष्टि-प्रीतिं विधत्ते तट-तरु-विवरालक्षिता सौध-पाली ।
गन्धेनाम्भोरुहाणां परिमल-पटुना जायते घ्राण-सौख्यं
गात्राणां ह्लादम् एते विदधति मरुतो वारि-संपर्क-शीताः

2.5

तदेहि दीर्घिका-तटम् उपसर्पावः । (परिक्रम्यावलोक्य च) वयस्य पश्य पश्य ।
उद्यान-देवतायाः स्फुट-पङ्कज-कान्ति-हारिणी स्वच्छा ।
दृष्टिर् इव दीर्घिकेयं रमयति मां दर्शनेनैव

2.6

विदूषकः - (स-कौतुकम्) भो वअस्स पेक्ख पेक्ख । का एसा कुसुम-परिमल-सुअन्ध-वेणी-महुअरावली विद्दुम-लआरुण-हत्थ-पल्लवा उज्जलन्त-तणु-कोमल-बाहु-लदा सच्चं पच्चक्ख-चरी विअ उज्जाण-देवदा इत्थिआ दीसै । [ (स-कौतुकम्) भो वयस्य पश्य पश्य । कैषा कुसुम-परिमल-सुगन्ध-वेणि-मधुकरावलिर् विद्रुम-लतारुण-हस्त-पल्लवा उज्ज्वलत्-तनु-कोमल-बाहु-लता सत्यं प्रत्यक्ष-चरीवोद्यान-देवता स्त्री दृश्यते ।]
राजा - (स-कौतुकं विलोक्य) वयस्य निरतिशय-स्वरूप-शोभा-जनित-बहु-विकल्पेयम् । यत् सत्यम् अहम् अपि नावगच्छामि । पश्य ।
[प्. 17]
पातालाद् भुवनालोकन-परा किं नाग-कन्योत्थिता
मिथ्या तत् खलु दृष्टम् एव हि मया तस्मिन् कुतो ऽस्तीदृशी ।
मूर्ता स्याद् इह कौमुदी न घटते तस्या दिवा दर्शनं
केयं हस्त-तल-स्थितेन कमलेनालोक्यते श्रीर् इव

2.7

विदूषकः - (निरूप्य) एसा क्खु देवीए परिआरिआ इन्दीवरिआ । ता गुम्म्ऽ-अन्तरिआ भविअ पेक्ख म्ह । [ (निरूप्य) एषा खलु देव्याः परिचारिकेन्दीवरिका । तद् गुल्मान्तरितौ भूत्वा पश्यावः ।]
(उभौ तथा कुरुतः)
चेटी - (कमलिनी-पत्र-ग्रहणं नाटयन्ती) आरण्णिए अवैणु (कले : अवैणुं) तुमं पदुमाइं । अहं वि एदस्सिं णलिणी-पत्तम्मि सेहालिआ-कुसुमाईं अवैणुअ देवी-सआसं गमिस्सं । [ (कमलिनी-पत्र-ग्रहणं नाटयन्ती) आरण्यिके अवचिनु त्वं पद्मानि । अहम् अप्य् एतस्मिन् नलिनी-पत्रे शेफालिका-कुसुमान्य् अवचित्य देवी-सकाशं गमिष्यामि ।]
राजा - वयस्य संलाप इव वर्तते । तद् अवहिताः शृणुमः । कदाचिद् इत एव व्यक्ती-भविष्यति ।
(चेटी गमनं नाटयति)
आरण्यिका - हला इन्दीवरिए ण सक्कुणोमि तुए विणा मुहुत्तं वि एत्थ आसिदुं । [ हला इन्दीवरिके । न शक्नोमि त्वया विना मुहूर्तम् अप्य् अत्रासितुम् ।]
चेटी - (विहस्य) जादिसं अज्ज मए देवीए मन्तिदं सुदं तारिसेण चिरं एव्व मए विणा तुए आसिदव्वं । [( विहस्य) यादृशम् अद्य मया देव्या मन्त्रितं श्रुतं तादृशेन चिरम् एव मया विना त्वयासितव्यम् ।]
[प्. 18]
आरण्यिका - (स-विषादम्) किं देवीए मन्तिदं । [ किं देव्या मन्त्रितम् ।]
चेटी - एवं । तदा एसा अहं महा-राएण भणिदा जह जदा एसा विञ्झकेदु-दुहिदा वर-जोग्गा भविस्सदि तदा अहं सुमराइदव्वेत्ति । ता संपदं सुमरावेमि जेण से वर-चिन्ता-पज्जाउलो भविस्सदि । [ एतत् । तदैषाहं महा-राजेन भणिता यथा यदैषा विन्ध्यकेतु-दुहिता वर-योग्या भविष्यति तदाहं स्मारयितव्य इति । तत् सांप्रतं महा-राजं स्मारयामि येनास्या वर-चिन्ता-पर्याकुलो भविष्यति ।]
राजा - (स-हर्षम्) इयं सा विन्ध्यकेतोर् दुहिता । (सानुतापम्) चिरं मुषिताः स्मो वयम् । वयस्य निर्दोष-दर्शना कन्यका खल्व् इयम् । विश्रब्धम् इदानीं पश्यामः ।
आरण्यिका - (स-रोषं कर्णौ पिधाय) ता गच्छ तुमं । ण मह तुए असंबद्ध-प्पलाविणीए पओअणं । [ तद् गच्छ त्वम् । न मम त्वयासंबद्ध-प्रलापिन्या प्रयोजनम् ।]
(चेट्य् अपसृत्य पुष्पावचयं नाटयति)
राजा - अहो सुतरां प्रकटी-कृतम् आभिजात्यं धीरतया । वयस्य धन्यः खल्व् असौ य एतद् अङ्ग-स्पर्श-सुख-भाजनं भविष्यति ।
(आरण्यिका कमलावचयं नाटयति)
विदूषकः - भो वअस्स पेक्ख पेक्ख । अच्चरिअं अच्चरिअं । एसा सलिल-चलन्त-कर-पल्लव-प्पहा-वित्थिदेण ओहसिअ-सोहं करेदि कमल-वणं अवचिणन्ती । [ भो वयस्य पश्य पश्य । आश्चर्यम् आश्चर्यम् । एषा सलिल-चलत्-कर-पल्लव-प्रभा-विस्तृतेनापहसित-शोभं करोति कमल-वनम् अवचिन्वती ।]
राजा - वयस्य सत्यम् एवैतत् । पश्य ।
[प्. 19]
अच्छिन्नामृत-बिन्दु-वृष्टि-सदृशीं प्रीतिं ददत्या दृशां
याताया विगलत्-पयोधर-पटा-द्रष्टव्यतां काम् अपि ।
अस्याश् चन्द्रमसस् तनोर् इव कर-स्पर्शास्पदत्वं गता
नैते यन् मुकुली-भवन्ति सहसा पद्मास् तद् एवाद्भुतम्

2.8

आरण्यिका - (भ्रमर-बाधं नाटयन्ती) ह द्धि ह द्धि । एदे क्खु अवरे परिच्चैअ कमलिणिं णीलुप्पल-वणाइं समापडन्ता णिउणअरं बाधन्ता आआसअन्ति मं दुट्ठ-महुअरा । (उत्तरीयेण मुखं पिधाय स-भयम्) हला इन्दीवरिए परित्ताएहि मं परित्ताएहि मं । एदे क्खु दुट्ठ-महुअरा परिभविस्सन्ति । [ (भ्रमर-बाधं नाटयन्ती) हा धिक् हा धिक् । एते खल्व् अपरे परित्यज्य कमलिनीं नीलोत्पल-वनानि समापतन्तो निपुणतरं बाधमाना आयासयन्ति मां (उत्तरीयेण मुखं पिधाय स-भयम्) हला इन्दीवरिके परित्रायस्व मां परित्रायस्व माम् । एते खलु दुष्ट-मधुकराः परिभविष्यन्ति ।]
विदूषकः - भो वअस्स पुण्णा दे मणोरहा । जाव एव्व गब्भ-दासीए सुदा ण आअच्छदि दाव एव्व तुमं वि तुण्हीको भविअ उवसप्प । एसा वि सलिल-सद्द-सूइदेण पअ-संचारेण इन्दीवरिआ आअच्छदि त्ति जाणिअ तुमं एव्व ओलम्बिस्सदि । [ भो वयस्य पूर्णास् ते मनोरथाः । यावद् एव गर्भ-दास्याः सुता नागच्छति तावद् एव त्वम् अपि तूष्णीको भूत्वोपसर्प । एषापि सलिल-शब्द-सूचितेन पद-संचारेणेन्दीवरिकागच्छतीति ज्ञात्वा त्वाम् एवावलम्बिष्यते ।]
राजा - साधु वयस्य साधु । कालानुरूपम् उपदिष्टम् । (इत्य् आरण्यिका-समीपम् उपसर्पति)
[प्. 20]
आरण्यिका - (पद-शब्दाकर्णनं नाटयन्ती) इन्दीवरिए । लहु उवसप्प लहु उवसप्प । आउली-किद म्हि दुट्ठ-महुअरेहिं (राजानम् अवलम्बते) । [ इन्दीवरिके लघूपसर्प लघूपसर्प । अकुली-कृतास्मि दुष्ट-मधुकरैः ।]
(राजा कण्ठे गृह्णाति । आरण्यिकोत्तरीयं मुखाद् अपनीय राजानम् अ-पश्यन्ती भ्रमरावलोकनं नाटयति)
राजा - (स्वोत्तरीयेण भ्रमरान् निवारयन्)
अयि विसृज विषादं भीरु भृङ्गास् तवैते
परिमल-रस-लुब्धा वक्त्र-पद्मे पतन्ति ।
विकिरसि यदि भूयस् त्रास-लोलायताक्षी
कुवलय-वन-लक्ष्मीं तत् कुतस् त्वां त्यजन्ति

2.9

आरण्यिका - (राजानं दृष्ट्वा साध्वसं नाटयन्ती) कहं ण एसा इन्दीवरिआ । (स-भयं राजानं त्यक्त्वापसरन्ती) इन्दीवरिए लहु आअच्छ लहु आअच्छ । परित्ताएहि मां । [ कथं नैषेन्दीवरिका । (स-भयं राजानं त्यक्त्वापसरन्ती) इन्दीवरिके । लघ्व् आगच्छ लघ्व् आगच्छ । परित्रायस्व माम् ।]
विदूषकः - होदि सअल-पुढवी-परित्ताण-समत्थेण वच्छ-राएण परित्ताअन्ती चेडिं इन्दीवरिअं अक्कन्दसि । [ भवति सकल-पृथ्वी-परित्राण-समर्थेन वत्स-राजेन परित्रायमाणा चेटीम् इन्दीवरिकाम् आक्रन्दसि ।]
(राजा अयि विसृज इत्यादि पुनः पठति)
आरण्यिका - (राजानम् अवलोक्य स-स्पृहं स-लज्जं चात्म-गतम्) अअं क्खु सो महा-राओ जस्स अहं तादेण दिण्णा । ठाणे क्खु तादस्स पक्ख-वादो (आकुलतां नाटयति) । [ अयं खलु स महा-राजो यस्याहं तातेन दत्ता । स्थाने खलु तातस्य पक्ष-पातः ।]
[प्. 21]
चेटी - आआसिआ क्खु आरण्णिआ दुट्ठ-महुअरेहिं । ता जाव उवसप्पिअ समस्सासेमि । आरण्णिए मा भआहि । एसा उवअद म्हि । [ आयासिता खलु आरण्यिका दुष्ट-मधुकरैः । तद् यावद् उपसर्प्य समाश्वासयामि । आरण्यिके मा बिभिहि । एषोपगतास्मि ।]
विदूषकः - भो ओसर ओसर । एसा क्खु इन्दीवरीआ आअदा । एदं उत्तन्तं पेक्खिअ देवीए णिवेदैस्सदि । (अङ्गुल्या निर्दिश्य) ता इमं एव्व कदली-घरं पविसिअ मुहुत्तं चिट्टम्ह । [ भोः अपसरापसर । एषा खल्व् इन्दीवरिकागता । एतं वृत्तान्तं प्रेक्ष्य देव्यै निवेदयिष्यति । (अङ्गुल्या निर्दिश्य) तद् इदम् एव कदली-गृहं प्रविश्य मुहूर्तं तिष्ठावः ।]
(उभौ तथा कुरुतः)
चेटी -(उपसृत्य कपोलौ स्पृशन्ती) हन्जे आरण्णिए कमल-सरिसस्स तुह वअणस्स अअं दोसो जं महुअरा एव्वं अवरज्झन्ति । (हस्ते गृहीत्वा) ता एहि गच्छम्ह । परिणदो दिअहो । [ हञ्जे आरण्यिके । कमल-सदृशस्य तव वदनस्याहं दोषो यन् मधुकरा एवम् अपराध्यन्ति (हस्ते गृहीत्वा) तद् एहि गच्छावः । परिणतो दिवसः ।]
(गमनं नाटयतः)
आरण्यिका - (कदली-ग्र्हाभिमुखम् अवलोक्य) हन्जे इन्दीवरिए अदि-सिसिरदाए सलिलस्स ऊरू-त्थम्भो विअ समुप्पण्णो । ता सणिअं सणिअं गच्छम्ह । [ हञ्जे इन्दीवरिके अति-शिशिरतया सलिलस्योरु-स्तम्भ इव समुत्पन्नः । तच् छनैः शनैर् गच्छावः ।]
चेटी - तह । तह ।
(इति निष्क्रान्ते)
विदूषकः - भो एहि णिक्कमम्ह । तं गेण्हिअ एसा दासीए सुदा इन्दीवरिआ गदा । [ भोः एहि निष्क्रामावः । तां गृहीत्वैषा दास्याः सुतेन्दीवरिका गता ।]
राजा -(निःश्वस्य) कथं गता । सखे वसन्तक। न खल्व् अ-विघ्नम् अभिलषितम् अ-धन्यैः प्राप्यते । (विलोक्य) सखे पश्य पश्य ।
[प्. 22]
आबद्ध-मुखम् अपीदम् कण्टकितं कमल-काननं तस्याः ।
सुकुमार-पाणि-पल्लव-संस्पर्श-सुखं कथयतीव

2.10

(निःश्वस्य) सखे । क इदानीम् उपायः पुनस् तां द्रष्टुम् ।
विदूषकः - भो तुमे एव्व पुत्तलिअं भञ्जिअ दाणिं रोदिसि । ण मह क्खु बम्हणस्स वअणं करेसि । [ भोः त्वम् एव पुत्तलिकां भङ्क्त्वेदानीं रोदिषि । न मम खलु ब्राह्मणस्य वचनं करोषि ।]
राजा - किं मया न कृतम् ।
विदूषकः - तं दाणिं विसुमरिदं । जह तुण्हीको भविअ उवसप्पेत्ति मए भणिदं । अदि-संकडे जं भवं पविसिअ अलिअ-पंडिच्च-दु-व्विदद्धदाए ऐ विसिज विसादेत्ति एदेहिं अण्णेहिं अ कडुअ-वअणेहिं णिब्भच्छिअ (कले : -च्चिअ) संपदं किं रोदिसि । पुणो वि उवाअं पुच्छसि । [ तद् इदानिं विस्मृतम् । यथा तुष्णीको भूत्वोपसर्पेति मया भणितम् । अति-संकटे यद् भवान् प्रविश्यालीक-पाण्डित्य-दुर्-विदग्धतया अयि विसृज विषादं इत्य् एतैर् अन्यैश् च कटु-वचनैर् निर्भर्त्स्य सांप्रतं किं रोदिषि । पुनर् अप्य् उपायं पृच्छसि ।]
राजा - कथं समाश्वासनम् अपि निर्भर्त्सितम् इति भणितं मूर्खेण ।
विदूषकः - जाणिदं एव्व को एत्थ मुक्खो त्ति । ता किं एदेण । अत्थम-आहिलासी भअवं सहस्स-रस्सी । ता एहि अब्भन्तरं एव्व पविसम्ह । [ ज्ञातम् एव को ऽत्र मूर्ख इति । तत् किम् अनेन अस्तमयाभिलाषी भगवान् सहस्र-रश्मिः । तद् एह्य् अभ्यन्तरम् एव प्रविशावः ।]
राजा - (विलोक्य) अये परिणत-प्रायो दिवसः । अहह । संप्रति हि
हृत्वा पद्म-वन द्युतिं प्रियतमेवेयं दिन-श्रीर् गता
रागो ऽस्मिन् मम चेतसीव सवितुर् बिम्बे ऽधिकं लक्ष्यते ।
[प्. 23]
चक्राह्वो ऽहम् इव स्तिथः सह-चरीं ध्यायन् नलिन्याष् तटे
संजाता सहसा ममेव भुवनस्याप्य् अन्धकारा दिशः

मूल पाठ: Priyadarśikā · Edition: M.R. Kale's edition: Priyadarśikā of Śrī Harṣadeva, edited with an exhaustive introduction, a short Sanskrit commentary, various readings, a literal English translation, copious notes and useful appendices, Bombay : Gopal Narayana & Co 1928 (repr. Delhi et al. : Motilal Banarsidass 1977). · Data entry a Paris-3 Sorbonne-Nouvelle University group of Master students in Indology: Pilar Altinier Dominique Fradkine Clémentine Peroumal-Delavigne Carmen Sylvia Spiers · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc