भाषा

ENहिગુ
ग्रंथ पाठ

प्रियदर्शिका · अध्याय 1

1.1

श्रीहर्षदेव-विरचिता ।
॥ प्रियदर्शिका ॥
[प्. 1]
धूम-व्याकुल-दृष्टिर् इन्दु-किरणैर् आह्लादिताक्षी पुनः
पश्यन्ती वरम् उत्सुकानत-मुखी भूयो ह्रिया ब्रह्मणः ।
सेर्ष्या पाद-नखेन्दु-दर्पण-गते गङ्गां दधाने हरे
स्पर्शाद्-उत्पुलका कर-ग्रह-विधौ गौरी शिवायास्तु वः

1.2

अपि च ।
कैलासाद्राव् उदस्ते परिचलति गणेषूल्लसत्-कौतुकेषु
क्रोडं मातुः कुमारे विशति विष-मुचि प्रेक्षमाणे स-रोषम् ।
[प्. 2]
पादावष्टम्भ-सीदद्-वपुषि दशमुखे याति पाताल-मूलं
क्रुद्धो ऽप्य् आश्लिष्ट-मूर्तिर् भय-घनम् उमया पातु तुष्टः शिवो नः

1.3

(नान्द्य्-अन्ते सूत्रधारः परिक्रम्य) । अद्याहं वसन्तोत्सवे स-बहु-मानम् आहूय
नाना-दिग्-देशाद् आगतेन राज्ञः श्री-हर्षदेवस्य पाद-पद्मोपजीविना राज-समूहेनोक्तः यथास्मत्-स्वामिना श्रीहर्षदेवेनापूर्व-वस्तु-रचनालंकृता प्रियदर्शिका नाम [प्. 3] नाटिका कृतेत्य् अस्माभिः श्रोत्र-परंपरया श्रुतम् । न तु प्रयोगतो दृष्टा ।
तत् तस्यैव राज्ञः सर्व-जन-हृदयाह्लादिनो बहु-मानाद् अस्मासु चानुग्रह-बुद्ध्या
यथावत् प्रयोगेन त्वया नाटयितव्येति । तद् यावन् नेपथ्य-रचनां कृत्वा यथाभिलषितं संपादयामि । परितो ऽवलोक्य । आवर्जितानि सामाजिक-मनांसीति मे निश्चयः । कुतः ।
श्री-हर्षो निपुणः कविः परिषद् अप्य् एषा गुण-ग्राहिणी
लोके हारि च वत्सराज-चरितं नाट्ये च दक्षा वयम् ।
वस्त्व् एकैकम् अपीह वाञ्छित-फल-प्राप्तेः पदं किं पुनर्
मद्-भाग्योपचयाद् अयं समुदितः सर्वो गुणानां गणः

1.4

(नेपथ्याभिमुखम् अवलोक्य) । अये । कथं प्रस्तावनाभ्युद्यते मयि विदितास्मद्-अभिप्रायो ऽङ्गाधिपतेर् दृढवर्मणः कञ्चुकिनो भूमिकां कृत्वास्मद्-भ्रातेत एवाभिवर्तते । तद् यावद् अहम् अप्य् अनन्तर-भूमिकां संपादयामि ।
(इति निष्क्रान्तः) ।
(इति प्रस्तावना) ।
[प्. 4]
प्रथमो ऽङ्कः ।
(ततः प्रविशति कञ्चुकी ।)
कञ्चुकी - (स-शोक-श्रमं नाटयन् । निःश्वस्य) । कष्टं भोः कष्टम् ।
राज्ञो विपद्-बन्धु-वियोग-दुःखं देश-च्युतिर् दुर्गम-मार्ग-खेदः ।
आस्वाद्यते ऽस्याः कटु-निष्फलायाः फलं मयैतच् चिर-जीवितायाः

1.5

(स-शोकं स-विस्मयं च) । तादृशस्यापि नामाप्रतिहत-शक्ति-त्रयस्य रघु-दिलीप-नल-तुल्यस्य देवस्य दृढवर्मणो मत्-प्रार्थ्यमानाप्य् अनेन स्व-दुहिता वत्सराजाय दत्तेति बद्धानुशयेन वत्सराजो बन्धनान् न निवर्तत इति च लब्ध-रन्ध्रेण सहसागत्य कलिङ्ग-हतकेन विपत्तिर् ईदृशी क्रियत इति यत् सत्यम् उपपन्नम् अपि न श्रद्दधे । कथम् एकान्त-निष्ठुरम् ईदृशं च दैवम् अस्मासु । येन सापि राजपुत्री यथा-कथंचिद् एनां वत्सराजायोपनीय स्वामिनम् अन्-ऋणं करिष्यामीति मत्वा मया तादृशाद् अपि प्रलय-काल-दारुणाद् अवस्कन्द-संभ्रमाद् अपवाह्य देवस्य दृढवर्मणो मित्र-भावान्वितस्यैवाटविकस्य नृपतेर् विन्ध्यकेतोर् गृहे स्थापिता सती स्नानाय नातिदूरम् इत्य् अगस्त्य-तीर्थं गते मयि क्षणात् कैर् अपि निपत्य हते विन्ध्यकेतौ रक्षोभिर् इव निर्मानुषी-कृते दग्धे स्थाने न ज्ञायते कस्याम् अवस्थायां वर्तत इति । निपुणं च विचितम् एतन् मया सर्वं स्थानम् । न च ज्ञातं किं तैर् एव दस्युभिर् नीताथवा दग्धेति । तत् किं करोमि मन्द-भाग्यः । (विचिन्त्य) । अये । श्रुतं मया बन्धनात् परिभ्रष्टः प्रद्योत-तनयाम् अपहृत्य वत्सराजः कौशाम्बीम् आगत इति । [प्. 5] किं तत्रैव गच्छामि । (निःश्वस्यात्मनो ऽवस्थां पश्यन्) । किम् इव हि राजपुत्र्या विना तत्र गत्वा कथयिष्यामि । अये । कथितं चाद्य मम विन्ध्यकेतुना -- मा भैषीः । जीवति तत्र-भवान् महा-राजो दृढवर्मा गाढ-प्रहार-जर्जरी-कृतो बद्धस् तिष्ठति । इति । तद् अधुना स्वामिनम् एव गत्वा पाद-परिचर्यया जीवित-शेषम् आत्मनः सफलयिष्यामि (परिक्रम्योर्ध्वम् अवलोक्य) । अहो अतिदारुणता शरदातपस्य । यद् एवम् अनेक-दुःख-संतापितेनापि मया तीक्ष्णो ऽवगम्यते ।
घन-बन्धन-मुक्तो ऽयं कन्या-ग्रहणात् परं तुलां प्राप्य ।
रविर् अधिगत-स्व-धामा प्रतपति खलु वत्सराज इव

1.6

(इति निष्क्रान्तः) ।
(इति विष्कम्भकः) ।
(ततः प्रविशति राजा विदूषकश् च) ।
राजा -
भृत्यानाम् अविकारिता परिगता दृष्टा मतिर् मन्त्रिणां
मित्राण्य् अप्य् उपलक्षितानि विदितः पौरानुरागो ऽधिकम् ।
निर्व्यूढा रण-साहस-व्यसनिता स्त्री-रत्नम् आसादितं
निर्व्याजाद् इव धर्मतः किम् इव न प्राप्तं मया बन्धनात्

1.7

[प्. 6]
विदूषकः - (स-रोषम्) । भो वस्स । कहं तं एव्व दासीए उत्तं बन्धण-हदअं पसंसेसि । तं दाणिं विसुमरिदं । जं तह णव-ग्गहो विअ गअ-वई खल-खलाअमाण-लोह-सिङ्खलाबन्ध-पडिक्खलन्त-चलणो सुण्ण-दुक्खर-पिसुणिद-हिअअ-संदावो रोस-वस्ऽ-उत्तम्भिद-दिट्ठी गुरुअ-कर-फोडिअ-धरणि-मग्गो रअणीसु वि अणिद्दा-सुहं अणुहूदो सि । [भो वयस्य । कथं तम् एव दास्याः पुत्रं बन्धन-हतकं प्रशंससि । तद् इदानीं विस्मृतम् । यत् तथा नव-ग्रह इव गज-पतिः खल-खलायमान-लोह-शृङ्खलाबन्ध-प्रतिस्खलच्-चरणः शून्य-मुख-पुष्कर-पिशुनित-द्धृदय-संतापो रोष-वशोत्तम्भित-दृष्टिर् गुरुक-कर-स्फोटित-धरणि-मार्गो रजनीष्व् अप्य् अनिद्रा-सुखम् अनुभूतो ऽसि] ।
राजा - वसन्तक दुर्जनः खल्व् असि । पश्य ।
दृष्टं चारकम् अन्धकार-गहनं नो तन्-मुखेन्दु-द्युतिः
पीडा ते निगल-स्वनेन मधुरास् तस्या गिरो न श्रुताः ।
क्रूरा बन्धन-रक्षिणो ऽद्य मनसि स्निग्धाः कटाक्षा न ते
दोषान् पश्यसि बन्धनस्य न पुनः प्रद्योत-पुत्र्या गुणान्

1.8

विदूषकः - (स-गर्वम्) । भो । जै दाव बन्धणं सुह-णिबन्धणं होइ ता कीस तुमं दिढवम्मा बद्धो त्ति कलिङ्ग-रण्णो उवरि रोसं बन्धेसि । [भोः । यदि तावद् बन्धनं सुख-निबन्धनं भवति [प्. 7] तत् कस्मात् त्वं दृढवर्मा बद्ध इति कलिङ्ग-राजस्योपरि रोषं बध्नासि] ।
राजा - (विहस्य) । धिङ् मूर्ख । न खलु सर्वो वत्सराजो य एवं वासवदत्ताम् अवाप्य बन्धनान् निर्यास्यति । तद् आस्तां तावद् इयं कथा । विन्ध्यकेतोर् उपरि बहून्य् अहानि विजयसेनस्य प्रेषितस्य न चाद्यापि तत्-सकाशात् कश्चिद् आगतः । तद् आहूयतां तावद् अमात्यो रुमण्वान् । तेन सह किंचिद् आलपितुम् इच्छामि ।
(प्रविश्य) ।
प्रतीहारी - जेदु जेदु देव्वो । एसो क्खु विजअसेणो अमच्चो रुमण्णो वि पडिहार-भूमिं उवट्ठिओ । [जयतु जयतु देवः । एष खलु विजयसेनो ऽमात्यो रुमण्वान् अपि प्रतीहार-भूमिम् उपस्थितौ] ।
राजा - त्वरितं प्रवेशय तौ ।
प्रतीहारी - जं देवो आणवेदि । [यद् देव आज्ञापयति] । (इति निष्क्रान्ता) ।
(ततः प्रविशति रुमण्वान् विजयसेनश् च)
रुमण्वान् - (विचिन्त्य) ।
तत् क्षनम् अपि निष्क्रान्ताः कृत-दोषा इव विनापि दोषेण ।
प्रविशन्ति शङ्कमाना राज-कुलं प्रायशो भृत्याः

1.9

(उपसृत्य) । जयतु देवः ।
राजा - (आसनं निर्दिश्य) । रुमण्वन् । इत आस्यताम् ।
रुमण्वान् - (स-स्मितम् उपविश्य । एष खलु जित-विन्ध्यकेतुर् विजयसेनः
प्रणमति ।
(विजयसेनस् तथा करोति) ।
राजा - (सादरं परिष्वज्य) । अपि कुशली भवान् ।
विजयसेनः - अद्य स्वामिनः प्रसादात् ।
राजा - विजयसेन उपविश्यताम् ।
[प्. 8]
(विजयसेन उपविशति) ।
राजा - विजयसेन कथय विन्ध्यकेतोर् वृत्तान्तम् ।
विजयसेनः - देव किम् अपरं कथयामि । यादृशः स्वामिनि कुपिते ।
राजा - तथापि विस्तरतः श्रोतुम् इच्छामि ।
विजयसेनः - देव श्रूयताम् । इतो वयं देव-पादादेशाद् यथादिष्टेन करि-तुरग-पदाति-दैन्येन महान्तम् अप्य् अध्वानं दिवस-त्रयेणोल्लङ्घ्य प्रभात-वेलायाम् अतर्किता एव विन्ध्यकेतोर् उपरि निपतिताः स्मः ।
राजा - ततस् ततः ।
विजयसेनः - ततः सो ऽप्य् अस्मद्-बल-तुमुल-कलकलाकर्णनेन प्रतिबुद्धः केसरीव विन्ध्य-कन्दरान् निर्गत्य विन्ध्यकेतुर् अन्-अपेक्षित-बल-वाहनो यथासंनिहित कतिपय-सहायः सहसा स्व-नामोद्घोषयन्न् अस्मान् अभियोद्धुं प्रवृत्तः ।
राजा - (रुमण्वन्तम् अवलोक्य स-स्मितम्) । शोभितं विन्ध्यकेतुना । ततस् ततः ।
विजयसेनः - ततो ऽस्माभिर् अयम् असाव् इति द्विगुणतर-बद्ध-मत्सरोत्साहैर् महता विमर्देन निःशेषित-सहाय एक एव विमर्दिताधिक-बल-क्रोध-वेगो दारुणतरं संप्रहारम् अकरोत् ।
राजा - साधु विन्ध्यकेतो । साधु साधु ।
विजयसेनः - किं वा वर्ण्यते देव । संक्षेपतो विज्ञापयामि ।
पादातं पात्तेर् एव प्रथमतरम् उरः-पेष-मात्रेण पिष्ट्वा
दूरान् नीत्वा शरौघैर् हरिण-कुलम् इव त्रस्तम् अश्वीयम् आशाः ।
[प्. 9]
सर्वत्रोत्सृष्ट-सर्व-प्रहरण-निवहस् तूर्णम् उत्खाय खड्गं
पश्चात् कर्तुं प्रवृत्तः करि-कर-कदली-कानन-च्छेद-लीलाम्

1.10

एवं बल-त्रितयम् आकुलम् एक एव
कुर्वन् कृपाण-किरण-च्छुरितांस-कूटः ।
शस्त्र-प्रहार-शत-जर्जरितोरु-वक्षाः
श्रान्तश् चिराद् विनिहतो युधि विन्ध्यकेतुः

1.11

राजा - रुमण्वन् । सत्-पुरुषोचितं मार्गम् अनुगच्छतो यत् सत्यं व्रीडिता एव वयं विन्ध्यकेतोर् मरणेन ।
रुमण्वान् - देव त्वद्-विधानाम् एवं गुणैक-पक्ष-पातिनां रिपोर् अपि गुणाः प्रीतिं जनयन्ति ।
राजा - विजयसेन अप्य् अस्ति विन्ध्यकेतोर् अपत्यं यत्रास्य परितोषस्य फलं दर्शयामि ।
विजयसेनः - देव इदम् अपि विज्ञापयामि । एवं स-बन्धु-परिवारे हते विन्ध्यकेतौ तम् अनुसृतासु सह-धर्म-चारिणीषु विन्ध्य-शिखराश्रितेषु जन-पदेषु शून्यी-भूते तत्-स्थाने हा तात हा मातः इति कृत-कृपण-प्रलापा विन्ध्यकेतोर् वेश्मन्य् आभिजात्यानुरूपा कन्यका तद्-दुहितेत्य् अस्माभिर् आनीता द्वारि तिष्ठति । तां प्रति देवः प्रमाणम् ।
[प्. 10]
राजा - यशोधरे गच्छ । त्वम् एव वासवदत्तायाः समर्पय । वक्तव्या च देवी । भगिनी-बुद्ध्या त्वयैव सर्वदा द्रष्टव्या । गीत-नृत्त-वाद्यादिषु विशिष्ट-कन्यकोचितं सर्वं शिक्षयितव्या । यदा वर-योग्या भविष्यति तदा मां स्मारयेति ।
प्रतीहारी - जं देवो आणवेदि । [यद् देव आज्ञापयति] । (इति निष्क्रान्ता) ।
(नेपथ्ये वैतालिकः) ।
लीला-मज्जन-मङ्गलोपकरण-स्नानीय-सम्पादिनः
सर्वान्तःपुर-वार-विभ्रमवती-लोकस्य ते संप्रति ।
आयास-स्खलद्-अंशुकाव्यवहित-च्छायावदातैः स्तनैर्
उत्क्षिप्तापर-शातकुम्भ-कलशेवालंकृता स्नान-भूः

1.12

राजा - (ऊर्ध्वम् अवलोक्य) । अये कथं नभो-मध्यम् अध्यास्ते भगवान् सहस्र-दीधितिः । संप्रति हि ।
आभात्य् अर्कांशु-ताप-क्वथद् इव शफरोद्वर्तनैर् दीर्घिकाम्भश्
छत्राभं नृत्त-लीला-शिथिलम् अपि शिखी बर्ह-भारं तनोति ।
[प्. 11]
छाया-चक्रं तरूणां हरिण-शिशुर् उपैत्यालवालाम्बु-लुब्धः
सद्यस् त्यक्त्वा कपोलं विशति मधु-करः कर्ण-पालीं गजस्य

मूल पाठ: Priyadarśikā · Edition: M.R. Kale's edition: Priyadarśikā of Śrī Harṣadeva, edited with an exhaustive introduction, a short Sanskrit commentary, various readings, a literal English translation, copious notes and useful appendices, Bombay : Gopal Narayana & Co 1928 (repr. Delhi et al. : Motilal Banarsidass 1977). · Data entry a Paris-3 Sorbonne-Nouvelle University group of Master students in Indology: Pilar Altinier Dominique Fradkine Clémentine Peroumal-Delavigne Carmen Sylvia Spiers · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc